पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके षष्ठोनुवाकः)। (चित्रायागविधिः) चित्रायागस्योपहोममन्त्राः पञ्चम ईरिताः ।
"अथ षष्ठे तं यागं विधत्ते---चित्रया यजेतेति। चित्रेति यागस्य नामधेयम्। सा च चित्रा भूमिस्वरूपा यस्मात्कारणादस्यां भूमौ सर्वं प्राणिजातमाधिक्येनोत्पद्यते तेन चित्रप्राण्युत्पादनेनेयं भूमिश्चित्रा। तद्वद्विचित्रप्रजापशुहेतुत्वाद्यागोपि चित्रेत्युच्यते। चित्रायाः स्वरूपभूतान्सप्त यागविशेषान्विधातुं तद्विधिं क्रमेणोन्नयति प्रैवाग्नेयेनेति। अत्राग्नेये हविषा प्रवापयति प्रकर्षेण पशूत्पत्तिबीजं प्रक्षिपति। सौम्येन हविषा व्रीह्यादिबीजेषु गोमयमिव प्रजादिवीजेषु पोषकं रेतो धारयति। तृतीयहविदेवता त्वष्टा च हितं रेतो नानाविधरूपाकारेण विकरोति। अतः सरस्वतीदेवताकः सरस्वद्देवताकश्चेत्युभौ सारस्वतौ भवतः । एतच्च द्वयं स्त्रीपुरुषरूपत्वाद्देवतासंबन्धि मिथुनम्। तस्य हविषां मध्येनुष्ठानेन यजमानार्थं दैव्यं मिथुनं गृहमध्ये संपादितवान्भवति। तच्चोत्पन्नानां प्रजानां पशूनां च पुष्ट्यै संपाद्यते, प्रजानां पशूनां च प्रजननायोत्पत्तये संपद्यते। तत्र सिनिवाल्यै चरुः कर्तव्यः। सिनीवाल्या वाक्त्वमर्थवादान्तरे द्रष्टव्यम्। वाचः पुष्टिहेतुत्वं सभामध्ये पण्डितेष्ववलोक्यते। तस्मादनेन चरुणा पुष्टिहेतुं वाचं प्राप्नोति। ऐन्द्रो यागश्चरमः कर्तव्यः। तेनैवेन्द्रस्य पुरुषत्वेन सिनीवाल्याः स्त्रीत्वेन च तदुभयं मिलित्वा मिथुनं भवति। अत्र द्रव्यविशेषाः शाखान्तरे द्रष्टव्याः। पाठप्राप्तां हविःसंख्यां प्रशंसति सप्तैतानीति। गोपुरुषाश्वाजाविगर्दभोष्ट्रा ग्राम्याः द्विखुरपश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयाः सप्तारण्याः। यत्र्युष्णिग्बृहतीपङ्क्तित्रिष्टिब्जगत्यश्छदांसि। उभयस्य पशुसंघस्य च्छन्दः संघस्य च। अग्ने गोभिर्न आ गृहीत्यादिभिर्मन्त्रैरुपहोमान्विधत्ते अथैता इति। एते वै मन्त्रोक्ता अग्नीन्द्रादयः । "
"अत्र मीमांसा। प्रथमाध्यायस्य चतुर्थपादे चिन्तितम् “यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत्। चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ।। द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गोरवं ततः। स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा” ।। “चित्रया यजेत पशुकामः” इत्याम्नायते। तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किंतु रूढ्या चित्रस्त्रीत्वमभिधत्ते। ततो न पूर्वन्यायेन नामत्वम्। तथा सत्यग्नीषोमीयं पशुमालभेतेति विहितं पशुयागमत्र यजेतेत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रस्त्रीत्वगुणो विधीयत इति प्राप्ते ब्रूमः चित्रत्वं स्त्रीत्वं चेति द्वावेतौ। गुणौ तयोर्द्वयोर्विधाने वाक्यं भिद्येत। तथा चोक्तम् “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवोप्येकयत्नतः।।” इति। अथ वाक्यभेदपरिहाराय गुणद्वयविशिष्टपशुद्रव्यरूपं कर्म विधीयते तदा गौरवं स्यात्। तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति। चित्रत्वं च तस्य विलक्षणद्रव्यद्वारेणोपपद्यते। दधि मधु घृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजापत्यमिति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि। तदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम्। यागस्वरूपभूतयो र्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात्। उत्पन्नस्य तस्य यागस्य चित्रया पशुकाम इत्येतत्फलवाक्यम्। एवं सति प्रकृतार्यो लभ्येत। अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। लिङ्प्रत्ययस्य चानुवादत्वाङ्गीकारान्मुख्यविध्यर्थो बाध्येत। तस्माच्चित्रापदं कर्मनामधेयम्। यथा चित्रशब्दे नामधेयत्वं तथा वहिष्पवमानशब्द आज्यशब्दे पृष्ठशब्दे च तत्तत्कर्मनामधेयत्वं योजनीयम्। चतुर्थाध्यायस्य तृतीयपदे चिन्तितम्--- "
"“चित्रया पशवोमुष्मिन्नेव स्युर्नियता न वा। आद्यः स्वर्गेण तुल्यत्वाद्देहस्योत्पादकत्वतः।। चित्रोत्पतौ तु नियमो न श्रुतो नापि कल्पकम्। पुस्प्रवृत्त्यादिनो (ना) पेते प्रतिबन्धे भवेत्फलम्” ।। काम्यकर्मण्येवं श्रूयते----‘चित्रया यजेत पशुकाम ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः’ इति। तत्र यथा स्वर्गफलस्यामुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि। यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथा स्त्वति चेत्। मैवम् । वैषम्यात्। अस्मिन्देहे स्वर्गस्य मोक्तुमशक्यत्वादश्रुता प्यन्यदेहोत्पत्तिरर्थापत्त्या कल्प्यते। चित्रया त्वन्यदेहो वश्यमुत्पाद्यत इति नियमो न श्रुतो नापि किंचित्तस्य कल्पकमस्ति। अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात्। अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधं चित्रादिफलमामुष्मिकमेवेति चेन्न। परिग्रहादेः प्रतिवन्धनिवृत्तावुपयुक्तत्वात्। तस्मादसति प्रतिबन्धे फलमैहिकं सति त्वामुष्मिकम्। पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् ‘स्त्रीपुंसदेवकौ सारस्वतौ तद्धर्मगः क्रमः। नास्त्यस्ति वात्र नास्त्वेष तन्नियामकवर्जनात्।। याज्यानुवाक्यापाठेन स्त्रीप्राथम्यं हि मुख्ययोः। मुख्यार्थत्वेन धर्माणां स्यान्मुख्यक्रमतः क्रमः’ ।। चित्रायागे सप्तानां हविषा मध्ये चतुर्थपञ्चमे इत्थमाम्नायते----‘सारस्वतौ भवत एतद्वै दैव्यं मिथुनम्’ इति। सरस्वती च सरस्वांश्चेति विगृह्य समासे कृते पुमान्स्त्रीयेतिसूत्रेणैकशेषात्सरस्वन्ताविति भवति। तौ देवते ययोर्यागयोस्तौ सारस्वतौ यागौ। एतच्च मिथुनमिति वाक्यशेषादवगम्यते। तयोर्यागयोर्निर्वापादयो धर्माश्चोदकप्राप्ताः। तत्र स्वेच्छया स्त्रीयागस्य पुंयागस्य वा प्रथमं निर्वापः कार्यः। कुतः । श्रुत्यर्थपाठप्रवृत्तिस्थानानामन्यमतमस्य नियामकस्याभावादिति प्राप्ते ब्रूमः हौत्रकाण्डे स्त्रीदेवतायाः पूर्वं याज्यानुवाक्ये आम्नाते—‘प्र णो देवी सरस्वती’ ‘आ नो दिवः’ इति। पश्चात्पुंदेवतायाः ‘पीपिवा ँ् स ँ् सरस्वतः’ ‘यै ते सरस्व ऊर्मयः’ इति। अनेन याज्यानुवाक्याक्रमेण मुख्ययोर्द्वयोयागयोर्मध्ये स्त्रीयागस्य प्राथम्यमवगम्यते। ततो धर्माणां मुख्ययागार्थत्वान्मुख्यक्रमेणैव क्रमे नियते सति स्त्रीयागस्यैव प्रथमं निर्वापः कार्यः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके षष्ठोनुवाकः।। ६ ।। "