अनुवाकः 11 TS 2.4.11

(A11)

(जग॑त्या - ऽभि॒चर॒न्थ् सर्वो॒ वै - ग॑च्छति - य॒ज्ञ् - स्तेज॑ ए॒व - त्रिꣳ॒॒शच्च॑)

अनुवाकः 11 - Complete Audio

TS 2.4.11 - स्वरानुगामी

0:00 0:00
PS1.1 सर्वा॑णि॒ छन्दाꣳ॑स्ये॒तस्या॒-मिष्ट्या॑-म॒नूच्या॒नीत्या॑हु-स्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॑
PS1.2 ॅयत् क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिह-क॒कुभा॑व॒न्वाह॒
PS1.3 तेनै॒व सर्वा॑णि॒ छन्दाꣳ॒॒स्यव॑ रुन्धे
PS1.4 गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒
PS1.5 यानि॑ च॒त्वार्यद्ध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व
PS1.6 ते प॒शवो॒यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽद्ध्ये॒वमे॒व
PS1.7 तद्-यद्-ऋ॒च्यद्ध्य॒क्षरा॑णि॒ यज्जग॑त्या - [
PS1.8 ]
PS2.1 परिद॒द्ध्यादन्तं॑ ॅय॒ज्ञ्ं ग॑मयेत् त्रि॒ष्टुभा॒
PS2.2 परि॑ दधातीन्द्रि॒यं ॅवै वी॒र्यं॑
PS2.3 त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञ्ं
PS2.4 प्रति॑ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒ त्री
PS2.5 ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒
PS2.6 त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒
PS2.7 सर्वो॒ वा ए॒ष य॒ज्ञो
PS2.8 यत् त्रै॑धात॒वीयं॒ कामा॑य-कामाय॒ प्रयु॑ज्यते॒
PS2.9 सर्वे᳚भ्यो॒ हि कामे᳚भ्यो य॒ज्ञ्ः
PS2.10 प्र॑यु॒ज्यते᳚ त्रैधात॒वीये॑न यजेताभि॒चर॒न्थ् सर्वो॒
PS2.11 वा- [ ]
PS3.1 ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयꣳ॒॒
PS3.2 सर्वे॑णै॒वैनं॑ ॅय॒ज्ञेना॒भि च॑रति स्तृणु॒त
PS3.3 ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा
PS3.4 ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयꣳ॒॒
PS3.5 सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर॑006छ्;᳚थ्
PS3.6 स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण
PS3.7 य॒क्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द्-ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒
PS3.8 ॅवा ए॒ष प॑शू॒नां ग॑च्छति॒
PS3.9 - [ ]
PS4.1 यः स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒
PS4.2 खलु॒ वै प॒शून॑सृजत॒ ताꣳस्त्रै॑धात॒
PS4.3 वीये॑-नै॒वासृ॑जत॒ य ए॒वं ॅवि॒द्वाꣳ
PS4.4 स्त्रै॑धात॒वीये॑नप॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः᳚
PS4.5 प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना᳚न्थ् सृजत॒
PS4.6 उपै॑न॒मुत्त॑रꣳ स॒हस्रं॑ नमति दे॒वता᳚भ्यो॒
PS4.7 वा ए॒ष आ वृ॑श्च्यते॒
PS4.8 यो य॒क्ष्य इत्यु॒क्त्वा न
PS4.9 यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒
PS4.10 वा ए॒ष य॒ज्ञो -
PS4.11 [ ]
PS5.1 यत् त्रै॑धात॒वीयꣳ॒॒ सर्वे॑णै॒व य॒ज्ञेन॑
PS5.2 यजते॒ न दे॒वता᳚भ्य॒ आ
