अनुवाकः 9 TS 2.5.9

(A9)

(विप्रा॑नुमदित॒ इत्या॑ह - च॒ना - ऽस्मै॒ - होतो॑ - प॒भृद् - दे॒वता॑ ए॒व - त्रीणि॑ च)

अनुवाकः 9 - Complete Audio

TS 2.5.9 - स्वरानुगामी

0:00 0:00
PS1.1 अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह म॒हान्.
PS1.2 ह्ये॑ष यद॒ग्नि र्ब्रा᳚ह्म॒णेत्या॑ह ब्राह्म॒णो
PS1.3 ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑
PS1.4 ह॒व्यं भर॑ति दे॒वेद्ध॒ इत्या॑ह
PS1.5 दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒
PS1.6 मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्धर्.षि॑ष्टुत॒ इत्या॒हर्.ष॑यो॒
PS1.7 ह्ये॑तमस्तु॑व॒न् विप्रा॑नुमदित॒ इत्या॑ह॒ -
PS1.8 [ ]
PS2.1 विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसः॑ कविश॒स्त
PS2.2 इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒
PS2.3 ब्रह्म॑सꣳशित॒ इत्या॑ह॒ ब्रह्म॑सꣳशितो॒ ह्ये॑ष
PS2.4 घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा
PS2.5 प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑द्ध्व॒राणा॒मित्या॑है॒ष
PS2.6 हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न
PS2.7 ह्ये॑तं कश्च॒न - [
PS2.8 ]
PS3.1 तर॑ति॒ तूर्णि॑र्. हव्य॒वाडित्या॑ह॒ सर्वꣳ॒॒ह्ये॑ष
PS3.2 तर॒त्यास्पात्रं॑ जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वानां᳚
PS3.3 चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो
PS3.4 ह्ये॑ष दे॑व॒पानो॒ऽराꣳ इ॑वाग्ने ने॒मिर्दे॒वाꣳस्त्वं
PS3.5 प॑रि॒भूर॒सीत्या॑ह दे॒वान् ह्ये॑ष प॑रि॒भूर्यद्-ब्रू॒यादा
PS3.6 व॑ह दे॒वान् दे॑वय॒ते यज॑माना॒येति॒
PS3.7 भ्रातृ॑व्यमस्मै- [ ]
PS4.1 जनये॒दा व॑ह दे॒वान्. यज॑माना॒येत्या॑ह॒
PS4.2 यज॑मानमे॒वैतेन॑ वर्द्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒
PS4.3 सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व
PS4.4 तद्-य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा᳚ग्ने
PS4.5 दे॒वान्. वह॑ सु॒यजा॑ च
PS4.6 यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तथ्
PS4.7 सꣳ श्य॑ति॒ सो᳚ऽस्य॒ सꣳशि॑तो
PS4.8 दे॒वेभ्यो॑ ह॒व्यं ॅव॑हत्य॒ग्निर्. होते
PS4.9 - [ ]
PS5.1 -त्या॑हा॒ग्निर्वै दे॒वानाꣳ॒॒ होता॒ य
PS5.2 ए॒व दे॒वानाꣳ॒॒ होता॒ तं
PS5.3 ॅवृ॑णीते॒स्मो व॒यमित्या॑हा॒ऽऽत्मान॑मे॒व स॒त्त्वं ग॑मयति
PS5.4 सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒ऽऽशिष॑मे॒वैतामा
PS5.5 शा᳚स्ते॒ यद्ब्रू॒याद्-यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒
PS5.6 यज॑मानं॒ परि॑ गृह्णीयात् प्र॒मायु॑कः
PS5.7 स्याद्-यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्य देव॒त्यो॑प॒भृद्
PS5.8 - [ ]
PS6.1 यद्-द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यमस्मै
PS6.2 जनयेद् घृ॒तव॑तीमद्ध्वर्यो॒ स्रुच॒माऽस्य॒स्वेत्या॑ह॒ यज॑मान
PS6.3 मे॒वैतेन॑ वर्द्धयति देवा॒युव॒मित्या॑ह दे॒वान्.
