पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः)। (याज्यानुवाक्याभिधानम्)त्रयोदशे चरुः प्रोक्तः शक्तिस्तम्भनिवारकः।
"इत्थं काम्येष्टयः समाप्ता। अथान्तिमानुवाके चतुर्दशे याज्मानुवाक्या वक्तव्याः। तत्र “यः अपयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुं निर्वपेत” इत्यत्र पुरोनुवाक्यामाह—नवो नव इति। आदित्यस्य चन्द्रदीप्तिकारणत्वाच्चन्द्राभेदेनादित्य इह स्तूयते। चन्द्रमा जायमानः प्रतिदिनमुदयं गच्छन्नवो नवो भवति। शुक्लप्रतिपद्येककलायुक्तः। द्वितीयायां कलाद्वययुक्तः इत्येवं कलावृद्धियाभ्यां प्रतिदिनं नूतनत्वम्। चन्द्रवद्दी (न्द्रेदी) प्तिकारणभूत (णभूत) आदित्योपि प्रतिदिनं नूतनो भवति। स्वरूपे वृद्धिक्षयाभावेपि दक्षिणोत्तरगतिभ्यां नूतनत्वम्। स चाह्नां केतश्चिह्नं, तस्मिन्नुदिते सत्यहरिदमिति ज्ञायमानत्वात्। उषसां प्रभातकालानामग्र उपक्रमे प्राच्यामुदयमेति, तदनुरोधेन प्रातरग्निहोत्रादीनां प्रवृत्तेर्देवेभ्यो भागं विदधाति। तादृशश्चन्द्रकलावृद्धिक्षयहेतुरादित्य इह कर्मण्यागच्छन्दीर्घमायुः प्रतिरति प्रकर्षेण ददातु। तत्रैव याज्यामाह यमादित्या इति। यं चन्द्रसमंशुं स्थिरभूतैककलामात्रावशिष्टमादित्याशुक्लपक्षे प्रतिदिनमेकैककलाप्रदानेनाप्यायबन्ति। किंच, यमक्षितं पौर्णमास्यामक्षीणचन्द्रं कृष्णपक्षे प्रतिदिनं वह्न्यादयो देवाः स्वयमक्षितयः क्षयरहिता पिबन्ति, एकैकां कलामपक्षयन्ति। अत एव सोमोत्पतौ स्मर्यते “प्रथमां पिबते वह्निः”, इति। ज्योतिःशास्त्रप्रक्रियया त्वादित्यरश्मय एव स्वयमक्षितय एवैकैकां कलां पिबन्त्याच्छादयन्ति। तेन चन्द्रेणामृते (तमये) न राजा दीप्यमान आदित्यो वरुणो बृहस्पतिरित्येवमादयो भुवनस्य गोप्तारो देवा नोस्मान्रोगग्रस्तान्रोगं निवार्याप्याययन्तु। “यं कोमयेतान्नादः स्यादिति तस्मा एतं विधातुं निर्वपेदिन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे” इत्यत्र राजेन्द्रहविषः पुरोनुवाक्यारूपां स्वराडिन्द्रहविषो याज्यारूपामुभयाकारामृचं पठति प्राच्यामिति। हे इन्द्र त्वं प्राच्यां दिशि राजाधिपतिरसि। अपि च, हे वृत्रहन्नुदीच्यां वृत्रहा वैरिघातकोसि। किंच स्रोत्या नद्यो यव यन्ति तत्सर्वं ते जितन्। नद्यो हि सर्वांसु दिक्षु प्रवहन्ति। अतः सर्वत्र तव विजय इत्यर्यः। किंच, त्वं वृषभः कामानां वर्षयिता हव्यो होमयोग्यः सदक्षिणत एध्याहवनीयस्य दक्षिणभागे स्थितो भव। तत्र स्थित्वां हि ऋत्विग्भिर्हंविर्दीयते। राजेन्द्रहविषो याज्या, अधिराजेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति इन्द्र इति। इन्द्रः सर्वत्र जयत्येव न तु क्वापि पराजयते, सर्वषु राजस्वधिको राजा भूत्वा सर्वानन्यान्राजयाति अराज्ञामपि राज्यप्रदानेन राजत्वं संपादयति। किंच, सर्वेषां राज्ञामुपसद्यः शरण्यो