अनुवाकः 4 TS 2.5.4

(A4)

(ए॒तां - त - दौदु॑म्बरꣳ॒॒ - स्वा - त्रिꣳ॒॒शच्च॑ )

अनुवाकः 4 - Complete Audio

TS 2.5.4 - स्वरानुगामी

0:00 0:00
PS1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै
PS1.2 द॑॑र्.शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒
PS1.3 सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑से
PS1.4 ऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑सः॒
PS1.5 सेन्द्र॑ ऐ॒न्द्रं दद्ध्य॑मावा॒स्या॑यां॒ तेना॑मावा॒स्या॑
PS1.6 सेन्द्रा॒ य ए॒वं ॅवि॒द्वान्
PS1.7 द॑र्.शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒
PS1.8 श्वः श्वो᳚ऽस्मा ईजा॒नाय॒ वसी॑यो
PS1.9 भवति दे॒वा वै यद्-य॒ज्ञे
PS1.10 ऽकु॑र्वत॒तदसु॑रा अकुर्वत॒ ते दे॒वा
PS1.11 ए॒ता - [ ]
PS2.1 -मिष्टि॑-मपश्यन्-नाग्नावैष्ण॒व-मेका॑दशकपालꣳ॒॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते
PS2.2 च॒रुं तां पौ᳚र्णमा॒सꣳ सꣳ॒॒स्थाप्यानु॒
PS2.3 निर॑वप॒न् ततो॑ दे॒वा अभ॑व॒न्
PS2.4 पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ् स
PS2.5 पौ᳚र्णमा॒सꣳ स॒ꣳ॒॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् पौर्णमा॒सेनै॒व
PS2.6 वज्रं॒ भ्रातृ॑व्याय प्र॒हृत्या᳚ऽऽग्नावैष्ण॒वेन॑ दे॒वता᳚श्च
PS2.7 य॒ज्ञ्ं च॒ भ्रातृ॑व्यस्य वृङ्क्ते
PS2.8 मिथु॒नान् प॒शून्थ् सा॑रस्व॒ताभ्यां॒ ॅयाव॑दे॒वास्यास्ति॒
PS2.9 तथ् - [ ]
PS3.1 सर्वं॑ ॅवृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒
PS3.2 भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याꣳ॑ ह॒त्वा भ्रातृ॑व्यं॒ नाऽऽप्या॑ययति
PS3.3 साकंप्रस्था॒यीये॑न यजेत प॒शुका॑मो॒यस्मै॒ वा
PS3.4 अल्पे॑ना॒ऽऽहर॑न्ति॒ नाऽऽत्मना॒ तृप्य॑ति॒ नान्यस्मै॑
PS3.5 ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒
PS3.6 ददा᳚त्य॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्यं॑
PS3.7 तृ॒प्त ए॒वैन॒मिन्द्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति
PS3.8 दारुपा॒त्रेण॑ जुहोति॒ न हि
PS3.9 मृ॒न्मय॒माहु॑तिमान॒श औदु॑म्बरं - [
PS3.10 ]
PS4.1 भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क् प॒शव॑
PS4.2 ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे॒
PS4.3 नाग॑तश्रीर्महे॒न्द्रं ॅय॑जेत॒ त्रयो॒ वै
PS4.4 ग॒तश्रि॑यः शुश्रु॒वान् ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषां᳚
PS4.5 महे॒न्द्रो दे॒वता॒ यो वै
PS4.6 स्वां दे॒वता॑मति॒ यज॑ते॒ प्रस्वायै॑
PS4.7 दे॒वता॑यैच्यवते॒ न परां॒ प्राप्नो॑ति॒
PS4.8 पापी॑यान् भवति संॅवथ्स॒र-मिन्द्रं॑ ॅयजेत
PS4.9 संॅवथ्स॒रꣳ हि व्र॒तं नाति॒
PS4.10 स्वै - [ ]
