पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके दशमोनुवाकः)। (कारीर्युत्तरभागस्थमन्त्रव्याख्यानम्) प्राच्याङ्गमन्त्राः कारीर्या व्याख्याता नवमे स्फुटम्। अथोत्तरभागस्थमन्त्रा दशमे व्याख्यायन्ते। तत्र त्रिषु दिनेषु क्रमेण च्छदिस्त्रये सक्तुबन्धनार्थं मन्त्रान्विनियुङक्ते देवा इति। तत्तन्मन्त्रोक्ताभिर्देवताभिरनुगृहीतः प्रतिदिनं वृष्टिमिच्छति। तत्र वर्षावर्षपक्षयोर्व्यवस्थया सक्तुहोमं पुरोडाशनिर्वापं च विधत्ते यदि वर्षेदिति। तावत्ये सक्तुबन्धने कृते सति वर्षणपक्षे पुरोडाशनिर्वापमन्तरेण पिण्डिर्जुहुयात्। प्रथमदिने वृष्टो सन्यां पिण्डत्रयहोमेनैव कर्मसमाप्तिः। तथा द्वितीयतृतीययोर्दिनयोः। त्रिष्वपि दिनेषु वृष्ट्यभावे चतुर्थदिने पुरोडाशनिर्वापं कुर्यात्। अहोरात्रावसक्तं भवतीति वदता सूत्रकारेणात्यन्तसंयोगवाचिनीं द्वितीयां प्रयुञ्जानेनाहोरात्रयोर्निरन्तरं बन्धनं यदुक्तं तद्विधिमर्थंवादेनोन्नयति अहोरात्रे इति। अह्नः सूर्यप्रकाशयुक्तत्वान्मित्रत्वम्। रात्रेरन्धकारेण लीन (णावरक) त्वाद्वरुणत्वम्। पर्जन्यश्चाहोरात्राभ्यामन्तरेण त्रर्षितुं न क्षमः। कुतः। कालान्तरस्याभावात्। तथा सति रात्रौ दिवसे वा सर्वदा विर्षिष्यतीति ज्ञातुमशक्यत्वान्निरन्तरं बन्धनीयम्। तेन तुष्टौ मित्रावरुणौ वर्षयतःहविर्निर्वपेदिति सामान्येन् यदुक्तं तदेव विशेषतः प्रपञ्चयति अग्नय इति। धामा ह यत्ते अजरेति याज्यानुवाक्ययोर्धामशब्दोपेतत्वद्धामच्छदग्निः। तदर्थस्तु धामान्यस्मदद्गृहादीन्यन्धकारापादिकया वृष्ट्याच्छादयतीति धामच्छत्तस्मै निर्वाप। अग्नौ प्रास्ताहुतिरितिस्मृत्यनुसारेणाग्निरस्माल्लोकादाहुत्यादित्यद्वारा वृष्टिमुत्पादयति। सृष्टामुत्पादितां तां वृष्टिं मरुतो यत्र तत्र नयन्ति। यस्मिन्कालेसावादित्यो न्यग्भूतैस्तीव्रै रश्मिभिः परि आवर्ततेतिशयेन संतापं करोति तदा पर्जन्यद्वारा वर्षति। वर्षन्स धामानि गृहादीन्याच्छादयन्निव बहुलमेघयुक्तो भूत्वा वर्षंति। तथा सत्यग्निमरुत आदित्य इत्येता एव देवता वृष्टिनियमनाय समर्थाः। ताश्च हविर्भिस्तुष्टा यजमानार्थं वर्षयन्ति यद्यपि पर्जन्यः स्वयमेवावर्षिष्यन्निव पूर्वं स्थितस्तथाप्येताभिर्देवताभिः प्रेरितः क्षणमात्रेण पुरो वातादिसामग्रीं संपाद्य सर्वथा वर्षत्येव। आमस्थालीपूरणमन्त्रं व्याचष्टे सृजा वृष्टिमिति। अद्भिः पृणेत्येनेनेमा भूलोकस्था अपः समर्धयति। सृजा वृष्टिमित्यनेनामूः स्वर्गस्था अपः समर्धायति। किंचाभिरेव भूलोकस्थाभिरद्भिरमूरच्छैति स्वर्गस्था अपः प्राप्तुं गच्छति कृष्णाविप्रोक्षणमन्त्रस्य स्पष्टार्थतां दर्शयति अब्जा इति। पुनर्नवायां होमं विधत्ते उन्नम्भयेति। एषा वै पुनर्नवैवौषधीनां सर्वासां मध्ये वृष्टिवनिर्वृष्टिभाक्। वर्षर्तौ बहुलतरसमुद्भवात्। मन्त्रान्तरं विनियुङ्क्ते ये देवा इति। दिवि भागा अन्तरिक्षभागाः पृथिवीभागा इत्युक्तत्वाल्लोकाः प्रीताः सन्तो यजमानायाभीष्टप्रदा भवन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके दशमोनुवाकः ।। १० ।।