नमस्कारार्हश्च यथासद्येन प्रकारेणासि तथा विश्वाः पृतनाः परकीयसेना अभिष्टीरभिभवतुं समर्थो भूयाः। अधिराजेन्द्रहविषो याज्या, स्वराडिन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृंच पठति अस्येदेवेति। इदेवेत्युभयं मिलित्वा वधारेण वर्तते। अपि च ननु चेत्यादिवन्निपातसमुदायस्यैकार्थत्वम्। प्ररिरिच इत्यत्र प्रशब्दो तिशब्दार्थे वर्तते। अस्येदेवास्येन्द्रस्यैव महित्व महिमा परितो दिवः पृथिव्या अन्तरिक्षाच्च प्ररिरिचे सर्वतो लोकत्रयमतिरिच्य वर्तत इत्यर्थः। किंचेन्द्रो रणाय युद्धार्थभाववक्ष आभिमुख्येन वहति सेनां प्रापयति। कीदृश इन्द्रः, स्वराट् स्वयमेव राजा न तु पर तन्त्रः। दमे गृहे विश्वगूर्तो विश्वानि सर्वाण्यायुधानि गूर्तान्युद्यतानि येनासौ विश्वगूर्तः। युद्धार्थं त्वरया निर्गन्तुं गृहेप्युद्यतायुध एव वर्तते, किमु वक्तव्यं रणभूभावित्यर्थः। स्वरितुं परकीयसेनानामुपरि गन्तुं शीलमस्येति स्वरिः। अमत्रोमाद्रोगात्क्षुद्रूपादन्नदानेन त्रायत इत्यमत्रः। य इन्द्रियकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेत् इत्यत्र राथंतरेन्द्रहविषः पुरोनुवाक्या, रैवतेन्द्रहविषो याज्येत्युभयरूपामृचं पठति अभि त्वेति। अदुग्धा धेनवो यथा वत्सान्प्रत्यादरेण हम्भारवं कुर्वन्ति तथा शूरेन्द्र त्वामभितो नोनुव पुनः पुनः स्तुमः। कीदृशं त्वाम्, अस्य जगतोजङ्गमस्य प्राणिजातस्येशानं तस्थुषः स्थाबरस्यापीशानं सुवर्दृशं स्वर्गस्य प्रदर्शयितारम्। राथंतेरेन्द्रहविषो याज्या, बार्हतेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति त्वा मिद्धीति। हे इन्द्र कारवः कर्तारो वयं त्वामित्त्वामेव हवामह आह्वयामः। किंनिमित्तं, वाजस्य सातान्नस्य दाननिमित्तम्। अत एव साताविति सप्तम्यन्ततया छन्दोगा अधियते। वृत्रेषु वैरिषु प्राप्तेषु सत्पतिं सन्मार्गपालकं त्वामाह्वयामः। नरो मनुष्या वयं काष्ठासु सर्वासु दिक्षु अर्वतः त्रुसेनागतानश्वान्दृष्ट्वा त्वामाह्वयामः। हि यस्मादेवं तस्माद्वीर्यदानेनास्मान्पालयेत्यर्थः। बार्हतेन्द्रहविषो याज्या वैरूपेन्द्रहविषः पुरोनुवाक्येत्युभररूपामृचं पठति यद्द्याव इति। हे इन्द्र यद्यपि शतं द्यावः स्युर्द्युलोकाः शतसंख्याका भवेयुः ,अपि च भूमयोपि शतसंख्याका भवेयुः, तथापि शतसंख्याकैरेवान्तरविशेषैर्युक्ते ते द्यावापृथिव्यौ जातं त्वामनु नाष्ट जातमात्रं त्वामैश्वर्येणानुकर्तुं न व्याप्नुतो न शक्नुत इत्यर्थः। तथा यद्यपि सूर्याः सहस्रसंख्याकाः स्युस्तथापि हे वज्रिंस्तेजसा त्वामनुकर्तुं न क्षमन्त इत्याभिप्रायः। वैरूपेन्द्रस्य याज्या, वैराजेन्द्रस्य पुरोनुवाक्येत्युभयरूपा कदा चनस्तरीरसीत्येषा नात्राम्नाता किंतु शाखान्तरवशाद्व्याहर्तव्या। सा च प्रथमकाण्ड एव व्याख्याता। वैराजेन्द्रस्य याज्या, शाक्वरेन्द्रस्य