पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
" (अथ द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोनुवाकः)। (भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिविधिः) द्वितीये विजयार्थेष्टिः प्रोक्ता विजितिनाम (मि) का। अथ तृतीये भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिं विधित्सुरादौ तदङ्गभूतं मन्त्रं पठितुं प्रस्तौति देवासुरा इति। ओजस्त्वसृङ्गमासादिधातुभ्यो जातोष्टमो धातुः। तथा च संप्रदायविद्भिरुक्तम् “ओजो नामाष्टमी दशा” इति। बलं शरीर शक्तिः। इद्रियं दृष्ट्यादिपाटवम्। वीर्यमुत्साहः। प्रजाः पुत्रादिकाः पशवः गवादिकाः। देवासुरेषु युध्दार्थं गतेषु तदीयानोजःप्रभूतीन्षट्पदार्थान्गायत्री संगृह्य तदुभयेभ्योपक्रभ्य दूरे स्थितवती। तां दृष्ट्वा ते देवासुराश्चैवममन्यन्त—उभयोर्वर्गयोर्मध्ये यतरान्यद्वर्गस्थितानियं गायत्री प्राप्स्यति तद्वर्गस्थिता इदं सर्वैश्वर्यं प्राप्स्यन्तीति। तदुभयेपि तां गायत्रीं विलक्षणेन शब्देनाहूतवन्तः। हे विश्वकर्मन्निति देवानामाह्वानं, दाभीत्यसुराणामाह्वानं विश्वानि कर्माणि यस्याः सा विश्वकर्मा तत्सलंबोधनं हे विश्वकर्मन्निति। दभ्नोति विरोधिनो हिनस्तीति दाभी तत्संबोधनं हे दाभीति। सा गायत्रयन्यतरानुभयोर्मध्ये कानपि पुरुषान्नैव प्राप्नोत्। ततस्ते देवास्तत्प्राप्त्युपायत्वेनैतद्यजुरपश्यन्। तदिदं यजुः पठति ओजोसीति। अत्र सर्वात्मकत्वेन गायत्री स्तूयते। ओजोबले व्याख्याते। सहः सहिष्णुत्वं धैर्यम्। भ्राजो दीप्तिः। देवानां धाम स्वर्गः। नामेन्द्रादिकम्। विश्वमचेतनं कृत्स्नं जगत्। विश्वायुः कृत्स्नान्नयुक्तम्। सर्व चेतनरूपं कृत्स्नं जगत्। सर्वाण्यायुष्याणि यस्य चेतनस्य जगतस्तत्सर्वायुः। वैरिणोभि भवतीत्यभिभूः यथाय (जुर्म) न्त्रस्यार्थं (प्राप्यं) फलं दर्शयति इति वावेति। अनेनवोक्तेन स्तुतिरूपेण मन्त्रेण गायत्रीं प्रसाद्य तत्प्रसादादसुराणामोजआदिषट्कं विनाश्य स्वयं तल्लब्धवन्तः। अथेष्टिं विधातुं प्रस्तौति यद्गायत्रीति। विधास्यमानाया इष्टेर्गायत्री संवर्ग इति नामद्वयम।यस्याद्गायत्री सर्वमादायापक्रम्य स्थित्वा मन्त्रेण स्तुता सती सर्वमानीतवती तस्मात्तेन मन्त्रेण हविरभिमृश्य क्रियमाणेष्टिर्गायत्रीत्युच्यते। सा च गायत्री संवत्सररूपा। तदीयाक्षरेष्वर्धमासेषु च चतुविंशतिसंख्याकायाः समानत्वात्। अतः संवत्सर एव तदानीं गायत्रीरूपेणापक्रम्यातिष्ठदिति संवत्सरात्मकत्वात्प्रशस्तेयमिष्टिः। यस्मादेतयेष्ट्या देवा असुराणां संवर्गनामकोयं यागः इदानीं विधत्ते यो भ्रातृव्यानिति। संवर्ग ,स रयिं जयेति याज्यायां संवर्गशब्दश्रवणाद्वैरिसंबन्ध्योजआदिवर्जनहेतुत्वाच्चायमग्निः संवर्ग। पूर्वपठितमोजोसीत्यादिमन्त्रं विनियुङ्क्ते त शृतमिति। तं पुरोडाशं शृतं पक्वमासन्नं वेद्यामासादितम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोनुवाकः।। ३ ।।"