अनुवाकः 3 TS 2.4.3

(A3)

प्र॒जां प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ सं॑ॅव॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ्‌स्याथ् सस्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजेता॒ग्नये॑ संॅव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्‌तꣳशृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒ऽभि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून् भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ 11 (बल॑मस्ये॒ - तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ - पञ्च॑चत्वारिꣳशच्च)

अनुवाकः 3 - Complete Audio

TS 2.4.3 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् तेषां᳚
PS1.2 गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां
PS1.3 प॒शून्थ् स॒गृंह्या॒ *ऽऽदाया॑-प॒क्रम्या॑तिष्ठ॒त् ते॑ऽमन्यन्त
PS1.4 यत॒रान्. वा इ॒यमु॑पाव॒र्थ्स्यति॒ त
PS1.5 इ॒दं भ॑विष्य॒न्तीति॒ तां ॅव्य॑ह्वयन्त॒
PS1.6 विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा
PS1.7 नान्य॑त॒राꣳश्च॒-नोपाव॑र्तत॒ ते दे॒वा ए॒तद्-यजु॑रपश्य॒न्नोजो॑ऽसि॒
PS1.8 सहो॑ऽसि॒ बल॑मसि॒ - [
PS1.9 ]
PS2.1 भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑ऽसि॒
PS2.2 विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒
PS2.3 वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं
PS2.4 ॅवी॒र्यं॑ प्र॒जां प॒शून॑वृञ्जत॒ यद्-गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्
PS2.5 तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः संॅवथ्स॒रो वै
PS2.6 गा॑य॒त्री सं॑ॅवथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्-यदे॒तया॑
PS2.7 दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑
PS2.8 - [ ]
PS3.1 प्र॒जां प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ सं॑ॅव॒र्ग
PS3.2 इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ्‌स्याथ् सस्पर्द्ध॑मान ए॒तयेष्‌ट्या॑
PS3.3 यजेता॒ग्नये॑ संॅव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्‌तꣳशृ॒तमास॑न्नमे॒तेन॒
PS3.4 यजु॑षा॒ऽभि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं
PS3.5 ॅवी॒र्यं॑ प्र॒जां प॒शून् भ्रातृ॑व्यस्य
PS3.6 वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो
PS3.7 भवति
PS3.8 11 (बल॑मस्ये॒ - तया॑
PS3.9 दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑
PS3.10 - पञ्च॑चत्वारिꣳशच्च) (आ3)

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.4.3.1 TS 2.4.3.1
दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् तेषां᳚ गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून्थ् स॒गृंह्या॒ *ऽऽदाया॑-प॒क्रम्या॑तिष्ठ॒त् ते॑ऽमन्यन्त यत॒रान्. वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तां ॅव्य॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा नान्य॑त॒राꣳश्च॒-नोपाव॑र्तत॒ ते दे॒वा ए॒तद्-यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ - [ ]
पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । तेषा᳚म् । गा॒य॒त्री । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र - जाम् । प॒शून् । स॒गृंह्येति॑ सं - गृह्य॑ । आ॒दायेत्या᳚ - दाय॑ । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । ते । अ॒म॒न्य॒न्त॒ । य॒त॒रान् । वै । इ॒यम् । उ॒पा॒व॒र्थ्स्यतीत्यु॑प - आ॒व॒र्थ्स्यति॑ । ते । इ॒दम् । भ॒वि॒ष्य॒न्ति॒ । इति॑ । ताम् । वीति॑ । अ॒ह्व॒य॒न्त॒ । विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् । इति॑ । दे॒वाः । दाभि॑ । इति॑ । असु॑राः । सा । न । अ॒न्य॒त॒रान् । च॒न । उ॒पाव॑र्त॒तेत्यु॑प - आव॑र्तत । ते । दे॒वाः । ए॒तत् । यजुः॑ । अ॒प॒श्य॒न्न् । ओजः॑ । अ॒सि॒ । सहः॑ । अ॒सि॒ । बल᳚म् । अ॒सि॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