PS6.4 ह्ये॑षाऽव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्वꣳ॒॒ ह्ये॑षाऽव॒तीडा॑महै
PS6.5 दे॒वाꣳ ई॒डेन्या᳚न्नम॒स्याम॑ नम॒स्यान्॑ यजा॑म
PS6.6 य॒ज्ञिया॒नित्या॑हमनु॒ष्या॑ वा ई॒डेन्याः᳚ पि॒तरो॑
PS6.7 नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑
PS6.8 ए॒व ( ) तद्-य॑थाभा॒गं
PS6.9 ॅय॑जति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.5.9.1 TS 2.5.9.1
अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह म॒हान्. ह्ये॑ष यद॒ग्नि र्ब्रा᳚ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यं भर॑ति दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्धर्.षि॑ष्टुत॒ इत्या॒हर्.ष॑यो॒ ह्ये॑तमस्तु॑व॒न् विप्रा॑नुमदित॒ इत्या॑ह॒ - [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । म॒हान् । अ॒सि॒ । इति॑ । आ॒ह॒ । म॒हान् । हि । ए॒षः । यत् । अ॒ग्निः । ब्रा॒ह्म॒ण॒ । इति॑ । आ॒ह॒ । ब्रा॒ह्म॒णः । हि । ए॒षः । भा॒र॒त॒ । इति॑ । आ॒ह॒ । ए॒षः । हि । दे॒वेभ्यः॑ । ह॒व्यम् । भर॑ति । दे॒वेद्ध॒ इति॑ दे॒व - इ॒द्धः॒ । इति॑ । आ॒ह॒ । दे॒वाः । हि । ए॒तम् । ऐन्ध॑त । मन्वि॑द्ध॒ इति॒ मनु॑ - इ॒द्धः॒ । इति॑ । आ॒ह॒ । मनुः॑ । हि । ए॒तम् । उत्त॑र॒ इत्युत् - त॒रः॒ । दे॒वेभ्यः॑ । ऐन्ध॑ । ऋषि॑ष्टुत॒ इत्यृषि॑ - स्तु॒तः॒ । इति॑ । आ॒ह॒ । ऋष॑यः । हि । ए॒तम् । अस्तु॑वन्न् । विप्रा॑नुमदित॒ इति॒ विप्र॑ - अ॒नु॒म॒दि॒तः॒ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे पञ्चमप्रपाठके नवमोनुवाकः)। (प्रवरमन्त्रस्य निगदस्य स्रुगादापननिगदस्य च व्याख्यानम्)

" द्वितीयाद्याः सामिधेन्यो व्याख्याता अष्टमे स्फुटम्। अथ नवमे प्रवरमन्त्रस्य निगदस्य स्रुगादापननिगदस्य च व्याख्यानं प्रवर्तते। ते च निगदादयो मन्त्रकाण्डे समाम्नाताः। कल्पः----“अथ निवित्पदान्यन्वाह देवेद्धो मन्विद्ध इति सप्तमे स्वनिति अथ चतसृषु” इति। पाठस्तु “अग्ने महा असि ब्राह्मण भारत। असावसौ। देवेद्धो मन्विद्धः। ऋषिष्टुतो विप्रानुमदितः। कविशस्तो ब्रह्मस शितो घृताहवनः। प्रणीर्यज्ञानाम्। रथीरध्वराणाम्। अतूर्तो होता। तूर्णिर्हव्यवाट्। आस्पात्रं जुहूर्देवानाम्। चमसो देवपानः। अरा इवाग्ने नेमिर्देवात्स्वं परिभूरसि। आवह देवान्यजमानाय” (ब्रा. का. ३ प्र. अ. ३) इति। अत्राग्ने महानित्यारभ्यासावसावित्यन्तः प्रवरमन्त्रः। अवशिष्टा निविन्मन्त्राः। तेषामर्थं ब्राह्मणव्याख्यानमुखेनैव स्पष्टी करिष्यामः। तत्र प्रवरमन्त्रार्थं दर्शयति अग्ने महानिति। अग्निरिति यदेष यस्मात्सर्वाहुत्याधारत्वेन प्रहांस्तस्मान्मन्त्रे महानसीत्युच्यते। यस्माद्ब्राह्मणवर्णाभिमानी तस्मादब्रह्मणेति संबोध्यते। यस्मादेव देवेभ्यो हव्यं भरति धारयति तस्माद्भारतेति संबोध्यते। मन्त्रे येयमसा वसाविति वीप्सा तेन (तया) भृग्वादीनामृषाणां नामनिर्देशोभिप्रेतः। स च भार्गवच्यावनेत्यादिना पूर्वानुवाक