अनुवाकः 1 TS 2.4.1

(A1)

(वृ॒णा॒म॒है॒ यत् - पु॒रस्ता॒द् रक्षाꣳ॑सि- वपेद॒ग्नये॑ विबा॒धव॑त - ए॒वं - च॒त्वारि॑ च)

अनुवाकः 1 - Complete Audio

TS 2.4.1 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚ऽन्यत॑ आस॒न्नसु॑रा॒
PS1.2 रक्षाꣳ॑सि पिशा॒चास्ते᳚ ऽन्यत॒स्तेषां᳚ दे॒वाना॑मु॒त
PS1.3 यदल्पं॒ ॅलोहि॑त॒मकु॑र्व॒न् तद्-रक्षाꣳ॑सि॒ रात्री॑भिरसुभ्न॒न्
PS1.4 तान्थ् सु॒ब्धान् मृ॒तान॒भि व्यौ᳚च्छ॒त्
PS1.5 ते दे॒वा अ॑विदु॒र्यो वै
PS1.6 नो॒ऽयं म्रि॒यते॒ रक्षाꣳ॑सि॒ वा
PS1.7 इ॒मं घ्न॒न्तीति॒ ते रक्षाꣳ॒॒स्युपा॑मन्त्रयन्त॒
PS1.8 तान्य॑ब्रुव॒न्. वरं॑ ॅवृणामहै॒ य
PS1.9 - [ ]
PS2.1 -दसु॑रा॒न् जया॑म॒ तन्नः॑ स॒हास॒दिति॒
PS2.2 ततो॒ वै दे॒वा असु॑रानजय॒न्
PS2.3 तेऽसु॑रान् जि॒त्वारक्षाꣳ॒॒स्यपा॑नुदन्त॒ तानि॒ रक्षाꣳ॒॒स्यनृ॑तम
PS2.4 क॒र्तेति॑ सम॒न्तं दे॒वान् पर्य॑विश॒न्
PS2.5 ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते᳚ऽग्नये॒
PS2.6 प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒
PS2.7 प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्॒.
PS2.8 यान्ये॒व पु॒रस्ता॒द्-रक्षाꣳ॒॒स्या - [
PS2.9 ]
PS3.1 -स॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑
PS3.2 विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षाꣳ॒॒स्यास॒न् तानि॒
PS3.3 तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒
PS3.4 यान्ये॒व प॒श्चाद्-रक्षाꣳ॒॒स्यास॒न् तानि॒ तेनापा॑नुदन्त॒
PS3.5 ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒
PS3.6 यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स
PS3.7 स्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजेता॒ग्नये॒ प्रव॑ते
PS3.8 पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते॒ -
PS3.9 [ ]
PS4.1 ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते
PS4.2 नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्-भ्रातृ॑व्य॒स्तं तेन॒
PS4.3 प्रणु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य
PS4.4 ए॒वैने॑न स॒दृङ्तं तेन॒ वि
PS4.5 बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य
PS4.6 ए॒वास्मा॒त् पापी॑या॒न् तं तेनाप॑
PS4.7 नुदते॒ प्र श्रेयाꣳ॑सं॒ भ्रातृ॑व्यं
PS4.8 नुद॒तेति॑ स॒दृशं॑ क्रामति॒ नैनं॒
PS4.9 पापी॑यानाप्नोति॒ य ए॒वं (
PS4.10 ) ॅवि॒द्वाने॒तयेष्‌ट्या॒ यज॑ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.4.1.1 TS 2.4.1.1
दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षाꣳ॑सि पिशा॒चास्ते᳚ ऽन्यत॒स्तेषां᳚ दे॒वाना॑मु॒त यदल्पं॒ ॅलोहि॑त॒मकु॑र्व॒न् तद्-रक्षाꣳ॑सि॒ रात्री॑भिरसुभ्न॒न् तान्थ् सु॒ब्धान् मृ॒तान॒भि व्यौ᳚च्छ॒त् ते दे॒वा अ॑विदु॒र्यो वै नो॒ऽयं म्रि॒यते॒ रक्षाꣳ॑सि॒ वा इ॒मं घ्न॒न्तीति॒ ते रक्षाꣳ॒॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न्. वरं॑ ॅवृणामहै॒ य - [ ]
पदपाठः (Word-by-word)
दे॒वाः । म॒नु॒ष्याः᳚ । पि॒तरः॑ । ते । अ॒न्यतः॑ । आ॒स॒न्न् । असु॑राः । रक्षाꣳ॑सि । पि॒शा॒चाः । ते । अ॒न्यतः॑ । तेषा᳚म् । दे॒वाना᳚म् । उ॒त । यत् । अल्प᳚म् । लोहि॑तम् । अकु॑र्वन्न् । तत् । रक्षाꣳ॑सि । रात्री॑भि॒रिति॒ रात्रि॑-भिः॒ । अ॒सु॒भ्न॒न्न् । तान् । सु॒ब्धान् । मृ॒तान् । अ॒भि । वीति॑ । औ॒च्छ॒त् । ते । दे॒वाः । अ॒वि॒दुः॒ । यः । वै । नः॒ । अ॒यम् । म्रि॒यते᳚ । रक्षाꣳ॑सि । वै । इ॒मम् । घ्न॒न्ति॒ । इति॑ । ते । रक्षाꣳ॑सि । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ । तानि॑ । अ॒ब्रु॒व॒न्न् । वर᳚म् । वृ॒णा॒म॒है॒ । यत् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे चतुर्थः प्रपाठकः) । (भ्रातृव्यवत इष्टिविधिः (अथ द्वितीयकाण्डे चतुर्थः प्रपाठके प्रथमोनुवाकः)। (भ्रातृव्यवत इष्टिविधिः) यस्य निःश्वसितं वेदा यो वेदेभ्योखिलं जगत्। निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।

