पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके द्वादशोनुवाकः)। (त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्र दक्षिणोयोविधिः)
"त्रैधातवीयतद्द्रव्ये एकादश उदीरिते। अथ द्वादशे तस्य द्रव्यस्येन्द्राविष्णुदेवताकत्वं सहस्रदक्षिणां च विधास्यन्नादौ कर्मनाम्नि विधातुत्वसंपादनायोपाख्यानं दर्शयति त्वष्ट हतपुत्र इति। विश्वरूपनाम्नस्त्वष्टुपुत्रस्येन्द्रेण कृतो वध उपरितनप्रपाठकस्य प्रथमनुवाके स्पष्टी भविष्यति। स च हतपुत्रास्त्वष्टा कोपादिन्द्ररहितं सोमयागं कर्तुमुद्यतः। तस्मिन्यागे मामाह्वयेत्येवमिन्द्रोब्रवीत्। स तु त्वष्टा तं पुत्रं मेवधीरित्यवदत्। तमिन्द्रं नोपाह्वयत। स चेन्द्रो यज्ञस्य विधातं कृत्वा बलात्कारेण सोमं पीतवान्। अथ त्वष्टुरभिचारहोमेनेन्द्रवधहेतोः पुरुषस्योत्पत्तिं दर्शयति तस्य यदिति। तस्येन्द्रेण बलात्पीतस्य सोमस्य संबन्धि रसरूपं यदल्पमत्यशिष्यत तद्गृहीत्वा त्वष्टाभिचारं कर्तुमाहवनीयमुपेत्य होमेनाग्निं वैर्युत्पादनाय प्रवृत्तमकरोत्। तस्मिन्होमे मन्त्रमिममुच्चारितवान्स्वाहेन्द्रशत्रुर्वर्धस्वेति। तस्यायमर्थः हेग्ने तुभ्यमिदं स्वाहुतं, पुनरिन्द्रस्य शातयिता कश्चित्पुरुषो भूत्वा वर्धस्वेति। सोग्निर्यावता कालेनोर्ध्वज्वालारूपो भूत्वा पराभूतमिन्द्रं कर्तुं विध्या मीत्युद्यतो भवति तावति काले वह्निः स्वयमेव त्वरतोभूज्ज्वाला शान्तेत्यर्थः। तत्र मन्त्रगतस्वरापराधो निमित्तम्। तथा हि, इन्द्रस्य शातयितेन्द्र शत्रुरिति विवक्षायां तत्पुरुषसमासस्यान्तोदात्तत्वेनं भवितव्यम्। आद्युदात्तस्त्वयं शब्दः प्रयुक्तः। स च बहुव्रीहितां द्योतयति। “बहुव्रीहो प्रकृत्या पूर्वपदम्” इति पूर्वपदाद्युदात्तत्वविधानात्। सति बहुव्रीहाविन्द्रः शातयिता यस्येत्प्रर्थो भवति। सोयं मन्त्रगतः स्वरापराधः अपराधाभावे सत्युन्नतया ज्वालया यजमानस्य कार्यसिद्धिः सूचिता भवति। अपराधे त्ववनतया ज्वालया यजमानस्य कार्यसिद्ध्यभावः सूच्यते। यद्यत्र कार्यासिद्ध्यभावसूचनायाग्निः (ग्नेः) प्रवणमवनतमासीत्, यदि वा कार्यसिद्धेः सूचनार्थमग्निज्वा (ग्नेर्ज्वा) लयाधिका वृद्धिरभूत्, तद्यथा तथा वा तिष्ठतु। स त्वग्निः पुरुषरूपेण संभवन्नेवाग्नीषोमावभिव्याप्य समुत्पन्नो होमाघाराङ्गाराभिमानिनमग्निदेवं हूयमानरसाभिमानिनं सोमदेवं च स्वमुखे मक्षिप्योभयोः पार्श्वयोरूर्ध्वाधोदन्तपङ्क्तिभ्यां दष्टवानित्यर्थः। एतच्चोपरितनप्रपाठके “नावब्रूतामभिसंदष्टौ वै स्वः” इत्यत्र स्पष्टी भविष्यति। एतस्योत्पन्नस्य