पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
" (अथ द्वितीयकाण्डे पञ्चमप्रपाठके द्वादशोनुवाकः)। (काम्येष्टियाज्यानुवाक्याभिधानम्) होतुर्नियम आघारश्चोक्तमेकादशे द्वयम्। अथ द्वादशे काम्येष्टियाज्यानुवाक्या उच्यन्ते। अतीते तृतीयप्रपाठके इदमाम्नातम् यो ज्योगामयावी स्माद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेदाग्नेयमष्टाकपाल सौम्यं चरुं वारुणं दशकपाल सारस्वतं चरुमाग्नावैष्णवमेकादशकपालम्” इति। तथा “यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चनुष्कपालान्निर्वपेत्” इति। “यद्यपरं प्रतिग्राही स्यात्सौर्यमेककपालमनुनिर्वपेत्” इति च। एतेषु सप्तसु हविःषु क्रमेण याज्यानुवाक्याप्रतीकानि दर्शयति आयुष्ट इति। तत्राग्नेयस्यायुष्टे विश्वतोदधदिति पुरोनुवाक्या। आयुर्दा अग्ने हविषो जुषाण इति याज्या। तदुभयं त्वमग्ने रुद्र इत्यनुवाके व्याख्यातम्। सौम्यस्य त्वा प्यायस्व समेतु त इति पुरोनुवाक्या। सं ते पया सि समु यन्तु वाजा इति याज्या। एतदुभयं चतुर्थकाण्डे मा नो हि सीदित्यनुवाके व्याख्यास्यते। वारुणदशकपालस्याव ते हेड इति पुरोनुवाक्या। उदुत्तममिति याज्या। एतच्चोभयं वैश्वानरो न इत्यनुवाके व्याख्यातम्। सारस्वतस्य प्र णो देवीत्यनुवाक्या। आ नो दिवो बृहत इति याज्या। आग्नावैष्णवस्याग्नाविष्णू महि तद्वामिति पुरोनुवाक्या। अग्नाविष्णू महि धामेति याज्या। चतुष्टयमप्येतत्प्रथमकाण्डस्याष्टमप्रपाठकस्यान्त्यानुवाके व्याख्यातम्। वारुणचतुष्कपालस्येमं मे वरुणेति पुरोनुवाक्या। तत्त्वा यामीति याज्या। एताच्चोभयमस्मिन्नेवकाण्डे प्रथमप्रपाठकस्यान्त्यानुवाके व्याख्यातम्। सौर्यस्योदु त्यं जातवेदसमिति पुरोनुवाक्या। चित्रं देवानामिति याज्या। एतच्चोभयं पूर्वकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्। अथापोनप्त्रीयं चरुं पुनरेत्य निर्वपेदितस्य पुरोनुवाक्यामाह अपा नपादिति। अपामुदकानां नपादविनाशयिता तथाविधनामकः कश्चिद्देव उपस्थं स्वस्योपवेशनस्थानमास्थादातिष्ठति प्राप्नोमीत्यर्थः। कीदृशो देवः। जिह्मानामूर्ध्व आवर्तरूपेण कुटिलगतीनामुदकानामुपरि वर्तमानः। विद्युतं वसानो मेघमण्डलमध्य उपविष्टत्वाद्विद्युदेव तस्याच्छादकं वस्त्रम्। आपश्च तं देवं परियन्ति परितो व्याप्य वर्तन्ते। कीदृश्य आपः। तस्य देवस्य ज्येष्ठं प्रशस्तं महिमानं माहात्म्यं वहन्तीर्धारयन्त्यः। बहुलवृष्ट्या स्वकीयस्य स्वामिनस्तस्य देवस्य माहात्म्यं ख्यापयन्त इत्यर्थः। हिरण्यवर्णा बहूनां विद्युतां मध्ये वर्तमानत्वाद्धेमवर्णत्वम्। यह्वीर्महत्यः। तत्रैव याज्यामाह समन्या इति। अन्याः कश्चिदापः संयन्ति परस्परं संगताः प्रवाहरूपेण गच्छन्ति। ताभ्योन्याः काश्चिदुपयन्ति प्रवाहमन्तरेण *प्रविष्टा इव तिष्ठन्ति। ऊर्वो वडवाग्नेराधारः समुद्रः। स च वहन्तीषु स्थिरासु चाप्सु समानः। न तावदयं प्रवहन्तीनामपां प्रवेशेन वर्धते स्वयम्। नापि तासामभावे सति स्थिराभिरद्भिः परिक्षीयते। तादृशं समुद्रं नद्यः पृणन्ति स्वप्रवेशेन प्रीणयन्ति। तमु शुचय आपः परितो व्याप्य तस्थृः स्थिताः। कीदृशं, शुचिं शोधयितारं दीदिवांसं वडवाग्निजनकत्वेन दीप्यमानमपां नपातमविनाशयितारम्। तत्रैव विकल्पितां याज्यामाह तमस्मेरा इति। तमपां