एवास्माभिरुदाहृतः। निवित्पदेषु सप्तसु प्रथमस्यार्थं दर्शयति देवेद्ध इति। यस्माद्देवाः स्वकीयेषु यागेष्वेतमग्निमैन्धत प्रज्वलितवन्तस्तस्मादेवेद्ध इत्युच्यते। द्वितीयपदस्यार्थं दर्शयति मन्विद्ध इति। देवेभ्य उत्तरो देवैरिन्धनादूर्ध्वं स्वकीययागे मनुरैन्ध। उत्तरेष्यपि पञ्चसु पदेषु प्रसिद्धार्थतां हिशब्दो द्योतयति ऋषिष्टुत इति। शुश्रुवांस श्रुताध्ययनसंपन्ना जात्या विप्रा विद्यया बिबुधाः कवयश्च भवन्ति। तैरयमनुमदितस्तोपितः शस्तः स्तुतश्च। ब्रह्मणा मन्वेण संशितस्तीक्ष्णीकृतः। घृतरूपमाहवनमाहुतियस्यासौ घृताहवनः। अनुच्छ्वासेन पठनीयानां सप्तपदानामर्थं दर्शयित्वोच्छ्वासादूर्ध्यं पठनीयानां चतसृणां निविदामर्थं दर्शयति प्रणीर्यज्ञानामिति। यज्ञानां नेतृत्वमग्नौ प्रसिद्धम्। रथीर्देवानां हविर्व हनायाध्वराणां संबन्धी रथोयमग्निः। यस्मादह्वातारमेतमग्निं कोपि देवो न तरति नातिक्रामति तस्मादयमतूर्तो होतेत्युच्यते। यस्मात्सर्वमपि देवमयं हविर्वहनात्तरति प्राप्नोति तस्यात्तूर्णिर्हव्यवाडित्युच्यते। एताभ्यश्चतसृभ्यो निविद्भ्य ऊर्ध्वमुच्छ्वासं कृत्वा पश्चात्पठनीयानां चतसृणां निविदामर्थं दर्शयति आस्पात्रमिति। एषोग्निर्देवानां जुहूसदृशो जुह्वामिवास्मिन्हविष्प्रक्षेपात्। न चास्य दारुमयजुहूवच्छैथिल्यं, किंत्वास्पात्रं लोहपात्रवद्दृढमित्यर्थेः। यथा मनुष्याणां सोमपानहेतुश्चमसस्तथादेवानां पानसाधनचमसस्तानीयोयमग्निः। हेग्ने त्वं यथा शकटचक्रास्थितान्कुलालचक्रस्थितान्वा तिर्यक्विलरूपानरान्नेभिः परितो व्याप्नोति तथा देवानां परिभूः परितो व्याप्तवानसि। चतुर्थ्यां निविदि देवयत इति पदं शाखान्तरे पठ्यते। तदव यदि ब्रूयात्तदा होता यजमानस्य भ्रातृव्यं जनयेत्। देवानिच्छतीति देवयत्त (यस्त) स्मै देवयते यजमानाय। एतत्पदप्रयोगेणान्यः कश्चिदेतदीयान्देवानिच्छतीति प्रतिभा भवति। तदेतद्भ्रातृव्यस्योत्पादनम्। तस्मात्तत्पदं परित्यज्यास्मै यजमानाय देवानावहेत्येतावदेव वाक्यशेषात्तेनैवैतेन यजमानं वर्धयति वृद्धिं प्रापयति। कल्पः “देवतां देवतामावाह्य व्यनित्यग्निमग्न आवह सोममावहाग्निमावह प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवत्यग्नीषोमावावहेन्द्राग्नी आवहेन्द्रमावह महेन्द्रमावह देपाँ आज्यवाँ आवहाग्निं होत्रायावह स्वं महिमानमावहेति न स्वं महिमानमावहेदा चाग्ने देवान्वह सुयजा च यज जातवेद इत्युक्त्वा” इति। अत्रावाहननिगदो मन्त्रकाण्डे समाम्नातः सर्वोपि सूत्रकारेण पठितः।