अनुवाकः 12 TS 2.5.12

(A12)

(य॒ह्वीः स - म॑ध्व॒राय॑ नो॒ - वरु॑णꣳ - राजꣳ॒॒ -तु॑श्चत्वारिꣳशच्च)

अनुवाकः 12 - Complete Audio

TS 2.5.12 - स्वरानुगामी

0:00 0:00
PS1.1 आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ
PS1.2 प्या॑यस्व॒ सं ते ऽव॑
PS1.3 ते॒ हेड॒ उदु॑त्त॒मं प्रणो॑
PS1.4 दे॒व्या नो॑ दि॒वो ,
PS1.5 ऽग्ना॑ विष्णू॒ अग्ना॑विष्णू इ॒मं
PS1.6 मे॑ वरुण॒ तत्त्वा॑ या॒म्यु
PS1.7 दु॒त्यम् , चि॒त्रम्
PS1.8 अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्द्ध्वो
PS1.9 वि॒द्युतं॒ ॅवसा॑नः
PS1.10 तस्य॒ ज्येष्ठं॑ महि॒मानं॒ ॅवह॑न्ती॒
PS1.11 र्.हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः
PS1.12 स- [ ]
PS2.1 -म॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं
PS2.2 न॒द्यः॑ पृणन्ति
PS2.3 तमू॒ शुचिꣳ॒॒ शुच॑यो दीदि॒वाꣳ
PS2.4 स॑म॒पां नपा॑तं॒ परि॑तस्थु॒रापः॑
PS2.5 तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒
PS2.6 परि॑ य॒न्त्यापः॑
PS2.7 स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒द्ध्मो घृ॒तनि॑र्णिग॒फ्सु
PS2.8 इन्द्रा॒वरु॑णयोर॒हꣳस॒म्राजो॒रव॒ आ वृ॑णे
PS2.9 ता नो॑ मृडात ई॒दृशे᳚
PS2.10 इन्द्रा॑वरुणा यु॒वम॑द्ध्व॒राय॑ नो -
PS2.11 [ ]
PS3.1 वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतं
PS3.2 दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं
PS3.3 ज॑येम॒ पृत॑नासु दू॒ढ्यः॑
PS3.4 आ नो॑मित्रावरुणा॒प्रबा॒हवा᳚
PS3.5 त्वं नो॑ अग्ने॒ वरु॑णस्य
PS3.6 वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासि
PS3.7 सीष्ठाः
PS3.8 यजि॑ष्ठो॒ वह्नि॑ तमः॒ शोशु॑चानो॒
PS3.9 विश्वा॒ द्वेषाꣳ॑सि॒ प्रमु॑मुग्ध्य॒स्मत्
PS3.10 स त्वंनो॑ अग्नेऽव॒मो भ॑वो॒ती
PS3.11 नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ
PS3.12 अव॑ यक्ष्व नो॒ वरु॑णꣳ॒॒
PS3.13 - [ ]
PS4.1 ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑
PS4.2 न एधि
PS4.3 प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ्
PS4.4 सूर्यो॒ न रोच॑ते बृ॒हद्भाः
PS4.5 अ॒भि यः पू॒रुं पृत॑नासु
PS4.6 त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः
PS4.7 शि॒वो नः॑
PS4.8 प्र ते॑ यक्षि॒ प्र
PS4.9 त॑ इयर्मि॒ मन्म॒ भुवो॒
PS4.10 यथा॒ वन्द्यो॑ नो॒ हवे॑षु
PS4.11 धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न
PS4.12 इय॒क्षवे॑ पू॒रवे᳚ प्रत्न राजन्न्
PS5.1 वि पाज॑सा॒ वि ज्योति॑षा
PS5.2 स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑
PS5.3 उ॒रु॒क्षये॑षु॒ दीद्य॑त्
PS5.4 तꣳ सु॒प्रती॑कꣳ सु॒दृशꣳ॒॒ स्वञ्च॒मवि॑द्वाꣳसो
PS5.5 वि॒दुष्ट॑रꣳ सपेम
PS5.6 स य॑क्ष॒-द्विश्वा॑ व॒युना॑नि वि॒द्वान्
PS5.7 प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत्
PS5.8 अꣳ॒॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ विन॑
PS5.9 इ॒न्द्रे न्द्र॑ क्ष॒त्र मि॑न्द्रि॒याणि॑
PS5.10 शतक्र॒तो ऽनु॑ ते दायि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.5.12.1 TS 2.5.12.1
आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ सं ते ऽव॑ ते॒ हेड॒ उदु॑त्त॒मं प्रणो॑ दे॒व्या नो॑ दि॒वो , ऽग्ना॑ विष्णू॒ अग्ना॑विष्णू इ॒मं मे॑ वरुण॒ तत्त्वा॑ या॒म्यु दु॒त्यम् , चि॒त्रम् ॥अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्द्ध्वो वि॒द्युतं॒ ॅवसा॑नः । तस्य॒ ज्येष्ठं॑ महि॒मानं॒ ॅवह॑न्ती॒ र्.हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ॥ स- [ ]
पदपाठः (Word-by-word)
आयुः॑ । ते॒ । आ॒यु॒र्दा इत्या॑युः - दाः । अ॒ग्ने॒ । एति॑ । प्या॒य॒स्व॒ । समिति॑ । ते॒ । अवेति॑ । ते॒ । हेडः॑ । उदिति॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् । प्रेति॑ । नः॒ । दे॒वी । एति॑ । नः॒ । दि॒वः । अग्ना॑विष्णू॒ इत्यग्ना᳚-वि॒ष्णू॒ । अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । इ॒मम् । मे॒ । व॒रु॒ण॒ । तत् । त्वा॒ । या॒मि॒ । उदिति॑ । उ॒ । त्यम् । चि॒त्रम् ॥ अ॒पाम् । नपा᳚त् । एति॑ । हि । अस्था᳚त् । उ॒पस्थ॒मित्यु॒प - स्थ॒म् । जि॒ह्माना᳚म् । ऊ॒द्‌र्ध्वः । वि॒द्युत॒मिति॑ वि - द्युत᳚म् । वसा॑नः ॥ तस्य॑ । ज्येष्ठ᳚म् । म॒हि॒मान᳚म् । वह॑न्तीः । हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । परीति॑ । य॒न्ति॒ । य॒ह्वीः ॥ समिति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

