अनुवाकः 14 TS 2.4.14

(A14)

(त - दीशा॑न॒ - मद्रि॑ - स्त॒स्थुष॑ - स्त्रिꣳ॒॒शच्च॑)

अनुवाकः 14 - Complete Audio

TS 2.4.14 - स्वरानुगामी

0:00 0:00
PS1.1 नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑ मे॒त्यग्रे᳚
PS1.2 भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑
PS1.3 यमा॑दि॒त्या अꣳ॒॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति
PS1.4 तेन॑ नो॒ राजा॒ वरु॑णो॒
PS1.5 बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः
PS1.6 प्राच्यां᳚ दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी᳚च्यां
PS1.7 ॅवृत्रहन् वृत्र॒हाऽसि॑
PS1.8 यत्र॒ यन्ति॑ स्रो॒त्यास्त -
PS1.9 [ ]
PS2.1 -ज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ
PS2.2 ए॑धि॒ हव्यः॑
PS2.3 इन्द्रो॑ जयाति॒ न परा॑
PS2.4 जयाता अधिरा॒जो राज॑सु राजयाति
PS2.5 विश्वा॒ हि भू॒याः पृत॑ना
PS2.6 अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथाऽस॑त्
PS2.7 अ॒स्येदे॒व प्ररि॑रिचे महि॒त्वं दि॒वः
PS2.8 पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात्
PS2.9 स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः
PS2.10 स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य
PS2.11 अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा
PS2.12 इव धे॒नवः॑
PS2.13 ईशा॑न- [ ]
PS3.1 -म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑
PS3.2 त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑
PS3.3 त्वां ॅवृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः
PS3.4 यद्द्याव॑इन्द्रतेश॒तꣳ श॒तं भूमी॑रु॒त स्युः
PS3.5 न त्वा॑ वज्रिन्थ् स॒हस्रꣳ॒॒
PS3.6 सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒
PS3.7 रोद॑सी
PS3.8 पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒
PS3.9 यन्ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑
PS4.1 सो॒तुर्बा॒हुभ्याꣳ॒॒ सुय॑तो॒ नार्वा᳚
PS4.2 रे॒वती᳚र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः
PS4.3 क्षु॒मन्तो॒ याभि॒र्मदे॑म
PS4.4 उद॑ग्ने॒ शुच॑य॒स्तव॒, वि ज्योति॒षोदु॒
PS4.5 त्यं जा॒तवे॑दसꣳस॒प्त त्वा॑ ह॒रितो॒
PS4.6 रथे॒ वह॑न्ति देव सूर्य
PS4.7 शो॒चिष्के॑शं ॅविचक्षण
PS4.8 चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ऽग्नेः
PS4.9 आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ॒॒ सूर्य॑
PS4.10 आ॒त्मा जग॑तस्त॒स्थुष॑ - [
PS4.11 ]
PS5.1 श्च
PS5.2 विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्. हवन॒श्रुतः॑
PS5.3 जु॒षन्तां॒ ॅयुज्यं॒ पयः॑
PS5.4 विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑
PS5.5 मे॒ ये अ॒न्तरि॑क्षे॒ य
PS5.6 उप॒ द्यवि॒ष्ठ
PS5.7 ये अ॑ग्निजि॒ह्वा उ॒त वा॒
PS5.8 यज॑त्रा आ॒सद्या॒स्मिन् ब॒र्॒.हिषि॑ मादयद्ध्वं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.4.14.1 TS 2.4.14.1
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑ मे॒त्यग्रे᳚ । भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या अꣳ॒॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥प्राच्यां᳚ दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी᳚च्यां ॅवृत्रहन् वृत्र॒हाऽसि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्त - [ ]
पदपाठः (Word-by-word)
नवो॑नव॒ इति॒ नवः॑ - न॒वः॒ । भ॒व॒ति॒ । जाय॑मानः । अह्ना᳚म् । के॒तुः । उ॒षसा᳚म् । ए॒ति॒ । अग्रे᳚ ॥ भा॒गम् । दे॒वेभ्यः॑ । वीति॑ । द॒धा॒ति॒ । आ॒यन्नित्या᳚ - यन्न् । प्रेति॑ । च॒न्द्रमाः᳚ । ति॒र॒ति॒ । दी॒र्घम् । आयुः॑ ॥ यम् । आ॒दि॒त्याः । अꣳ॒॒शुम् । आ॒प्या॒यय॒न्तीत्या᳚ - प्या॒यय॑न्ति । यम् । अक्षि॑तम् । अक्षि॑तयः । पिब॑न्ति ॥ तेन॑ । नः॒ । राजा᳚ । वरु॑णः । बृह॒स्पतिः॑ । एति॑ । प्या॒य॒य॒न्तु॒ । भुव॑नस्य । गो॒पा इति॑ गो - पाः ॥ प्राच्या᳚म् । दि॒शि । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । राजा᳚ । उ॒त । उदी᳚च्याम् । वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । वृ॒त्र॒हेति॑ वृत्र - हा । अ॒सि॒ ॥ यत्र॑ । यन्ति॑ । स्रो॒त्याः । तत् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः)। (याज्यानुवाक्याभिधानम्)त्रयोदशे चरुः प्रोक्तः शक्तिस्तम्भनिवारकः।

