पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयाष्टके चतुर्थप्रपाठके त्रयोदशोनुवाकः)। (ऐन्द्राबार्हस्पत्यचरुविधिः)त्रैधातवीययागस्य द्वादशे देवतेरिता। अथ त्रयोदशेनुवाक ऐन्द्राबार्हस्पत्यं चरुं विधातुं प्रस्तौति देवा वा इति। राजन्यस्याप्रतिबद्धशक्तिकत्वेनेतरवैरिवद्देवानपि हनिष्यतीति मत्वा देवा भीताः सन्तो गर्भमध्य एव स्थितं सन्तं राजन्यं शक्तिप्रति बन्धलक्षणेन दाम्नापगतशक्तिको यथा भवति तथौम्भञ्शक्तिप्रतिबन्धं पूरि तवन्तः। अत एव सर्वत्र लोके राजन्यः प्रतिबद्धशक्तिक एव जायते। यद्यप्रतिबद्धशक्तिको जायेत गर्भनिर्गमनमारभ्य वैरिणो मारयन्निव लोके चरेत्। इदानीं विधत्ते यं कामयेतेति। यं राजन्यं इत्यध्वर्युरेवं कामयेत देवैरप्रतिबद्धसक्तिकोयं जायतां सर्वत्र निवारकान्वैरिणो मारयन्नेव चरित्विति तस्येयमिष्टिः। देवेष्विन्द्रस्य क्षत्रियत्वं बृहदारण्यके समाम्नातम् –“यान्येतानि देवत्रा क्षत्त्राणीन्द्रो वरुणः सोमो रुद्रः” इति। तस्मान्मनुष्येषु राजन्य ऐन्द्रः। “ब्रह्म वै देवानां बृहस्पतिः” इत्यस्य श्रवणाद्बृहस्पतेर्ब्राह्मणजातित्वम्। अत ऐन्द्राबार्हस्पत्यचरौ निरुप्ते सत्येनमैन्द्रं राजन्यं ब्रह्मणा बृहस्पतिसामर्थ्येन दैविकाच्छक्तिप्रतिबन्धान्मोचयति। अत्रोचितां दक्षिणां विधत्ते हिरण्मयमिति। दाम रज्जुः। बन्धके दामनि दत्ते सति प्रत्यक्षत एव बन्धमोक्षो भवति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके त्रयोदशो नुवाकः ।। १३ ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
म्भन् अपरुद्धशक्तिकाङ्गमबध्नन् । उभ उम्भ पूरणे । वृत्रानिति ।
वारकान् शत्रून् । अन्वाहार्यमासाद्य हिरण्मयं दाम दद्यात् ॥