अनुवाकः 8 TS 2.4.8

(A8)

(य॒न्ति॒ - दे॒वा - विꣳ॑श॒तिश्च॑)

अनुवाकः 8 - Complete Audio

TS 2.4.8 - स्वरानुगामी

0:00 0:00
PS1.1 देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य
PS1.2 देवाः᳚ शर्मण्या॒ मित्रा॑वरुणाऽर्यमन्न्
PS1.3 देवाः᳚ सपीत॒यो ऽपा᳚न्-नपादाशुहेमन्न्
PS1.4 उ॒द्नो द॑त्तोद॒धिं भि॑न्त्त दि॒वः
PS1.5 प॒र्जन्या॑द॒न्तरि॑क्षात्-पृथि॒व्यास्ततो॑ नो॒ वृष्‌ट्या॑ऽवत
PS1.6 दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नो-दवा॒हेन॑
PS1.7 पृ॒थि॒वीं ॅयद् व्यु॒न्दन्ति॑
PS1.8 आयन् नरः॑ सु॒दान॑वो ददा॒शुषे॑
PS1.9 दि॒वः कोश॒मचु॑च्यवुः
PS1.10 वि प॒र्जन्याः᳚ सृजन्ति॒ रोद॑सी॒
PS1.11 अनु॒ धन्व॑ना यन्ति -
PS1.12 [ ]
PS2.1 वृ॒ष्टयः॑
PS2.2 उदी॑रयथा मरुतः समुद्र॒तो यू॒यं
PS2.3 ॅवृ॒ष्टिं ॅव॑र्.षयथा पुरीषिणः
PS2.4 न वो॑ दस्रा॒ उप॑
PS2.5 दस्यन्ति धे॒नवः॒ शुभं॑ ॅया॒तामनु॒
PS2.6 रथा॑ अवृथ्सत
PS2.7 सृ॒जा वृ॒ष्टिं दि॒व आऽद्भिः
PS2.8 स॑मु॒द्रं पृ॑ण
PS2.9 अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रियं᳚
PS2.10 उन्न॑म्भय पृथि॒वीं भि॒न्धीदं दि॒व्यं नभः॑
PS2.11 उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒
PS2.12 विसृ॑जा॒ दृतिं᳚
PS2.13 ये दे॒वा ( )
PS2.14 दि॒विभा॑गा॒ ये᳚ऽन्तरि॑क्ष भागा॒ ये
PS2.15 पृ॑थि॒वि भा॑गाः
PS2.16 त इ॒मं ॅय॒ज्ञ्म॑वन्तु॒ त
PS2.17 इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त
PS2.18 इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.4.8.1 TS 2.4.8.1
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य ॥ देवाः᳚ शर्मण्या॒ मित्रा॑वरुणाऽर्यमन्न् ॥ देवाः᳚ सपीत॒यो ऽपा᳚न्-नपादाशुहेमन्न् । उ॒द्नो द॑त्तोद॒धिं भि॑न्त्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात्-पृथि॒व्यास्ततो॑ नो॒ वृष्‌ट्या॑ऽवत ॥ दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नो-दवा॒हेन॑ । पृ॒थि॒वीं ॅयद् व्यु॒न्दन्ति॑ ॥आयन् नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्याः᳚ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति - [ ]
पदपाठः (Word-by-word)