" (अथ द्वितीयकाण्डे पञ्चमप्रपाठके द्वादशोनुवाकः)। (काम्येष्टियाज्यानुवाक्याभिधानम्) होतुर्नियम आघारश्चोक्तमेकादशे द्वयम्। अथ द्वादशे काम्येष्टियाज्यानुवाक्या उच्यन्ते। अतीते तृतीयप्रपाठके इदमाम्नातम् यो ज्योगामयावी स्माद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेदाग्नेयमष्टाकपाल सौम्यं चरुं वारुणं दशकपाल सारस्वतं चरुमाग्नावैष्णवमेकादशकपालम्” इति। तथा “यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चनुष्कपालान्निर्वपेत्” इति। “यद्यपरं प्रतिग्राही स्यात्सौर्यमेककपालमनुनिर्वपेत्” इति च। एतेषु सप्तसु हविःषु क्रमेण याज्यानुवाक्याप्रतीकानि दर्शयति आयुष्ट इति। तत्राग्नेयस्यायुष्टे विश्वतोदधदिति पुरोनुवाक्या। आयुर्दा अग्ने हविषो जुषाण इति याज्या। तदुभयं त्वमग्ने रुद्र इत्यनुवाके व्याख्यातम्। सौम्यस्य त्वा प्यायस्व समेतु त इति पुरोनुवाक्या। सं ते पया सि समु यन्तु वाजा इति याज्या। एतदुभयं चतुर्थकाण्डे मा नो हि सीदित्यनुवाके व्याख्यास्यते। वारुणदशकपालस्याव ते हेड इति पुरोनुवाक्या। उदुत्तममिति याज्या। एतच्चोभयं वैश्वानरो न इत्यनुवाके व्याख्यातम्। सारस्वतस्य प्र णो देवीत्यनुवाक्या। आ नो दिवो बृहत इति याज्या। आग्नावैष्णवस्याग्नाविष्णू महि तद्वामिति पुरोनुवाक्या। अग्नाविष्णू महि धामेति याज्या। चतुष्टयमप्येतत्प्रथमकाण्डस्याष्टमप्रपाठकस्यान्त्यानुवाके व्याख्यातम्। वारुणचतुष्कपालस्येमं मे वरुणेति पुरोनुवाक्या। तत्त्वा यामीति याज्या। एताच्चोभयमस्मिन्नेवकाण्डे प्रथमप्रपाठकस्यान्त्यानुवाके व्याख्यातम्। सौर्यस्योदु त्यं जातवेदसमिति पुरोनुवाक्या। चित्रं देवानामिति याज्या। एतच्चोभयं पूर्वकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्। अथापोनप्त्रीयं चरुं पुनरेत्य निर्वपेदितस्य पुरोनुवाक्यामाह अपा नपादिति। अपामुदकानां नपादविनाशयिता तथाविधनामकः कश्चिद्देव उपस्थं स्वस्योपवेशनस्थानमास्थादातिष्ठति प्राप्नोमीत्यर्थः। कीदृशो देवः। जिह्मानामूर्ध्व आवर्तरूपेण कुटिलगतीनामुदकानामुपरि वर्तमानः। विद्युतं वसानो मेघमण्डलमध्य उपविष्टत्वाद्विद्युदेव तस्याच्छादकं वस्त्रम्। आपश्च तं देवं परियन्ति परितो व्याप्य वर्तन्ते। कीदृश्य आपः। तस्य देवस्य ज्येष्ठं प्रशस्तं महिमानं माहात्म्यं वहन्तीर्धारयन्त्यः। बहुलवृष्ट्या स्वकीयस्य स्वामिनस्तस्य देवस्य माहात्म्यं ख्यापयन्त इत्यर्थः। हिरण्यवर्णा बहूनां विद्युतां मध्ये वर्तमानत्वाद्धेमवर्णत्वम्। यह्वीर्महत्यः। तत्रैव याज्यामाह समन्या इति। अन्याः कश्चिदापः संयन्ति परस्परं संगताः प्रवाहरूपेण गच्छन्ति। ताभ्योन्याः काश्चिदुपयन्ति प्रवाहमन्तरेण *प्रविष्टा इव तिष्ठन्ति। ऊर्वो वडवाग्नेराधारः समुद्रः। स च वहन्तीषु स्थिरासु चाप्सु समानः। न तावदयं प्रवहन्तीनामपां प्रवेशेन वर्धते स्वयम्। नापि तासामभावे सति स्थिराभिरद्भिः परिक्षीयते। तादृशं समुद्रं नद्यः पृणन्ति स्वप्रवेशेन प्रीणयन्ति। तमु शुचय आपः परितो व्याप्य तस्थृः स्थिताः। कीदृशं, शुचिं शोधयितारं दीदिवांसं वडवाग्निजनकत्वेन दीप्यमानमपां नपातमविनाशयितारम्। तत्रैव विकल्पितां याज्यामाह तमस्मेरा इति। तमपां नपातमापः परियन्ति। कीदृशं तं युवानं सर्वदा यौवनोपेतम्। कीदृश्य आपः, अस्मेरा विडम्बनारूपेण स्मयरहिता अनुकूला इत्यर्थः। युवतयः सर्वदा यौवनोपेताः। मर्मृज्यमानास्तत्संयोगे शोध्यमानाः। *स्त्र. पुस्तके “उपरिष्टादिव” इति पाठान्तरम्। सोपा नपादग्निरनिध्मः काष्ठरहितोप्यप्सु दीदाय दीप्यते। कीदृशः शुक्रेण शिक्वना युक्तः शुद्धेन प्रकाशेन युक्तः, रेवद्धनवान्, धृतनिर्णिग्विलापनेन घृतं निर्णेनेक्ति निःशेषेण शोधयतीति घृतनिर्णिक्।"

"या पाप्मना गृहीतः स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेदित्यस्याः पुरोनुवाक्यामाह इन्द्रावरुणयोरिति। सम्राजोः सम्यग्दीप्यमानयोरिन्द्रावरुणयोरवो रक्षणमहमावृणे सर्वतः प्रार्थये। तौ चेन्द्रावरुणावीदृशे रक्षणे वृतौ नोस्मान्मृडातः सर्वदा सुखयताम्। तत्रैव याज्यामाह इन्द्रावरुणेति। हे इन्द्रावरुणौ युवं नोस्मभ्यं महि शर्म महत्सुखमापन्निवारणरूपं यच्छतम्। किमर्थम्, अध्वराय यागानुष्ठानाय विशे प्रजासमृद्धये जनाय परिवारकजनसिद्धये च। यः पाप्मा दीर्घप्रयज्युमति अस्मदीयं दीर्घकालभावियागप्रयोगमतिलङ्घ्य नोस्मान्वनुष्यति पीडयति। वयं तु युवयोरनुग्रहवशात्पृतनासु पापकृतासु पीडासु दूढ्यो दृढतरा अपीडिताः सन्तस्तं पाप्मानं जयेम। "