"इत्थं काम्येष्टयः समाप्ता। अथान्तिमानुवाके चतुर्दशे याज्मानुवाक्या वक्तव्याः। तत्र “यः अपयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुं निर्वपेत” इत्यत्र पुरोनुवाक्यामाह—नवो नव इति। आदित्यस्य चन्द्रदीप्तिकारणत्वाच्चन्द्राभेदेनादित्य इह स्तूयते। चन्द्रमा जायमानः प्रतिदिनमुदयं गच्छन्नवो नवो भवति। शुक्लप्रतिपद्येककलायुक्तः। द्वितीयायां कलाद्वययुक्तः इत्येवं कलावृद्धियाभ्यां प्रतिदिनं नूतनत्वम्। चन्द्रवद्दी (न्द्रेदी) प्तिकारणभूत (णभूत) आदित्योपि प्रतिदिनं नूतनो भवति। स्वरूपे वृद्धिक्षयाभावेपि दक्षिणोत्तरगतिभ्यां नूतनत्वम्। स चाह्नां केतश्चिह्नं, तस्मिन्नुदिते सत्यहरिदमिति ज्ञायमानत्वात्। उषसां प्रभातकालानामग्र उपक्रमे प्राच्यामुदयमेति, तदनुरोधेन प्रातरग्निहोत्रादीनां प्रवृत्तेर्देवेभ्यो भागं विदधाति। तादृशश्चन्द्रकलावृद्धिक्षयहेतुरादित्य इह कर्मण्यागच्छन्दीर्घमायुः प्रतिरति प्रकर्षेण ददातु। तत्रैव याज्यामाह यमादित्या इति। यं चन्द्रसमंशुं स्थिरभूतैककलामात्रावशिष्टमादित्याशुक्लपक्षे प्रतिदिनमेकैककलाप्रदानेनाप्यायबन्ति। किंच, यमक्षितं पौर्णमास्यामक्षीणचन्द्रं कृष्णपक्षे प्रतिदिनं वह्न्यादयो देवाः स्वयमक्षितयः क्षयरहिता पिबन्ति, एकैकां कलामपक्षयन्ति। अत एव सोमोत्पतौ स्मर्यते “प्रथमां पिबते वह्निः”, इति। ज्योतिःशास्त्रप्रक्रियया त्वादित्यरश्मय एव स्वयमक्षितय एवैकैकां कलां पिबन्त्याच्छादयन्ति। तेन चन्द्रेणामृते (तमये) न राजा दीप्यमान आदित्यो वरुणो बृहस्पतिरित्येवमादयो भुवनस्य गोप्तारो देवा नोस्मान्रोगग्रस्तान्रोगं निवार्याप्याययन्तु। “यं कोमयेतान्नादः स्यादिति तस्मा एतं विधातुं निर्वपेदिन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे” इत्यत्र राजेन्द्रहविषः पुरोनुवाक्यारूपां स्वराडिन्द्रहविषो याज्यारूपामुभयाकारामृचं पठति प्राच्यामिति। हे इन्द्र त्वं प्राच्यां दिशि राजाधिपतिरसि। अपि च, हे वृत्रहन्नुदीच्यां वृत्रहा वैरिघातकोसि। किंच स्रोत्या नद्यो यव यन्ति तत्सर्वं ते जितन्। नद्यो हि सर्वांसु दिक्षु प्रवहन्ति। अतः सर्वत्र तव विजय इत्यर्यः। किंच, त्वं वृषभः कामानां वर्षयिता हव्यो होमयोग्यः सदक्षिणत एध्याहवनीयस्य दक्षिणभागे स्थितो भव। तत्र स्थित्वां हि ऋत्विग्भिर्हंविर्दीयते। राजेन्द्रहविषो याज्या, अधिराजेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति इन्द्र इति। इन्द्रः सर्वत्र जयत्येव न तु क्वापि पराजयते, सर्वषु राजस्वधिको राजा भूत्वा सर्वानन्यान्राजयाति अराज्ञामपि राज्यप्रदानेन राजत्वं संपादयति। किंच, सर्वेषां राज्ञामुपसद्यः शरण्यो नमस्कारार्हश्च यथासद्येन प्रकारेणासि तथा विश्वाः पृतनाः परकीयसेना अभिष्टीरभिभवतुं समर्थो भूयाः। अधिराजेन्द्रहविषो याज्या, स्वराडिन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृंच पठति अस्येदेवेति। इदेवेत्युभयं मिलित्वा वधारेण वर्तते। अपि च ननु चेत्यादिवन्निपातसमुदायस्यैकार्थत्वम्। प्ररिरिच इत्यत्र प्रशब्दो तिशब्दार्थे वर्तते। अस्येदेवास्येन्द्रस्यैव महित्व महिमा परितो दिवः पृथिव्या अन्तरिक्षाच्च प्ररिरिचे सर्वतो लोकत्रयमतिरिच्य वर्तत इत्यर्थः। किंचेन्द्रो रणाय युद्धार्थभाववक्ष आभिमुख्येन वहति सेनां प्रापयति। कीदृश इन्द्रः, स्वराट् स्वयमेव राजा न तु पर तन्त्रः। दमे गृहे विश्वगूर्तो विश्वानि सर्वाण्यायुधानि गूर्तान्युद्यतानि येनासौ विश्वगूर्तः। युद्धार्थं त्वरया निर्गन्तुं गृहेप्युद्यतायुध एव वर्तते, किमु वक्तव्यं रणभूभावित्यर्थः। स्वरितुं परकीयसेनानामुपरि गन्तुं शीलमस्येति स्वरिः। अमत्रोमाद्रोगात्क्षुद्रूपादन्नदानेन त्रायत इत्यमत्रः। य इन्द्रियकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेत् इत्यत्र राथंतरेन्द्रहविषः पुरोनुवाक्या, रैवतेन्द्रहविषो याज्येत्युभयरूपामृचं पठति अभि त्वेति। अदुग्धा धेनवो यथा वत्सान्प्रत्यादरेण हम्भारवं कुर्वन्ति तथा शूरेन्द्र त्वामभितो नोनुव पुनः पुनः स्तुमः। कीदृशं त्वाम्, अस्य जगतोजङ्गमस्य प्राणिजातस्येशानं तस्थुषः स्थाबरस्यापीशानं सुवर्दृशं स्वर्गस्य प्रदर्शयितारम्। राथंतेरेन्द्रहविषो याज्या, बार्हतेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति त्वा मिद्धीति। हे इन्द्र कारवः कर्तारो वयं त्वामित्त्वामेव हवामह आह्वयामः। किंनिमित्तं, वाजस्य सातान्नस्य दाननिमित्तम्। अत एव साताविति सप्तम्यन्ततया छन्दोगा अधियते। वृत्रेषु वैरिषु प्राप्तेषु सत्पतिं सन्मार्गपालकं त्वामाह्वयामः। नरो मनुष्या वयं काष्ठासु सर्वासु दिक्षु अर्वतः त्रुसेनागतानश्वान्दृष्ट्वा त्वामाह्वयामः। हि यस्मादेवं तस्माद्वीर्यदानेनास्मान्पालयेत्यर्थः। बार्हतेन्द्रहविषो याज्या वैरूपेन्द्रहविषः पुरोनुवाक्येत्युभररूपामृचं पठति यद्द्याव इति। हे इन्द्र यद्यपि शतं द्यावः स्युर्द्युलोकाः शतसंख्याका भवेयुः ,अपि च भूमयोपि शतसंख्याका भवेयुः, तथापि शतसंख्याकैरेवान्तरविशेषैर्युक्ते ते द्यावापृथिव्यौ जातं त्वामनु नाष्ट जातमात्रं त्वामैश्वर्येणानुकर्तुं न व्याप्नुतो न शक्नुत इत्यर्थः। तथा यद्यपि सूर्याः सहस्रसंख्याकाः स्युस्तथापि हे वज्रिंस्तेजसा त्वामनुकर्तुं न क्षमन्त इत्याभिप्रायः। वैरूपेन्द्रस्य याज्या, वैराजेन्द्रस्य पुरोनुवाक्येत्युभयरूपा कदा चनस्तरीरसीत्येषा नात्राम्नाता किंतु शाखान्तरवशाद्व्याहर्तव्या। सा च प्रथमकाण्ड एव व्याख्याता। वैराजेन्द्रस्य याज्या, शाक्वरेन्द्रस्य पुरोनुवाक्येत्युभयरूपामृचं पठति पिबा सोममिति। हे इन्द्र त्वं सोमं पिब। स च पीतः सोमस्त्वा मन्दतु त्वां हर्षयतु। हरिनामका अश्वा यस्यासौ हर्यश्वः हे हर्यश्व ते त्वदर्थमद्रिरूपांशुसवनादिरूपः पाषाणो यं सोमं सुषावाभिषुतयांस्त्वं (स्तं) पिबेति पूर्वत्रान्वयः। कीदृशोद्रि, सोतुरभिषोतुर्ऋत्विजो बाहुभ्यां सुयतः सुष्ठु नियमितः अत एव नार्वा न त्वेवाचीन्मे नियमनरहितः सोमं यत्र तत्र पातयित्वा विनाशयति। तादृशं सोमं पीत्वा वीर्यं देहीत्यभिप्रायः। शाक्केस्न्द्रस्य याज्या, रेवतेन्द्रस्य पुरोनुवाक्येत्युभयप्यामृचं पठति रेवतीर्न इति। रेवत्यो धनवत्य, सधमादोस्माभिः सह मादयन्त्यो हर्षयुक्ताः, तुविवाजा वह्यन्नोपेता आपो नोस्माकं स्वामिनीन्द्रे सन्तु अस्माकं सुखाय तिष्ठन्तु। याभिरद्भिः सह वयं क्षुमन्तः शब्दयन्त इन्द्रं स्तुवन्तो मदेन हृध्याम। यश्चक्षुष्कामः स्यात्तस्मा एतामिष्टिं निर्वपेदग्नये भ्राजस्वते पुरोडाशमाष्टाकपाल सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालम् इत्यत्राग्नेये कर्मणि याज्युनुवाक्ययोः प्रतीके दर्शयति। उदग्ने शुचय इति। उदग्ने शुचयस्तव शुक्रा इत्येषा पुरोनुवाक्या। सा च प्रथमकाण्डस्य तृतीयप्रपाठके व्याख्याता। वि ज्योतिषा बृहता भात्यग्निरित्येषा याज्या। सा तु प्रथमकाण्डस्य द्वितीयप्रपाठके व्याख्याता। सौर्ये कर्मणिपुरोनुवाक्याः प्रतीकं दर्शयति। उदु त्यमिति। सेयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्याता। तत्रैव याज्यामाह सप्त त्वेति। हे सूर्य देव त्वां सप्त हरितोश्वा रथे वहन्ति। कीदृशं त्वां शोचिष्केशं शोचींषि दीप्यमानाः केशस्थानीया रश्मयो यस्य तादृशम्। हे विचक्षणेति सूर्यविशेषणम्। तत्रैव विकल्पितां याज्यामाह चित्रं देवानामिति। चित्रं रक्तश्वेतादिविविधवर्णं देवानां रश्मीनामनीकं सैन्यसदृशं मण्डलमुदगादुदेति। कीदृशं मित्रादिदेवोपलक्षितस्य कृत्स्नस्य प्राणिजातस्येन्द्रियाधिष्ठातृत्वाच्चक्षुःस्थानीयम्। तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य चात्मा। स लोकत्रयमाप्राः सर्वतः पूरितवान्। वैश्वदेवी सांग्रहणीं निर्वपेद्ग्रामकामः इत्यत्र पुरोनुवाक्यामाह विश्वे देवा इति। विश्वे देवा युज्यं योग्यं षयः क्षीरवत्सारभूतं हविर्जुषन्ताम्। कीदृशा देवा, ऋतावृध ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः, ऋतु भिर्हवनश्रुतस्तैस्तैर्ऋतुभिरुपलक्षिते कर्मण्याह्वानस्य श्रोतारः। तत्रैव याज्यामाह विश्वे देवा इति। हे विश्वे देवा मे मदीयमिमं हवमाह्वान शृणुत। ये यूयमन्तरिक्षे स्थान्तरिक्षलोके स्थिता ये चोप समीपे पृथिव्यां स्थिता ये च द्यवि द्युलोके स्थ ये चाग्निजिह्वा अग्निरेव जिह्वा येषां तेग्निजिह्वा अग्निद्वारेण हविषः स्वीकर्तार उत वा न्ये पि वा यजत्रा यष्टव्यास्ते सर्वेपि अस्मिन्बर्हिषि यज्ञ आसद्योपविश्य मादयध्वं हृष्टा भवत यजमानं हर्षयध्वम्। अत्र विनियोग संग्रहः “आदित्येष्टौ नवोद्वे तु प्राच्यामित्यादिकं त्रय (चाष्टक) म्। राजादिगुणकेन्द्रस्य पुरोडाशसमूहके।।"