नपातमापः परियन्ति। कीदृशं तं युवानं सर्वदा यौवनोपेतम्। कीदृश्य आपः, अस्मेरा विडम्बनारूपेण स्मयरहिता अनुकूला इत्यर्थः। युवतयः सर्वदा यौवनोपेताः। मर्मृज्यमानास्तत्संयोगे शोध्यमानाः। *स्त्र. पुस्तके “उपरिष्टादिव” इति पाठान्तरम्। सोपा नपादग्निरनिध्मः काष्ठरहितोप्यप्सु दीदाय दीप्यते। कीदृशः शुक्रेण शिक्वना युक्तः शुद्धेन प्रकाशेन युक्तः, रेवद्धनवान्, धृतनिर्णिग्विलापनेन घृतं निर्णेनेक्ति निःशेषेण शोधयतीति घृतनिर्णिक्।"
"या पाप्मना गृहीतः स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेदित्यस्याः पुरोनुवाक्यामाह इन्द्रावरुणयोरिति। सम्राजोः सम्यग्दीप्यमानयोरिन्द्रावरुणयोरवो रक्षणमहमावृणे सर्वतः प्रार्थये। तौ चेन्द्रावरुणावीदृशे रक्षणे वृतौ नोस्मान्मृडातः सर्वदा सुखयताम्। तत्रैव याज्यामाह इन्द्रावरुणेति। हे इन्द्रावरुणौ युवं नोस्मभ्यं महि शर्म महत्सुखमापन्निवारणरूपं यच्छतम्। किमर्थम्, अध्वराय यागानुष्ठानाय विशे प्रजासमृद्धये जनाय परिवारकजनसिद्धये च। यः पाप्मा दीर्घप्रयज्युमति अस्मदीयं दीर्घकालभावियागप्रयोगमतिलङ्घ्य नोस्मान्वनुष्यति पीडयति। वयं तु युवयोरनुग्रहवशात्पृतनासु पापकृतासु पीडासु दूढ्यो दृढतरा अपीडिताः सन्तस्तं पाप्मानं जयेम। "
"पञ्चमकाण्डे मैत्रावरुण्यामिक्षा विहिता “यथा वे हविः स्कन्दत्यैवं वा एष स्कन्दति योग्निं चित्वा स्त्रियमुपेति मैत्रावरुण्यामिक्षया यजेत” इति। तत्र याज्यानुवाक्योः प्रतीके दर्शयति आ नो मित्रेति। आ नो मित्रावरुणेति पुरोनुवाक्या। प्र बाहवेति याज्या। एतदुभयमग्नाविष्णू महि तद्वामित्यनुवाके व्याख्यातम्। पुनराधेयप्रकरण आम्नातम्—“वीरहा वा एष देवानां योग्निमुद्वासयते यस्य वरुण एवर्णंयादाग्निवारुणमेकादशकपालमनुनिर्वपेत्” इति। अत्रपुरोनुवाक्यामाह त्वां नो अग्ने इति। हेग्ने त्वं नोस्माकं भक्तिं विद्वान्सन्वरुणस्य देवस्य हेडोस्मद्विषयं क्रोधमवयासिसीष्ठा अपनय। यजिष्ठो यष्टतमोतिशयेन यागनिष्पादकः। वन्हितमोतिशयेन देवहविर्वोढा। शोशुचानोत्यन्तं दीप्यमानः। त्वेश्वा द्वेषांसि सर्वान्विरोधिकृतान्द्वेषानस्मत्प्रमुमुग्ध्यस्मत्तः प्रमोचय। तत्रैव याज्यामाह स त्वं न इति। हेग्ने स त्वं नोस्माकमूत्या रक्षणेनावमो भव रक्षको भव। कीदृशस्त्वम्। अस्या उषसो व्युष्टौ नेदिष्ठोद्यतनस्योषःकालस्योपरितने प्रातः-कालेत्यन्तं प्रत्यासन्नौ नोस्माकं वरुणं वरुणेन कृतमभीष्टनिवारकं पापादिकमवयक्ष्व नाशय। रराणो रममाणः सन्मृडीकं सुखसाधनमस्मदीयं हविर्वीहि भक्षय। ततो योस्माकं सुहव एधि सुखेनाह्वातुं शक्यो भव। यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवतेग्नये प्रतीकवते इत्यव प्रवतोग्नेर्हविषः पुरोनुवाक्यामाह प्रप्रायमिति। अयमग्निर्भरतस्य हविर्भरणवतो यजमानस्याह्वानं प्रप्रशृण्वेतिप्रकर्षेण शृणोतु। यद्योग्नि सूर्यो न सूर्य इव भा भासमानः सन्बृहद्रोचतेत्यन्तं दीप्यते। योग्निः पृतनासु सङ्ग्रामेषु पुरुं जयपूर्तिमभितस्थौ सर्वतः करोति सोग्निर्नोस्माकमतिथिर्दीदाय भवतु अतिथिरिवेह समागच्छतु। कीदृशोग्निः। दैव्यो देवेभ्यो हितः शिवः परममङ्लभूतः। तत्रैव याज्यामाह प्र ते यक्षीति। हेग्ने ते त्वदर्थं प्रयक्षि प्रकर्षेण यजे ते त्वदीयं मन्म मननं मानसमनुग्रहविशेषं