"पञ्चमकाण्डे मैत्रावरुण्यामिक्षा विहिता “यथा वे हविः स्कन्दत्यैवं वा एष स्कन्दति योग्निं चित्वा स्त्रियमुपेति मैत्रावरुण्यामिक्षया यजेत” इति। तत्र याज्यानुवाक्योः प्रतीके दर्शयति आ नो मित्रेति। आ नो मित्रावरुणेति पुरोनुवाक्या। प्र बाहवेति याज्या। एतदुभयमग्नाविष्णू महि तद्वामित्यनुवाके व्याख्यातम्। पुनराधेयप्रकरण आम्नातम्—“वीरहा वा एष देवानां योग्निमुद्वासयते यस्य वरुण एवर्णंयादाग्निवारुणमेकादशकपालमनुनिर्वपेत्” इति। अत्रपुरोनुवाक्यामाह त्वां नो अग्ने इति। हेग्ने त्वं नोस्माकं भक्तिं विद्वान्सन्वरुणस्य देवस्य हेडोस्मद्विषयं क्रोधमवयासिसीष्ठा अपनय। यजिष्ठो यष्टतमोतिशयेन यागनिष्पादकः। वन्हितमोतिशयेन देवहविर्वोढा। शोशुचानोत्यन्तं दीप्यमानः। त्वेश्वा द्वेषांसि सर्वान्विरोधिकृतान्द्वेषानस्मत्प्रमुमुग्ध्यस्मत्तः प्रमोचय। तत्रैव याज्यामाह स त्वं न इति। हेग्ने स त्वं नोस्माकमूत्या रक्षणेनावमो भव रक्षको भव। कीदृशस्त्वम्। अस्या उषसो व्युष्टौ नेदिष्ठोद्यतनस्योषःकालस्योपरितने प्रातः-कालेत्यन्तं प्रत्यासन्नौ नोस्माकं वरुणं वरुणेन कृतमभीष्टनिवारकं पापादिकमवयक्ष्व नाशय। रराणो रममाणः सन्मृडीकं सुखसाधनमस्मदीयं हविर्वीहि भक्षय। ततो योस्माकं सुहव एधि सुखेनाह्वातुं शक्यो भव। यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवतेग्नये प्रतीकवते इत्यव प्रवतोग्नेर्हविषः पुरोनुवाक्यामाह प्रप्रायमिति। अयमग्निर्भरतस्य हविर्भरणवतो यजमानस्याह्वानं प्रप्रशृण्वेतिप्रकर्षेण शृणोतु। यद्योग्नि सूर्यो न सूर्य इव भा भासमानः सन्बृहद्रोचतेत्यन्तं दीप्यते। योग्निः पृतनासु सङ्ग्रामेषु पुरुं जयपूर्तिमभितस्थौ सर्वतः करोति सोग्निर्नोस्माकमतिथिर्दीदाय भवतु अतिथिरिवेह समागच्छतु। कीदृशोग्निः। दैव्यो देवेभ्यो हितः शिवः परममङ्लभूतः। तत्रैव याज्यामाह प्र ते यक्षीति। हेग्ने ते त्वदर्थं प्रयक्षि प्रकर्षेण यजे ते त्वदीयं मन्म मननं मानसमनुग्रहविशेषं प्रकर्षेणेयर्मि व्याप्नोमि। नोस्माकं हवेषु यागेषु वन्द्यो नमस्कार्यो यथा भुवो येन प्रकारेण भवति तेन प्रकारेणानुग्रहमियर्मीति पूर्वत्रान्वयः। हेग्ने त्वमियक्षवे यष्टुमिच्छते पुरवे हविः पूरयित्रे यजमानाय प्रियं दातुं धन्वन्प्रपेवासि मरुभूमौ शीतलपानीयपूर्णशलिवाति। हे प्रत्न पुरातन, हे राजन्दीप्यमान। एतदूभवं बह्निविशेषणम्। अथ विबाधवतोग्नेर्याज्यापुरोनुवाक्ये प्रतीकेन दर्शयति वि पाजसेति। वि पाजसा पृथुना शोशुचान इत्येषा पुरोनुवाक्या। सेयं चतुर्थकाण्डस्य प्रथमप्राठके व्याख्यास्यते। वि ज्योतिषा बृहतेति याज्या कृणुष्व पाज इत्यनुवाके व्याख्याता। अथ प्रतीकवतोग्नेर्हाविषि पुरोनुवाक्यामाह स त्वमग्न इति। हेग्ने स त्वं प्रतीकेन कर्मप्रारम्भमात्रेण यातुधान्यो राक्षसजातीः सर्वाः प्रत्योष प्रत्येकं दह। कीदृशस्त्वम्, उरुक्षयेषु विस्तीर्णेषु याग गृहेषु दीद्यद्दीप्यमानः। तत्रैव याज्यामाह त सुप्रतीकमिति। वयं तमग्निं सपेम समवेतः प्राप्ता भूयास्म। कीदृशमग्निं सुप्रतीकं शोभनोपक्रमम्, अस्मास्वनुग्रहस्तेन सुष्टूप्रक्रान्तं, सुदृशं शोभनकटाक्षेणास्मान्पश्यन्तं, स्वञ्चमस्पदीये कर्मणि सुष्ट्वागच्छन्तं, विदुष्टरमतिशयेन भक्तचित्तवेदिनम्। यद्यपि वयमविद्वांसस्त्वदीयं महिमानं न जानीमस्तथापि तं प्राप्तास्मः। सोग्निर्बक्षद्यष्टुमिच्छतां पुरुषाणां विश्वा वयुनानि सर्वानभिप्रायविशेषन्विद्वाञ्जानन्नवतिष्ठति। अतः सोग्निरस्मदीयं हव्यं प्रवोचत्प्रकर्षेण ब्रवीतु। अथ “योभारतृव्यवान्त्सात्स स्पर्धमान एतयेष्ट्या यजेतेन्द्राया होमुचे पुरोडाशमेकादशकपालं निर्वपेदिन्द्राय वैमृधायेन्द्रायेन्द्रियावते” इत्येतेषु त्रिहविःषु याज्यापुरोनुवाक्ययोः प्रतीकानि दर्शयति अ होमुच इति। अ होमुचे प भरेमेत्येषा प्रथमस्य हविषः पुरोनुवाक्या। विवेष यन्मेति याज्या। वि न इन्द्र मृध इति द्वितीयस्य हविषः पुरोनुवाक्या। इन्द्र क्षममभि वाममिति याज्या। इन्द्रियाणी शतक्रतो, इति तृतीयस्य हविषः पुरोनुवाक्या। अनुतेदायि मह इत्येषा याज्या। तदेवत्षट्कं प्रथमकाण्डे षष्ठप्रपाठकेन्त्यानुवाके व्याख्यातम्। अत्र विनियोगसंग्रहः “ज्योगामयाविनो ह्यायुरायुर्दाग्नेयके तथा। आप्या सं ते च सौम्ये स्यादवोदुत्तेति वारुणे।। सारस्वते प्र णी ह्यानोग्नाग्नावैष्णवे भवत्।इमं तत्त्वाश्वदानीष्टौ उदु चित्रं तु सोर्यके।।"

अपां न समपोनप्त्र इन्द्रावेत्यैन्द्रवारुणे।मैत्रावरुण आमिक्षायागे त्वा नः प्र वेति च।।