आग्नेय उदविज्योद्वे उदु त्यं जातवेदसम्। सप्त चित्रं त्रयं सौर्ये सांग्रहण्या उ (मु) मे इमे।

विश्वे देवा इति प्रोक्ता मन्त्राः सप्तदशैव हि।।” इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः ।। १४ ।। वेदार्थस्य प्रकाशेन तमो हर्दि निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थः प्रपाठकः।। ४ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ याज्याकाण्डं वैश्वदेवम् । 'यः पापयक्ष्मगृहीतस्स्यात्तस्मा एतमादित्यं चरुं निर्वपेत्' इत्यस्याः पुरोनुवाक्या - नवोनव इति त्रिष्टुप् ॥ अत्र चन्द्रगुणकीर्तनेनादित्य एव स्तूयते, तेषां चन्द्रगुणानामादित्याधीनत्वात् । तथा हि - चन्द्रो नामायं भास्वरः सलिलकटाहात्मा । यथाहुः -

सूर्योग्निमयो गोळः चन्द्रोम्बुमयस्स्वभावतस्स्वच्छः । इति ।

तस्मादस्य दिवसकररुचिसमाश्लेषेण भास्वरत्वं भवति । यथाह्नुः -

भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।

अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ।

तस्माच्चन्द्रमसो बिम्बं गोळार्धं सूर्याभिमुखं सदा चकास्ति । किं सर्वदा चकास्ति? किमिति नोपलभ्यते? श्रूयताम् - अमावास्यायां चन्द्रमस उपर्यादित्यः ; तदा चन्द्रमस उपरि यद्बिम्बार्धं तदशेषमवभासयति सविता । चन्द्रस्यामावास्योपलक्षितोपरिबिम्बे केन्द्राद्यथायथा पश्चादादित्योवलम्बते तथातथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते । तत्केन्द्रवशात् चन्द्रमसो बिम्बार्धशेषं आभासयति सविता । यावदेवास्योपलक्षितबिम्बपरिध्यवधेरधोवलम्बते तावत् चन्द्रमसो बिम्बस्या[स्यार्धम]स्माभिरुपलक्ष्यते, शेषमुपरिस्थितत्वान्नोपलभ्यते सूर्याभिमुखं भास्वरमपि, भूगोळविशेषवर्तिभिरस्माभिरुपलब्धुमयोग्यत्वात् । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावत्तिथिभेदेन शुक्लचन्द्र उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवन्ति । यथा दर्पणोदरे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं सवितृमरीचयोम्बुमये स्वभावश्यामेपि चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमपध्वंसयन्ति । तत्रायं विशेषः - यो यश्चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्लः उपलभ्यते ; तेन दक्षिणोत्तरयोश्शृङ्गयोः कालविशेषेणोन्नतिविशेषः । तत्र यावद्यावत्सवित्रा विश्लिष्टो भवति तावत्तावच्छुक्लप्रतिपत्प्रभृति चन्द्रमसि सविता संवर्धते । कृष्णप्रतिपत्प्रभृति असितिमा संवर्धते । एतावता जायमान आप्यायमानः क्षीयमाणः चन्द्रमा उपलभ्यते । उक्तं च निरुक्ते - 'तस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते' इति, श्रूयते च - 'सुषुम्नस्शूर्यरस्मिश्चन्द्रमा गन्धर्वः' इति । ननु कथं अस्तमिते सवितरि चन्द्रश्चकास्ति? नैष दोषः - भूमेर्दूरेण सूर्यमार्गः ; तेनोपरिमुखानां सूर्यमरीचीनां न व्यवधात्री भूतधात्री भवति । कृष्णपक्षप्रतिपदादिषु चन्द्रमसो बिम्बपूर्वभागं प्रत्यासन्नः सवितेति परमुच्छुक्लमुपपद्यते । अत्र यदुक्तं सौगतैः स्वत एव शुक्लस्य चन्द्रमसः सुर्यसन्निकर्षणाद्वैवर्ण्यं भवतीति, तदयुक्तम् । स्वभावतश्शुक्लस्य सूर्यसन्निकर्षस्स्याच्चेत्तदा शुक्लप्रतिपदादिषु चन्द्रमसो बिम्बस्यापरभागे वैवर्ण्यं स्यात्, सन्निकृष्टत्वात् तस्यापरभागस्य । ततश्चावाङ्मुखश्च[खं च]न्द्रबिम्बमुपलभ्येतेत्यलमतिप्रसङ्गेन ॥

एवं यश्चन्दमसा जायमानः प्रादुर्भवन् शुक्लप्रतिपदादिषु आदित्यस्यार्चिषा प्रकाशमानो नवोनवो भवति पुनःपुनः अभिनव एव भवति प्रजानामाह्लादहेतुर्भवति । 'अनुदात्तं च' इति द्वितीयो नवशब्दः अनुदात्तः । किं च – अह्नां तिथीनां केतुः तद्वत्केतयिता ज्ञापयिता । कित ज्ञाने । तिथिविभागहेतुत्वात् । उषसां रात्रीणां अग्रे गच्छति अग्रणीः भवति, रजनीनां कर्तृत्वात् । यद्वा - अह्नां केतुः अहरवसाने शुक्लपक्षे प्रतीच्यां दृश्यते, कृष्णपक्षे तु रत्रीणामवसाने प्राच्यां दृश्यते । एवमायन्नागच्छन् अयं देवेभ्यो भागं विदधाति तिथिविशेषनिबन्धनत्वात्सर्वयागानां, आदित्यसन्निकर्षविप्रकर्षनिबन्धनत्वात्सर्वतिथीनाम् । सूर्याचन्द्रमसोर्हि परस्परसन्निकर्षोमावास्या, विप्रकर्षः पौर्णमासीति । इत्थं महाप्रभावोयं चन्द्रमाः दीर्घमायुरस्य प्रतिरति वर्धयतु ॥

यद्वा - आदित्य एव चन्द्रमा उच्यते, चन्द्रस्य माता निर्माता उत्पादक इति । 'गतिकारकयोरपि' इत्यसिः, डित्वाट्टिलोपः । स जायमानो दिनेदिने प्राच्यामुद्यन् नवोनवो भवति सदोद्यन्नप्यपूर्व इव भवति । अह्नां केतुः दिवसकरत्वात् । उषसां रात्रीणां अग्रे अग्रतो गच्छति रात्रय एनमनुधावन्ति । एवमायन् उद्यन् देवेभ्यो भागं विदधाति, आदित्यगत्यधीनत्वात्सर्वकर्मणाम् । एवं महानुभावश्चन्द्रमसोप्युक्तवन्निर्माता आदित्यः दीर्घमायुर्वर्धयत्विति ॥