PS5.1 -वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्धे॒
PS5.2 वसी॑यान् भवति संॅवथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚
PS5.3 व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ् संॅवथ्स॒रमे॒वैनं॑
PS5.4 ॅवृ॒त्रं ज॑घ्नि॒वाꣳ स॑म॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तमा ल॑म्भयति॒
PS5.5 ततोऽधि॒ कामं॑ ॅयजेत

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.5.4.1 TS 2.5.4.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑॑र्.शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑सः॒ सेन्द्र॑ ऐ॒न्द्रं दद्ध्य॑मावा॒स्या॑यां॒ तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वः श्वो᳚ऽस्मा ईजा॒नाय॒ वसी॑यो भवति दे॒वा वै यद्-य॒ज्ञे ऽकु॑र्वत॒तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । य॒जे॒त॒ । यः । ए॒नौ॒ । सेन्द्रा॒विति॒ स - इ॒न्द्रौ॒ । यजे॑त । इति॑ । वै॒मृ॒धः । पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु - नि॒र्वा॒प्यः॑ । भ॒व॒ति॒ । तेन॑ । पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒सः॒ । सेन्द्र॒ इति॒ स - इ॒न्द्रः॒ । ऐ॒न्द्रम् । दधि॑ । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । तेन॑ । अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । सेन्द्रेति॒ स - इ॒न्द्रा॒ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । सेन्द्रा॒विति॒ स - इ॒न्द्रौ॒ । ए॒व । ए॒नौ॒ । य॒ज॒ते॒ । श्वः श्व॒ इति॒ श्वः - श्वः॒ । अ॒स्मै॒ । ई॒जा॒नाय॑ । वसी॑यः । भ॒व॒ति॒ । दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत । तत् । असु॑राः । अ॒कु॒र्व॒त॒ । ते । दे॒वाः । ए॒ताम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे पञ्चमप्रपाठके चतुर्थोनुवाकः)। (आग्नावैष्णवादियागविधिः) उक्ते वैमृधसांनाय्ये द्वितृतीयानुवाकके।। अथ चतुर्थं आग्नावैष्णवादयो वक्तव्याः। तत्रादौ तावत्पूर्वोक्तानुवाकयोर्दर्शपूर्णमासयोः प्रशंसामाह ब्रह्मवादिन इति। एतौ दर्शपूर्णमासयागाविन्द्रसहितौ यो यजते स एव दर्शपूर्णमासयाजी न त्वन्यः। तयोश्च यागयोः सेन्द्रत्वं वैमृधसांनाय्याभ्यां संपद्यते। एवं विदुषः सेन्द्रयागेनो (णो) त्तरोत्तरदिने धनाधिक्यं भवति । अथ पौर्णमास्यां काम्यमनुनिर्वाप्यमिष्ट्यन्तरं विधातुं प्रस्तौति—