पुनराधेयके त्वाग्निवारुणे त्वं न इत्युभे। प्रप्रेति प्रवदाग्नेये विद्वयं बाधसंयुते।।

स त्वं प्रतीकसंयुक्ते अ हवित्यैन्द्रयामके। वीन्द्रेति वैमृधे हीन्द्रियानु ते त्विन्द्रियावते।

मन्त्रा ह्यस्मिन्ननुवाके पञ्चत्रिंशदुदीरिताः ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-

दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके द्वादशोनुवाकः ।। १२ ।।

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।

इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधि राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरि

पालकेन माधचार्येण विरचिते वेदार्थप्रकाशेकृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये

द्वितीयकाण्डे पञ्चमः प्रपाठकः।। ५ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पौरोडाशिकमध्ये याज्याकाण्डं वैश्वदेवम् । 'अग्निं वा एतस्य शरीरं गच्छति' इत्यादेः पञ्चहविषो यागस्याग्नेयस्य पुरोऽनुवाक्या 'आयुष्टे विश्वतो दधत्' इत्यनुष्टुप् ॥ इतःप्रभृति चतुर्दशानां मन्त्राणां प्रतीकग्रहणम् । इयं 'त्वमग्ने रुद्रः' इत्यत्र व्याख्याता । अयं वरेण्यः अग्निस्ते तुभ्यं विश्वमायुर्दधातु । गतोऽपि प्राणः पुनस्त्वामागच्छतु । त्वयि यक्ष्मरोगं परासुवामि नाशयमीति ॥
2 तत्रैव याज्या - आयुर्दा अग्ने हविष इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे अग्ने अन्नस्य हविषो जुषाणः सेवमानः घृतारम्भः घृतस्योदकस्य योनिः त्वमस्यायुर्दा भवेति । किञ्च - घृतं मधुरसं चारु गव्यं पीत्वा इमं यजमानं पिता पुत्रमिवाभिरक्षत्विति ॥
3 अथ सौम्यस्य पुरोऽनुवाक्या - आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे 'मा नो हिंसीत्' इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥
4 तत्रैव याज्या - सं ते पयांसीति त्रिष्टुप् ॥ इयमपि तत्रैवाम्नायते । हे सोम अभिमातीनां पाप्मनामभिभवितुस्तव प्रसादात् पयांसिच वाजाश्च वृष्णियानि च संयन्तु इमं सङ्गच्छन्तु । त्वं चाप्यायमानः दिवि द्युलोके अस्यामृतत्वाय उत्तमानि श्रवांसि अन्नानि धिष्व स्थापयेति ॥
5 अथ वारुणस्य पुरोनुवाक्या - अव ते हेड इति त्रिष्टुप् ॥ इयं 'वैश्वानरो नः' इत्यत्र व्याख्याता । हे वरुण नमोभिः नमस्कारैरन्नैर्वा यज्ञैश्च हविर्भिश्च हविष्मद्भिर्वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यमस्मदर्थं क्षयन्निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥
6 तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षाळितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥
7 अथ सारस्वतस्य पुरोनुवाक्या - प्राणो देवीति गायत्री ॥ 'अग्नाविष्णू महि' इत्यत्र व्याख्याता । सरस्वती देवी वाजवतीभिः क्रियाभिः तद्वती धियामवित्री अस्मान्वाजैरन्नैः प्रावत्विति । प्रकर्षेण रक्षत्विति ॥
8 तत्रैव याज्या - आ नो दिव इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । यजमानस्य वाजनीया देवी सरस्वती दिवः विप्रकृष्टाद्वा देशात् बृहतो वा पर्वतात् विषमाद्देशादागच्छतु । अस्माकमिमं यज्ञं अस्माकमाह्वानं सेवमाना घृताची घृताञ्चना उदकाञ्चना वा उशती कामयमाना अस्मत्स्तोत्रं हविर्वा शग्मां शक्तां वाचं शृणोत्विति ॥
9 अथाग्नावैष्णवस्य याज्या - अग्नाविष्णू इति त्रिष्टुप् ॥ तत्रैव व्याख्याता । हे अग्नाविष्णू युवयोस्तत् महित्वं माहात्म्यं महान्तौ युवां घृतस्य गुह्यानि नामानि पुरोडाशादीनि वीतं खादतम् । यज्ञगृहे शोभनानि स्तोत्राणि वर्धयन्ति । युवयोः जिह्वा प्रत्येकं घृतमुच्छ्रितं पिबति ॥
10 तत्रैव याज्या - अग्नाविष्णू इति त्रिष्टुप् ॥ तत्रैव व्याख्याता ॥
11 'यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत्' इत्यस्याः पुरोऽनुवाक्या - इमं मे वरुण श्रुधी हवम् इति गायत्री ॥ 'इन्द्रं वो विश्वतस्परीन्द्रं नरः' इत्यत्र व्याख्याता । हे वरुण इमं मे हवं आह्वानं श्रुधि शृणु । अद्यास्मिम् कर्मणि मां मृडय त्वामहं अवस्युः रक्षणाय आचके आभिमुख्येन भजे ॥
12 तत्रैव याज्या - तत्त्वा यामि ब्रह्मणा वन्दमान इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण अहं ब्रह्मणा मन्त्रेण हविषा त्वां वन्दमानः स्तुवन् अहं त्वामभियाचे यजमानोऽपि तदेव हविर्भिराशास्ते त्वमपि तत्? अहेडमानः अक्रुध्यन् इह कर्मणि बुद्ध्यस्व । किंपुनः तत्? हे वरुण उरु शंसमानः अस्माकमायुर्मा प्रमोषीरिति ॥
13 'यद्यपरं प्रतिग्राही स्यात् सौर्यमकेकपालमनु निर्वपेत्' इत्यस्याः पुरोनुवाक्या - उदु त्यं जातवेदसमिति गायत्री ॥ इयं ग्रहप्रश्ने व्याख्याता । त्यं तं इमं जातवेदसं जातानां वेदितारं सूर्यं देवं केतवः रश्मयः उद्वहन्ति सर्वस्य लोकस्य दर्शनार्थमिति ॥