* तस्य सर्वस्य तात्पर्यं दर्शयति अग्निमग्न आवह सोममावहेत्याह देवता एव तद्यथापूर्वमुपह्वयते, इति। *घनुश्चिन्हान्तर्गतो ग्रन्थोधिकः। तत्तेनावाहननिगद आवहेति पाठेनाज्यभागादिसर्वयागदेवता अनुक्रमेण ह्वयते)। हे आहुत्याधारभूताग्ने प्रथमाज्यभागदेवतामग्निमावह। द्वितीयाज्य भागदेवं सोममावह। पौर्णमास्याममावास्यायांच प्रथमपुरोडाशदेवमग्निमावह। पौर्णमास्यामुपांशुयागदेवं प्रजापतिमावह । प्रजापतिपदं शनैरुच्चार्यावहेतिपद मुच्चैरुच्चारयेत्। पौर्णमास्यां द्वितीयपुरोडाशदेवमग्नीषोमरूपमावह। अमावास्या यामसांनाय्यिनो द्वितीयपुरोडाशदेवत्वेनेन्द्राग्नी आवह। अगतश्रियः सांनाय्य देवमिन्द्रमावह। गतश्रियो महेन्द्रमावह। आज्यापान्प्रयाजानूयाजदेवानावह। अग्निं होत्राय होमस्य स्विष्टकरणाय। आवाहनविषयाणामुक्तानां देवानां यो यस्य देवस्य स्वकीयो महिमा सामर्थ्यतिशयस्तं महिमानमावह। अत्र हविर्भुज एव देवानभिप्रेत्य स्वं महिमानमित्युच्यते, न त्वामावाहनकर्तुरग्नेर्महिमानं तस्यावाहनविषयत्वाभावात्, इति कल्पसूत्रस्यार्थः। जातानि वेदांसि ज्ञानानि यस्मादसौ जातवेदाः सर्वज्ञोयं सर्वदेवमहिमाभिज्ञत्वादित्यर्थः। तादृश हेग्ने त्वं देवानावह च सुयजा शोभनेन यज्ञेन यज च। न केवलमावाहनं कर्तव्यं किंतु हविष्प्रापणलक्षणो यागोपि त्वयैव कर्तव्यः। अत्र सूत्रे प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवतीत्युक्तं तच्चोपांशुयाजे प्रजापतिविष्ण्वग्नीषोमाणां विकल्पाभिप्रायेण द्रष्टव्यम्। एतस्यावाहननिगदस्य तात्पर्यं संक्षेपेण दर्शयति अग्निमग्न इति। तत्तेनावाहननिगदेनाज्यभागादिस्विष्टकृदन्तदेवताः सर्वाः क्रमेण हूतवान्भवति। प्रथमाज्यभागदेवौ तथा प्रधानदेवता इत्यादिक्रमो यथा पूर्वमित्यादिनोच्यते। आवाहननिगदावसाने यदेतन्निगमनवाक्यं तस्य तात्पर्यं दर्शयति आ चाग्न इति। तत्तेन वाक्यपाठेनाग्निमेव संश्यति तीक्ष्णी करोति। सोग्निस्तीक्ष्णीकृतोप्रमत्तः संस्तस्य यजमानस्य हव्यं देवेभ्यः क्रमेण वहति। कल्पः“अथ स्रुगादापनेन स्रुचावादापयत्यग्निर्होता वेत्त्वित्यनुवाकेनाध्वर्युर्जुहूपभृतौ स्रुचावादत्ते” इति। घृतवतीशब्दे जुहूपभृतावादायेत्याध्वर्यवसूत्रे दर्शितवान्। होता तु घृतवतीमध्वर्योः स्रुचमास्यस्वेत्यनेन शब्देन युक्तमनुवाकं पठति। तदिदं स्रुचोरादापनम्। सोयमनुवाको मन्त्रकाण्डे समाम्नातः। तस्य पाठस्तु “अग्निर्होता वेत्त्वग्निः। होत्रं वेत्त प्रावित्रम्। स्मो वयम्। साधु ते यजमान देवता। घृतवतीमध्वर्यो स्रुचमास्यस्व। देवायुवं विश्ववाराम्। ईडामहै देवा ईडेन्यान्। नमस्याम नमस्यान्। यजाम यज्ञियान्” (ब्रा. का. ३प. ५अ. ४) इति। अयमग्निर्होता होमस्य कर्ता। तथा चान्यत्र मन्त्रब्राह्मण आम्नातम्-“अग्ने यष्टरिदं नम इत्याह। अग्निर्वै देवानां यष्टा ” इति। अतोयमग्निर्वेत्तु होमक्रमं जानातु। तदेव वेदनमुत्तरवाक्येन (ण) स्पष्टी क्रियते प्रकृष्टमवित्रं फलदानरूपमस्पद्रक्षणं यस्मिन्होमानुष्ठाने तदिदं प्रावित्रम्। तादृशं होत्रहोमानुष्ठानं वेत्तु होमक्रमं जानातु। न केवलं दैव्यस्य होतुरग्नेरुपरि भारः प्रक्षिप्यते किंतु वयं स्मो मनुष्यहोतारो वयमप्यत्र वर्तामहे। अतो वयमपि होमक्रमज्ञानवन्तस्तिष्ठामः। हे यजमान ते तव हविःस्वीकर्त्री देवता साधु फलं ददात्विति शेषः। हेध्वर्यो घृतपूर्णा स्रुचं जुहूमास्यस्वाक्षिप स्वी कुर्वित्यर्थः। कीदृशीं