2 तत्रैव याज्या - यमिति त्रिष्टुप् ॥ यमंशुं रश्मिं आत्मीयरश्मिभूतं सोममादित्या आप्याययन्ति वर्धयन्ति, यं च सोममक्षितमविच्छिन्नं सर्वेष्वपि पर्वसु अक्षितयोऽक्षीणाः पित्रादयः पिबन्ति, तेन सोमेन सह राजा देवराजः वरुणश्च बृहस्मतिश्चाप्याययन्तु इममक्षीणं यजमानं वर्धयन्तु भुवनस्य भूतजातस्य गोपाः प्रवृत्तिप्रदाः ॥
3 'यं कामयेतान्नादस्स्यादिति तस्मा एतं त्रिधातुं निर्वपेदिन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे' इत्यस्याः प्रथमस्याः पुरोनुवाक्या, तृतीयस्याश्च याज्या - प्राच्यामिति त्रिष्टुप् ॥ 'जितं ते' इति तृतीयपादान्तः । हे इन्द्र त्वं प्राच्यां दिशि राजा स्वाम्यसि । अपिच उदीच्यामपि अधिराज इत्येव । यतस्त्वं वृत्रहा वृत्रस्य मेघस्य हन्तासि मेघं हत्वा उदकेन जीवयसि, हे वृत्रहन् वृत्रासुरस्य हन्तः । प्रदर्शनार्थं च दिग्द्वयोरुपादानं, सर्वास्वपि दिक्षु त्वमेव राजेति । कथं ज्ञायते इति? आह - यत्र स्रोत्या नद्यः यन्ति गच्छन्ति तत्सर्वं त्वया जितं तत्र सर्वं ते जितं जयः । सर्वत्र च नद्यो यन्ति, तस्मात्सर्वासु दिक्षु त्वं राजासीति । 'स्रोतसो विभाषाड्यड्ड्यौ' इति ड्यः । किञ्च - वृषभः वर्षयिता कामानाम् । हव्यः हविषा आराध्यः । एवं महानुभावस्त्वं दक्षिणत एधि भोक्तुं भव ... हविः भान्ति (?) हव्यः । यद्वा - हविर्हरसि त्वं हविः प्रतिगृहीतुं दक्षिणतो भव; दक्षिणतो हि स्थापयित्वा आहार्यादि दयिते, यथा - 'दक्षिणत एत' इति तद्वदिदं द्रष्टव्यम् ॥
4 अथ प्रथमस्य याज्या, द्वितीयस्य पुरोनुवाक्या - इन्द्र इति त्रिष्टुप् ॥ इन्द्रः सवर्दा जयाति जयति न तु कदाचिदपि पराजयातै पराजयं न प्रतिपद्यते । लेट्याडागमः, 'विपराभ्यां जेः' इत्यात्मनेपदम्, 'वैतोन्यत्र' इत्यैकारः । अपि च – अधिराजः अधिकं राजमानः, अधिकदीप्तिः । राजसु दीप्तिमत्सु चन्द्रादिषु मध्ये यो नाम कश्चिद्राजति तं राजयाति तस्मादयं जयतीति । ण्यन्ताल्लेटि पूर्ववदाडागमः । किञ्च - विश्वाः पृतनाः संग्रामान् अभिष्टीः आभिमुख्येनागच्छन्तीः । इषेर्गत्यर्थत्वात्कर्तरि क्तिन् 'मन्त्रे वृष' इति क्तिन् उदात्तत्वम्, शकन्धादित्वात्पररूपत्वम् । इच्छतेर्वा, आभिमुख्येन आगन्तुमिच्छन्तीः । ईदृशीस्सर्वाः पृतनाः उपसद्यो भूयाः भूयात् । प्रथमत्वेन नतिः । उपसीदतीत्युपसद्यः । 'कृत्यल्युटो बहुलम्' इति कर्तरि यत् । उपसदनमुपरोधनम् । षष्ठ्यभावश्छान्दसः । यथाऽयमिन्द्रस्सर्वैर्नमस्यः नमस्कार्यः असत् भवेत् । लेट्यडागमः, पूर्वत्र 'हि च' इति निघाताभावः । उत्तरत्र यच्छब्दयोगात् । नमश्शब्दयोगात् 'नमोवरिवश्चित्रङः' इति क्यच्, तदन्तादचो यत् । यद्वा - नमस्यः नमस्कारार्हः । 'तदर्हति' इति छान्दसो यत् । तथा विश्वाः पृतना अभिभवत्विति । यद्वा - विश्वाः पृतनाः अभिभूयात् । विध्यादिलिङि शपो लुक् । तथा च सर्वैर्नमस्यो भवेत् तदनुरूपं जयाति, न च पराजयते, सोयमस्मानन्नादान् करोत्विति ॥
5 अथ तत्रैव द्वितीयस्य याज्या, तृतीयस्य पुरोनुवाक्या - अस्येदिति त्रिष्टुप् ॥ अस्यैवेन्द्रस्य । इदिति पादपूरणे । महित्वं महत्त्वं प्ररिरिचे प्ररिरिच्यते । प्रशब्दो धात्वर्थस्य निवृत्तिमाचष्टे, यथा प्रस्मरणं प्रस्थानमिति । एवं रेकनिवृत्तिः प्ररेकः पूरणम् । कुतः प्ररिरिचे? दिवः पृथिव्या अन्तरिक्षाच्च । परि उपरि । अध्यर्थे परिशब्दः । दिवं पृथिवीं अन्तरिक्षं चातीत्य प्ररिरिचे । छान्दसो लिट् । स्वराट् स्वायत्तदीप्तिः, स्वयं राजतीति स्वराट्, दमे दमविषये दमयितव्ये स्वराट् । दमेः घञि 'नोदात्तोपदेशस्य' इति वृद्ध्यभावः । विश्वगूर्तः सर्वस्मिन् काले उद्गूर्णः । दासीभारादिर्द्रष्टव्यः, बहुव्रीहिस्वरस्योपलक्षणत्वात् 'बहुव्रीहौ विश्वं संज्ञायाम्' इत्येतद्भवति । यद्वा - विश्वमायुधादिकं गूर्तमुद्यतं यस्येति बहुव्रीहिः । 'नसत्तनिषत्त' इत्यत्र गूर्तशब्दो निपातितः । स्वरिः स्वरणीयः कीर्तनीयः । स्वृ शब्दे, 'अचः' इतीप्रत्ययः । शोभनारिरित्वं नव[रिति वा] । अव] ग्रहो नेष्यते । अमत्रः अमनकुशलः शत्रुभञ्जनादिकुशलः । मात्रारहितोमत्रो महानित्येके । अत्र पृषोदरादित्वात्स्वरूपस्वरादिसिद्धिः । एवं महानुभावोयं इन्द्रो रणाय आववक्षे आभिमुख्येन वहति । उक्तं कर्मणस्सम्प्रदानत्वम् । वहेर्लेटि 'सिब्बहुलं लेटि' इति सिप्, 'लोपस्त आत्मनेपदेषु' इति तलोपः, 'बहुलं छन्दसि' इति शपश्श्लुः । मेघानां संग्रामोत्पादनेन वृष्टिमुत्पाद्य प्रभूतान्नादिना अस्मननन्नादान् करोत्विति ॥
6 अथ 'य इन्द्रियकामो वीर्यकामस्स्यात्तमेतया सर्वपृष्ठया याजयेत्' इत्यस्यां सर्वपृष्ठायामिष्ट्यां प्रथमस्य 'यदिन्द्राय राथन्तराय निर्वपति' इत्यस्य प्रथमस्य हविषः पुरोनुवाक्या, षष्ठस्य च याज्या - अभि त्वेति पथ्याबृहती, तृतयिपादस्य द्वादशाक्षरत्वात् ॥ हे शूर विक्रान्त इन्द्र त्वां अभिनोनुमः आभिमुख्येनात्यर्थं नुमः स्तुमः । नौतेर्यङ्लुगन्तात् लट् । अदुग्धा धेनव इव यथा तावद्वत्से आभिमुख्येन शब्दयन्ति । कीदृशम्? ईशानं ईश्वरं अस्य जगतः जङ्गमस्य तस्थुषस्थावरस्य च सुवर्दृशं स्वर्गाख्यस्य परमसुखस्य द्रष्टारम् । स त्वमिन्द्रियं वीर्यं चास्मभ्यं देहीति ॥