पुरोनुवाक्येत्युभयरूपामृचं पठति पिबा सोममिति। हे इन्द्र त्वं सोमं पिब। स च पीतः सोमस्त्वा मन्दतु त्वां हर्षयतु। हरिनामका अश्वा यस्यासौ हर्यश्वः हे हर्यश्व ते त्वदर्थमद्रिरूपांशुसवनादिरूपः पाषाणो यं सोमं सुषावाभिषुतयांस्त्वं (स्तं) पिबेति पूर्वत्रान्वयः। कीदृशोद्रि, सोतुरभिषोतुर्ऋत्विजो बाहुभ्यां सुयतः सुष्ठु नियमितः अत एव नार्वा न त्वेवाचीन्मे नियमनरहितः सोमं यत्र तत्र पातयित्वा विनाशयति। तादृशं सोमं पीत्वा वीर्यं देहीत्यभिप्रायः। शाक्केस्न्द्रस्य याज्या, रेवतेन्द्रस्य पुरोनुवाक्येत्युभयप्यामृचं पठति रेवतीर्न इति। रेवत्यो धनवत्य, सधमादोस्माभिः सह मादयन्त्यो हर्षयुक्ताः, तुविवाजा वह्यन्नोपेता आपो नोस्माकं स्वामिनीन्द्रे सन्तु अस्माकं सुखाय तिष्ठन्तु। याभिरद्भिः सह वयं क्षुमन्तः शब्दयन्त इन्द्रं स्तुवन्तो मदेन हृध्याम। यश्चक्षुष्कामः स्यात्तस्मा एतामिष्टिं निर्वपेदग्नये भ्राजस्वते पुरोडाशमाष्टाकपाल सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालम् इत्यत्राग्नेये कर्मणि याज्युनुवाक्ययोः प्रतीके दर्शयति। उदग्ने शुचय इति। उदग्ने शुचयस्तव शुक्रा इत्येषा पुरोनुवाक्या। सा च प्रथमकाण्डस्य तृतीयप्रपाठके व्याख्याता। वि ज्योतिषा बृहता भात्यग्निरित्येषा याज्या। सा तु प्रथमकाण्डस्य द्वितीयप्रपाठके व्याख्याता। सौर्ये कर्मणिपुरोनुवाक्याः प्रतीकं दर्शयति। उदु त्यमिति। सेयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्याता। तत्रैव याज्यामाह सप्त त्वेति। हे सूर्य देव त्वां सप्त हरितोश्वा रथे वहन्ति। कीदृशं त्वां शोचिष्केशं शोचींषि दीप्यमानाः केशस्थानीया रश्मयो यस्य तादृशम्। हे विचक्षणेति सूर्यविशेषणम्। तत्रैव विकल्पितां याज्यामाह चित्रं देवानामिति। चित्रं रक्तश्वेतादिविविधवर्णं देवानां रश्मीनामनीकं सैन्यसदृशं मण्डलमुदगादुदेति। कीदृशं मित्रादिदेवोपलक्षितस्य कृत्स्नस्य प्राणिजातस्येन्द्रियाधिष्ठातृत्वाच्चक्षुःस्थानीयम्। तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य चात्मा। स लोकत्रयमाप्राः सर्वतः पूरितवान्। वैश्वदेवी सांग्रहणीं निर्वपेद्ग्रामकामः इत्यत्र पुरोनुवाक्यामाह विश्वे देवा इति। विश्वे देवा युज्यं योग्यं षयः क्षीरवत्सारभूतं हविर्जुषन्ताम्। कीदृशा देवा, ऋतावृध ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः, ऋतु भिर्हवनश्रुतस्तैस्तैर्ऋतुभिरुपलक्षिते कर्मण्याह्वानस्य श्रोतारः। तत्रैव याज्यामाह विश्वे देवा इति। हे विश्वे देवा मे मदीयमिमं हवमाह्वान शृणुत। ये यूयमन्तरिक्षे स्थान्तरिक्षलोके स्थिता ये चोप समीपे पृथिव्यां स्थिता ये च द्यवि द्युलोके स्थ ये चाग्निजिह्वा अग्निरेव जिह्वा येषां तेग्निजिह्वा अग्निद्वारेण हविषः स्वीकर्तार उत वा न्ये पि वा यजत्रा यष्टव्यास्ते सर्वेपि अस्मिन्बर्हिषि यज्ञ आसद्योपविश्य मादयध्वं हृष्टा भवत यजमानं हर्षयध्वम्। अत्र विनियोग संग्रहः “आदित्येष्टौ नवोद्वे तु प्राच्यामित्यादिकं त्रय (चाष्टक) म्। राजादिगुणकेन्द्रस्य पुरोडाशसमूहके।।"