स्रुचं, देवायुवं देवान्यौति मिश्रयतीति देवायुस्तादृशीम्। विश्ववारां विश्वान्सर्वान्राक्षसकृतान्विघ्नान्वारयतीति विश्ववारा तादृशीम्। ईडेन्यान्स्तुतिप्रियान्मनुष्यान्वयं स्तुमः। नमस्यान्नमस्कारप्रियान्पितृन्नमस्कुर्मः। यज्ञियान्यज्ञप्रियान्देवान्यजाम। अग्नेर्होतृत्वं वेदेषु प्रसिद्धमित्येतद्दर्शयति अग्निर्होतेति। दैव्यस्य होतुः साहाय्यमाचरितुं मानुषस्य स्वस्य सद्भाव इत्येतद्दर्शयति स्मो वयमिति। ददात्वित्येतादृशेनाशीरर्थेन वाक्यपूरणाय तात्पयार्थं दर्शयति"

साधु त इति। शाखान्तरे साधु ते यजमान देवतेत्यस्योपरि योग्निं होतारमवृथा इति किंत्तिद्वाक्यमाम्नातम्। तस्यायमर्थः- हे यजमान यस्त्वमग्निं होतारमवृथा होतृत्वेन वृतवानसि तस्य तव साधु ददात्विति।

तमिमं शाखान्तरपाठं दूषयति यद्ब्रूयादिति। अग्निर्होता वेत्त्वग्निरित्युपक्रमे पठितं साधु ते यजमानदेवतेत्यस्गादप्यूर्ध्वं यद्यग्नि होतारमिति ब्रूयात्तदोभयोः पार्श्वयोर्यजमानोग्निनापरिगृहीतो भवेत्। ततो दाहाधिक्येन म्रियेत। तस्माच्छाखान्तरपाठो नादर्तव्यः। यद्यपि जुहूपभूतौ द्वे अपि आदातव्ये तथापि तयोः समं प्राधान्यं निर्वायजुह्वा एव प्राधान्यं द्योतयितुं स्रुचमित्येकवचनमेव पठनीयमित्येतद्दर्शयति यजमानदेवत्येति। स्रुचावित्येव द्विवचनेन द्वे इव द्वे अपि समप्रधाने इव यदि ब्रूयात्तदा यजमानसमानं भ्रातृव्यमुत्पादयेत्। तस्मादुपभृतमुपेक्षितामिव तिरस्कर्तुं जुहूप्रधान्यायैकवचनाभिधानेन यजमानं वधितवान्भवति। नहिजुह्वा इवोपभृतः क्वचिदपि साक्षाद्धोमसाधनत्वमस्ति। तस्मादुपसर्जनत्वं तस्या युक्तम्। देवमिश्रेण देवरक्षणं विघ्ननिवारणेन विश्वरक्षणमभिप्रेतमित्येतद्दर्शयति देवायुवमिति। ईडेन्यादिशब्दैर्विवक्षितं दर्शयति ईडामहा इति। देवता यजतीत्येदुपलक्षणम्। मनुष्यान्स्तौति पितृन्नमस्यतीत्येतदपि द्रष्टव्यम्। एवं च सति यस्य मनुष्यादेयो भागः स्तुत्यादिरूप उपचरितस्तं भागमनतिक्रम्यानुष्ठितवान्भवति। अत्र मीमांसा। दशमाध्यायस्य चतुर्थपादे चिन्तितम् “चातुर्मास्यातिदिष्टेषु निगमेष्वाज्यपानिति। विक्रियेत न वाद्येपि किं स्याद्दध्याज्यपानिति।। दधिपानिति वा यद्वेत्येवं स्यात्पृषदाज्यपान। द्रव्यद्वयोक्तेराद्यः स्याद्दधिमात्रहविष्ट्वतः।। द्वितीयः स्यात्तृतीयोस्तु द्रव्यान्तरविधानतः।

गुणो दध्ना चित्रताज्ये ततो विक्रियते नहि।। चातुर्मास्येषु चोदकेनावाहनस्वाहाकारायाड्जोषणानिगमा अतिदिष्टाः।

तत्राज्यपशब्दः प्रयुक्तः-- “देवा आज्यपा आवह”। “स्वाहा देवा आज्यपान्” “अयाड्देवानामाज्यपानां प्रिया धामानि”। “देवा आज्यपा आज्यमजुर्षन्त” इति। सोयमाज्यपशब्दो विक्रियते न वेति संशयः। तत्र विकारोपि त्रिविधः। तत्र दध्याज्यपानित्याद्यस्तावत्प्राप्नोति। कुतः । अथ पृषदाज्यं गृह्णाति द्वयं वा इदं सर्पिश्च दधि चेति द्रव्यद्वयस्योक्तत्वात्। आज्यस्योपस्तरणाभिधारणार्थत्वेन हविःशेषत्वाद्धविष्ट्वं नास्तीति दध्येव हविः। ततो दधिपानिति द्वितीयः पक्षः। दध्याज्यमेलनेन निष्पद्यते पृषदाज्यं द्रव्यान्तरम्। तदेव हविरिति पृषदाज्यपानिति तृतीयः पक्षः। दधिमेलनादाज्ये पृषत्ता गुणो निष्पद्यते। तस्मादाज्यस्यैव हविष्ट्वमित्याज्यपशब्दोपेता एव निगमाः पठितव्याः।