PS5.3 वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒
PS5.4 ते त्रय॒श्चतु॑ष्कपाला-स्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑
PS5.5 भवन्ति॒ त्रय॑ इ॒मे लो॒का
PS5.6 ए॒षां ॅलो॒काना॒माप्त्या॒ उत्त॑र-उत्तरो॒ ज्याया᳚न्
PS5.7 भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒
PS5.8 मद्ध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पꣳ
PS5.9 समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑बंट्कारꣳ॒॒ हिर॑ण्यं
PS5.10 ददाति॒ तेज॑ ए॒वा -
PS5.11 [ ]
PS6.1 ऽव॑ रुन्धे ता॒र्प्यं द॑दाति
PS6.2 प॒शूने॒वाव॑ रुन्धे धे॒नुं द॑दात्या॒शिष॑
PS6.3 ए॒वाव॑ रुन्धे॒ साम्नो॒ वा
PS6.4 ए॒ष वर्णो॒ यद्धिर॑ण्यं॒ ॅयजु॑षां
PS6.5 ता॒र्प्यमु॑क्थाम॒दानां᳚ धे॒नुरे॒ताने॒व सर्वा॒न्॒. वर्णा॒नव॑
PS6.6 रुन्धे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.4.11.1 TS 2.4.11.1
सर्वा॑णि॒ छन्दाꣳ॑स्ये॒तस्या॒-मिष्ट्या॑-म॒नूच्या॒नीत्या॑हु-स्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॑ ॅयत् क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिह-क॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दाꣳ॒॒स्यव॑ रुन्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यद्ध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽद्ध्ये॒वमे॒व तद्-यद्-ऋ॒च्यद्ध्य॒क्षरा॑णि॒ यज्जग॑त्या - [ ]
पदपाठः (Word-by-word)
सर्वा॑णि । छन्दाꣳ॑सि । ए॒तस्या᳚म् । इष्ट्या᳚म् । अ॒नूच्या॒नीत्य॑नु - उच्या॑नि । इति॑ । आ॒हुः॒ । त्रि॒ष्टुभः॑ । वै । ए॒तत् । वी॒र्य᳚म् । यत् । क॒कुत् । उ॒ष्णिहा᳚ । जग॑त्यै । यत् । उ॒ष्णि॒ह॒क॒कुभा॒वित्यु॑ष्णिह - क॒कुभौ᳚ । अ॒न्वाहेत्य॑नु - आह॑ । तेन॑ । ए॒व । सर्वा॑णि । छन्दाꣳ॑सि । अवेति॑ । रु॒न्धे॒ । गा॒य॒त्री । वै । ए॒षा । यत् । उ॒ष्णिहा᳚ । यानि॑ । च॒त्वारि॑ । अधीति॑ । अ॒क्षरा॑णि । चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ । ए॒व । ते । प॒शवः॑ । यथा᳚ । पु॒रो॒डाशे᳚ । पु॒रो॒डाशः॑ । अधीति॑ । ए॒वम् । ए॒व । तत् । यत् । ऋ॒चि । अधीति॑ । अ॒क्षरा॑णि । यत् । जग॑त्या ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे चतुर्थप्रपाठकः एकादशोनुवाकः)। (त्रैघातवीयेष्टिविधिः) अनुवाके तु दशमे कारीरीष्टिः समापिता। अथैकादशे त्रैधातवीयेष्टिर्विधीयते। तत्रादौ सामिधेनीषु द्वे धाय्ये विधत्ते सर्वाणि छन्दा सीति। एतस्यां त्रैधातवीयेष्टौ सामिधेनीरूपेण सर्वाण्यपि च्छन्दांस्यनुवक्तव्यानीत्यभिज्ञा आहुः। तत्तु सर्वच्छन्दोनुवचनं कथं घटत इति तदुच्यते—ककुच्छन्दस्त्रिष्टुभः सारम्, उष्णिक्छन्दो जगत्याः सारम्। अतस्तदुभयानुवचनेन सर्वच्छन्दोनुवचनं संपद्यते। प्र सो अग्ने तवोतिभिरित्येषा ककुतदीयेषु त्रिषु पादेषु मध्यमपादस्य द्वादशाक्षरत्वात्। प्र