देवाः᳚ । व॒स॒व्याः॒ । अग्ने᳚ । सो॒म॒ । सू॒र्य॒ ॥ देवाः᳚ । श॒र्म॒ण्याः॒ । मित्रा॑वरु॒णेति॒ मित्रा᳚ - व॒रु॒णा॒ । अ॒र्य॒म॒न्न् ॥ देवाः᳚ । स॒पी॒त॒य॒ इति॑ स - पी॒त॒यः॒ । अपा᳚म् । न॒पा॒त् । आ॒शु॒हे॒म॒न्नित्या॑शु - हे॒म॒न्न् ॥ उ॒द्नः । द॒त्त । उ॒द॒धिमित्यु॑द - धिम् । भि॒न्त॒ । दि॒वः । प॒र्जन्या᳚त् । अ॒न्तरि॑क्षात् । पृ॒थि॒व्याः । ततः॑ । नः॒ । वृष्ट्या᳚ । अ॒व॒त॒ ॥ दिवा᳚ । चि॒त् । तमः॑ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये॑न । उ॒द॒वा॒हेनेत्यु॑द - वा॒हेन॑ ॥ पृ॒थि॒वीम् । यत् । व्यु॒न्दन्तीति॑ वि-उ॒न्दन्ति॑ ॥ एति॑ । यम् । नरः॑ । सु॒दान॑व॒ इति॑ सु-दान॑वः । द॒दा॒शुषे᳚ । दि॒वः । कोश᳚म् । अचु॑च्यवुः ॥ वीति॑ । प॒र्जन्याः᳚ । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अन्विति॑ । धन्व॑ना । य॒न्ति॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके अष्टमोनुवाकः)। (कारीरीष्टिमन्त्राः) प्राच्याङ्गमन्त्राः कारीर्यां सप्तमे समुदीरिताः।

"अथावशिष्टमन्त्रा अष्टमे वर्ण्यन्ते। कल्पः- उत्करे प्रागीषं त्रिगधमनोवस्थितं भवति (त्रि) च्छदींषीत्यर्थो (दिष्कमथो देवा वसव्या इति पूर्वस्यां गधायां कृष्णजिनमाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वषद्देवा शर्मण्या इति मध्यमायाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वर्षेद्देवाः सपीतय इति जघन्यायामाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वर्षच्छ्वोभूते धामच्छदादीनि त्रीणि हवींषि निर्वपति इति। पाठस्तु देवा वसव्या इति। अत्रोद्रो दत्तेत्येष त्रयाणां मन्त्राणां शेषत्वेतानुषज्यते। हे देवा उद्गो दत्तोदकानि प्रयच्छत। कीदृशा देवाः, वसव्याः प्रजानांवासयितारः क एते देवा इत्युच्यते अग्नो सोम सूर्येति। एवमादिका हे देवा पूर्वत्रान्वयः। उदकदाने क उपाय इति तदुच्यते—उदधिं भिन्त, उदकं धीयतेस्मिन्नित्युदधिर्मेघस्तं विदारयत। केभ्यो निमित्तेभ्यः, दिवोन्तरिक्षात्पृथिव्याः। लोकत्रयं निमित्तीकृत्येत्यर्थः। ततो मेघविदारणादूर्ध्वं पर्जन्यादागतया वृष्ट्या नोस्मानवत रक्षत। द्वितीयमन्त्रे तु मित्रावरुणार्यमन्नित्येवमादयो हे देवाः शर्मण्याः सुखप्रदा इति व्याख्येयम्। तृतीयमन्त्रे त्वपां नपादुदकानामविनाशयितराशुहेमत्र्शीघ्रगत इत्येवमादयो हे देवाः सपीतयः समानां पीतिः सोमपानं येषां ते तादृशा इति व्याख्येयम्। कल्पः-“उपहोमकाले दिवा वित्तमः कृण्वन्तीति प्रतिमन्त्रं पिण्डीराबध्नाति जुहोतीत्येके” इति। तत्र प्रथममन्त्रपाठस्तु दिवा चित्तम इति। यदा देवा पृथिवीं विशेषेण क्लेदयन्ति तदानीमुदकं बहता पर्जन्येन दिवापि तमः कृण्वन्ति किमुत रात्रौ। द्वितीयमन्त्रपाठस्तु आ यमिति। नरो