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके नवमोनुवाकः ।। ९ ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्ने महानसीत्यादिना प्रवरमन्त्रपदानि व्याचष्टे ॥ महान् ह्येष इति । स्वभावत एवेति भावः । ब्राह्मणो ह्येष इति । यदग्निरेव जात्या ब्राह्मणः, ब्रह्मणो मुखाद्द्वयोरपि जातत्वात् । ब्रह्मणोपत्यत्वेन वा स्तुतिः । 'ब्राह्मोऽजातौ' इति व्यत्ययेन प्रवर्तते । एष हीति । हविषां भरणात् भारतः, भरतानामृत्विजामपत्यत्वात् भारतः ॥
2 अथ प्रवरमुक्त्वा निविदोन्वाह - देवेद्ध इत्याद्याः ॥ ता व्याचष्टे - देवा हिति । देवा ऋत्विज इन्द्रादयो वा एतमैन्धत दीपयन्ति, तस्माद्देवेद्धः । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । मनुर्ह्येतं इति । मनुर्ह्येतं देवतार्थमैन्ध । देवेभ्योऽपि वा मनुरुत्तरो मनुरेतस्मात् मन्विद्धः । पूर्ववत्स्वरः । एवं सर्वत्र । ऋषयो दर्शनवन्तोप्येनमस्तुववन् । विप्रा हीति । विप्रा मेधाविनः ये शुश्रुवांसः श्रुतार्थाः गृहीतवेदार्थाः तैरप्यनुमदितः अनुमोदितः अनुक्रमेण वा स्तुतः । मद तृप्तियोगे; मन्दतेर्वा, छान्दसो नुमभावः ॥
3 कवयो हीति ॥ कवयः क्रान्तदर्शनाः सूक्ष्मदृशः तेऽपि श्रुतवन्तः एव । तैरपि शस्तः स्तुतः । ब्रह्मसंशितो हीति ॥ ब्रह्मणा ऋगादिना मन्त्रेण परवस्तुनैव वा संशितः सम्यक् तीक्ष्णीकृतः । घृताहुतिर्हीति । घृतमाहवनमाहुतिः प्रीतिहेतुरस्येति घृताहवनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रणीरिति । प्रकर्षेण यज्ञानां नेता उत्पादयिता ॥
4 देवरथ इति ॥ अध्वराणां देवान् प्रति रंहयिता देवरथः । रंहणात् रथिः । औणादिक इप्रत्ययो वर्णविकारः । न हीति । कश्चिदप्येनं न तरति नातिक्रमते । तरतेः कर्मणि निष्ठायां छान्दसो नत्वाभावः । नञ्समासे 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । केन चिदप्यतिक्रमितुं न शक्तः । होता देवानामाह्वाता । सर्वं हीति । तरतेः कर्तरि औणादिको निन्प्रत्ययः, क्तिन्येव वा 'ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति' इति निष्ठावद्भावः, 'रदाभ्यां' इति णत्वम् । सर्वं तरितुमतिक्रमितुं समर्थो हविषां वोढारम् । जुहूर्हीति । जुहूस्थानीयोऽयं देवानां, यथा जुह्वाऽग्नौ हविः प्राप्यते एवमग्निना देवेषु हविः प्राप्स्यते इति । विशेषस्त्वस्यास्पात्रत्वम् । अयस्पात्रवत् दृढतरा अग्निलक्षणा जुहूरिति ॥
5 चमसो हीति ॥ देवा येन सोमं पिबन्ति स देवपानश्चमसः । तत्स्थनीयोऽयमग्निः । देवान् हीति । एष हि देवान् परितः सर्वतो भवति परिगृह्णाति व्याप्नोति अरानिव नेमिः, तस्माद्देवान् परिभूरसीत्युच्यते । 'अभितःपरितः' इति द्वितीया; छान्दसस्तसिलोपः ॥