14 तत्रैव याज्या - चित्रं देवानामिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । देवानामनीकस्थानीयं मित्रादीनां चक्षुस्स्थानीयं उदेति । अयं जगतः तस्थुषश्च आत्मा । सूर्यः द्यावापृथिवी अन्तरिक्षं आपूरयति तेजसेति ॥
15 'अपोनप्त्रीयं चरुं पुनरेत्य' इत्यस्य पुरोनुवाक्या - अपां नपादिति त्रिष्टुप् ॥ अपां नपात् चतुर्थोऽग्निः उपस्थं अन्तरिक्षं मेघं वा अपामुपस्थानमास्थादातिष्ठति हि । 'हि च' इति निघाताभावः । जिह्मानां कुटिलगतीनां अपामूर्ध्वः उपरिवर्ती विद्युतं वसानः विद्युद्रूपेणात्मानं छादयन् तासामुपस्थमातिष्ठति । हि यदेवं तस्मात्ता आपस्तस्याग्नेरपां नपादो ज्येष्ठं प्रशस्तं महिमानं माहात्म्यं वहन्तीः वहन्त्यः ख्यापयन्त्यः अनेन हि मेघं भित्त्वा वयं प्रवर्तिता इति कृतज्ञतामिव दर्शयन्त्यः हिरण्यवर्णास्तेजोरूपा एव भासमानाः यह्वीः यह्व्यः महत्यः तमग्निं परियन्ति परिगच्छन्ति परित इवासते ॥
16 तत्रैव याज्या - समन्या यन्तीति त्रिष्टुप् ॥ अन्या आपः संयन्ति सङ्गच्छते एकीभूताः प्रवहन्ति अन्या उपयन्ति परितस्सङ्गता इव त्वां मध्येन प्रवहन्ति । ततः सर्वा अपि समानं नद्यो भूत्वा और्वं और्वस्याग्नेराधारं महान्तं आपगाः पृणन्ति पूरयन्ति । पृण प्रीणने । अथ तं तत्रस्थं और्वं शुचिं शुद्धं दीदिवांसं मध्ये दीप्यमानम् । दीदितिर्दीप्तिकर्मा छान्दसः, क्वसौ 'वस्वेकाजाद्ध्वसाम्' इति नियमादिडभावः । ईदृशं अपां नपातं शुचयः आपः परितस्सर्वतोप्युपतस्थुः तिष्ठन्ति । छान्दसो लिट् । 'एकान्याभ्यां समर्थाभ्याम्' इति प्रथमस्याम्रेडितस्याख्यातस्य निघाताभावः । उ अवधारणे, पादपूरणे वा । 'अन्येषामपि दृश्यते' इति सांहितिको दीर्घः ॥
17 अथात्रैव याज्या विकल्प्यते - तमस्मेरा इति त्रिष्टुप् ॥ तमग्निमपां नपातं मर्मृज्यमानाः अत्यर्थमलङ्कुर्वाणाः । मृजू शौचालङ्कारयोः । अस्मेरा विदग्धा युवतयो युवानं युवराजमिव आपः परियन्ति परितस्सेवन्ते । यद्वा - नित्यतरुणमग्निं नित्यतरुण्यः आपः परियन्ति । स चाग्निस्तास्वप्सु मध्ये शुक्रेण निर्मलेन शिक्वना रोचिषा इत्थंभूतः रेवत् रेवान् महाधनः राजेव । छान्दसो लिङ्गव्यत्ययः । सलिलव्यतिरिक्तेन काष्ठादीन्धनरहितो दीदाय दीप्यते । छान्दसो लिट्, छान्दसो द्विर्वचनाभावः, दीधिङो वा वर्णव्यत्ययः । तेन जक्षित्यादिना अभ्यस्तत्वाद्द्विर्वचनाभावः । घृतनिर्णिक्, घृतेनोदकेन वा एषणीयः, घृतनिर्णेजनमस्येति बहुव्रीहिः । यद्वा - तेजोरूपमानः । एवं महानुभावोयं अस्मान् प्रतिग्रहदोषापनयेन शोधयत्विति ॥
18 'यः पापना गृहीतस्स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेत्' इत्यस्याः पुरोनुवाक्या - इन्द्रावरुणयोरहमिति गायत्री ॥ इन्द्रावरुणयोस्सम्राजोः सम्यक् दीप्यमानयोः अवः रक्षणं यादृशं तदीयं रक्षणं तदहमावृणे आभिमुख्येन याचे । ता तौ च नः अस्मान् मृडातः सुखयेताम् । ईदृशे विशिष्टे रक्षणे स्थित्वा मृडयताम् । लेट्यागमः ॥
19 तत्रैव याज्या - इन्द्रावरुणा युवमिति जगती ॥ हे इन्द्रावरुणा इन्द्रावरुणौ । 'सुपां सुलुक्' इत्यादिनाऽऽकारः । युवं युवां नः अस्मभ्यं महि महत् शर्म सुखं पापयक्ष्माभावप्रभवं यच्छतं दत्तम् । अध्वराय यज्ञाय दर्शपूर्णमासादियज्ञनिर्वहणं यथा भवेत् विशे च यथा पुत्रादिका प्रजा मां न निवर्तते जनाय चान्यस्मै सुहृदादये स यथा मां न त्यजेत् । यदुक्तमध्वराद्यर्थमिति तदेव प्रकटीकरोति - दीर्घप्रयज्युः दीर्घकालं यावज्जीवं प्रकर्षेणानतिपत्त्या कर्तव्यो दर्शपूर्णमासादियज्ञो दीर्घप्रयज्युः । यजेः औणादिको युप्रत्ययः, दासीभारादिः द्रष्टव्यः । वचनव्यत्ययो वा । दीर्घकालकर्तव्या दर्शपूर्णमासादयः प्रकृष्टा यागा येषां तानस्मानतिक्रम्य यो वनुष्यति अभिभवति पापयक्ष्मा । वनेरुसिप्रत्ययान्तात्क्यचि षत्वम् । तं तावद्वयं जयेम न तेन वयं जीयेमहि । किंच - पृतनासु सङ्ग्रामेषु दूढ्यः दुर्धियश्च जयेमेत्येव । कैश्चिद्दुर्बुद्धिभिः न वयं जीयेमहि पृषोदरादित्वादभीष्टस्वरूपसिद्धिः ॥
20 'आ नो मित्रावरुणा' 'प्र बाहवा सिसृतं' इति द्वे गायत्रीत्रिष्टुभौ व्याख्याते ॥ 'अग्नाविष्णु महि' इत्यत्र । अनयोश्चात्र प्रतीकग्रहणम् । तयोः कच्चित् मैत्रावरुणे विनियोगः द्रष्टव्यः । प्रायश्चित्ते वा । तत्र प्रथमा - हे मित्रावरुणौ अस्माकं गव्यूतिं घृतैरुक्षतम् । हे शोभनकर्माणौ मधुरसेन लोकानुक्षतमिति ॥
21 द्वितीया - प्र बाहवेति ॥ बाहुबलवन्तौ युवां अस्मान् जीवयितुमागच्छतम् । आगत्य च अस्माकं गव्यूतिं घृतेन सर्वतः उक्षतम् । हे युवानौ नित्यतरुणौ अस्मान् जनेषु श्रवयतमाख्यापयतम् । इमानि च महाह्वानानि शृणुतमिति ॥