मनुष्या ऋत्विजः सुदानवः सुष्ठु हविषोः दातारो ददाशुषे हविर्दत्तवते यजमानाय यजमानार्थं यं कोशमुदकधारकं मेघं दिवः सकाशादाचुच्यवुः समन्ताच्यवितवन्तः प्रसारितवन्त इत्यर्थः। स मेघः पूर्वमेकोपि पर्जन्या बहवो मेघा भूत्वा रोदसी अनु द्यावापृथिव्यावनुलक्ष्य विविधां वृष्टिं सृजन्ति। बहुपर्जन्यभावाभिप्रायेण बहुवचनम्। ताश्च वृष्टयो धन्वना मरुभूमावुदकरहितायां यन्ति प्रवर्तन्ते। तृतीयमन्त्रपाठस्तु उदीरयथा इति। हे मरुतो यूयं समुद्रसदृशान्मेघाद्वृष्टिमुदीरयथोत्पादयत। ततः पुरीषिणः पांसुयुक्तान्भूप्रदेशान्वर्षयथाप्लावयथ। हे दस्रा भूमिशोषमुपक्षपयितारो मरुतो यो युष्माकं धेनवो धेनुसदृशा मेघा नोपदस्यन्ति नैवोपक्षीयन्ते। किं कुर्वतां युष्माकं, शुभं यातां जगदनुग्रहरूपमिदं मङ्गलकार्यं प्राप्नुवताम्। किंच इतरेषां देवानां रया अन्ववृत्सत भवदीयान्रथाननुवर्तन्तां वृष्टिं दातुमस्मदीये कर्मणि रथानारुह्य युष्मासु समागच्छत्सु पृष्ठतः सर्वेप्यन्ये देवा रथामारुह्य समागच्छन्त्वित्यर्थः। कल्पः- “उत्करे कृष्णामामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति, यदि भिद्येत वर्षिष्यतीति विद्यात्” इति। पाठस्तु सृजा वृष्टिमिति। हे मरूत्संघ दिवः सकाशात्वृष्टिं सृज। अद्भिः समुद्र सदृशं वह्निदाहमन्तरेणातपेन शुष्कमिमं कुम्भमापृण समन्तात्पूरय। कल्पः-“अनउपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवत्यब्जा असीति तां प्रोक्षति” इति। पाठस्तु अब्जा असीति। हेवेब्जा उदकाज्जातानि मातृपित्रुदकाद्रेतोरूपेण परिणतादुत्पन्नासि। किंच, प्रथमजा असि सुवर्भानुप्रसारितादादित्यावरकतमोभागात्प्रथममपहतादुत्पन्नाऽसि “तस्य यत्प्रथमं तमोपाध्नन्त्सा कृष्णाविरभवत्” इति श्रुतेः। समुद्रियं समुद्रसदृशमेघसंबन्धि बलं वृष्ट्युत्पादनसामर्थ्यमसि। त्वय्याक्रन्दन्त्यां वृष्टिर्भविष्यतीति ज्ञातुं शक्यत्वादित्यर्थः। कल्पः- “उत्करे वर्षाहुस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति” इति। वर्षाहुः पुनर्नवा। पाठस्तु उन्नम्भयेति। हे पुनर्नवे पृथिवीमुन्नम्भयोत्कर्षेण क्लेदय, तदर्थं दिव्यं दिवि भवमिदं नभ आकाशवद्व्याप्तं मेघमण्डलं भिन्धि विदारय। विदार्य च दिव्यस्य दिवि भवस्योदन उदकस्य वर्षणं नोस्मभ्यं देहि। पुनर्नवाया ओषध्या उत्पादक हे देव त्वमीशानः सन्दृतिं विसृजोदकपूर्णदृतिसमानं मेघं वर्षणाय विसृष्टद्वारं कुरु। कल्पः-“ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमव धूनोत्यूर्ध्वग्री वंबहिष्टादिशसनम्” इति। पाठस्तु ये देवा इति। लोकत्रयभाजो ये देवास्ते प्रथमं यज्ञं प्रविश्य सस्य निष्पादकं क्षेत्रं सामान्येनाविश्य ततः प्रतिक्षेत्रमनु च विशेषेण विशन्त। "