"प्रपाठके द्वितीये च तृतीये चेष्टयः क्रमात्। प्रोक्तास्तत्रावशिष्टास्तु वक्ष्यन्तेस्मिंश्चतुर्थके। चतुर्थस्य प्रथमानुवाके भ्रातृव्यवतः स्पर्धमानस्य त्रिहष्विकां कांचिदिष्टिं विधातुं प्रस्तौति। देवा मनुष्या इति। देवानामसुरादीनां च सैन्यद्वयं युध्दाय संनद्धमासीत्। असुराणां रक्षसां चास्त्येवान्तरजातिभेदः। तदीये युध्दे स्वल्पप्रहारेण देवानां शरीरे यल्लोहितमितरेकुर्वंस्तल्लोहितस्थानं रक्षांसि प्रतिदिनं रात्रिष्वागत्य केनचिद्विषादिप्रयोगेणासुभ्नन्क्षुभितं कृतवन्तः। तदानीमेव तेन क्षोभेण देवा म्रियन्ते। तान्मृतानभिलक्ष्य पश्चाद्व्यौच्छद्रात्रिः प्रभातं प्राप्तवती। ततो देवा रक्षसां कृत्यमिदभित्यवगत्य रक्षांस्युपामन्त्रयन्तोत्कोचं प्रतिश्रुत्य स्वाधीनानि कृतवन्तः। ततो रक्षांसि विजयफले भागं संप्रार्थ्य स्वसैन्यान्निर्गत्य देवसैन्ये प्रविष्टानि। ततो देवा असुराञ्जित्वा रक्षांस्यपनोदितवन्तः। तानि रक्षांसि देवा अनृतमकुर्वन्निति निश्चत्य प्रहर्तुं परितो वेष्टनमकुर्वन्। तदानीं देवा अग्नौ स्वकार्यसिध्दिमयाचन्त। याचित्वा त्रिहविष्कामिष्टिं निरवपन्। तत्र प्रथमस्य हविषः प्रवानग्निर्देवता, याज्यापुरोनुवाक्योः प्रप्रायमग्निर्भरतस्येत्यादिकयोः श्रुतः प्रशब्दो यस्याग्नेरस्ति सोयं प्रवान्। द्वितीयस्य हविषो विबाधवानग्निर्देवता, वि पाजसा पृथुनेत्यस्मिन्मन्त्रे श्रूयमाणो विबाधशब्दो यस्याग्नेरस्ति सोयं विबाधवान्। तृतीयस्य हविषः प्रतीकवानग्निर्देवता, स त्वमग्ने प्रतीकेनेति मन्त्रे प्रतीकशब्दो यस्याग्नेरस्ति सोयं प्रतीकवान्। तत्र प्रवतोग्नेरिष्ट्या पूर्वस्यां दिशि रक्षांसि प्रणोदितवन्तः। विभाधवतोग्नेरिष्ट्या दक्षिणोत्तरयोः पार्श्वयो रक्षांसि विबाधितवन्तः। प्रतीकवतोग्नेरिष्ट्या प्रतीच्यां दिशि रक्षांस्यपनोदितवन्तः। ततो देवा विजयिनोभवन्नसुराः पराजिता अभवन्। इष्टिं विधत्ते यो भ्रातृव्यवनिति। क्षिविधो हि भ्रतृव्यः, प्रबलः समानबलो हीनवलश्चेति। तोषां त्रयाणां क्रमेण त्रिभिरहविर्भिरपाकरणं भवति। वेदनं प्रशंसति प्र श्रेयांसमिति। भ्रातृव्यं श्रेयांसे प्रणुदते, सदृशमतिक्रामति, पापीयांस्तु न प्राप्नोत्येव।।इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके प्रथमोनुवाकः।।१।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीय संहितीयां