आग्नेय उदविज्योद्वे उदु त्यं जातवेदसम्। सप्त चित्रं त्रयं सौर्ये सांग्रहण्या उ (मु) मे इमे।
विश्वे देवा इति प्रोक्ता मन्त्राः सप्तदशैव हि।।” इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः ।। १४ ।। वेदार्थस्य प्रकाशेन तमो हर्दि निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थः प्रपाठकः।। ४ ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
सूर्योग्निमयो गोळः चन्द्रोम्बुमयस्स्वभावतस्स्वच्छः । इति ।
तस्मादस्य दिवसकररुचिसमाश्लेषेण भास्वरत्वं भवति । यथाह्नुः -
भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ।
तस्माच्चन्द्रमसो बिम्बं गोळार्धं सूर्याभिमुखं सदा चकास्ति । किं सर्वदा चकास्ति? किमिति नोपलभ्यते? श्रूयताम् - अमावास्यायां चन्द्रमस उपर्यादित्यः ; तदा चन्द्रमस उपरि यद्बिम्बार्धं तदशेषमवभासयति सविता । चन्द्रस्यामावास्योपलक्षितोपरिबिम्बे केन्द्राद्यथायथा पश्चादादित्योवलम्बते तथातथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते । तत्केन्द्रवशात् चन्द्रमसो बिम्बार्धशेषं आभासयति सविता । यावदेवास्योपलक्षितबिम्बपरिध्यवधेरधोवलम्बते तावत् चन्द्रमसो बिम्बस्या[स्यार्धम]स्माभिरुपलक्ष्यते, शेषमुपरिस्थितत्वान्नोपलभ्यते सूर्याभिमुखं भास्वरमपि, भूगोळविशेषवर्तिभिरस्माभिरुपलब्धुमयोग्यत्वात् । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावत्तिथिभेदेन शुक्लचन्द्र उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवन्ति । यथा दर्पणोदरे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं सवितृमरीचयोम्बुमये स्वभावश्यामेपि चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमपध्वंसयन्ति । तत्रायं विशेषः - यो यश्चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्लः उपलभ्यते ; तेन दक्षिणोत्तरयोश्शृङ्गयोः कालविशेषेणोन्नतिविशेषः । तत्र यावद्यावत्सवित्रा विश्लिष्टो भवति तावत्तावच्छुक्लप्रतिपत्प्रभृति चन्द्रमसि सविता संवर्धते । कृष्णप्रतिपत्प्रभृति असितिमा संवर्धते । एतावता जायमान आप्यायमानः क्षीयमाणः चन्द्रमा उपलभ्यते । उक्तं च निरुक्ते - 'तस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते' इति, श्रूयते च - 'सुषुम्नस्शूर्यरस्मिश्चन्द्रमा गन्धर्वः' इति । ननु कथं अस्तमिते सवितरि चन्द्रश्चकास्ति? नैष दोषः - भूमेर्दूरेण सूर्यमार्गः ; तेनोपरिमुखानां सूर्यमरीचीनां न व्यवधात्री भूतधात्री भवति । कृष्णपक्षप्रतिपदादिषु चन्द्रमसो बिम्बपूर्वभागं प्रत्यासन्नः सवितेति परमुच्छुक्लमुपपद्यते । अत्र यदुक्तं सौगतैः स्वत एव शुक्लस्य चन्द्रमसः सुर्यसन्निकर्षणाद्वैवर्ण्यं भवतीति, तदयुक्तम् । स्वभावतश्शुक्लस्य सूर्यसन्निकर्षस्स्याच्चेत्तदा शुक्लप्रतिपदादिषु चन्द्रमसो बिम्बस्यापरभागे वैवर्ण्यं स्यात्, सन्निकृष्टत्वात् तस्यापरभागस्य । ततश्चावाङ्मुखश्च[खं च]न्द्रबिम्बमुपलभ्येतेत्यलमतिप्रसङ्गेन ॥