देवा वा इति। देवानां यज्ञं दृष्ट्वा तथैवानुचरतामसुराणां देवसमानं विजयं दृष्ट्वा देवास्तानसुरान्वञ्चयित्वानुष्ठितेनानुनिर्वाप्येण स्वयं विजयं प्राप्ता असुराश्च पराभूताः। अथ विधत्ते यो भ्रातृव्यवानिति। पौर्णमासेन प्रधानयागेन वज्रप्रहारः। अग्निः सर्वा देवता विष्णुर्यज्ञ इत्युक्तत्वात्तदीयहविषा वैरिणो देवता यज्ञं ऋतुं च विनाशयति। सारस्वतयोः स्त्रीपुरुषदेवत्वात्तदीयहविर्भ्यां मिथुनानां पशूना वर्जनम्। एतावता भ्रातृव्यस्य यावद्वित्तमस्ति तत्सर्वं नाशितं भवति। यदुक्तं सूत्रकारेण—पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्यां पितृयज्ञमेवामावास्यायां क्रियते (इति) तदेतद्विधत्ते पौर्णमासीमेवेति। द्वितीयानुवाके वृत्रप्रसङ्ग इदमुक्तम्—घ्नन्ति वा एनं पूर्णवास आमावास्यायां प्याययन्ति इति। तस्मादत्रापि पूर्णमासानुष्ठानेन भ्रातृव्यं हत्वा दर्शयागपरित्यागेन भ्रातृव्यस्याप्यायनं परित्यक्तवान्भवति। अथ दर्शपूर्णमासस्य गुणविकृतिरूपं कंचिद्यागं विधत्ते साकंप्रस्थायीयेनेति। दधिक्षीरपूर्णाभिश्चतसृभिः कुम्भीभिर्ब्राम्हणाहृताभिः साकमध्वर्यो प्रस्थानं होमस्थानं त्रति प्रस्थानं यस्मिन्यागे सोयं साकंप्रस्थायीयो यागस्तेन पशुकामो यजेत। तत्र महता क्षीरद्रव्येण पूर्णं हविर्होतव्यम्। लोके च यस्मै राज्ञे करप्रदायिन्यः प्रजा अल्पेन प्रमाणेन धनमाहरन्ति स राजा न स्वयं तृप्यति नाप्यन्यस्मै दातुं शक्नोति। यस्मै तु महता प्रमाणेन धनमाहरत्न्ति स राजा स्वयं तृप्यति चान्यस्मै दातुमपि च प्रभवति। तस्मादत्रापि महता प्रमाणेन पूर्णस्य द्रव्यस्य होमे सति स्वयं तृप्त इन्द्रः प्रजया पशुभिश्चैनं यजमानं तर्पयति। तद्यागप्रकारः सूत्रकारेण स्पष्टीकृतः---‘साकंप्रस्थायीयेन यजेत पशुकाम इत्यमावास्या विक्रियते द्वौ सायंदोहावेवं प्रातः सायं सायंदोहाभ्यां प्रचरन्ति प्रातः प्रातर्दोहाभ्यां सर्वैर्वा प्रातः’ इति। क्षीरश्रपणपात्राणां मृन्मयत्वाद्धोमेऽपि तत्प्रसक्तिं वारयितुं विधत्ते दारुपात्रेणेति। यस्मामृन्मयपात्रमाहुतिं व्याप्तुं नार्हति तस्माद्दारुपात्रेण होमः। न ह्यत्र जुह्वामवदानमस्ति। पूर्णस्य होतव्यत्वात्। अतो हविष्पूरणक्षमेण जुहुयात्। दारुविशेषं विधत्ते---

औदुम्बरमिति। प्रथमप्रपाठके औदुम्बरो यूपो भवतीत्यत्रैतद्व्याख्यातम्। अत्र सूत्रम् ‘पात्रसंसादनकाले चत्वार्यौदुम्बरपात्राणि प्रयुनक्ति तेषां जुहूवत्कल्पः’ इति। ‘यावत्यः कुभ्म्यस्तावन्तो ब्राह्मणा दक्षिणत उपवीतिन उपोत्थाय कुन्भीभ्यः पात्राणि पूरयित्वा तैरेवाध्वर्युं जुह्वन्त(त) मनु जुह्वति स्विष्टकृद्भक्षाश्च न विद्यन्ते’ इति च। नागतश्रीरिति। शुश्रुवान्वेदत्रयाभिज्ञः। वेदत्रयस्य च श्रीरूपत्वात्तदभिज्ञः प्राप्तश्रीर्भवति। श्रीरूपत्वं चैवमाम्नायते---‘अहे बुध्निय मन्त्रं मे गोपाय। यन्मृषयस्त्रयिविदा विदुः। ऋचः सामानि यजू षि। सा हि श्रीरमृता सताम्’ इति। ग्रामाध्यक्षो ग्रामणीः। राज्ञः पुत्रो राज्यन्यः। दयोः प्राप्तश्रीकत्वं प्रसिद्धम्। तेषामेव त्रयाणां महेन्द्रो देवता। एवं सति यः पुरुषः स्वकीयां देवतामतिक्रम्य