अनुवाकः 13 TS 2.4.13

(A13)

(ए॒नं॒ - द्वाद॑श च)

अनुवाकः 13 - Complete Audio

TS 2.4.13 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वा वै रा॑ज॒न्या᳚-ज्जाय॑माना-दबिभयु॒-स्तम॒न्तरे॒व सन्तं॒
PS1.2 दाम्ना ऽपौ᳚म्भ॒न्थ् स वा
PS1.3 ए॒षोऽपो᳚ब्धो जायते॒ यद्-रा॑ज॒न्यो॑ यद्वा
PS1.4 ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान् घ्नꣳ
PS1.5 श्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत
PS1.6 वृ॒त्रान् घ्नꣳ श्च॑रे॒दिति॒ तस्मा॑
PS1.7 ए॒तमै᳚न्द्रा बार्.हस्प॒त्यं च॒रुं निर्व॑पेदै॒न्द्रो
PS1.8 वै रा॑ज॒न्यो᳚ ब्रह्म॒ बृह॒स्पति॒
PS1.9 र्ब्रह्म॑णै॒वैनं॒ ( ) दाम्नो॒ऽप्ॐभ॑नान्
PS1.10 मुञ्चति हिर॒ण्मयं॒ दाम॒ दक्षि॑णा
PS1.11 सा॒क्षादे॒वैनं॒ दाम्नो॒ऽप्ॐभ॑नान् मुञ्चति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.4.13.1 TS 2.4.13.1
दे॒वा वै रा॑ज॒न्या᳚-ज्जाय॑माना-दबिभयु॒-स्तम॒न्तरे॒व सन्तं॒ दाम्ना ऽपौ᳚म्भ॒न्थ् स वा ए॒षोऽपो᳚ब्धो जायते॒ यद्-रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान् घ्नꣳ श्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान् घ्नꣳ श्च॑रे॒दिति॒ तस्मा॑ ए॒तमै᳚न्द्रा बार्.हस्प॒त्यं च॒रुं निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो᳚ ब्रह्म॒ बृह॒स्पति॒ र्ब्रह्म॑णै॒वैनं॒ ( ) दाम्नो॒ऽप्ॐभ॑नान् मुञ्चति हिर॒ण्मयं॒ दाम॒ दक्षि॑णा सा॒क्षादे॒वैनं॒ दाम्नो॒ऽप्ॐभ॑नान् मुञ्चति ॥
पदपाठः (Word-by-word)
दे॒वाः । वै । रा॒ज॒न्या᳚त् । जाय॑मानात् । अ॒बि॒भ॒युः॒ । तम् । अ॒न्तः । ए॒व । सन्त᳚म् । दाम्ना᳚ । अपेति॑ । औ॒भं॒न्न् । सः । वै । ए॒षः । अपो᳚ब्ध॒ इत्यप॑- उ॒ब्धः॒ । जा॒य॒ते॒ । यत् । रा॒ज॒न्यः॑ । यत् । वै । ए॒षः । अन॑पोब्ध॒ इत्यन॑प - उ॒ब्धः॒ । जाये॑त । वृ॒त्रान् । घ्नन्न् । च॒रे॒त् । यम् । का॒मये॑त । रा॒ज॒न्य᳚म् । अन॑पोब्ध॒ इत्यन॑प - उ॒ब्धः॒ । जा॒ये॒त॒ । वृ॒त्रान् । घ्नन्न् । च॒रे॒त् । इति॑ । तस्मै᳚ । ए॒तम् । ऐ॒न्द्रा॒बा॒र्.॒ह॒स्प॒त्यमित्यै᳚न्द्रा-बा॒र्.॒ह॒स्प॒त्यम् । च॒रुम् । निरिति॑ । व॒पे॒त् । ऐ॒न्द्रः । वै । रा॒ज॒न्यः॑ । ब्रह्म॑ । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । ए॒न॒म् ( ) । दाम्नः॑ । अ॒प्ॐभ॑ना॒दित्य॑प-उभं॑नात् । मु॒ञ्च॒ति॒ । हि॒र॒ण्मय᳚म् । दाम॑ । दक्षि॑णा । सा॒क्षादिति॑ स-अ॒क्षात् । ए॒व । ए॒न॒म् । दाम्नः॑ । अ॒प्ॐभ॑ना॒दित्य॑प - उभं॑नात् । मु॒ञ्च॒ति॒ ॥
पदसंख्या: 62
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयाष्टके चतुर्थप्रपाठके त्रयोदशोनुवाकः)। (ऐन्द्राबार्हस्पत्यचरुविधिः)त्रैधातवीययागस्य द्वादशे देवतेरिता। अथ त्रयोदशेनुवाक ऐन्द्राबार्हस्पत्यं चरुं विधातुं प्रस्तौति देवा वा इति। राजन्यस्याप्रतिबद्धशक्तिकत्वेनेतरवैरिवद्देवानपि हनिष्यतीति मत्वा देवा भीताः सन्तो गर्भमध्य एव स्थितं सन्तं राजन्यं शक्तिप्रति बन्धलक्षणेन दाम्नापगतशक्तिको यथा भवति तथौम्भञ्शक्तिप्रतिबन्धं पूरि तवन्तः। अत एव सर्वत्र लोके राजन्यः प्रतिबद्धशक्तिक एव जायते। यद्यप्रतिबद्धशक्तिको जायेत गर्भनिर्गमनमारभ्य वैरिणो मारयन्निव लोके चरेत्। इदानीं विधत्ते यं कामयेतेति। यं राजन्यं इत्यध्वर्युरेवं कामयेत देवैरप्रतिबद्धसक्तिकोयं जायतां सर्वत्र निवारकान्वैरिणो मारयन्नेव चरित्विति तस्येयमिष्टिः। देवेष्विन्द्रस्य क्षत्रियत्वं बृहदारण्यके समाम्नातम् –“यान्येतानि देवत्रा क्षत्त्राणीन्द्रो वरुणः सोमो रुद्रः” इति। तस्मान्मनुष्येषु राजन्य ऐन्द्रः। “ब्रह्म वै देवानां बृहस्पतिः” इत्यस्य श्रवणाद्बृहस्पतेर्ब्राह्मणजातित्वम्। अत ऐन्द्राबार्हस्पत्यचरौ निरुप्ते सत्येनमैन्द्रं राजन्यं ब्रह्मणा बृहस्पतिसामर्थ्येन दैविकाच्छक्तिप्रतिबन्धान्मोचयति। अत्रोचितां दक्षिणां विधत्ते हिरण्मयमिति। दाम रज्जुः। बन्धके दामनि दत्ते सति प्रत्यक्षत एव बन्धमोक्षो भवति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके त्रयोदशो नुवाकः ।। १३ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवा वा इत्यादि ॥ अन्तः गर्भ एव सन्तं दाम्ना अपौ-

म्भन् अपरुद्धशक्तिकाङ्गमबध्नन् । उभ उम्भ पूरणे । वृत्रानिति ।

वारकान् शत्रून् । अन्वाहार्यमासाद्य हिरण्मयं दाम दद्यात् ॥

इति द्वितीये चतुर्थे त्रयोदशोनुवाकः ॥
इति काम्या इष्टयस्समाप्ताः ॥