प्रकर्षेणेयर्मि व्याप्नोमि। नोस्माकं हवेषु यागेषु वन्द्यो नमस्कार्यो यथा भुवो येन प्रकारेण भवति तेन प्रकारेणानुग्रहमियर्मीति पूर्वत्रान्वयः। हेग्ने त्वमियक्षवे यष्टुमिच्छते पुरवे हविः पूरयित्रे यजमानाय प्रियं दातुं धन्वन्प्रपेवासि मरुभूमौ शीतलपानीयपूर्णशलिवाति। हे प्रत्न पुरातन, हे राजन्दीप्यमान। एतदूभवं बह्निविशेषणम्। अथ विबाधवतोग्नेर्याज्यापुरोनुवाक्ये प्रतीकेन दर्शयति वि पाजसेति। वि पाजसा पृथुना शोशुचान इत्येषा पुरोनुवाक्या। सेयं चतुर्थकाण्डस्य प्रथमप्राठके व्याख्यास्यते। वि ज्योतिषा बृहतेति याज्या कृणुष्व पाज इत्यनुवाके व्याख्याता। अथ प्रतीकवतोग्नेर्हाविषि पुरोनुवाक्यामाह स त्वमग्न इति। हेग्ने स त्वं प्रतीकेन कर्मप्रारम्भमात्रेण यातुधान्यो राक्षसजातीः सर्वाः प्रत्योष प्रत्येकं दह। कीदृशस्त्वम्, उरुक्षयेषु विस्तीर्णेषु याग गृहेषु दीद्यद्दीप्यमानः। तत्रैव याज्यामाह त सुप्रतीकमिति। वयं तमग्निं सपेम समवेतः प्राप्ता भूयास्म। कीदृशमग्निं सुप्रतीकं शोभनोपक्रमम्, अस्मास्वनुग्रहस्तेन सुष्टूप्रक्रान्तं, सुदृशं शोभनकटाक्षेणास्मान्पश्यन्तं, स्वञ्चमस्पदीये कर्मणि सुष्ट्वागच्छन्तं, विदुष्टरमतिशयेन भक्तचित्तवेदिनम्। यद्यपि वयमविद्वांसस्त्वदीयं महिमानं न जानीमस्तथापि तं प्राप्तास्मः। सोग्निर्बक्षद्यष्टुमिच्छतां पुरुषाणां विश्वा वयुनानि सर्वानभिप्रायविशेषन्विद्वाञ्जानन्नवतिष्ठति। अतः सोग्निरस्मदीयं हव्यं प्रवोचत्प्रकर्षेण ब्रवीतु। अथ “योभारतृव्यवान्त्सात्स स्पर्धमान एतयेष्ट्या यजेतेन्द्राया होमुचे पुरोडाशमेकादशकपालं निर्वपेदिन्द्राय वैमृधायेन्द्रायेन्द्रियावते” इत्येतेषु त्रिहविःषु याज्यापुरोनुवाक्ययोः प्रतीकानि दर्शयति अ होमुच इति। अ होमुचे प भरेमेत्येषा प्रथमस्य हविषः पुरोनुवाक्या। विवेष यन्मेति याज्या। वि न इन्द्र मृध इति द्वितीयस्य हविषः पुरोनुवाक्या। इन्द्र क्षममभि वाममिति याज्या। इन्द्रियाणी शतक्रतो, इति तृतीयस्य हविषः पुरोनुवाक्या। अनुतेदायि मह इत्येषा याज्या। तदेवत्षट्कं प्रथमकाण्डे षष्ठप्रपाठकेन्त्यानुवाके व्याख्यातम्। अत्र विनियोगसंग्रहः “ज्योगामयाविनो ह्यायुरायुर्दाग्नेयके तथा। आप्या सं ते च सौम्ये स्यादवोदुत्तेति वारुणे।। सारस्वते प्र णी ह्यानोग्नाग्नावैष्णवे भवत्।इमं तत्त्वाश्वदानीष्टौ उदु चित्रं तु सोर्यके।।"
अपां न समपोनप्त्र इन्द्रावेत्यैन्द्रवारुणे।मैत्रावरुण आमिक्षायागे त्वा नः प्र वेति च।।
पुनराधेयके त्वाग्निवारुणे त्वं न इत्युभे। प्रप्रेति प्रवदाग्नेये विद्वयं बाधसंयुते।।
स त्वं प्रतीकसंयुक्ते अ हवित्यैन्द्रयामके। वीन्द्रेति वैमृधे हीन्द्रियानु ते त्विन्द्रियावते।
मन्त्रा ह्यस्मिन्ननुवाके पञ्चत्रिंशदुदीरिताः ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके द्वादशोनुवाकः ।। १२ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधि राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरि
पालकेन माधचार्येण विरचिते वेदार्थप्रकाशेकृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
द्वितीयकाण्डे पञ्चमः प्रपाठकः।। ५ ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
समाप्तश्च प्रपाठकः ॥
—------------------------