यजते। एतेषु कश्चिदिन्द्रं यजति। अन्यो वा महेन्द्रं यजति। ताडशः स्वकीयदेवतायाः प्रच्युतः सन्परकीयां देवतां न प्राप्नोति। तद्देवताशापेन पापीयान्दरिद्रश्च भवति। अगतश्रियः सर्वदेन्द्रप्राप्तौ विशेषं विधत्ते संवत्सरमिति। संवत्सरमतिक्रम्य यस्माद्व्रतं नानुष्ठेयं भवति तस्मादगतश्रीः संवत्सरमिन्द्रं यजेत। एवं सति स्वकीयैव देवतान्यस्मिन्संवत्सर इज्यमाना सती भूत्यर्थं यजमानं प्रकाशयति। ततोयं धनवत्तरो भवति। अगतश्रियः कांचिदिष्टिं विधत्ते संवत्सरस्येति। व्रतपालकोग्निर्महेन्द्रयागाधिकारनिवारकपापरूपं वृत्रं संवत्सरेन्द्रानुष्ठानेन हतवन्तं यजमानं महेन्द्रयागानुष्ठानरूपं व्रतं प्रापयति। व्रतपतेष्टेरूर्ध्वमगतश्रिय इन्द्रमहेन्द्रयोरैच्छिकत्वं विधत्ते ततोधि कामं यजेतेति।

अत्र मीमांसा।

तृतीयाध्यायस्य पञ्चमपादे चिन्तितम् ‘आक्रामन्सह कुंभीभिरस्मिञ्छेषक्रिया न वा जुह्वावदानात्प्रकृताविव शेषक्रियोचिता।। कुम्भीषु शेषासंसिद्धेः साकंप्रस्थाय (य्य) कर्मणि। न स्विष्टकृदिदं (डं) कार्यमग्नीधे स्रुक्प्रदानतः’।।

"‘साकंप्रस्थायीयेन यजेत पशुकामः’ इति विहिते कर्मणि श्रूयते सहकुम्भीभिरभिक्रामन् इति। तत्र चतसृभिदधिपयः कुम्भिभि। सहा हवनीयदेशेभिक्रमणमात्रं श्रुतम्। न तु तत्र कुम्भीभिर्होमः श्रुतः। तथा सत्यस्य कर्मणः सांनाय्यविकृतित्वाज्जुह्वा कुम्भीभ्योवदाय जुहुयात्। हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणेव कर्तव्यमिति प्राप्ते ब्रूमः नात्र कुम्भीषु हुतशेषः सांनाय्य इव जुह्वावदानाभावात्। अग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्नित्युक्तत्वाज्जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोहोंमे सति कुम्भीमात्रमवशिष्यते, न हुतहविःशेषः। तत्र कृतः शेषकर्मं कार्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमपिरपाठके चतुर्थोनुवाकः ।। ४ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ब्रह्मवादिन इत्यादि ॥ गतम् । य एनावित्यादि । अविदुषो नार्थः । पूर्णमासे वैमृधेन अमावास्यायामैन्द्रेण दध्ना च इत्येवं विदित्वेष्टवते यजमानायोत्तरमुत्तरं दिनं प्रशस्ततरं भवति ॥
2 देवा वा इत्यादि ॥ गतम् । एतामिष्टिमिति । वक्ष्यमाणां त्रिहविष्कां पौर्णमासीसमाप्त्यनन्तरं तस्या अनुनिर्वाप्यामकुर्वन् । पौर्णमास्येवानुनिर्वाप्यसहिता फलं ददाति (कूग[कुहू]श्च) । पौर्णमासेनैवेत्यादि । वृङ्क्ते वर्जयति स्वयं गृह्णाति । यस्मादेवं तस्माद्यावत्किञ्चित् भ्रातृव्यस्य विद्यते तत्सर्वमनयेष्ट्या वृङ्क्ते ॥