7 अथ तस्यैव प्रथमस्य याज्या, 'इन्द्राय बार्हताय' इत्यस्य च पुरोनुवाक्या - त्वामिद्धीति पूर्ववत्पथ्याबृहती ॥ 'नरः' इति तृतीयपादान्तः । हे इन्द्र त्वामित् त्वामेव हवामहे आह्वयामः । वाजस्यान्नस्य साता सातौ सातिनिमित्तमस्मभ्यं देहि वाजमिति त्वामेवाह्वयामः । कारवस्स्तोतृत्वेन शिल्पिनः । 'कृपावाजि' इत्युण्प्रत्ययः । सनेः क्तिनि 'जनसनखनाम्' इत्यात्वम्, 'सुपां सुलुक्' इति सप्तम्या आकारः, 'ऊतियूति' इत्यादिना क्तिन उदात्तत्वम् । 'हिच' इत्याख्यातस्य निघाताभावः । हि यस्माद्वाजस्य लाभाय त्वामेवाह्वयामः, यस्माच्चारिषूपस्थितेषु सत्पतिं सतां पातारं विदुषां पालयितारं त्वामेवाह्वयामः नरः सर्वेपि वयं मनुष्याः, यस्माच्च त्वां काष्ठासु दिक्षु अर्वत अरणवत उदकस्य च सात्यर्थं त्वामेवाह्वयामः, तस्मात्सर्वस्मादभिमतसंपादनेन इन्द्रियं वीर्यं चास्मभ्यं देहीति ॥
8 अथ द्वितीयस्य याज्या, तृतीयस्य पुरोनुवाक्या - 'इन्द्राय वैरूपाय' इत्यस्य । यद्द्याव इति पूर्ववत्पथ्याबृहती । 'अनु इति तृतीयपादन्तः ॥ हे इन्द्र ते तव यत् यद्यपि द्यावः द्युलोकाः शतं स्युः उत अपिच भूमीः भूमयोपि यद्यपि शतं स्युः, तथापि वज्रिन् रोदसी द्यावापृथिव्यौ त्वां जातमात्रमपि नान्वष्ट नाश्नुवाते नानुव्याप्नुतः तवैश्वर्याधारत्वाय न पर्याप्नुतः । तथा यद्यपि सहस्रं सूर्यास्स्युः, तथापि ते त्वां तेजसा नान्वश्नुते । अश्नोतेः छान्दसे लङि वचनव्यत्ययेनैकवचनम्, शपो लुक्, 'बहुलं छन्दस्यमाङ्योगेपि' इत्यडागमः । यद्यपि शतं द्यावस्स्युः भूमयश्च सूर्याश्च सहस्रं ये रोदसी ये च सूर्याः त इन्द्रं नान्वष्ट । 'नपुंसकमनपुंसकेन' इति नपुंसकस्य शेषः, एकवचनं च ' ॥
9 अथ तृतीयस्य याज्या, चतुर्थस्य 'इन्द्राय वैराजाय' इत्यस्य पुरोनुवाक्या - पिबा सोममिति विराट् त्रिपदा ॥ हे इन्द्र सोमं पिब, पीतश्चायं सोमः त्वां मन्दतु तर्पयतु । मदि स्तुतिमोदमदस्वप्नगतिषु; व्यत्ययेन परस्मैपदम् । हे हर्यश्व हरिततुरङ्ग ते त्वदर्थं यं सोमं अद्रिः ग्रावा सुषाव अभिषुतवान् । किं स्वयमेव? नेत्याह - नेतुः अभिषोतुः ऋत्विजः । साधुकारिणि तृन् । तस्य बाहुभ्यां सह अद्रिस्सुषाव । यद्वा - सोतुर्बाहुभ्यां सुयतः सुष्ठु यन्त्रितः, अत एव नार्वा नारणशीलः स्वकार्यकरणे सुप्रतिष्ठितः । यद्वा - अतः न अर्वा न पापः, कार्यविरोधित्वमेव पापम् । अर्तेः 'अन्येभ्योपि दृश्यते' इति वनिप् । ततस्तुष्टस्त्वमस्मभ्यं अभिमतं देहीति ॥
10 अथ चतुर्थस्य याज्या, 'कदा चन' इति सूत्रकारवचनात् सैव पञ्चमस्य च 'इन्द्राय शाक्वरार्य' इत्यस्य पुरोनुवाक्या, पञ्चमस्य याज्या - रेवतीर्न इति गायत्री ॥ इयमेव षष्ठस्य च 'इन्द्राय रैवताय' इत्यस्य पुरोनुवाक्या । व्याख्याता चेयं 'अन्वह मासाः' इत्यत्र । रेवत्यो धनवत्यः सधमादः सहमाद्यन्त्यः । तुविवाजाः बह्वन्नाः समृद्धान्ना वा अस्माकं सन्तु अस्मदीया वा इन्द्रे सन्तु ईदृशयस्सन्तु आपो गावो वा । याभिर्वयं क्षुमन्तः कीर्तिमन्तः मदेम माद्येमेति ॥
11 'यश्चक्षुष्कामस्स्यात्तस्मा एतामिष्टिं निर्वपेदग्नये भ्राजस्वते पुरोडाशमष्टाकपालं सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालम्' इत्यत्र 'अग्नये भ्राजस्वते' इत्यस्य पुरोनुवाक्या - उदग्ने शुचयस्तवेति गायत्री ॥ व्याख्यातेयं 'त्वमग्ने रुइद्र' इत्यत्र । तस्य इह प्रतीकग्रहणम् । हे अग्ने ते तव शुक्राः निर्मलाः शुचयः रश्मयः भ्राजन्तः राजन्तः उदीरते उद्गच्छन्ति तव । किं च - तवार्चयः तेजांसि ज्योतींषि ग्रहनक्षत्राणि भवन्ति । यद्वा - तवार्चयितारः ज्योतींषि भवन्तीति ॥
12 तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयमपि 'कृणुष्व पाजः' इत्यत्र व्याख्याता । प्रतीकग्रहणमत्रास्या गृह्यते । अयमग्निः बृहता ज्योतिषा विभाति विविधं भाति, विश्वानि च महित्वा माहात्म्यानि आविष्कृणुते आविष्करोति । अदेवीः अदेवन शीलाश्च दुरेवाः दुःखेन गन्तव्या मायाः प्रसहते प्रकर्षेणाभिभवतु । किं च – शृङ्गे गोशृङ्गस्थानीये ज्वाले शिशीते निशितीकरोति । किमर्थं? रक्षसो विनाशार्थमिति ॥
13 अथ सौम्यस्य चरोः पुरोउनुवाक्या - उदु त्यमिति गायत्री ॥ व्याख्याता चेयं ग्रहप्रश्ने । प्रतीकग्रहणमिदम् । देवं सूर्यं जातवेदसं जातानां वेदितारं देवं केतवो रश्मयः उद्वहन्ति विस्वस्य लोकस्य दृशे दर्शनार्थमिति ॥
14 तत्रैव पुरोनुवाक्या विकल्पयते - सप्त त्वेति गायत्री ॥ हे देव सूर्य त्वां सप्त सर्पणशीलाः हरितः रसभरणा रश्मयः रथे रंहसो रमन्तेऽस्मिन्नाप इति वा रथे मण्डले वहन्ति शोचिष्केशं दीप्तरश्मिं केशस्थानीया रश्मयः केशाः । हे विचक्षण प्रकाशक । चष्टिर्दर्शनकर्मा । विविधं चष्टे पश्यतीति विचचक्षणः । 'अनुदात्तेतश्च हलादेः' इति युच् । स त्वमस्मभ्यं चक्षुर्देहीति ॥