" (अथ द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोनुवाकः)। (भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिविधिः) द्वितीये विजयार्थेष्टिः प्रोक्ता विजितिनाम (मि) का। अथ तृतीये भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिं विधित्सुरादौ तदङ्गभूतं मन्त्रं पठितुं प्रस्तौति देवासुरा इति। ओजस्त्वसृङ्गमासादिधातुभ्यो जातोष्टमो धातुः। तथा च संप्रदायविद्भिरुक्तम् “ओजो नामाष्टमी दशा” इति। बलं शरीर शक्तिः। इद्रियं दृष्ट्यादिपाटवम्। वीर्यमुत्साहः। प्रजाः पुत्रादिकाः पशवः गवादिकाः। देवासुरेषु युध्दार्थं गतेषु तदीयानोजःप्रभूतीन्षट्पदार्थान्गायत्री संगृह्य तदुभयेभ्योपक्रभ्य दूरे स्थितवती। तां दृष्ट्वा ते देवासुराश्चैवममन्यन्त—उभयोर्वर्गयोर्मध्ये यतरान्यद्वर्गस्थितानियं गायत्री प्राप्स्यति तद्वर्गस्थिता इदं सर्वैश्वर्यं प्राप्स्यन्तीति। तदुभयेपि तां गायत्रीं विलक्षणेन शब्देनाहूतवन्तः। हे विश्वकर्मन्निति देवानामाह्वानं, दाभीत्यसुराणामाह्वानं विश्वानि कर्माणि यस्याः सा विश्वकर्मा तत्सलंबोधनं हे विश्वकर्मन्निति। दभ्नोति विरोधिनो हिनस्तीति दाभी तत्संबोधनं हे दाभीति। सा गायत्रयन्यतरानुभयोर्मध्ये कानपि पुरुषान्नैव प्राप्नोत्। ततस्ते देवास्तत्प्राप्त्युपायत्वेनैतद्यजुरपश्यन्। तदिदं यजुः पठति ओजोसीति। अत्र सर्वात्मकत्वेन गायत्री स्तूयते। ओजोबले व्याख्याते। सहः सहिष्णुत्वं धैर्यम्। भ्राजो दीप्तिः। देवानां धाम स्वर्गः। नामेन्द्रादिकम्। विश्वमचेतनं कृत्स्नं जगत्। विश्वायुः कृत्स्नान्नयुक्तम्। सर्व चेतनरूपं कृत्स्नं जगत्। सर्वाण्यायुष्याणि यस्य चेतनस्य जगतस्तत्सर्वायुः। वैरिणोभि भवतीत्यभिभूः यथाय (जुर्म) न्त्रस्यार्थं (प्राप्यं) फलं दर्शयति इति वावेति। अनेनवोक्तेन स्तुतिरूपेण मन्त्रेण गायत्रीं प्रसाद्य तत्प्रसादादसुराणामोजआदिषट्कं विनाश्य स्वयं तल्लब्धवन्तः। अथेष्टिं विधातुं प्रस्तौति यद्गायत्रीति। विधास्यमानाया इष्टेर्गायत्री संवर्ग इति नामद्वयम।यस्याद्गायत्री सर्वमादायापक्रम्य स्थित्वा मन्त्रेण स्तुता सती सर्वमानीतवती तस्मात्तेन मन्त्रेण हविरभिमृश्य क्रियमाणेष्टिर्गायत्रीत्युच्यते। सा च गायत्री संवत्सररूपा। तदीयाक्षरेष्वर्धमासेषु च चतुविंशतिसंख्याकायाः समानत्वात्। अतः संवत्सर एव तदानीं गायत्रीरूपेणापक्रम्यातिष्ठदिति संवत्सरात्मकत्वात्प्रशस्तेयमिष्टिः। यस्मादेतयेष्ट्या देवा असुराणां संवर्गनामकोयं यागः इदानीं विधत्ते यो भ्रातृव्यानिति। संवर्ग ,स रयिं जयेति याज्यायां संवर्गशब्दश्रवणाद्वैरिसंबन्ध्योजआदिवर्जनहेतुत्वाच्चायमग्निः संवर्ग। पूर्वपठितमोजोसीत्यादिमन्त्रं विनियुङ्क्ते त शृतमिति। तं पुरोडाशं शृतं पक्वमासन्नं वेद्यामासादितम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोनुवाकः।। ३ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवासुरा इत्यादि ॥ तेषां देवासुराणां ओजःप्रभृति संगृह्यादाय आच्छिद्यापक्रम्य तेन सह तत्सकाशादपक्रम्य क्वाप्यतिष्ठत् गायत्री । ते देवासुरा अमन्यन्त अस्माकं मध्ये यतरानियमुपावर्त्स्यति उपावर्तिष्यते ते इदं विश्वं भविष्यन्तीति अस्य विश्वस्य स्वामिनस्ते भविष्यन्तीति । यद्वा - इदं विश्वं ते भविष्यन्ति प्राप्स्यन्तीति । 'वृद्भ्यस्स्यसनोः' इति परस्मैपदम्, 'न वृद्ब्यश्चतुर्भ्यः' इतीडभावः । अथ देवासुरास्तां व्यह्वयन्त विविधमाह्वयन्निति । 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् । विश्वकर्मन्निति । विश्वानि कर्माण्यस्यामिति विश्वकर्मा । 'मनः' इति ङीप्प्रतिषेधः, आमन्त्रिताद्युदात्तत्वम् । हे विश्वकर्मन्निति देवा गायत्रीमाह्वयन् । हे दाभि इत्यसुरा आह्वयन्, सामर्थ्यात् ह्वयत्यर्थमात्रं संबध्यते । यद्वा - व्यह्वयन्त विलक्षणमाह्वानं कृतवन्तः । वैलक्षण्यं चाह्वानपदभेदः । दभनं दाहः, दभिः प्रकृत्यन्तरमस्ति, तस्माद्घञन्तान्मत्वर्थीयोकारः, गौरादिर्द्रष्टव्यः, पूर्ववदामन्त्रिताद्युदात्तत्वम्, 'अम्बार्थनद्योः' इति ह्रस्वत्वम् । यद्वा - पचाद्यजन्तात् स्वार्थिकोऽण्, ततः 'टिढ्ढाणञ्' इति ङीप् । सेत्यादि । गतम् ॥