3 नामावास्यामिति ॥ तत्र पितृयज्ञ एव क्रियते । तत्राप्यायितस्य वधादनाप्यायनमेव श्रेयः इति लुप्यते, 'अमावास्यायां प्याययन्ति' इति । तद्वत्पौर्णमास्या पौर्णमासे भ्रातृव्यं हत्वा अमावास्यालोपेनाप्यायनं अस्य निवर्तयति । यावदमावास्यामाप्यायितस्य वृद्ध्या वृत्रस्य अमावास्याया ऊर्ध्वं वधः क्रियते । तत्राप्यायितस्य वधादनाप्यायनमेव श्रेय इति लुप्यते अमावास्या ॥
4 साकंप्रस्थायीयेनेति ॥ साकं सह ब्राह्मणैः प्रतिष्ठते होतुमिति साकंप्रस्थायी अध्वर्युः । तस्य सम्बन्धी साकंप्रस्थायीयो यागः । तत्र द्वौ सायं दोहौ द्वौ प्रातर्दोहौ । तत्र ब्राह्मणाः पूर्णपात्रैः अध्वर्युं जुह्वन्तमनुजुह्वति । अमावास्यैव (स्या)विक्रियते । यस्मै वेति । यस्मै अल्पेन प्रमाणेन धनादिकमाहरन्ति अथ स नात्मना तृप्यति । येनात्मनि तृप्तिर्नास्ति असौ धनान्तरं च नान्यस्मै दातुं शक्नोति । यदि महता प्रमाणेन अस्मा आहरन्ति, स स्वयं च तृप्यति, अन्यस्मै चायं महता प्रमाणेन ददाति, तस्याप्यतृप्तिर्भवतीतिभावः ॥
5 दारुपात्रेणेति ॥ औदुम्बरैश्चतुर्भिः पात्रैः । न हीति । मृन्मयं कुम्भादिकं न ह्याहुतिमानशे अश्नुते आहुतिसाधनं न भवति । मृन्मयेन हुता आहुतिरेव न स्यादिति यावत् । 'एकाचो नित्यं मयटमिच्छन्ति' इति मयट् ॥
6 औदुम्बरमित्यादि ॥ गतम् । 'अनुदात्तादेरञ्'' ॥
7 नागतश्रीरित्यादि ॥ शुश्रुवान् षडङ्गवेदत्रयवेदी श्रुतसंपन्नः । स च प्राप्तश्रीः, 'सा हि श्रीरमृता सताम्' इति श्रीत्वाद्वेदानाम् । ग्रामणीः ग्रामाध्यक्षः । राज्ञोपत्यं राजन्यः । 'राजश्वशुराद्यत्', 'राज्ञोपत्ये जातिग्रहणम्' इति क्षत्रिय उच्यते । स्पष्टमेतयोर्गतश्रीत्वं, यतो हिन्द्र एषां देवता । तस्मादेभ्योऽन्योऽगतश्रीः महेन्द्रं यष्टुं नार्हति ॥
8 यो वा इत्यादि ॥ आत्मीयदेवतातिक्रमेण योऽर्न्यां देवतां यजते स स्वाया देवतायास्तावत् प्रच्यवते तस्या अनुग्राह्यो न भवति । ततश्च पापीयान् पापतरो भवति । अयष्टुरस्यापापत्वमेव । यष्टुः पापतरत्वं स्यात्, देवतावत्त्वाभावात् ॥
9 संवत्सरमित्यादि ॥ संवत्सरातिक्रमे व्रतं नास्ति । तस्मात् गतश्रीत्वाय संवत्सरं व्रतं चरन्तं स्वा आत्मीया देवता इन्द्र इज्यमाना एनमवग्तश्रियं भूत्यर्थं इन्धे दीपयति । ततो वसीयान् वसुमत्तरो भवति, महेन्द्रयागार्हो गतश्रीरेव भवति, गता श्रीः आत्मीया देवता अनेनेति कृत्वा ॥
10 ततस्समाप्ते संवत्सरे गते अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् सोऽग्निर्व्रतपतिः तृप्तः एनं व्रतफलमालम्भयति गतश्रीत्वमस्योत्पादयति स्वयमप्यनुज्ञाय स्थिरीकरोति । कीदृशमित्याह - सवत्सरं व्रतं चरित्वा वृत्रं वारकं पापं महेन्द्रयागानर्हत्वलक्षणं जघ्निवांसं अभिभवर्न्तं तत्फलं प्रापयति । यथा इन्द्रो वृत्रं हत्वा इन्द्रो महेन्द्रोऽभवत्, एवमयमपि त्वयोग्यतालक्षण वत्रवधेन महेन्द्रयागयोग्यो भवति । तत उपरि कामं यथेष्टं महेन्द्रमेव यजेत ॥
इति द्वितीये पञ्चमे चतुर्थोऽनुवाकः ॥