पुरुषस्य वृत्रत्वं दर्शयति स इषुमात्रमिति। इषुपातो यावति देशे भवति तावन्तं देशं सर्वासु दिक्षु व्याप्य प्रतिदिनमयमवर्धत, तेन सर्वलोकावरणादस्य वृत्रत्वम्। अथास्य वृत्रस्य वधाय साधनभूतस्य वज्रस्योत्पत्तिं दर्शयति तस्मादिति। तस्मात्सर्वलोकावरकाद्वृत्रादिन्द्रोबिभेत्। यथेन्द्रस्तथा त्वष्टाप्यबिभेत्। त्रिष्वपि लोकेष्वनेनावृतेषु त्वष्टुरिन्द्रस्य चोभयोः समान एव स्थानाभावः। ततस्त्वष्टा तं वृत्रं हन्तुं तेनेन्द्रेण सह मैत्रीं कृत्वा तस्या इन्द्राय वज्रमसिञ्चत्। अस्त्ररूपत्वायाभिमन्त्रितेन जलेन तदीयं वज्रं प्रक्षाल्य तस्मै दत्तबानित्यर्थः। सोयमिन्द्रसंबन्धी वज्रोभिमन्त्रितत्वात्तपोरूप एवासीत्। तपोरूपस्य तस्य वज्रस्योद्यमनाय विष्णु सहकार्यपेक्षामिन्द्रस्य दर्शयति तमुद्यन्तुमिति। येदेन्द्र उद्यमने शक्तो नाभूत्तदानीं तस्येन्द्रस्य पुरतो विष्णुर्नाम काचिद्देवतासीत्तं विष्णुमेवं प्रार्थितवान्वृत्रस्य वीर्यं स्मृत्वा भयमापन्नस् मम हस्तो वज्रमुद्यन्तुं न प्रभवति। यन वीर्येणायं वत्र इदं जगद्व्प्राप्तवान् तादृशं वीर्यमावामुभावस्माद्वृत्रादाहरिब्यावः। अतो हे विष्णो मम सहकारित्वभागच्छेति। प्रार्थितस्य विष्णोः साहाय्याचरणप्रकारं दर्शयति स विष्णुरिति। विष्णुर्मूर्तित्रयं संपाद्य रक्षणाय लोकत्रये स्थापितवान्। यस्मादस्य वृत्रस्याभिपर्यावर्तात्सर्वदिग्व्यापिरूपाया वृद्धेरयमिन्द्रोबिभेत्तस्मादिन्द्रभीतिनिवारणाय मूर्तिप्रयस्थापनं युक्तमित्यभिप्रायः। मूर्तित्रयस्थापनादूर्ध्वं प्रवृत्तमिन्द्रव्यापारं दर्शयति यत्पृथिव्यामिति। विष्णुना स्वकीयवक्ष्यमाणद्वयापक्षेया तृतीयं शरीरं पृथीव्यां यत्स्थापितमासीत्तेन युक्त स इन्द्रस्तस्य विष्णोः पृष्ठतः स्श्चितस्तं वज्रमुदयच्छत्। तदानीं स वृत्रो भीतः सन्निन्द्रमिदमब्रवीत्-हे इन्द्र मे शरीरं मा प्रहारस्ति वा इदं किंचिन्मयि वीर्य पृथिवीव्याप्तिक्षमं तत्सर्वं तुभ्यं दास्यामीत्युक्त्वा तदिन्द्राय दत्तवान्। स चेन्द्रस्तत्स्वी चकार। स्वीकृत्य च मां धारयेति ब्रुवन्विष्णवे तद्वीर्यमत्यादरेण प्रायच्छत्। स च विष्णुरस्मासु मध्येयमिन्द्रो वीर्यं धारयत्वित्यभिप्रेत्येन्द्रार्थं तद्वीर्यं प्रत्यगृह्णात्। ईदृशमिन्द्रकृत्यं द्वितीयपर्याये दर्शयति यदन्तरिक्ष इति। हे विष्णो पूर्वं सकृद्वीर्यग्रहणेन मां धारितवानसि, तदपेक्ष्य द्विर्मां धारयेति ब्रुवन्वीर्यं प्रायच्छत्। तृतीयपर्याये तस्येन्द्रस्य कृत्यं दर्शयति यद्दिवीति। येन वीर्येणाहमिदं