होमे पूर्व्यं वच इत्येषोष्णिक्तदीयेषु त्रिषु पादेष्वान्तिमपादस्य द्वादशाक्षरत्वात्। एतदुभयवचनेन त्रिष्टुब्जगत्योर्लाभेपि गायत्र्या अलाभशङकां वारयितुमन्तर्भावं दर्शयति गायत्री वा इति। उष्णिक्छन्दसोष्टाविंशत्यक्षराणि तत्र चतुर्विंशत्यक्षरैर्गायत्र्यन्तर्भूता। यान्यधिकाक्षराणि चत्वारि सन्ति ते चतुष्पात्पशुस्वरूपा एव। पूर्वस्मिन्प्रपाठके त्रिधाताविष्टौ पुरोडाशस्योपरि पुरोडाशान्तरस्थापनं विहितम्। एवमत्रापि विधास्यते। एवं सति यथा पुरोडाशेध्युपर्यन्यः पुरोडाशः स्थाप्यते, एवमेवोष्णिक्छन्दस्कायामृचि गायत्रीछन्दोक्षरसंख्याया अधिकाक्षराणि चत्वारीति यत्तदवमन्तव्यम्। अतः पुरोडाशसाम्यायाक्षराधिक्यं युक्तमित्यभिप्रायः। * प्रकृतौ द्वै ऋचावुक्ते आ जुहोत दुवस्यतेति गायत्री सामिधेनी, त्वं वरुण इति जगती भवति, ते अपवदितुं त्रिष्टुभं विधत्ते यज्जगत्येति। उष्णिक्छन्दसो जगतीवीर्यत्वेन निरूपितत्वात्तदेवात्र जगतीशब्देन विवक्ष्यते। तस्मिंश्चोष्णिक्छन्दसि गायत्र्यन्तर्भावस्योक्तत्वाल्लाक्षितलक्षणया जगतीशब्दो गायत्रीं ब्रूते। तथा सति प्रकृतिवद्रयत्र्या परिधानं यत्तदेवात्र जगतीपरिधानमिति विवक्षितत्वात्तत्र बाध इत्युच्यते। अथवा शाखान्तरानुसारेण मुख्ययैव जगत्यात्र प्राप्तं परिधानं दूष्यते। तत्परिधाने हि यज्ञं नाशितवान्भवति। अथ त्रिष्टुभा परिदध्यात्सामिधेनीः समापयेदित्यर्थः। त्रिष्टुभ इन्द्रियसामर्थ्यरूपत्वाद्यज्ञं सामर्थ्ये प्रतिष्ठापितवान्भवति। ततो यज्ञं न नाशयति। तां त्रिष्टुभं दर्शयति अग्ने त्री त इति। त्रिशब्दा बहवो यस्यां सन्तीति त्रिवती। सेयं तृतीयकाण्डस्य द्वितीयप्रपाठके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यते। यथास्यामृचि त्रिशब्दस्तथा त्रैघातवीयकर्मनामन्यपि त्रिशब्दोस्तीति सारूप्यम्। सर्वकामसाधनत्वेन यागं विधत्ते सर्वो वा इति। सर्वेषु यज्ञेषु यानि च्छदांसि प्रयोक्तव्यानि तानि सर्वाण्यत्रोष्णिक्कु द्भ्यामेवावरुध्यानीत्युक्तम्। अतोयं सर्वयज्ञस्वरूपत्वाद्यस्य यः कामोस्ति तेन तदर्थं प्रयोक्तव्यः। यस्माज्जोतिष्टोमादिरखिलो यज्ञः सर्वकामार्थं प्रयुज्यते तस्मात्सर्वज्ञस्वरूपस्यास्य सर्वकामार्थत्वं युक्तम्।"""

(* प्रकृतावा जुहोत दुवस्यतेति गायत्री सामिधेनीषु परिधानीया भवति तामपवदितुमिति तै. इति ख. पुस्तके पाठान्तरम्। ) सामान्येन सर्वकामार्थत्वं विधाय विशेषतोभिचारहेतुत्वं विधत्ते त्रैधातवीयेनेति। अभिचारपरिहारार्थत्वं विधत्ते एतयैवेति। एतयैव त्रैधातवीयेष्ट्यैव। सहस्रदक्षिणाकस्य ज्योतिर्विश्वज्योतिरप्तोर्याममहाव्रतादेरनुष्ठानसिद्धिं प्रति साधनत्वं विधत्ते एतयैवेति। यस्तु सहस्रदक्षिणाकेन यागेन यष्टुमसमर्थः सन्नहं तेन यक्ष्य इति कामयते सोयमेतयेष्ट्या यजेत पश्चात्तत्र प्रजातं प्रभूतं बहुविधं सहस्रं दातुं शक्तो भवत्येव। ततस्तादृशकर्मानुष्ठानं सिध्यति। अथ सहस्रदक्षिणाकेन यागेनेष्टवत उपरितनहुविधयज्ञसाधनद्रव्यार्थं विधत्ते