द्वितीय काण्डे

चतुर्थप्रपाठकः ॥

1 देवा मनुष्या इत्यादि ॥ अन्यतः एकस्मिन् पक्षे देवादयोऽभवन् । असुरादयोऽप्येकस्मिन् । 'नपुंसकमनपुंसकेन' इत्येतद्व्यत्ययेन न प्रवर्तते । अथ तेषां देवानां शरीरेषु असुरादयः यदल्पमपि लोहितमकुर्वन् व्रणमुदपादयन् तत् असुरपक्षपातीनि रक्षांसि रत्रीभिरसुभ्नन् रात्रिष्वागम्य धर्षितमकुर्वन्, येन सुम्भनेन ते मृतास्स्युः । ततस्तान् सुब्धान् [कृतव्रणान्] तेनैव हेतुना मृतान् अभिव्यौच्छत् रात्रिरुपरताऽभवत् ; रात्र्यवसाने मृतानपश्यन्निति यावत्, व्रणाद्युत्क्षोभस्य रक्षोहेतुत्वात् ॥
2 ते देवा इत्यादि ॥ गतम् । तन्नस्सहेति । अस्मत्पक्षे युष्माभिर्वर्तितव्यमिति । ततो रक्षोभिस्सहायैः देवाः असुरानजयन् । जयानन्तरं रक्षांसि अपानुदन्त ॥
3 अथ देवैरपनुन्नानि रक्षांसि देवान् समन्तं पर्यविशन् परीत्य देवानां शरीरादिष्वनुप्रावेश्याबाधन्त । किं वदन्तीत्याह – अनृतमसत्यं अकर्त कृतवन्तो यूयमिति अन्याय्यं ख्यापयन्ति । निरुद्ध्येव स्थिता[नि] इति वा ॥
4 अथैवं तैरभिभूयमाना देवा अग्नावनाथन्त; ऐश्वर्यमारोपयन् अग्निं नाथयन्ति स्मेति यावत् । यद्वा - अग्नौ याचितृत्वेनावर्तन्त । नाथृ नाधृ याच्ञोपतापैश्वर्याशीष्षु । त्वया वयं रक्ष्या इति । तत एतां त्रिहविष्कामिष्टिमग्नये निरवपन् देवाः । प्रवते । प्रवत्, 'उपसर्गाच्छन्दसि' इति वतिः । विश्लेष्य बाधो विबाधः, तद्द्वान् तत्समर्थः । प्रतिकूला वृत्तिः तद्वान् प्रतीकवान् ॥
5 पुरस्तादिति ॥ पूर्वस्यां दिशि । 'अस्ताति च' इति पुरादेशः । प्रहत[थम]त्वात्तस्याः । प्राणुदन्तेति । प्रथमतः उत्पत्तावेवानुदन् । अभित इति । दक्षिणत उत्तरतश्च । व्यबाधन्तेति । विश्लेष्यानाशयन् । पश्चादिति । अपरस्यां दिशि । 'पश्चात्' इति निपात्यते । अपानुदन्तेति । अपरस्यां दिशि अपकृष्यानाशयन् । तत इति । रक्षःपीडाया निर्मुक्ता भूतिमन्तोऽभवन् असुरानजयन्नित्यर्थः । अत एवाह – पराभूता असुरा इति ॥
6 य इत्यादि ॥ गतम् । श्रेयान् प्रशस्यतरः । तं तावत्प्रणुदते स्वरूपाच्च्यावयति । सदृङिति । समानं पश्यतीति सदृङ् । 'समानान्ययोश्च' इति दृग्भावः, 'दृक्स्ववस्स्ववतसां छन्दसि' इति नुम् । विबाधत इति । विश्लेष्य नाशयति । किं नैनं कदाचिदपि पीडा प्राप्नोति । साम्यमस्य निवर्तयति स्वयमतिशेत इति यावत् । पापीयान् पापतरः तमपनुदते नाशयति यथास्य न कदाचिदनुकरोति ॥
7 अथ वेदितुस्स्तुतिः - श्रेयांसं प्रणुदते, सदृशमतिक्रामति, नैनं कदाचिदपि भ्रातृव्य आप्नोति । गतमन्यत् ॥
इति द्वितीये चतुर्थे प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.4.1.2 TS 2.4.1.2
-दसु॑रा॒न् जया॑म॒ तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न् तेऽसु॑रान् जि॒त्वारक्षाꣳ॒॒स्यपा॑नुदन्त॒ तानि॒ रक्षाꣳ॒॒स्यनृ॑तम क॒र्तेति॑ सम॒न्तं दे॒वान् पर्य॑विश॒न् ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते᳚ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्॒. यान्ये॒व पु॒रस्ता॒द्-रक्षाꣳ॒॒स्या - [ ]
पदपाठः (Word-by-word)