6 यद्ब्रूयादिति ॥ आवह देवान् यजमानाय इत्यन्ता निवित् । शाखान्तरेषु तु 'आवह देवान् देवयते यजमानाय' इति पाठः । सोऽनेन निन्द्यते । यदि ब्रूयात् देवयते यजमानायेति भ्रातृव्यमस्मै यजमानाय जनयेत् । तथाहि - यजमानाय देवानावहेत्येव यावद्देवानामुपादाने सिद्धे पुनः देवानात्मन इच्छते यजमानायेति विशेषणोपादानं देवव्यतिरिक्तानामनिष्यमाणतया यजमानस्य भ्रातृव्यवत्त्वं सूचयति । ततश्च भ्रातृव्यवान् यजमानश्च स्यात् ।तस्माद्देवयते इति पदं नोपादेयम् । ततश्च भ्रातृव्यशङ्काया अभावात् यजमानं वर्धयत्येवैश्वर्येण ॥
7 अथ निविद उक्त्वा अग्निमग्न आवहेत्यादिना देवता आवाहयति - यथापूर्वमिति ॥ अग्न्याद्या यागदेवता अनुक्रमेणाग्निनाऽऽवाहयति । आचाग्न इति । आवह देवान् सुयजा त्वं अभिन्नेन च शोभनेन च यागेन च देवान् यज हे जातवेदः त्वं खलु जातानां वेदिता जातवेदा जातधनो वेत्येवं उपश्लोकनेनाग्निं संश्यति सम्यक् तीक्ष्णीकरोतीत्येव । स चाग्निः तथोज्ज्वलीकृतः तुष्टो देवस्थानं प्रापयति ॥
8 स्मः स्याम वयं होतारः सर्वदा तवेति मन्त्रार्थं दर्शयति - आशिषमिति ॥ हे यजमान इज्यमाना देवता तव साधयित्री अभिमतानां इत्येतामाशिषमनेनाशास्ते । भवत्येव च तत्फलमिति । अत्र 'साधु ते यजमान देवता योऽग्निं होतारमवृथाः' इत्यध्वर्युप्रवरानुवाकेन शाखान्तरीयपाठः । सोनेन निन्द्यते । एवं हि ब्रुवन्नग्निना यजमानमुभयतः परिगृह्णीयात् 'अग्निर्होता वेत्वग्निः' 'अग्निं होतारमवृथाः' इत्येतयोर्मध्ये यजमानस्य श्रवणात्; ततोयं प्रमायुकः मरणशीलः स्यात् । तस्मात्तथा न कर्तव्यमिति । मीयतेश्छान्दस उकञ् ॥
9 यजमानदेवत्येत्यादि ॥ अत्र 'घृतवतीमध्वर्यो स्रुचम्' इत्येकवचनेन स्रुक् निर्दिश्यते । 'द्वे' इति जुहूपभृतौ आदीयेते । तस्माद्द्वित्वादानस्याभिप्रायं ब्राह्मणमिदमिति दर्शयति - यद्द्वे इव ब्रूयात् सामान्यविवक्षां कृत्वा घृतवत्यौ स्रुचाविति । यदि द्वे एव जुहूपभृतौ पृथङ्निर्दिशेत्तदा भ्रातृव्यदेवत्याया उपभृतोप्युद्भूतरूपत्वाद्यजमानाय भ्रातृव्यं जनयेत् । एकवचनेन निर्देशात् यजमानदेवत्या वै जुहूरेव उद्भूतरूपा भवतीति भ्रातृव्याभावादैश्वर्येणैनं वर्धयतीति । नन्वेकवचनेन सामान्याद्द्वयोरपि निर्देशात्पुनरप्युद्भूतैवोपभृत्स्यात् । यद्यपि गुणभूतत्वादुपपभृतः स्वातन्त्र्येण ग्रहणं नास्ति । तथाऽपि तुल्यप्रतिपत्ती स्याताम् । नैष दोषः । द्वे इति द्विवचनान्तस्यैव प्रतिषेधो विवक्षितः । इवशब्देन हि शब्द प्रतिपन्नयोः द्वयोस्समत्वं प्रतिद्योत्यते; तस्माद्धोमसाधनभूता जुहूरेव उपभृता गृह्यते ॥
10 देवान् ह्येषेति ॥ देवानात्मन इच्छति रक्षितुमेवेति भावः । विश्वं हीति । विश्वकालप्रतिपत्तित्वात् विश्वमियं रक्षति । मनुष्या वा इत्यादि । मनुष्यादयोपि देवताः । तत्र मनुष्यात्मिका ईडेन्याः स्तुत्याः । औणादिक एन्यप्रत्ययः । पित्रात्मिका नमस्याः । 'नमोवरिवश्चित्रङः क्यच्', तदन्तादचो यत् । देवतात्मिका यज्ञिया यज्ञार्हा यष्टव्याः । 'यज्ञर्त्विग्भ्यां घखञौ' । यथाभागमिति । या देवता यस्यां प्रतिपत्तौ तत्तदनतिक्रमेण तां यजति पूरयति ॥