एतयैवेति। यः पुमान्गोसहस्रदक्षिणाकेन यागेनेष्टवान्भवति स एष पशू नामवसानं प्राप्नोति। तेनोत्तरक्रतूननुष्ठातुमसमर्थो भवति। अतस्तत्सामर्थ्याय पशुकामः सन्प्रजापतिवदेतेनष्ट्वा पशुयोनेरस्मादेव यागात्पशून्प्राप्नोति। तदुत्तर क्रतुषु दातव्यं गोसहस्रमेनं यजमानं प्राप्नोति। यज्ञं संकल्प्याननुष्ठातुः संकल्प भ्रंशपरिहारार्थं विधत्ते देवताभ्यो वा इति। आवृ (व्र) श्चनं सर्वथा विच्छेदो देवताद्रोह इति यावत्।

अस्मिन्कर्मणि द्रव्यं विधत्ते द्वादशकपाल इति। समूहाकारेण गणनायां द्वादशकपालत्वेप्यनुष्ठाने त्रिसंख्याकाश्चतुष्कपालाः कर्तव्याः। तथा त्रिसंख्याया यजमानस्य त्रिवारं समृद्धत्वं संपद्यते। पुरोडाशसंख्यां प्रशंसति त्रयः पुरोडाशा इति। पूर्वप्रपाठकोक्तत्रिधाताविव प्रमाणवैषम्यं विधत्ते उत्तरउत्तर इति । चोदकप्राप्तं व्रीहिमयत्वपवादितुं यवमयं विधत्ते यवमयो मध्य इति। भूलोकवर्तिनो मनुष्याः। स्वर्गलोकवर्तिनः सूर्यचन्द्रादयश्च विस्पष्टमुपलभ्यन्त इत्यस्ति तयोरेकविधत्वम्। अन्तरिक्षवर्तिनस्तु यक्षगन्धर्वादयो नोपलभ्यन्त इति वैलक्षण्यम्। एवं यवमयस्येतरवैलक्षण्यादन्तरिक्षरूपत्वम्। तच्च समृद्ध्यै संपद्यते। त्रिधातुवत्त्रिष्वपि पुरोडाशेषु सकृदेव हस्तस्पर्शे नावदानं विधत्ते सर्वेषामिति। यदुक्तं सूत्रकारेण “हिरण्यं तार्प्यं धेनुरिति दक्षिणा” इति तदेतद्विधत्ते हिरण्यमिति। हिरण्यस्य तेजस्वित्वात्तद्दानेन तेजःप्राप्तिः। तार्प्यस्य घृताक्तवस्त्रत्वात्तद्दानेन पशुप्राप्तिः। धेनोः कामधेनुत्वसाम्यात्तद्दानेनाशिषां प्राप्तिः सर्व तेजः सामरूप ह शश्वदित्याम्नानाद्धिरण्यस्य सामवर्णत्वम्। यजुर्वेदं क्षत्त्रियस्याहुर्योनिमित्याम्नातत्वात्तार्प्यस्य च राजसूये क्षत्त्रियेण परिहितत्वादीदृशं संबन्धमभिप्रेत्य तार्प्यं यजुषां वर्णः स्वरूपमित्युच्यते। उक्थैः शस्त्रैर्देवतानां जायमाना प्रदा यास्वृक्षु ता ऋच उक्थामदास्तासां नवप्रसूतधेनुवद्वर्षणहेतुत्वाद्धेन्वा ऋग्वर्णत्वम्। उक्तद्रव्यत्रयदानेनोक्तान्वर्णान्प्राप्नोति।

अथ मीमांसा।

षष्ठाध्यायस्य द्वितीयपादे चिन्तितम् “असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते।

"आद्यः प्रयोजनाभावादन्त्यो निन्दादिसंश्रवात्।।” चित्रया यजेत पशुकामः, कारीर्या वृष्टिकामो यजेत इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम्। तस्य च समाप्तेः प्रागेव केनचिन्निमित्तेन तत्फलप्राप्तौ दौषदर्शनेन वा कामो निवर्तते तदानीं कर्मानुष्ठाने प्रयोजनभावान्न समापनीयमिति चैन्मैवम्। प्रक्रान्तस्य कर्मणोसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात्। “देवताम्यो वा एष आवृश्च्यते यो यक्ष्य इत्युक्त्वा न यजते त्रैधातवीयेन यजेत” इति तदुभयं श्रुतम्। तस्मात्समापनीयम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठक एकादशोनुवाकः ।। ११ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सर्वाणि छन्दांसीत्यादि ॥ अस्ति त्रैधातवीयेष्टिः । तां विधास्यन् प्रथमं तद्गतान् कांश्चिद्विशेषान्विदधाति । तस्यामिष्ट्यां सामिधेनीषु सर्वाणि छन्दांसि अनूच्यानीति यज्ञविद आहुः । वचेः छान्दसः क्विप् । तत्कथमित्याह - त्रिष्टुभ इत्यादि । ककुन्नाम त्रिष्टुभो वीर्यं वीर्यपरिणामः कार्य इत्यर्थः । उष्णिहा नाम जगत्या वीर्यम् । उष्णिक्पर्याय उष्णिहाशब्दः । तस्मादुष्णिहककुभोर्यदनुवचनं लोके समिद्ध्यमानवतीसमिद्धवत्योर्मध्ये निधानं तेन सर्वच्छन्दोवरोधः । प्रकृतिं गायत्रीं, वैकृत्यौ चोष्णिक्ककुभौ तत्कारणे च त्रिष्टुब्जगत्याविति । तत्र 'प्र सो अग्ने तवोतिभिः' 'प्र होत्रे पूर्व्यं वचः' इत्येते उष्णिक्ककुभौ वेदितव्ये । तत्र प्रथमा ककुप्, मध्यमस्य पादस्य द्वादशाक्षरत्वात् । द्वितीया परोष्णिक्, तृतीयस्य पादस्य द्वादशाक्षरत्वात् । अत्र ककुदुष्णिहाविति वक्तव्ये उष्णिह ककुभाविति विपर्यासश्छान्दसः ॥
2 गायत्री वा इत्यादि ॥ गायत्री वैषेयमुष्णिक्त्वादुष्णिग्ग्रहणमेव कृतम् । तत्र चतुर्विंशत्यक्षरा गायत्री, अष्टाविंशत्यक्षरोष्णिक् तत्कथमनयोरेकत्वमित्यत आह - यानीति । अयमभिप्रायः - गायत्र्या एव पशुसाधनं रूपं यदुष्णिङ्नाम, तस्माद्यानि चत्वार्यक्षराणि अभ्याधिकानि तानि चतुष्पादः पशवः । तद्धेत्वात्ताच्छब्द्यम् । तस्मादुष्णिक्प्रवेशव्याजेन गायत्रीमेव प्रकृतिं पशुसाधनभूतां कुर्म इति ॥
3 एवं सर्वच्छन्दोवरोधहेतुत्वेन पशुलाभहेतुत्वेन च उष्णिक्ककुभोः प्रवेशं स्तुत्वा इदानीमिष्टिस्वभावसुलभं चेदमक्षराधिक्यमिति दृष्टान्तेन दर्शयति - यथेति ॥ 'उत्तर उत्तरो ज्यायान् भवति' इति यथा पुरोडाशे प्रथमे अध्युपरि मध्यमः, तस्मिन्नपि तृतीयो भवति, एवमेवैतद्द्रष्टव्यं, यदृचि गायत्र्यामध्युपरि चत्वार्यक्षराणि भवन्ति । यद्वा - पुरोडाशे पुरोडाशान्तरमधिकप्रमाणं तिष्ठति तद्वदिदमृचि गायत्र्या अधिकाक्षरा उष्णिक्त्रिष्टुबिति ॥
4 यज्जगत्येति ॥ उक्तं जगत्या वीर्यमुष्णिगिति । उक्तं च 'गायत्री वा एषा यदुष्णिहा' इति । तस्मादेवं जगतीभाववत्या 'आ जुहोत' इति गायत्र्या परिधानं यज्ञस्य मध्ये अन्तर्गमनाय नाशाय स्यात् जगत्याः छन्दसामन्त्यत्वात् । यद्वा - गायत्र्यैव वर्धमानाक्षरा उष्णिहादिभावमापद्यमाना उपर्युपरि गच्छतीति जगतीत्युच्यते । त्रिष्टुगिति । 'अग्ने त्री ते वाजिना' इत्येतया । त्रिवत्येति । त्रिष्टुबन्तराद्वैलक्षण्यमस्यां दर्शयति । 'छन्दसी रः' इति मतुपोवत्वम् । सरूपत्वायेति । त्रित्वान्वयात्त्रैधातवीयं सारूप्यमिति ॥