2 ओजोसीत्यादि ॥ तेजोसि यशोसि देवानाम् । सर्वत्र तद्धेतुत्वात्ताच्छब्द्यम् । सहोसि अभिभवसाधनमपि शत्रूणाम् । बलं प्रसिद्धम् । भ्राजो दीप्तिः । धाम स्थानम् । नाम नमनमुपकारकम् । विश्वमसि अन्यदपि यद्भद्रं तदसि । विश्वायुः विश्वा [श्वमा]युर्जीवितमस्मिन्निति विश्वायुः । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दस्यान्तोदात्तत्वम् । सर्वमसि सर्वमपि जगतामेवासि । सर्वायुरसि । सर्वाणि चायूंषि अन्नानि अस्यामिति सर्वान्नहेतुरसि । अभिभूः यस्मादेवं तस्मात् त्वं सवर्स्योपरि भवसि सर्वस्याभिभवित्र्यसि ॥
3 इति वावेत्यादि ॥ इत्यनेन यजुषा देवाः असुराणामप्योज आदिकं अवृञ्जत आवर्जयन् आत्मसात्कृतवन्तः न केवलमात्मीयमेव लब्धवन्तः । यदित्यादि । गायत्र्यपक्रमणहेतुत्वादेतां वक्ष्यमाणामिष्टिं गायत्रीत्याहुः वेदार्थविदः ॥
4 संवत्सरो वा इत्यादि ॥ संवत्सरवत् सर्वार्थहेतुत्वात् बलसाम्यात् ताद्धर्म्यात् तदानीं संवत्सर एव देवेभ्योपक्रम्यातिष्ठत् । यथा संवत्सरापक्रमेण ओजआदिकं नश्यति तद्वदिदमिति । यदेतयेत्यादि । संव्रज्यते ओजआदिकं सर्वं सहैवानेनाव्रज्यते आच्छिद्यते इति संवर्गो योगः । वृजी वर्जने, घञि 'चजोः कुघिण्यतोः' इति कुत्वम् ॥
5 यो भ्रातृव्यवानित्यादि ॥ गतम् । एतेन यजुषेत्यादि । ओजोसीत्यादिना । अत्राचार्येण 'सर्वायुरभिभूरस्यभिभूरहं तेन हविषा(मिति) अमुं भ्रातृव्यमभिभूयासम्' इति शेषो दर्शितः ॥
इति द्वितीये चतुर्थे तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 2.4.3.2 TS 2.4.3.2
भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून॑वृञ्जत॒ यद्-गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त् तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः संॅवथ्स॒रो वै गा॑य॒त्री सं॑ॅवथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्-यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ - [ ]
पदपाठः (Word-by-word)
भ्राजः॑ । अ॒सि॒ । दे॒वाना᳚म् । धाम॑ । नाम॑ । अ॒सि॒ । विश्व᳚म् । अ॒सि॒ । वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । सर्व᳚म् । अ॒सि॒ । स॒र्वायु॒रिति॑ स॒र्व - आ॒युः॒ । अ॒भि॒भूरित्य॑भि - भूः । इति॑ । वाव । दे॒वाः । असु॑राणाम् । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र-जाम् । प॒शून् । अ॒वृ॒ञ्ज॒त॒ । यत् । गा॒य॒त्री । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अति॑ष्ठत् । तस्मा᳚त् । ए॒ताम् । गा॒य॒त्री । इति॑ । इष्टि᳚म् । आ॒हुः॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । गा॒य॒त्री । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । तत् । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । यत् । ए॒तया᳚ । दे॒वाः । असु॑राणाम् । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.4.3.3 TS 2.4.3.3
प्र॒जां प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ सं॑ॅव॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ्‌स्याथ् सस्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजेता॒ग्नये॑ संॅव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्‌तꣳशृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒ऽभि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून् भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ 11 (बल॑मस्ये॒ - तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ - पञ्च॑चत्वारिꣳशच्च) (आ3)
पदपाठः (Word-by-word)
प्र॒जामिति॑ प्र - जाम् । प॒शून् । अवृ॑ञ्जत । तस्मा᳚त् । ए॒ताम् । सं॒ॅव॒र्ग इति॑ सं - व॒र्गः । इति॑ । इष्टि᳚म् । आ॒हुः॒ । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । ए॒तया᳚ । इष्ट्या᳚ । य॒जे॒त॒ । अ॒ग्नये᳚ । सं॒ॅव॒र्गायेति॑ सं - व॒र्गाय॑ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । तम् । शृ॒तम् । आस॑न्न॒मित्या - स॒न्न॒म् । ए॒तेन॑ । यजु॑षा । अ॒भीति॑ । मृ॒शे॒त् । ओजः॑ । ए॒व । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र - जाम् । प॒शून् । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ॥
पदसंख्या: 45