पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके अष्टमोनुवाकः)। (कारीरीष्टिमन्त्राः) प्राच्याङ्गमन्त्राः कारीर्यां सप्तमे समुदीरिताः।
"अथावशिष्टमन्त्रा अष्टमे वर्ण्यन्ते। कल्पः- उत्करे प्रागीषं त्रिगधमनोवस्थितं भवति (त्रि) च्छदींषीत्यर्थो (दिष्कमथो देवा वसव्या इति पूर्वस्यां गधायां कृष्णजिनमाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वषद्देवा शर्मण्या इति मध्यमायाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वर्षेद्देवाः सपीतय इति जघन्यायामाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वर्षच्छ्वोभूते धामच्छदादीनि त्रीणि हवींषि निर्वपति इति। पाठस्तु देवा वसव्या इति। अत्रोद्रो दत्तेत्येष त्रयाणां मन्त्राणां शेषत्वेतानुषज्यते। हे देवा उद्गो दत्तोदकानि प्रयच्छत। कीदृशा देवाः, वसव्याः प्रजानांवासयितारः क एते देवा इत्युच्यते अग्नो सोम सूर्येति। एवमादिका हे देवा पूर्वत्रान्वयः। उदकदाने क उपाय इति तदुच्यते—उदधिं भिन्त, उदकं धीयतेस्मिन्नित्युदधिर्मेघस्तं विदारयत। केभ्यो निमित्तेभ्यः, दिवोन्तरिक्षात्पृथिव्याः। लोकत्रयं निमित्तीकृत्येत्यर्थः। ततो मेघविदारणादूर्ध्वं पर्जन्यादागतया वृष्ट्या नोस्मानवत रक्षत। द्वितीयमन्त्रे तु मित्रावरुणार्यमन्नित्येवमादयो हे देवाः शर्मण्याः सुखप्रदा इति व्याख्येयम्। तृतीयमन्त्रे त्वपां नपादुदकानामविनाशयितराशुहेमत्र्शीघ्रगत इत्येवमादयो हे देवाः सपीतयः समानां पीतिः सोमपानं येषां ते तादृशा इति व्याख्येयम्। कल्पः-“उपहोमकाले दिवा वित्तमः कृण्वन्तीति प्रतिमन्त्रं पिण्डीराबध्नाति जुहोतीत्येके” इति। तत्र प्रथममन्त्रपाठस्तु दिवा चित्तम इति। यदा देवा पृथिवीं विशेषेण क्लेदयन्ति तदानीमुदकं बहता पर्जन्येन दिवापि तमः कृण्वन्ति किमुत रात्रौ। द्वितीयमन्त्रपाठस्तु आ यमिति। नरो मनुष्या ऋत्विजः सुदानवः सुष्ठु हविषोः दातारो ददाशुषे हविर्दत्तवते यजमानाय यजमानार्थं यं कोशमुदकधारकं मेघं दिवः सकाशादाचुच्यवुः समन्ताच्यवितवन्तः प्रसारितवन्त इत्यर्थः। स मेघः पूर्वमेकोपि पर्जन्या बहवो मेघा भूत्वा रोदसी अनु द्यावापृथिव्यावनुलक्ष्य विविधां वृष्टिं सृजन्ति। बहुपर्जन्यभावाभिप्रायेण बहुवचनम्। ताश्च वृष्टयो धन्वना मरुभूमावुदकरहितायां यन्ति प्रवर्तन्ते। तृतीयमन्त्रपाठस्तु उदीरयथा इति। हे मरुतो यूयं समुद्रसदृशान्मेघाद्वृष्टिमुदीरयथोत्पादयत। ततः पुरीषिणः पांसुयुक्तान्भूप्रदेशान्वर्षयथाप्लावयथ। हे दस्रा भूमिशोषमुपक्षपयितारो मरुतो यो युष्माकं धेनवो धेनुसदृशा मेघा नोपदस्यन्ति नैवोपक्षीयन्ते। किं कुर्वतां युष्माकं, शुभं यातां जगदनुग्रहरूपमिदं मङ्गलकार्यं प्राप्नुवताम्। किंच इतरेषां देवानां रया अन्ववृत्सत भवदीयान्रथाननुवर्तन्तां वृष्टिं दातुमस्मदीये कर्मणि रथानारुह्य युष्मासु समागच्छत्सु पृष्ठतः सर्वेप्यन्ये देवा रथामारुह्य समागच्छन्त्वित्यर्थः। कल्पः- “उत्करे कृष्णामामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति, यदि भिद्येत वर्षिष्यतीति विद्यात्” इति। पाठस्तु सृजा वृष्टिमिति। हे मरूत्संघ दिवः सकाशात्वृष्टिं सृज। अद्भिः समुद्र सदृशं वह्निदाहमन्तरेणातपेन शुष्कमिमं कुम्भमापृण समन्तात्पूरय। कल्पः-“अनउपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवत्यब्जा असीति तां प्रोक्षति” इति। पाठस्तु अब्जा असीति। हेवेब्जा उदकाज्जातानि मातृपित्रुदकाद्रेतोरूपेण परिणतादुत्पन्नासि। किंच, प्रथमजा असि सुवर्भानुप्रसारितादादित्यावरकतमोभागात्प्रथममपहतादुत्पन्नाऽसि “तस्य यत्प्रथमं तमोपाध्नन्त्सा कृष्णाविरभवत्” इति श्रुतेः। समुद्रियं समुद्रसदृशमेघसंबन्धि बलं वृष्ट्युत्पादनसामर्थ्यमसि। त्वय्याक्रन्दन्त्यां वृष्टिर्भविष्यतीति ज्ञातुं शक्यत्वादित्यर्थः। कल्पः- “उत्करे वर्षाहुस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति” इति। वर्षाहुः पुनर्नवा। पाठस्तु उन्नम्भयेति। हे पुनर्नवे पृथिवीमुन्नम्भयोत्कर्षेण क्लेदय, तदर्थं दिव्यं दिवि भवमिदं नभ आकाशवद्व्याप्तं मेघमण्डलं भिन्धि विदारय। विदार्य च दिव्यस्य दिवि भवस्योदन उदकस्य वर्षणं नोस्मभ्यं देहि। पुनर्नवाया ओषध्या उत्पादक हे देव त्वमीशानः सन्दृतिं विसृजोदकपूर्णदृतिसमानं मेघं वर्षणाय विसृष्टद्वारं कुरु। कल्पः-“ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमव धूनोत्यूर्ध्वग्री वंबहिष्टादिशसनम्” इति। पाठस्तु ये देवा इति। लोकत्रयभाजो ये देवास्ते प्रथमं यज्ञं प्रविश्य सस्य निष्पादकं क्षेत्रं सामान्येनाविश्य ततः प्रतिक्षेत्रमनु च विशेषेण विशन्त। "
अत्र विनियोगसंग्रहः-
वृष्टिप्रदायां कारीर्यां देवा इत्यादिकैस्त्रिभिः। दिनत्रये चर्मबन्धः शकटस्थे छदिस्त्रये।।
उद्नो दत्तेति वाक्यं तु त्रयाणा शेष इष्यते।दिवात्रिभिः सक्तुहोमः सृजेत्युत्तरसंस्थिताम्।।
स्थालीमिद्भिः पूरयित्वा ह्यब्जाः प्रोक्षत्यविं स्थिताम्।उन्नं पुनर्नावाहोमो ये चर्माग्नौ तु धूयते।।
अष्टमे त्वनुवाकेस्मिन्दश मन्त्रा उदीरिताः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके ष्टमोनुवाकः ।। ८ ।।