5 सर्वो वा इत्यादि ॥ त्रैधातवीयाख्यं यदिदं कर्म एष सर्वो यज्ञः सर्वयज्ञतुल्य इति यावत् । 'यत्त्रिः प्रायच्छत्त्रिः प्रत्यगृह्णात्' इति त्रिषु लोकेषु भवत [वतोः] इन्द्राविष्ण्वोस्सम्बन्धी वीर्यविशेषः त्रैधातवः । तत्प्राप्तिहेतुत्वेन तत्सम्बन्धि कर्म त्रैधा तवीयमिष्टिलक्षणम् । कामायकामाय सर्वस्मै कामाय स्वर्गपशुप्रजादिकामाय प्रयुज्यते । हेतुमाह - सर्वेभ्यो हीति । सामान्यविवक्षयैकवचनम् । सर्वकामसम्पत्तिः यज्ञैर्भवति । यश्च याग्ग्स्सर्वयज्ञात्मा तस्मात्सर्वेभ्यः कामेभ्यः प्रयोक्तव्य इति ॥
6 सर्वेणैवैनमिति ॥ अस्य सर्वयज्ञात्मकत्वादनेन यजमानः सर्वेणाभिचारिकेण यज्ञेन एनमभिचरितव्यमभिचरति । तत एनं स्तृणुते हिनस्त्येव । सर्वेणैवेति । अस्य सर्वयज्ञात्मकत्वात् सर्वेणाभिचारादिदोषनिघातार्थेनापि यज्ञेनायं यजमानो भवति । तत एनं अभिचरन् न स्तृणुते ॥
7 प्रजातमिति ॥ प्रजातं सन्तानवत् अविच्छिन्नमेव सहस्रं ददाति । उत्तरोत्तरप्रभूतमिति यावत् । सर्वयज्ञत्वेनास्य धनाभिवृद्धिहेतुत्वात् । ईजान इति । इष्टवान् सहस्रेण पशूनामन्तं समाप्तिं गच्छति । अपशुरेव स्यात् । यस्मादिति । त्रैधातवीयेनोत्सृजते । उपैनमुत्तरमिति । यागप्रभावात्सहस्रान्तरमेनमुपनमति ॥
8 यो यक्ष्य इत्युक्त्वेति ॥ यज्ञार्थं कृतसंकल्पः तेन यज्ञेन अनिष्टवानपि सर्वयज्ञात्मकेनानेन यजमानः तेनापीष्टवान् भवति । तस्मादयागदोषाभावात् देवताभ्यो न वृश्च्यते न हीयते ॥

द्वादशकपाल इति ॥ चतुरो मुष्टीन् व्रीहीणां निरुप्य चतुरो यवानां निरुप्य पुनश्चतुरो व्रीहीणां निर्वपेत् । गार्हपत्ये द्वादशकपालान्युपदधाति । सर्वत्रेन्द्राविष्णुभ्यामेव निर्वापादि । ते त्रय इति । अवयुत्य सङ्ख्यास्तुतिः । त्रिष्षमृद्धत्वं तिसृभिरावृत्तिभिर्योगः । त्रैधातवीयानुरूपत्वम् । त्रय इति । उपर्युपर्यवस्थिताः । उत्तरौत्तरः पूर्वस्मात्पूर्वस्माज्ज्यायान् वृद्धतरः । इमे खलु लोकाः पृथिव्यादयः उत्तरमुत्तरं ज्यायांसः । यवमय इति । 'द्व्यचश्छन्दसि' इति विकारे मयट् । एतद्वा इति । यौतिः पृथग्भावः । पृथग्भूतश्च सर्वपदार्थोन्तरिक्षस्य । सर्वेषामभिगमयन्नित्यादि । व्याख्यातम् ॥

10 हिरण्यमिति ॥ अन्वाहार्यमासाद्य सहस्रं हिरण्यं ददाति । तार्प्यं घृताक्तं वासः, तत् घृतसंबन्धात्पशुलाभहेतुः । धेनुः प्रत्यग्रप्रसवा गौः । संप्रीणनहेतुत्वात्तत आशिषां लाभः । साम्नो वा इति । तस्य तैजसत्वात् 'सर्वं तेजस्सामरूप्यम्' इति दर्शनाच्च । यजुषां वर्णस्तार्प्यं, द्वयोः क्षत्रसम्बन्धित्वात् । क्षत्रं द्वितीयो वर्णः धेनुश्च उक्थामदानां शस्त्राणामृचामित्यर्थः । तासां वर्णो धेनुः प्रीणनहेतुत्वात् ॥
इति द्वितीये चतुर्थे एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 2.4.11.2 TS 2.4.11.2
परिद॒द्ध्यादन्तं॑ ॅय॒ज्ञ्ं ग॑मयेत् त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यं ॅवै वी॒र्यं॑ त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञ्ं प्रति॑ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयं॒ कामा॑य-कामाय॒ प्रयु॑ज्यते॒ सर्वे᳚भ्यो॒ हि कामे᳚भ्यो य॒ज्ञ्ः प्र॑यु॒ज्यते᳚ त्रैधात॒वीये॑न यजेताभि॒चर॒न्थ् सर्वो॒ वा- [ ]