पञ्चशत् 2 #
TS 2.5.4.2 TS 2.5.4.2
-मिष्टि॑-मपश्यन्-नाग्नावैष्ण॒व-मेका॑दशकपालꣳ॒॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुं तां पौ᳚र्णमा॒सꣳ सꣳ॒॒स्थाप्यानु॒ निर॑वप॒न् ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ् स पौ᳚र्णमा॒सꣳ स॒ꣳ॒॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् पौर्णमा॒सेनै॒व वज्रं॒ भ्रातृ॑व्याय प्र॒हृत्या᳚ऽऽग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञ्ं च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान् प॒शून्थ् सा॑रस्व॒ताभ्यां॒ ॅयाव॑दे॒वास्यास्ति॒ तथ् - [ ]
पदपाठः (Word-by-word)
इष्टि᳚म् । अ॒प॒श्य॒न्न् । आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ला॒म् । सर॑स्वत्यै । च॒रुम् । सर॑स्वते । च॒रुम् । ताम् । पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । सꣳ॒॒स्थाप्येति॑ सं - स्थाप्य॑ । अनु॑ । निरिति॑ । अ॒व॒प॒न्न् । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । सꣳ॒॒स्थाप्येति॑ सं-स्थाप्य॑ । ए॒ताम् । इष्टि᳚म् । अनु॑ । निरिति॑ । व॒पे॒त् । पौ॒र्ण॒मा॒सेनेति॑ पौर्ण - मा॒सेन॑ । ए॒व । वज्र᳚म् । भ्रातृ॑व्याय । प्र॒हृत्येति॑ प्र - हृत्य॑ । आ॒ग्ना॒वै॒ष्ण॒वेनेत्या᳚ग्ना-वै॒ष्ण॒वेन॑ । दे॒वताः᳚ । च॒ । य॒ज्ञ्म् । च॒ । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । मि॒थु॒नान् । प॒शून् । सा॒र॒स्व॒ताभ्या᳚म् । याव॑त् । ए॒व । अ॒स्य॒ । अस्ति॑ । तत् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.5.4.3 TS 2.5.4.3
सर्वं॑ ॅवृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याꣳ॑ ह॒त्वा भ्रातृ॑व्यं॒ नाऽऽप्या॑ययति साकंप्रस्था॒यीये॑न यजेत प॒शुका॑मो॒यस्मै॒ वा अल्पे॑ना॒ऽऽहर॑न्ति॒ नाऽऽत्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददा᳚त्य॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्यं॑ तृ॒प्त ए॒वैन॒मिन्द्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श औदु॑म्बरं - [ ]
पदपाठः (Word-by-word)
सर्व᳚म् । वृ॒ङ्क्ते॒ । पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । ए॒व । य॒जे॒त॒ । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । न । अ॒मा॒वा॒स्या॑मित्य॑मा-वा॒स्या᳚म् । ह॒त्वा । भ्रातृ॑व्यम् । न । एति॑ । प्या॒य॒य॒ति॒ । सा॒क॒प्रं॒स्था॒यीये॒नेति॑ साकं - प्र॒स्था॒यीये॑न । य॒जे॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । यस्मै᳚ । वै । अल्पे॑न । आ॒हर॒न्तीत्या᳚ - हर॑न्ति । न । आ॒त्मना᳚ । तृप्य॑ति । न । अ॒न्यस्मै᳚ । द॒दा॒ति॒ । यस्मै᳚ । म॒ह॒ता । तृप्य॑ति । आ॒त्मना᳚ । ददा॑ति । अ॒न्यस्मै᳚ । म॒ह॒ता । पू॒र्णम् । हो॒त॒व्य᳚म् । तृ॒प्तः । ए॒व । ए॒न॒म् । इन्द्रः॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । त॒र्प॒य॒ति॒ । दा॒रु॒पा॒त्रेणेति॑ दारु - पा॒त्रेण॑ । जु॒हो॒ति॒ । न । हि । मृ॒न्मय॒मिति॑ मृत् - मय᳚म् । आहु॑ति॒मित्या - हु॒ति॒म् । आ॒न॒शे । औदु॑बंरम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.5.4.4 TS 2.5.4.4
भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क् प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे॒ नाग॑तश्रीर्महे॒न्द्रं ॅय॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यः शुश्रु॒वान् ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषां᳚ महे॒न्द्रो दे॒वता॒ यो वै स्वां दे॒वता॑मति॒ यज॑ते॒ प्रस्वायै॑ दे॒वता॑यैच्यवते॒ न परां॒ प्राप्नो॑ति॒ पापी॑यान् भवति संॅवथ्स॒र-मिन्द्रं॑ ॅयजेत संॅवथ्स॒रꣳ हि व्र॒तं नाति॒ स्वै - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्क् । प॒शवः॑ । ऊ॒र्जा । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । प॒शून् । अवेति॑ । रु॒न्धे॒ । न । अग॑तश्री॒रित्यग॑त - श्रीः॒ । म॒हे॒न्द्रमिति॑ महा - इ॒न्द्रम् । य॒जे॒त॒ । त्रयः॑ । वै । ग॒तश्रि॑य॒ इति॑ ग॒त - श्रि॒यः॒ । शु॒श्रु॒वान् । ग्रा॒म॒णीरिति॑ ग्राम - नीः । रा॒ज॒न्यः॑ । तेषा᳚म् । म॒हे॒न्द्र इति॑ महा-इ॒न्द्रः । दे॒वता᳚ । यः । वै । स्वाम् । दे॒वता᳚म् । अ॒ति॒यज॑त॒ इत्य॑ति - यज॑ते । प्रेति॑ । स्वायै᳚ । दे॒वता॑यै । च्य॒व॒ते॒ । न । परा᳚म् । प्रेति॑ । आ॒प्नो॒ति॒ । पापी॑यान् । भ॒व॒ति॒ । सं॒ॅव॒थ्स॒रमिति॑ सं-व॒थ्स॒रम् । इन्द्र᳚म् । य॒जे॒त॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । हि । व्र॒तम् । न । अतीति॑ । स्वा ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.5.4.5 TS 2.5.4.5
-वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्धे॒ वसी॑यान् भवति संॅवथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ् संॅवथ्स॒रमे॒वैनं॑ ॅवृ॒त्रं ज॑घ्नि॒वाꣳ स॑म॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तमा ल॑म्भयति॒ ततोऽधि॒ कामं॑ ॅयजेत ॥
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । दे॒वता᳚ । इ॒ज्यमा॑ना । भूत्यै᳚ । इ॒न्धे॒ । वसी॑यान् । भ॒व॒ति॒ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । प॒रस्ता᳚त् । अ॒ग्नये᳚ । व्र॒तप॑तय॒ इति॑ व्र॒त - प॒त॒ये॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । ए॒न॒म् । वृ॒त्रम् । ज॒घ्नि॒वाꣳस᳚म् । अ॒ग्निः । व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ । व्र॒तम् । एति॑ । ल॒भं॒य॒ति॒ । ततः॑ । अधीति॑ । काम᳚म् । य॒जे॒त॒ ॥(ए॒तां - त - दौदु॑म्बरꣳ॒॒ - स्वा -
पदसंख्या: 30