अत्र विनियोगसंग्रहः-

वृष्टिप्रदायां कारीर्यां देवा इत्यादिकैस्त्रिभिः। दिनत्रये चर्मबन्धः शकटस्थे छदिस्त्रये।।

उद्नो दत्तेति वाक्यं तु त्रयाणा शेष इष्यते।दिवात्रिभिः सक्तुहोमः सृजेत्युत्तरसंस्थिताम्।।

स्थालीमिद्भिः पूरयित्वा ह्यब्जाः प्रोक्षत्यविं स्थिताम्।उन्नं पुनर्नावाहोमो ये चर्माग्नौ तु धूयते।।

अष्टमे त्वनुवाकेस्मिन्दश मन्त्रा उदीरिताः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-

तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके ष्टमोनुवाकः ।। ८ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथोत्करे प्रागीषं त्रिगधमनोवस्थितं भवति पादत्रयप्रतिष्ठितत्रिच्छदिष्कम् । तत्र तिसृषु गधासु त्रिभिर्मन्त्रैः प्रतिदिशमाबध्नाति पिण्डीः । तत्र पूर्वस्यां गधायां छदिष्कमपि कृष्णाजिनमाबध्नीयात् 'देवा वसव्याः' इति । तच्चाहोरात्रावसक्तं भवति । यदि वर्षेत् पिण्डीरेव जुहुयात्, यदि न वर्षेत् 'देवाश्शर्मण्याः' इति मध्यमायामाबध्नीयात्, तत्र चाहोरात्रावसक्तं भवति । यदि वर्षेत्पिण्डीरेव जुहुयात्, यदि न वर्षेत् 'देवास्सपीतयः' इति जघन्यायामाबध्नीयात्, अहोरात्रावसक्तं भवति । यदि वर्षेत्पिण्डीरेव जुहुयात्, यदि न वर्षेत् श्वोभूते धामच्छदादीनि त्रीणि हवींषि निर्वपति । एते च त्रयः पङ्क्तिप्रकाराः । 'उद्गो दत्त' इत्यादिकं च त्रिष्टुबनुषज्यते । तत्र प्रथमः - हे देवाः वसव्याः । स्वार्थिको यत् । जगतां वासहेतवो वसवः, वसुसमूहो वा वसव्यं, तद्वन्तः । मत्वर्थीयो लुप्यते, 'वसोस्समूहे च' इति यत् । वृष्टिहेतुत्वेन वसुसमूहवन्तः वासयितारश्च प्रजानाम् । वसुभ्यो वा हिता वसव्याः, वसूनि धनानि । तेषु च कांश्चिद्दर्शयति - अग्ने, सोम, सूर्य एवमादयो हे वसव्याः देवा यूयं उद्ग उदकं दत्त । पद्दन्नादिना उदकस्य उदन्भावः, पूर्ववत्कर्मणि षष्ठी, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तदर्थमुदधिं मेघं भिन्त विदारयत यथोदकं पतेत् । उदकं धीयतेऽस्मिन्निति उदधिः । 