पदपाठः (Word-by-word)
प॒रि॒द॒द्ध्यादिति॑ परि-द॒द्ध्यात् । अन्त᳚म् । य॒ज्ञ्म् । ग॒म॒ये॒त् । त्रि॒ष्टुभा᳚ । परीति॑ । द॒धा॒ति॒ । इ॒न्द्रि॒यम् । वै । वी॒र्य᳚म् । त्रि॒ष्टुक् । इ॒न्द्रि॒ये । ए॒व । वी॒र्ये᳚ । य॒ज्ञ्म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । न । अन्त᳚म् । ग॒म॒य॒ति॒ । अग्ने᳚ । त्री । ते॒ । वाजि॑ना । त्री । स॒धस्थेति॑ स॒ध - स्था॒ । इति॑ । त्रिव॒त्येति॒ त्रि - व॒त्या॒ । परीति॑ । द॒धा॒ति॒ । स॒रू॒प॒त्वायेति॑ सरूप - त्वाय॑ । सर्वः॑ । वै । ए॒षः । य॒ज्ञ्ः । यत् । त्रै॒धा॒त॒वीय᳚म् । कामा॑य कामा॒येति॒ कामा॑य - का॒मा॒य॒ । प्रेति॑ । यु॒ज्य॒ते॒ । सर्वे᳚भ्यः । हि । कामे᳚भ्यः । य॒ज्ञ्ः । प्र॒यु॒ज्यत॒ इति॑ प्र - यु॒ज्यते᳚ । त्रै॒धा॒त॒वीये॑न । य॒जे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । सर्वः॑ । वै । 31(50)
पञ्चशत् 3 #
TS 2.4.11.3 TS 2.4.11.3
ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयꣳ॒॒ सर्वे॑णै॒वैनं॑ ॅय॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयꣳ॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर॑006छ्;᳚थ् स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द्-ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒ ॅवा ए॒ष प॑शू॒नां ग॑च्छति॒ - [ ]
पदपाठः (Word-by-word)
ए॒षः । य॒ज्ञ्ः । यत् । त्रै॒धा॒त॒वीय᳚म् । सर्वे॑ण । ए॒व । ए॒न॒म् । य॒ज्ञेन॑ । अ॒भीति॑ । च॒र॒ति॒ । स्तृ॒णु॒ते । ए॒व । ए॒न॒म् । ए॒तया᳚ । ए॒व । य॒जे॒त॒ । अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि-च॒र्यमा॑णः । सर्वः॑ । वै । ए॒षः । य॒ज्ञ्ः । यत् । त्रै॒धा॒त॒वीय᳚म् । सर्वे॑ण । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ । न । ए॒न॒म् । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । स्तृ॒णु॒ते॒ । ए॒तया᳚ । ए॒व । य॒जे॒त॒ । स॒हस्रे॑ण । य॒क्ष्यमा॑णः । प्रजा॑त॒मिति॒ प्र - जा॒त॒म् । ए॒व । ए॒न॒त् । द॒दा॒ति॒ । ए॒तया᳚ । ए॒व । य॒जे॒त॒ । स॒हस्रे॑ण । ई॒जा॒नः । अन्त᳚म् । वै । ए॒षः । प॒शू॒नाम् । ग॒च्छ॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.4.11.4 TS 2.4.11.4
यः स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒ ताꣳस्त्रै॑धात॒ वीये॑-नै॒वासृ॑जत॒ य ए॒वं ॅवि॒द्वाꣳ स्त्रै॑धात॒वीये॑नप॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना᳚न्थ् सृजत॒ उपै॑न॒मुत्त॑रꣳ स॒हस्रं॑ नमति दे॒वता᳚भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञो - [ ]
पदपाठः (Word-by-word)