जगदव्याप्तवानास्मि तत्सर्वं ते प्रदास्यामीत्युक्त इन्द्रोङ्गी चकार। अङ्गीकारार्थोयं त्वीशब्दः। अस्तु तथेत्यर्थः। तस्य वीर्यस्य प्रदानात्प्रागेवेन्द्रवृत्रयोः संधिं दर्शयति संधां तु समिति। तुशब्दो वक्तव्यशेषसद्भावद्योतनार्थः। तत्सर्वं वीर्यं तुभ्यं दास्यामीति (मि) किंत्वन्यच्छेषं वक्तव्यमस्ति। तावदुभौ संधानं करवाव। कीदृशं संधानमिति तदुच्यते—हे इन्द्र त्वामेवाहं प्रविशानीति। तत इन्द्र एवमब्रवीद्यदि त्वं मां प्रविशेस्तदा किं मामेव भोक्ष्यस इति। ततो बृत्र इदमब्रवीन्नाहं त्वां भोक्ष्ये, किंतु त्वाभिन्धीयोदराग्निपाटवेन प्रकाशयेयं दीपयेयं, तच्च तव बहुविधान्नभोगायोपयुज्येत। ततस्त्वां प्रविशामीत्युक्त्वा तमिन्द्रं वृत्रः प्राविशत्। प्रविष्टश्च वृत्रो बह्वन्नपूरणक्षममवकाशरूपमुदरमभवत्। लोकेपि मनुष्योदरे वर्तमाना क्षुदेवात्यन्तबाधकत्वात्सहजो भ्रातृव्यः। एतद्वेदनस्य क्षुदपघातः फलम्। तस्य वृत्रस्य प्रवेशात्पूर्वं द्युलोकगतवीर्यदानं यदस्ति तदिदानीं दर्शयति तदस्मा इति। पूर्ववद्व्याख्येयम्। इदानीं त्रिधातुनिर्वचनं दर्शयति यत्त्रिः प्रेति। वृत्रस्य त्रिवारप्रदानेनेन्द्रस्य त्रिवारप्रतिग्रहेण च वीयर्रूपस्य पुरोडाशस्य हविषास्त्रिधा भिन्नस्य त्रिधातुनाम संपन्नम्। त्रयो धातवश्चतुष्कपालरूपा भेदा यस्य द्वादशकपालपुरोडाशस्य सोयं त्रिधातुः। त्रिसंख्यातस्य हविषो व्यासक्तदेवतां विधत्ते यदविष्णुरिति। यस्माद्विष्णुरनुकूलत्वेन स्थितस्तस्मै च विष्णवेयमिन्द्रोत्यादरेण प्रायच्छत्तस्माद्व्यासक्तयोरिन्द्रविष्ण्वोस्तत्र देवतात्वम्। त्रिवारं प्रत्तं तद्वीर्यरूपं हविर्वेदत्रयरूपेण प्रशंसति यद्वा इदमिति। अत्र च या हिरण्यदक्षिणा पूर्वमुक्ता तस्याः संख्याविधिमुन्नयति सहस्रमिति। यस्मात्सहस्रभेदाभिन्नं वीर्यं दत्तवांस्तस्मात्सहस्रदक्षिणाकमिदंकर्म द्रष्टव्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके द्वादशोनुवाकः ।। १२ ।।"
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
दुष्टश्शब्दस्स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुस्स्वरतोपराधात् ॥
इति । अयं च शत्रुशब्दः इदानीं क्रियाशब्दो द्रष्टव्यः ।
इन्द्रः प्रतिग्रहीता । त्रयो धातवो दानानि वा[धा]रणानि वा अस्येति त्रिधातुर्वीर्यावीशेषः, तत्सम्बन्धी यागस्रैधातवीयं, इह त्वभेदेनोच्यते । यद्विष्णुरित्यादि । यस्माद्विष्णुरिन्द्रमन्वतिष्ठत यस्माच्च विष्णवे इन्द्रोतिप्रायच्छत् तस्मादैन्द्रावैष्णवं हविर्भवति ॥