'कर्मण्यधिकरणे च' इति किः, 'पेषंवासवाहनधिषु च' इत्युदभावः, पूर्ववत्कर्मणि षष्ठी, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । दिवः द्युलोकादन्तरिक्षात् पृथिव्याः । ल्यब्लोपे पञ्चमी । द्युलोकमन्तरिक्षं पृथिवीं च व्याप्य या वृष्टिः पर्जन्यात्प्रवर्तते तया वृष्ट्या नः अस्मान् अवत रक्षत तपर्यत वा । अत्र 'विभाषितं विशेषवचने बहुवचनम्' इति देवा इत्यस्याविद्यमानवत्त्वनिषेधाद्वसव्या इति निहन्यते, आमन्त्रितं पूर्वमविद्यमानवत्' इति द्वयोरामन्त्रितयोः अविद्यमानवत्त्वात् अग्ने इति न निहन्यते । अथ यदा 'अयने प्राणः' इतिवत् वचनविशेषेपि सामान्यविशेषभावमात्रेण सामानाधिकरण्यं भवति तदा उपात्तदेवविशेषत्वात् अग्न्यादीनां यद्यपि 'नामन्त्रिते समानाधिकरणे' इत्यविद्यमानवत्त्वप्रतिषेधात् अग्न इत्यस्यापि निघातः प्राप्नोति । तथापि 'विभाषितं विशेषवचने' इति पक्षे अविद्यमानवत्त्वान्निघाताभावः । पक्षे विद्यमानवत्त्वात् उत्तरयोः निघातः प्रवर्तते । ननु अग्ने इत्यनेन विशेषवचने व्यवधानं न स्यात् । नैष दोषः 'आमन्त्रितं पूर्वमविद्यमानवत्' इति तस्याविद्यमानवत्त्वात्, तेन स्याद्व्यवधानम् ॥
2 अथ द्वितीयः - देवाः शर्मण्याः शरण्याः शरणभावे साधवः शर्मणे सुखाय वा गृहाय वा गृहीताः । हे मित्रावरुणौ हे अर्यमन् । पूर्ववत्स्वरः । उद्गो दत्तेत्यादि समानम् ॥
3 अथ तृतीयः - हे देवाः सपीतयः समानपानाः परस्परतः अस्माभिश्च सह हे अपां नपात् अपां चतुर्थ । 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्यामन्त्रिताद्युदात्तत्वम् । हे आशुहेमन् शीघ्रगते । हि गतौ, अन्येभ्योपि दृश्यते' इति मनिन् । प्रदर्शनार्थं द्वयोरुपादानम् । उद्गो दत्तेत्यादि । गतम् ॥
4 पिण्डीर्जुहोति - दिवा चित् इत्यादिभिस्तिसृभिः ॥ प्रथमा गायत्री । द्वितीयाऽस्तारपाङ्क्तिः, अयुजो द्वादशाक्षरत्वात् । तृतीया बृहती । तत्र प्रथमा - दिवा चित् दिवापि तमः दुर्दिनान्धकारं कृण्वन्ति कुर्वन्ति, किं पुनर्नक्तम्? पर्जन्येनोदवाहेन उदकस्य वाहकेन अनवरतवर्षिणा सह दिवाप्यन्धकारितमिव रोदोन्तरं दर्शयति घनपटलसंछादितदिगन्ता नक्तंदिनं वर्षयन्तीति यावत् । कदेति? आह - यत् । 'सुपां सुलुक्' इति सप्तम्या लुक् । यदा पृथिवीं व्युन्दन्ति विशेषेण क्लेदयन्ति । उन्दी क्लेदने । एते च पूर्वोक्ता अग्न्यादयो वक्ष्यमाणा मरुतो वा द्रष्टव्याः । अस्माकमप्येतद्वृष्टीः निवर्तयन्त्विति ॥