यः । स॒हस्रे॑ण । यज॑ते । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । खलु॑ । वै । प॒शून् । अ॒सृ॒ज॒त॒ । तान् । त्रै॒धा॒त॒वीये॑न । ए॒व । अ॒सृ॒ज॒त॒ । यः । ए॒वम् । वि॒द्वान् । त्रै॒धा॒त॒वीये॑न । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । यज॑ते । यस्मा᳚त् । ए॒व । योनेः᳚ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प॒शून् । असृ॑जत । तस्मा᳚त् । ए॒व । ए॒ना॒न् । सृ॒ज॒ते॒ । उपेति॑ । ए॒न॒म् । उत्त॑र॒मित्युत् - त॒र॒म् । स॒हस्र᳚म् । न॒म॒ति॒ । दे॒वता᳚भ्यः । वै । ए॒षः । एति॑ । वृ॒श्च्य॒ते॒ । यः । य॒क्ष्ये । इति॑ । उ॒क्त्वा । न । यज॑ते । त्रै॒धा॒त॒वीये॑न । य॒जे॒त॒ । सर्वः॑ । वै । ए॒षः । य॒ज्ञ्ः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.4.11.5 TS 2.4.11.5
यत् त्रै॑धात॒वीयꣳ॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपाला-स्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां ॅलो॒काना॒माप्त्या॒ उत्त॑र-उत्तरो॒ ज्याया᳚न् भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मद्ध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पꣳ समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑बंट्कारꣳ॒॒ हिर॑ण्यं ददाति॒ तेज॑ ए॒वा - [ ]
पदपाठः (Word-by-word)
यत् । त्रै॒धा॒त॒वीय᳚म् । सर्वे॑ण । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । चतु॑ष्कपाला॒ इति॒ चतुः॑-क॒पा॒लाः॒ । त्रि॒ष्ष॒मृ॒द्ध॒त्वायेति॑ त्रिष्षमृद्ध - त्वाय॑ । त्रयः॑ । पु॒रो॒डाशाः᳚ । भ॒व॒न्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षाम् । लो॒काना᳚म् । आप्त्यै᳚ । उत्त॑र उत्तर॒ इत्युत्त॑रः -उ॒त्त॒रः॒ । ज्यायान्॑ । भ॒व॒ति॒ । ए॒वम् । इ॒व॒ । हि । इ॒मे । लो॒काः । य॒व॒मय॒ इति॑ यव - मयः॑ । मद्ध्ये᳚ । ए॒तत् । वै । अ॒न्तरि॑क्षस्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । सर्वे॑षाम् । अ॒भि॒ग॒मय॒न्नित्य॑भि - ग॒मयन्न्॑ । अवेति॑ । द्य॒ति॒ । अछ॑बंट्कार॒मित्यछ॑बंट् - का॒र॒म् । हिर॑ण्यम् । द॒दा॒ति॒ । तेजः॑ । ए॒व ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.4.11.6 TS 2.4.11.6
ऽव॑ रुन्धे ता॒र्प्यं द॑दाति प॒शूने॒वाव॑ रुन्धे धे॒नुं द॑दात्या॒शिष॑ ए॒वाव॑ रुन्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यं॒ ॅयजु॑षां ता॒र्प्यमु॑क्थाम॒दानां᳚ धे॒नुरे॒ताने॒व सर्वा॒न्॒. वर्णा॒नव॑ रुन्धे ॥
पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । ता॒र्प्यम् । द॒दा॒ति॒ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । धे॒नुम् । द॒दा॒ति॒ । आ॒शिष॒ इत्या᳚ - शिषः॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । साम्नः॑ । वै । ए॒षः । वर्णः॑ । यत् । हिर॑ण्यम् । यजु॑षाम् । ता॒र्प्यम् । उ॒क्था॒म॒दाना॒मित्यु॑क्थ - म॒दाना᳚म् । धे॒नुः । ए॒तान् । ए॒व । सर्वान्॑ । वर्णान्॑ । अवेति॑ । रु॒न्धे॒ ॥
पदसंख्या: 30