22 अथ त्वं नो अग्ने स त्वं नो अग्ने इति गायत्रीत्रिष्टुभौ ॥ क्वचिदाग्निवारुणे विनियोगो द्रष्टव्यः । प्रायश्चित्ते वा । तत्र प्रथमा - हे अग्ने विद्वान् सर्वार्थसाधनो वा यज्ञे स त्वं देवस्य वरुणस्य हेडः क्रोधः अनादरो वा पाशग्रहणादिकः नः अस्माकं अस्मत्संबन्धि अवयासिसीष्ठाः अपनय । अवपूर्वात् यासेर्ण्यन्तादाशीर्लिङि इडादावपि णिलोपश्छान्दसः । 'छन्दस्युभयथा' इति लिङ्वा सार्वधातुकत्वादिडभावो ङित्त्वं च । किं च – यजिष्ठः यष्टृतमः । यष्टृशब्दात् 'तुश्छन्दसि' इतीष्ठन् प्रत्ययः । 'तुरिष्ठमेयस्सु' इति तृशब्दस्य लोपः । वह्नितमः हविषां वोढृतमः शोशुचानः अतिशयेन दीप्यमानः । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ईदृशः त्वं विश्वानि वरुणव्यतिरिक्तान्यपि द्वेष्टॄणि वा रक्षःप्रभृतीनि अस्मत् अस्मत्तः प्रमुमुग्धि प्रकर्षेण मोचय । 'बहुर्लं छन्दसि' इति शपश्लुः ॥
23 अथ द्वितीया - हे अग्ने स त्वं नः अस्माकं अवमः अविता भव ऊत्या गमनेन । यद्वा - ऊत्या रक्षणेन अवमः अर्वाचीनः प्रत्यासन्नो भव । अस्या उषसो रात्रेरवसाने प्रातरेव अस्माकं नेदिष्ठः अन्तिकतमः अस्मिन् दिवसे प्रातरेव अस्मत्पार्श्वमागतस्त्वमिदानीं तत्क्षणेनापि प्रत्यासन्नतरो भवेति । 'अन्तिकबाढ योर्नेदसाधौ' । किञ्च - रराणः अस्मदीये परिचरणे रममाण अस्माकं वरुणं वारकं वरुणप्रवर्तितं वा पापरोगादिकमवयक्ष्व नाशय । 'बहुलं छन्दसि' इति शपो लुक् । रातेः शानचि अन्त्यलोपश्छान्दसः, पूर्वपदाद्युदात्तत्वम् । तदर्थं वीहि भुङ्क्ष्व मृडीकं सुखहेतुमिदं हविः । किञ्च - नः अस्माकं सुहवः शोभनाह्वानश्च एधि भव । आह्वानप्रयोजनस्य सद्यस्सम्पत्तिः शोभनत्वम् । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥
24 'यो भ्रातृव्यवान् स्यात् स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवतेऽग्नये प्रतीकवते' इत्यस्यां त्रिहविष्कायां 'अग्नये प्रवते' इत्यस्य पुरोनुवाक्या - प्रप्रेति त्रिष्टुप् ॥ 'प्रसमुपोदः पादपूरणे' इति द्विर्वचनम् । अयमग्निर्भरतस्य यजमानस्य भरणात् भरतः । औणादिकोतच्प्रत्ययः । प्रशृण्वे प्रकर्षेण शृणोतु । आह्वानप्रयोजनं शीघ्रं करोत्वित्यर्थः । लिटि 'लोपस्त आत्मनेपदेषु' इति तलोपः । अग्निर्विशेष्यते - यत् योऽग्निः सूर्य इव बृहद्विरोचते अत्यर्थं दीप्यते । भाः भासनशीलः । 'भ्राजभास' इति क्विप् । यश्चाग्निः पृतनासु सङ्ग्रामेषु पूर्वमाप्यायमानं शत्रुम् । पूरी आप्यायने, औणादिक उप्रत्ययः । पूर्वं महान्तमपि शत्रुमभितस्थौ अभितिष्ठति । अधितिष्ठति आक्रामति । किंच - योऽस्माकमतिथिर्भूत्वा दीदाय दीप्यते । छान्दसो लिट्, अतिथिः विशेष्यते - दैव्यः दिवि भवः । 'देवाद्यञञौ' शिवः कल्याणगमनः । यद्वा - सोऽस्माकमस्त्विति सामर्थ्याल्लभ्यते ॥
25 तत्रैव याज्या - प्र ते यक्षीति त्रिष्टुप् ॥ 'इयक्षवे' इति चतुर्थपादादिः । हे अग्ने त्वां प्रयक्षि प्रकर्षेण यजे । छान्दसो लिट् । ते तव मन्म मननमनुध्यानं प्र इयर्मि प्रकर्षेण गच्छामि । यद्वा - ते त्वदीयं मन्म मननीयं प्रकेर्षेण सम्पादयामि । ऋ गतौ, शपः श्लुः । 'अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम्, 'अभ्यासस्यासवणे' इतीयङ् । मन्यतेरौणादिको मनिन् प्रत्ययः । यथा त्वमस्माकं हवेषु यज्ञेषु पुनःपुनः वन्द्यः स्तुत्यः भवः भवेः यथा ते श्रद्धयैव [द्धैव] पुनःपुनरस्मान् पुनातु धनकामादिना तथा वयं मन्तव्याः इति । 'ईडवन्द' इत्याद्युदात्तत्वम् । भवतेर्लेट्, शपो लुकि अडागमे 'भू सुवोस्तिङि' इति गुणाभावः । पादादित्वान्न निहन्यते । कः पुनः तव विशेषः इति चेदिदमुच्यते - हे अग्ने धन्वन् निर्जले प्रदेशे प्रपेव शीतलपानीयपूर्णशालेवासि भक्तानां सकलक्लेशनिवृत्तिहेतुत्वात् । तस्य इयक्षवे इयक्षा यष्टुमिच्छा यजनकार्येच्छा । छान्दस आदिवणर्लोपः । पूरवे महात्मने पूरयित्रे वा हविषां हे प्रत्न पुराण राजन् दीप्यमान सर्वदा राजनशील ॥
26 'अग्नये विबाधवते' इत्यस्य पुरोनुवाक्या - वि पाजसेति त्रिष्टुप् ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते । प्रतीकग्रहणं त्वस्याः पृथुना पाजसा बलेन शोशुचानः दीप्यमानस्त्वं द्विषो बाधस्व रक्षांसि च अमीवा रोगाश्च । तव सुशर्मणः शोभनशरणस्य शोभनसुखस्य वा बृहतः महात्मनः शर्मणि अहं स्याम् । सदा वर्षीय अग्नेः अङ्गनादिगुणयुक्तस्य सुहवनस्य शोभनाह्वानस्य प्रणीतौ परिचरणे वर्तमान इति ॥
27 तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयं तु 'कृणुष्व पाजः' इत्यत्र व्याख्याता । प्रतीकं गृह्यते अस्याः । अयमेवाग्निः बृहता ज्योतिषा विभाति विश्वानि च महित्वा माहात्म्यानि आविष्कृणुते आविष्कृणुतां वा । किंच - अदेवीः अदेवनशीलाः दुरेवाः दुखेन एतव्याः काममायाः प्रसहते प्रकर्षेणाभिभवति अभिभवतु वा । अपिच - रक्षसां च विनाशाय आत्मीये शृङ्गे शृङ्गस्थानीये ज्वाले शिशीते तीक्ष्णीकुरुते कुरुतां वा । एवं महानुभावोऽयमस्माकं भ्रातृव्यं विनाशयत्विति ॥