5 अथ तृतीया - आ यं नर इति ॥ नरः ऋत्विजः सुदानवः शोभनहविषां दातारः । दाशुषे यजमानाय हविषां दात्रे । तादर्थ्ये चतुर्थी । यजमानार्थं यं कोशं उदकस्याधारं मेघं दिवः द्युलोकात् अचुच्यवुः आच्यावयन्ति स्थानात् । यद्वा - दिवः आदित्यात् गृहीतं रश्मिषु नरो नेतारः मरुतः च्यावयन्ति । ततः कोशात्पर्जन्या उदकं विसृजन्ति मुञ्चन्ति रोदसी अनु द्यावापृथिव्यौ लक्षयित्वा । विसर्जनानन्तरं धन्वना अनुदकेन देशेन । विभक्तिव्यत्ययो वा । निरुदके देशे । वृष्टयः वृष्टानि जलानि यान्ति नद्यो भूत्वा प्रवहन्ति । च्यवतेर्लेटि शपश्श्लुः, 'समवप्रविभ्यश्च' ['सिजभ्यस्तविदिभ्यश्च'] इति जुस्, 'जुसि च' इति गुणः, 'मन्त्रे वृष' इति वृषेः क्तिन उदात्तत्वम् ॥
6 अथ तृतीया - हे मरुतः यूयं उदीरयथ प्रेरयथ वृष्टिं समुद्रतः समुन्दनात् मेघात् । ततो वर्षयथ पर्जन्यात् । हे पुरीषिणः उदकवन्तः, उदकेन हि सर्वं पूर्यते । न हि वः युष्मदीया धेनवः प्रीणनहेतवः अपः उपदस्यन्ति उपक्षीयन्ते, हे दस्राः दंसनशीलाः दानशीला वा । अतो वर्षयतेति । किं च - रथाः रंहणशीलाः यातां कालानुकूलप्रवृर्त्तां शुभं शोभाम् । संपदादिलक्षणः क्विप् । अनुवर्तध्वम् । यद्वा - यातां गतिं शुभमनुवर्तध्वं सुष्ठु अविच्छेदं कुरुध्वम् । पूर्वप्रवृत्तमार्गं मा मुञ्चत, यस्मादिदानीमपि रंहणाः स्थ, तस्माच्छक्तत्वात्स्वभावो न त्याज्यः इति । वृतेः छान्दसे लुङि व्यत्ययेन क्सः, 'द्युद्भ्यो लुङि' इति व्यत्ययेन परस्मैपदम्, 'न वृद्भ्यश्चतुर्भ्यः'। इतीडभावः ॥
7 अथ कृष्णां कुम्भीमद्भिः पूरयति - सृजा वृष्टिमिति द्विपदया गायत्र्या ॥ आ इति प्रथमपादान्तः । सृज वृष्टिं दिवः द्युलोकात् द्योतनवतो मेघाद्वा, ततः अद्भिः समुद्रं तमेव समुन्दनं मेघं आवृण पूरय पुनःपुनर्वृष्ट्यर्थम् ॥
8 अथ कृष्णां व्रीहिभिर्जुहोति - अब्जा असीति द्विपदया गायत्र्या ॥ अब्जा असीति अद्भ्यो जायत इति । 'जनसन' इति लिट्, 'विड्वनोरनुनासिकस्स्यात्' इत्याकारः । प्रथमजाश्चासि । प्रथमः प्रजापतिः तस्माज्जात इति । पूर्ववत्प्रत्ययः आकारश्च । यथोक्तां - 'राजन्यो मनुष्याणामविः पशूनाम्' इति । बलमसि समुद्रियं समुद्रे मेघे भवम् । समुद्रात् अभ्रात् मेघतः ईदृशं बलहेतुरुदकं त्वमसि ईदृशोदकहेतुरसि ॥
9 अथ वर्षाभूस्तम्भमभिजुहोति - उन्नम्भयेत्यनुष्टुभा ॥ हे वर्षाभूस्तम्भ उन्नम्भय उच्छ्वासय । नभिः गतिकर्मा छान्दसो नुम् । पृथिवीं वृष्ट्या । तद्दर्शयति - इदं दिव्यं दिवि स्थितं नभः मेघं भिन्धि । नभेरसुनि नभः । गत्वरम् । तथा कृत्वा उद्गः उदकस्य दिव्यस्य नः अस्मभ्यं देहि । कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईशानः उदकं दातुं समर्थः त्वं विसृज विमुञ्च दृतिं दृतिस्थानीयं मेघं क्षारय । 'द्व्यचोतस्तिङः' इति दीर्घत्वम् । पूर्ववदुदकस्योदन्भावः उदात्तनिवृत्तिस्वरश्च । उद्ग ईशान इति वा । 'अधीगर्थ' इति षष्ठी ॥