तत्रैव याज्या - चित्रमिति त्रिष्टुप् ॥ चित्रं चायनीयं सर्वलोकपूजितं देवानां रश्मीनामिन्द्रादीनां वा ऋत्विजां अनीकं मुखस्थानीयं समूहस्थानीयं वा उदगादुद्गच्छति सर्वात्मकसमष्टिरूपत्वात् । किं च – चक्षुस्थानीयं ख्यातिकरं वा मित्रादीनां । अयं देवो द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च आप्राः आ (प्रागाः) पूरयति तेजसा । प्रा पूरणे, पूरुषव्यत्ययः । जगतः जङ्गमस्य सर्वस्य तस्थुषः स्थावरस्य सर्वस्यात्मा सूर्यः एकः प्रेरको वा सर्वस्य तस्मादात्मा ; सर्वोपकारकत्वात् । यद्वा - 'स यश्चायं पूरुषे । यश्चासावादित्ये । स एकः' इति दर्शनात् आत्मा सर्वस्य । अत्राचार्येण 'समानी याज्यानुवाक्ये भवतः' इत्येतदनुसारेण 'उदग्ने शुचयस्तव' 'विज्योतिषा' 'उदु त्यं जातवेदसम्' 'चित्रं देवानाम्' इति हविषां याज्यानुवाक्याः 'उदुत्यं जातवेदसम्' 'सप्त त्वा हरितो रथे' 'चित्रं देवानाम्' इति पिण्डान् प्रयच्छति इति ॥