28 'अग्नये प्रतीकवते' इत्यस्य पुरोनुवाक्या - स त्वमिति गायत्री ॥ हे अग्ने स त्वं प्रतीकेन ज्वालाया उपक्रमणमात्रेण प्रत्योषं प्रतिमुखं प्रत्येकं वा यातुधान्यः यातुधानीः यातुधानजातीः क्षयेषु यज्ञगृहेषु । 'क्षयो निवासे' इत्याद्युदात्तत्वम् । उरु महत् दीद्यत् जाज्वल्यमानः । दीद्यतिश्छान्दसः । अभ्यस्तसंज्ञिकत्वान्नुमभावः । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥
29 तत्रैव याज्या - तं सुप्रतीकमिति त्रिष्टुप् ॥ तमग्निं सुप्रतीकं शोभनावयवं शोभनोपक्रमं वा । कृदुत्तरपदाद्युदात्तत्वम् । सुदृशं सुष्ठु द्रष्टारं अभिमतानाम् । क्विपि कृदुत्तरपदप्रकृतिस्वरत्वम् । शोभनदृष्टिं वा । 'नञ्सुभ्याम्' इत्युत्तरपादान्तोदात्तत्वम् । स्वञ्चं शोभनगतिं विदुष्टरं विद्वत्तमम् । अयस्मयादित्वेन भत्वात् द्वयोरसम्प्रसारणम् । सपेम परिचरेम, भजेम वा । षप समवाये स चाग्निः विश्वानि वयुनानि ज्ञानानि यक्षत् । लेटि 'सिब्बहुलं लेटि' इति सिप् । सर्वार्थसाधनो वा यज्ञः, मदीयं च हव्यं अमृतेषु देवेषु प्रवोचत् प्रब्रवीतु । देवसदसि ख्यापयतु वा । छान्दसे लुङि 'वच उम्' इति उमागमः । 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः ॥
30 'यो भ्रातृव्यवान् स्यात् स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायांहोमुचे पुरोडाशमेकादशकपालं निर्वपेदिन्द्राय वैमृधायेन्द्रायेन्द्रियावते' इत्यस्यास्त्रिहविष्कायाः क्रमेण याज्यानुवाक्याः - अंहोमुच इत्याद्याः षडृचः ॥ आसां प्रतीकग्रहणम् । अत्र तृतीयाऽनुष्टुप्, पञ्चमी गायत्री । अन्यास्त्रिष्टुभः । सर्वाश्चैता 'इन्द्रं वो विश्वतस्परि' इत्यत्र व्याख्याताः । 'इन्द्रायांहोमुचे' इयस्य पुरोनुवाक्या - अंहसां मोचयित्रे इन्द्राय ओषिष्ठदाव्ने दावेन दग्धृतमस्यादित्यस्यापां दापयित्रे, तस्मै वा वृष्ट्यर्थमपां दात्रे सुमतिं शोभनां मनीषां प्रभरेम प्रकर्षेण स्वीकुर्मः । गृणानाः स्तुवन्तो वयम् । त्वं च तया स्तुत्या तुष्टः इदं हव्यं प्रतिगृभाय । हे इन्द्र यजमानस्य कामा मनोरथाः सत्या अमोघा भवन्तु ॥
31 अथ याज्या - विवेषेति ॥ यत् यस्मान्मां धिषणा तादृशी बुद्धिः जजान विवेष व्याप्तवती तस्मादहं जजान जातवानस्मि नो चेदजातसम एव स्याम् । धिषणा विशेष्यते - पार्यात् पारेभवादन्त्यादह्नः पुरा पूर्वं यावन्मरणादिन्द्रं स्तवै स्तुत्या तोषयमीति इयं धिषणा मां विवेश । पुनश्च धिषणा विशेष्यते - यस्यां सत्यामंहसः पापात् पीपरत् पारयति उत्तारयति । पुरुषं यथा अंहस उत्तारितानस्मान् उभये उभयकुलप्रभवा अपि हवन्ते आह्वयन्ति मां रक्ष मां रक्षेति नदीमध्ये नावाऽऽयान्तं नाविकं उभयतः स्थिता यथा आह्वयन्ति भो भो मामुत्तारय मामुत्तारयेति ॥
32 अथ 'इन्द्राय वैमृधाय' इत्यस्य पुरोऽनुवाक्या - वि न इन्द्रेति ॥ हे इन्द्र नः अस्माकं मृधः योद्धॄन् विजहि विविधं मारय । किञ्च - पृतन्यतः सङ्ग्रामं कर्तुमिच्छतः पुरुषान्नीचान्न्यग्भूतान् यच्छ उपरमय । किंच - योऽस्मानभिदासति उपक्षपयति तमधस्पदमेव कृधि अस्मत्पादयोः पतितं प्रणतं पतितशिरस्कं कुरु ॥
33 तत्रैव याज्या - इन्द्रेति ॥ हे इन्द्र वामं वननीयं क्षत्रमोजः अभ्यजायथाः अभिलक्ष्य जातो हे चर्षणीनां मनुष्याणां वृषभ कामानां वर्षितः तादृशस्त्वमस्मांश्चामित्रयन्तं शत्रुभावमिच्छन्तं जनं अपानुदः । किंच – देवेभ्यो हविःप्रदानादिव्यवहारिभ्यो यजमानेभ्यः - उरुं विस्तीर्णं लोकं स्थानं अकृणोः कुरु । उ इत्यवधारणे ॥
34 अथ 'इन्द्रायेन्द्रियावते' इत्यस्य पुरोनुवाक्या - इन्द्रियाणीति ॥ हे इन्द्र शतक्रतो यानि तव इद्रियाणि वीर्याणि पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिषु देवमनुष्यपितृरक्षोगन्धर्वेषु वा त्वया दत्तानि तिष्ठन्ति तान्यहमावृणे आभिमुख्येन याचे । तव प्रसादान्मदभिमतान्यपि साधयन्त्विति ॥
35 अथ याज्या - अनु त इति ॥ हे इन्द्र यजत्र यष्टव्य ते तुभ्यं दायि दीयते । देवेभिः ऋत्विग्भिः सामर्थ्याद्धविः कृत्स्नमपि तुभ्यमेव दीयते त्वत्प्रधानत्वाद्देवानाम् । यद्वा - तुभ्यमेव दायि दीयतां सत्त्रेषु सर्तव्येषु यज्ञेषु सर्वैरपि । देवान्तरेभ्य इन्द्रस्य विशेषानाचष्टे - महे महते इन्द्रियाय वीर्याय महता इन्द्रियेण तद्वानयमिति कृत्वा । अनुवृत्रहत्ये वृत्रं हतवानयमिति कृत्वा । अनुक्षत्रं धनवानयमिति कृत्वा । अनुसहं बलवानयमिति कृत्वा । नृषह्ये सर्वेषां नृणामभिभवितेति कृत्वा । सर्वत्र लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥
इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये द्वितीये काण्डे पञ्चमे प्रश्ने द्वादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