10 अन्तर्वेदि तिष्ठन् कृष्णाजिनमवधूनोति - ये देवा इति जगत्या ॥ षट्पदया ॥ ये देवा दिविभागाः दिवि भागो येषाम् । 'हलदन्तात्' इति सप्तम्या अलुक् । ये अन्तरिक्षभागाः, 'ये च पृथिवीभागाः ते सर्वे इमं यज्ञं अवन्तु रक्षन्तु फलप्रदानसमर्थं कुर्वन्तु । ते इदं क्षेत्रमाविशन्तु वर्षरूपेण विशन्तु वर्षितृरूपेण वा परिगृह्णन्तु, ते इदं क्षेत्रं अनुविविशन्तु ओषध्यादिरूपेण व्याप्य तिष्ठन्तु, मा कदाचिदपीदं शुष्कं भूत् ॥
इति द्वितीये चतुर्थे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.4.8.2 TS 2.4.8.2
वृ॒ष्टयः॑ ॥ उदी॑रयथा मरुतः समुद्र॒तो यू॒यं ॅवृ॒ष्टिं ॅव॑र्.षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ ॅया॒तामनु॒ रथा॑ अवृथ्सत ॥ सृ॒जा वृ॒ष्टिं दि॒व आऽद्भिः स॑मु॒द्रं पृ॑ण ॥ अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रियं᳚ ॥ उन्न॑म्भय पृथि॒वीं भि॒न्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ विसृ॑जा॒ दृतिं᳚ ॥ ये दे॒वा ( ) दि॒विभा॑गा॒ ये᳚ऽन्तरि॑क्ष भागा॒ ये पृ॑थि॒वि भा॑गाः । त इ॒मं ॅय॒ज्ञ्म॑वन्तु॒ त इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु ॥
पदपाठः (Word-by-word)
वृ॒ष्टयः॑ ॥ उदिति॑ । ई॒र॒य॒थ॒ । म॒रु॒तः॒ । स॒मु॒द्र॒तः । यू॒यम् । वृ॒ष्टिम् । व॒र्॒.ष॒य॒थ॒ । पु॒री॒षि॒णः॒ ॥ न । वः॒ । द॒स्राः॒ । उपेति॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । शुभ᳚म् । या॒ताम् । अन्विति॑ । रथाः᳚ । अ॒वृ॒थ्स॒त॒ ॥ सृ॒ज । वृ॒ष्टिम् । दि॒वः । एति॑ । अ॒द्भिरित्य॑त् - भिः । स॒मु॒द्रम् । पृ॒ण॒ ॥ अ॒ब्जा इत्य॑प् - जाः । अ॒सि॒ । प्र॒थ॒म॒जा इति॑ प्रथम - जाः । बल᳚म् । अ॒सि॒ । स॒मु॒द्रिय᳚म् ॥ उदिति॑ । न॒भं॒य॒ । पृ॒थि॒वीम् । भि॒न्धि । इ॒दम् । दि॒व्यम् । नभः॑ ॥ उ॒द्नः । दि॒व्यस्य॑ । नः॒ । दे॒हि॒ । ईशा॑नः । वीति॑ । सृ॒ज॒ । दृति᳚म् ॥ ये । दे॒वाः ( ) । दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ । ये । अ॒न्तरि॑क्षभागा॒ इत्य॒न्तरि॑क्ष - भा॒गाः॒ । ये । पृ॒थि॒विभा॑गा॒ इति॑ पृथि॒वि - भा॒गाः॒ ॥ ते । इ॒मम् । य॒ज्ञ्म् । अ॒व॒न्तु॒ । ते । इ॒दम् । क्षेत्र᳚म् । एति॑ । वि॒श॒न्तु॒ । ते । इ॒दम् । क्षेत्र᳚म् । अनु॑ । वीति॑ । वि॒श॒न्तु॒ ॥
पदसंख्या: 70