16 अथ 'वैश्वदेवीं सांग्रहणीं निर्वपेद्ग्रामकामः' इत्यस्य पुरोनुवाक्या - विश्वे देवा ऋतावृध इति गायत्री ॥ विश्वेदेवाः ऋतावृधः ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारः । ण्यन्तात्क्विप्, 'बहुलमन्यत्रापि' इति णिलुक्, 'अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । हवनश्रुतः आह्वानस्य श्रोतारः आह्वानप्रयोजनस्य कर्तार इति । ह्वयतेर्लेटि 'बहुलं छन्दसि' इति संप्रसारणम् । ते ऋतुभिः कालावयवैः पर्वादिभिस्सह जुषन्तां सेवन्तां युज्यं योग्यं पयः पयसि चरुं अत एव वचनादिति ॥
17 त्रतत्रैव याज्या - विश्वे देवाः शृणुतेति त्रिष्टुप् ॥ हे विश्वेदेवाः मे मम इमं हवमाह्वानं शृणूत । ये यूयमन्तरिक्षे स्थ, ये च उप समीपे पृथिव्यां स्थ, ये च दिवि द्युलोके स्थ, ये चाग्निजिह्वाः ये चाग्नेः जिह्वायां स्थिताः हविर्भाजः । तात्स्थ्यात्ताछब्द्यम् । यद्वा - अग्निर्जिह्वास्थानीयो येषाम् । छान्दसमन्तोदात्तत्वम् । उतवा अपिवा ये यजत्राः यजनीयाः पूजामात्रभाजः । ते सर्वेपि यूयं अस्मिन् बर्हिषि यज्ञे आसाद्य आसित्वा मादयध्वं तृप्यत । मद् तृप्तियोगे, चौरादिकः, अनुदात्तेत्, तृप्ताश्चास्माकं ग्रामं साधयतेति ॥
इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये द्वितीये काण्डे चतुर्थे प्रश्ने चतुर्दशोनुवाकस्समाप्तः ॥