—------------------------

पञ्चशत् 2 #
TS 2.5.12.2 TS 2.5.12.2
-म॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति । तमू॒ शुचिꣳ॒॒ शुच॑यो दीदि॒वाꣳ स॑म॒पां नपा॑तं॒ परि॑तस्थु॒रापः॑ । तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ ॥ स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒द्ध्मो घृ॒तनि॑र्णिग॒फ्सु ॥इन्द्रा॒वरु॑णयोर॒हꣳस॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे᳚ ॥ इन्द्रा॑वरुणा यु॒वम॑द्ध्व॒राय॑ नो - [ ]
पदपाठः (Word-by-word)
अ॒न्याः । यन्ति॑ । उपेति॑ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः॑ । पृ॒ण॒न्ति॒ ॥ तम् । उ॒ । शुचि᳚म् । शुच॑यः । दी॒दि॒वाꣳस᳚म् । अ॒पाम् । नपा॑तम् । परीति॑ । त॒स्थुः॒ । आपः॑ ॥ तम् । अस्मे॑राः । यु॒व॒तयः॑ । युवा॑नम् । म॒र्मृ॒ज्यमा॑नाः । परीति॑ । य॒न्ति॒ । आपः॑ ॥ सः । शु॒क्रेण॑ । शिक्व॑ना । रे॒वत् । अ॒ग्निः । दी॒दाय॑ । अ॒नि॒द्ध्मः । घृ॒तनि॑र्णि॒गिति॑ घृ॒त - नि॒र्णि॒क् । अ॒फ्स्वित्य॑प् - सु ॥ इन्द्रा॒वरु॑णयो॒रितीन्द्रा᳚ - वरु॑णयोः । अ॒हम् । स॒म्राजो॒रिति॑ सं - राजोः᳚ । अवः॑ । एति॑ । वृ॒णे॒ ॥ ता । नः॒ । मृ॒डा॒तः॒ । ई॒दृशे᳚ ॥ इन्द्रा॑वरु॒णेतीन्द्रा᳚ - व॒रु॒णा॒ । यु॒वम् । अ॒द्ध्व॒राय॑ । नः॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.5.12.3 TS 2.5.12.3
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतं । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥ आ नो॑मित्रावरुणा॒प्रबा॒हवा᳚॥त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासि सीष्ठाः । यजि॑ष्ठो॒ वह्नि॑ तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥स त्वंनो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णꣳ॒॒ - [ ]
पदपाठः (Word-by-word)
वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ॥ दी॒र्घप्र॑यज्यु॒मिति॑ दी॒र्घ - प्र॒य॒ज्यु॒म् । अतीति॑ । यः । व॒नु॒ष्यति॑ । व॒यम् । ज॒ये॒म॒ । पृत॑नासु । दू॒ढ्यः॑ ॥ एति॑ । नः॒ । मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । प्रेति॑ । बा॒हवा᳚ ॥ त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेडः॑ । अवेति॑ । या॒सि॒सी॒ष्ठाः॒ ॥ यजि॑ष्ठः । वह्नि॑तम॒ इति॒ वह्नि॑-त॒मः॒ । शोशु॑चानः । विश्वा᳚ । द्वेषाꣳ॑सि । प्रेति॑ । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥ सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒व॒मः । भ॒व॒ । ऊ॒ती । नेदि॑ष्ठः । अ॒स्याः । उ॒षसः॑ । व्यु॑ष्टा॒विति॒ वि - उ॒ष्टौ॒ ॥ अवेति॑ । य॒क्ष्व॒ । नः॒ । वरु॑णम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.5.12.4 TS 2.5.12.4
ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि ॥प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ् सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे᳚ प्रत्न राजन्न् ॥
पदपाठः (Word-by-word)
ररा॑णः । वी॒हि । मृ॒डी॒कम् । सु॒हव॒ इति॑ सु - हवः॑ । नः॒ । ए॒धि॒ ॥ प्रप्रेति॒ प्र - प्र॒ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वीति॑ । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ॥ अ॒भीति॑ । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । दी॒दाय॑ । दैव्यः॑ । अति॑थिः । शि॒वः । नः॒ ॥ प्रेति॑ । ते॒ । य॒क्षि॒ । प्रेति॑ । ते॒ । इ॒य॒र्मि॒ । मन्म॑ । भुवः॑ । यथा᳚ । वन्द्यः॑ । नः॒ । हवे॑षु ॥ धन्वन्न्॑ । इ॒व॒ । प्र॒पेति॑ प्र - पा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे᳚ । पू॒रवे᳚ । प्र॒त्न॒ । रा॒ज॒न्न् ॥
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.5.12.5 TS 2.5.12.5
वि पाज॑सा॒ वि ज्योति॑षा ॥ स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥तꣳ सु॒प्रती॑कꣳ सु॒दृशꣳ॒॒ स्वञ्च॒मवि॑द्वाꣳसो वि॒दुष्ट॑रꣳ सपेम ।स य॑क्ष॒-द्विश्वा॑ व॒युना॑नि वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥अꣳ॒॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ विन॑ इ॒न्द्रे न्द्र॑ क्ष॒त्र मि॑न्द्रि॒याणि॑ शतक्र॒तो ऽनु॑ ते दायि ॥
पदपाठः (Word-by-word)
वीति॑ । पाज॑सा । वीति॑ । ज्योति॑षा ॥ सः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रतीति॑ । ओ॒ष॒ । या॒तु॒धा॒न्य॑ इति॑ यातु - धा॒न्यः॑ ॥ उ॒रु॒क्षये॒ष्वित्यु॑रु - क्षये॑षु । दीद्य॑त् ॥ तम् । सु॒प्रती॑क॒मिति॑ सु - प्रती॑कम् । सु॒दृश॒मिति॑ सु - दृश᳚म् । स्वञ्च᳚म् । अवि॑द्वाꣳसः । वि॒दुष्ट॑र॒मिति॑ वि॒दुः - त॒र॒म् । स॒पे॒म॒ ॥ सः । य॒क्ष॒त् । विश्वा᳚ । व॒युना॑नि । वि॒द्वान् । प्रेति॑ । ह॒व्यम् । अ॒ग्निः । अ॒मृते॑षु । वो॒च॒त् ॥ अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः - मुचे᳚ । वि॒वेष॑ । यत् । मा॒ । वीति॑ । नः॒ । इ॒न्द्र॒ । इन्द्र॑ । क्ष॒त्रम् । इ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शत-क्र॒तो॒ । अन्विति॑ । ते॒ । दा॒यि॒ ॥
पदसंख्या: 44