असु॑रान् । जया॑म । तत् । नः॒ । स॒ह । अ॒स॒त् । इति॑ । ततः॑ । वै । दे॒वाः । असु॑रान् । अ॒ज॒य॒न्न् । ते । असु॑रान् । जि॒त्वा । रक्षाꣳ॑सि । अपेति॑ । अ॒नु॒द॒न्त॒ । तानि॑ । रक्षाꣳ॑सि । अनृ॑तम् । अ॒क॒र्त॒ । इति॑ । स॒म॒न्तमिति॑ सं - अ॒न्तम् । दे॒वान् । परीति॑ । अ॒वि॒श॒न्न् । ते । दे॒वाः । अ॒ग्नौ । अ॒ना॒थ॒न्त॒ । ते । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । अ॒व॒प॒न्न् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ । अ॒ग्नये᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यत् । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । नि॒रव॑प॒न्निति॑ निः - अव॑पन्न् । यानि॑ । ए॒व । पु॒रस्ता᳚त् । रक्षाꣳ॑सि ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.4.1.3 TS 2.4.1.3
-स॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षाꣳ॒॒स्यास॒न् तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्-रक्षाꣳ॒॒स्यास॒न् तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स स्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते॒ - [ ]
पदपाठः (Word-by-word)
आसन्न्॑ । तानि॑ । तेन॑ । प्रेति॑ । अ॒नु॒द॒न्त॒ । यत् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ । यानि॑ । ए॒व । अ॒भितः॑ । रक्षाꣳ॑सि । आसन्न्॑ । तानि॑ । तेन॑ । वीति॑ । अ॒बा॒ध॒न्त॒ । यत् । अ॒ग्नये᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यानि॑ । ए॒व । प॒श्चात् । रक्षाꣳ॑सि । आसन्न्॑ । तानि॑ । तेन॑ । अपेति॑ । अ॒नु॒द॒न्त॒ । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । ए॒तया᳚ । इष्ट्या᳚ । य॒जे॒त॒ । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.4.1.4 TS 2.4.1.4
ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्-भ्रातृ॑व्य॒स्तं तेन॒ प्रणु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तं तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त् पापी॑या॒न् तं तेनाप॑ नुदते॒ प्र श्रेयाꣳ॑सं॒ भ्रातृ॑व्यं नुद॒तेति॑ स॒दृशं॑ क्रामति॒ नैनं॒ पापी॑यानाप्नोति॒ य ए॒वं ( ) ॅवि॒द्वाने॒तयेष्‌ट्या॒ यज॑ते ॥
पदपाठः (Word-by-word)
अ॒ग्नय᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यत् । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । नि॒र्वप॒तीति॑ निः - वप॑ति । यः । ए॒व । अ॒स्मा॒त् । श्रेयान्॑ । भ्रातृ॑व्यः । तम् । तेन॑ । प्रेति॑ । नु॒द॒ते॒ । यत् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ । यः । ए॒व । ए॒ने॒न॒ । स॒दृङ्ङिति॑ स - दृङ् । तम् । तेन॑ । वीति॑ । बा॒ध॒ते॒ । यत् । अ॒ग्नये᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यः । ए॒व । अ॒स्मा॒त् । पापी॑यान् । तम् । तेन॑ । अपेति॑ । नु॒द॒ते॒ । प्रेति॑ । श्रेयाꣳ॑सम् । भ्रातृ॑व्यम् । नु॒द॒ते॒ । अतीति॑ । स॒दृश᳚म् । क्रा॒म॒ति॒ । न । ए॒न॒म् । पापी॑यान् । आ॒प्नो॒ति॒ । यः । ए॒वम् ( ) । वि॒द्वान् । ए॒तया᳚ । इष्ट्या᳚ । यज॑ते ॥
पदसंख्या: 54