समाप्तश्च प्रपाठकः ॥

हरिः ओं ॥

—----------------------

पञ्चशत् 2 #
TS 2.4.14.2 TS 2.4.14.2
-ज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ ॥ इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथाऽस॑त् ॥ अ॒स्येदे॒व प्ररि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥ अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑न- [ ]
पदपाठः (Word-by-word)
जि॒तम् । ते॒ । द॒क्षि॒ण॒तः । वृ॒ष॒भः । ए॒धि॒ । हव्यः॑ ॥ इन्द्रः॑ । ज॒या॒ति॒ । न । परेति॑ । ज॒या॒तै॒ । अ॒धि॒रा॒ज इत्य॑धि - रा॒जः । राज॒स्विति॒ राज॑ - सु॒ । रा॒ज॒या॒ति॒ ॥ विश्वाः᳚ । हि । भू॒याः । पृत॑नाः । अ॒भि॒ष्टीः । उ॒प॒सद्य॒ इत्यु॑प - सद्यः॑ । न॒म॒स्यः॑ । यथा᳚ । अस॑त् ॥ अ॒स्य । इत् । ए॒व । प्रेति॑ । रि॒रि॒चे॒ । म॒हि॒त्वमिति॑ महि - त्वम् । दि॒वः । पृ॒थि॒व्याः । परीति॑ । अ॒न्तरि॑क्षात् ॥ स्व॒राडिति॑ स्व - राट् । इन्द्रः॑ । दमे᳚ । एति॑ । वि॒श्वगू᳚र्त॒ इति॑ वि॒श्व-गू॒र्तः॒ । स्व॒रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥ अ॒भीति॑ । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु॑ग्धाः । इ॒व॒ । धे॒नवः॑ ॥ ईशा॑नम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.4.14.3 TS 2.4.14.3
-म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां ॅवृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥ यद्द्याव॑इन्द्रतेश॒तꣳ श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्थ् स॒हस्रꣳ॒॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यन्ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।
पदपाठः (Word-by-word)
अ॒स्य । जग॑तः । सु॒व॒र्दृश॒मिति॑ सुवः - दृश᳚म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥ त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्प॑ति॒मिति॒ सत् - प॒ति॒म् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥ यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः᳚ । उ॒त । स्युः ॥ न । त्वा॒ । व॒ज्रि॒न्न् । स॒हस्र᳚म् । सूर्याः᳚ । अन्विति॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥ पिब॑ । सोम᳚म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒षाव॑ । ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ । अद्रिः॑ ॥
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.4.14.4 TS 2.4.14.4
सो॒तुर्बा॒हुभ्याꣳ॒॒ सुय॑तो॒ नार्वा᳚ ॥ रे॒वती᳚र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒, वि ज्योति॒षोदु॒ त्यं जा॒तवे॑दसꣳस॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं ॅविचक्षण ॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ऽग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑ - [ ]
पदपाठः (Word-by-word)
सो॒तुः । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । सुय॑त॒ इति॒ सु - य॒तः॒ । न । अर्वा᳚ ॥ रे॒वतीः᳚ । नः॒ । स॒ध॒माद॒ इति॑ सध - मादः॑ । इन्द्रे᳚ । स॒न्तु॒ । तु॒विवा॑जा॒ इति॑ तु॒वि - वा॒जाः॒ ॥ क्षु॒मन्तः॑ । याभिः॑ । मदे॑म ॥ उदिति॑ । अ॒ग्ने॒ । शुच॑यः । तव॑ । वीति॑ । ज्योति॑षा । उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । स॒प्त । त्वा॒ । ह॒रितः॑ । रथे᳚ । वह॑न्ति । दे॒व॒ । सू॒र्य॒ ॥ शो॒चिष्के॑श॒मिति॑ शो॒चिः - के॒श॒म् । वि॒च॒क्ष॒णेति॑ वि - च॒क्ष॒ण॒ ॥ चि॒त्रम् । दे॒वाना᳚म् । उदिति॑ । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ॥ एति॑ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.4.14.5 TS 2.4.14.5
श्च ॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्. हवन॒श्रुतः॑ । जु॒षन्तां॒ ॅयुज्यं॒ पयः॑ ॥ विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन् ब॒र्॒.हिषि॑ मादयद्ध्वं ॥
पदपाठः (Word-by-word)
च॒ ॥ विश्वे᳚ । दे॒वाः । ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ । ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । ह॒व॒न॒श्रुत॒ इति॑ हवन - श्रुतः॑ ॥ जु॒षन्ता᳚म् । युज्य᳚म् । पयः॑ ॥ विश्वे᳚ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव᳚म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उपेति॑ । द्यवि॑ । स्थ ॥ ये । अ॒ग्नि॒जि॒ह्वा इत्य॑ग्नि - जि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒सद्येत्या᳚ - सद्य॑ । अ॒स्मिन्न् । ब॒र्॒.हिषि॑ । मा॒द॒य॒द्ध्व॒म् ॥
पदसंख्या: 30