एवं यश्चन्दमसा जायमानः प्रादुर्भवन् शुक्लप्रतिपदादिषु आदित्यस्यार्चिषा प्रकाशमानो नवोनवो भवति पुनःपुनः अभिनव एव भवति प्रजानामाह्लादहेतुर्भवति । 'अनुदात्तं च' इति द्वितीयो नवशब्दः अनुदात्तः । किं च – अह्नां तिथीनां केतुः तद्वत्केतयिता ज्ञापयिता । कित ज्ञाने । तिथिविभागहेतुत्वात् । उषसां रात्रीणां अग्रे गच्छति अग्रणीः भवति, रजनीनां कर्तृत्वात् । यद्वा - अह्नां केतुः अहरवसाने शुक्लपक्षे प्रतीच्यां दृश्यते, कृष्णपक्षे तु रत्रीणामवसाने प्राच्यां दृश्यते । एवमायन्नागच्छन् अयं देवेभ्यो भागं विदधाति तिथिविशेषनिबन्धनत्वात्सर्वयागानां, आदित्यसन्निकर्षविप्रकर्षनिबन्धनत्वात्सर्वतिथीनाम् । सूर्याचन्द्रमसोर्हि परस्परसन्निकर्षोमावास्या, विप्रकर्षः पौर्णमासीति । इत्थं महाप्रभावोयं चन्द्रमाः दीर्घमायुरस्य प्रतिरति वर्धयतु ॥
यद्वा - आदित्य एव चन्द्रमा उच्यते, चन्द्रस्य माता निर्माता उत्पादक इति । 'गतिकारकयोरपि' इत्यसिः, डित्वाट्टिलोपः । स जायमानो दिनेदिने प्राच्यामुद्यन् नवोनवो भवति सदोद्यन्नप्यपूर्व इव भवति । अह्नां केतुः दिवसकरत्वात् । उषसां रात्रीणां अग्रे अग्रतो गच्छति रात्रय एनमनुधावन्ति । एवमायन् उद्यन् देवेभ्यो भागं विदधाति, आदित्यगत्यधीनत्वात्सर्वकर्मणाम् । एवं महानुभावश्चन्द्रमसोप्युक्तवन्निर्माता आदित्यः दीर्घमायुर्वर्धयत्विति ॥
तत्रैव याज्या - चित्रमिति त्रिष्टुप् ॥ चित्रं चायनीयं सर्वलोकपूजितं देवानां रश्मीनामिन्द्रादीनां वा ऋत्विजां अनीकं मुखस्थानीयं समूहस्थानीयं वा उदगादुद्गच्छति सर्वात्मकसमष्टिरूपत्वात् । किं च – चक्षुस्थानीयं ख्यातिकरं वा मित्रादीनां । अयं देवो द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च आप्राः आ (प्रागाः) पूरयति तेजसा । प्रा पूरणे, पूरुषव्यत्ययः । जगतः जङ्गमस्य सर्वस्य तस्थुषः स्थावरस्य सर्वस्यात्मा सूर्यः एकः प्रेरको वा सर्वस्य तस्मादात्मा ; सर्वोपकारकत्वात् । यद्वा - 'स यश्चायं पूरुषे । यश्चासावादित्ये । स एकः' इति दर्शनात् आत्मा सर्वस्य । अत्राचार्येण 'समानी याज्यानुवाक्ये भवतः' इत्येतदनुसारेण 'उदग्ने शुचयस्तव' 'विज्योतिषा' 'उदु त्यं जातवेदसम्' 'चित्रं देवानाम्' इति हविषां याज्यानुवाक्याः 'उदुत्यं जातवेदसम्' 'सप्त त्वा हरितो रथे' 'चित्रं देवानाम्' इति पिण्डान् प्रयच्छति इति ॥
समाप्तश्च प्रपाठकः ॥
हरिः ओं ॥
—----------------------