इति द्वितीये पञ्चमे नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.5.9.2 TS 2.5.9.2
विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह॒ ब्रह्म॑सꣳशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑द्ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तं कश्च॒न - [ ]
पदपाठः (Word-by-word)
विप्राः᳚ । हि । ए॒ते । यत् । शु॒श्रु॒वाꣳसः॑ । क॒वि॒श॒स्त इति॑ कवि - श॒स्तः । इति॑ । आ॒ह॒ । क॒वयः॑ । हि । ए॒ते । यत् । शु॒श्रु॒वाꣳसः॑ । ब्रह्म॑सꣳशित॒ इति॒ ब्रह्म॑ - सꣳ॒॒शि॒तः॒ । इति॑ । आ॒ह॒ । ब्रह्म॑सꣳशित॒ इति॒ ब्रह्म॑ - सꣳ॒॒शि॒तः॒ । हि । ए॒षः । घृ॒ताह॑वन॒ इति॑ घृ॒त - आ॒ह॒व॒नः॒ । इति॑ । आ॒ह॒ । घृ॒ता॒हु॒तिरिति॑ घृत-आ॒हु॒तिः । हि । अ॒स्य॒ । प्रि॒यत॒मेति॑ प्रि॒य - त॒मा॒ । प्र॒णीरिति॑ प्र - नीः । य॒ज्ञाना᳚म् । इति॑ । आ॒ह॒ । प्र॒णीरिति॑ प्र-नीः । हि । ए॒षः । य॒ज्ञाना᳚म् । र॒थीः । अ॒द्ध्व॒राणा᳚म् । इति॑ । आ॒ह॒ । ए॒षः । हि । दे॒व॒र॒थ इति॑ देव - र॒थः । अ॒तूर्तः॑ । होता᳚ । इति॑ । आ॒ह॒ । न । हि । ए॒तम् । कः । च॒न ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.5.9.3 TS 2.5.9.3
तर॑ति॒ तूर्णि॑र्. हव्य॒वाडित्या॑ह॒ सर्वꣳ॒॒ह्ये॑ष तर॒त्यास्पात्रं॑ जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वानां᳚ चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराꣳ इ॑वाग्ने ने॒मिर्दे॒वाꣳस्त्वं प॑रि॒भूर॒सीत्या॑ह दे॒वान् ह्ये॑ष प॑रि॒भूर्यद्-ब्रू॒यादा व॑ह दे॒वान् दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै- [ ]
पदपाठः (Word-by-word)
तर॑ति । तूर्णिः॑ । ह॒व्य॒वाडिति॑ हव्य - वाट् । इति॑ । आ॒ह॒ । सर्व᳚म् । हि । ए॒षः । तर॑ति । आस्पात्र᳚म् । जु॒हूः । दे॒वाना᳚म् । इति॑ । आ॒ह॒ । जु॒हूः । हि । ए॒षः । दे॒वाना᳚म् । च॒म॒सः । दे॒व॒पान॒ इति॑ देव - पानः॑ । इति॑ । आ॒ह॒ । च॒म॒सः । हि । ए॒षः । दे॒व॒पान॒ इति॑ देव - पानः॑ । अ॒रान् । इ॒व॒ । अ॒ग्ने॒ । ने॒मिः । दे॒वान् । त्वम् । प॒रि॒भूरिति॑ परि-भूः । अ॒सि॒ । इति॑ । आ॒ह॒ । दे॒वान् । हि । ए॒षः । प॒रि॒भूरिति॑ परि - भूः । यत् । ब्रू॒यात् । एति॑ । व॒ह॒ । दे॒वान् । दे॒व॒य॒त इति॑ देव - य॒ते । यज॑मानाय । इति॑ । भ्रातृ॑व्यम् । अ॒स्मै॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.5.9.4 TS 2.5.9.4
जनये॒दा व॑ह दे॒वान्. यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्द्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तद्-य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा᳚ग्ने दे॒वान्. वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तथ् सꣳ श्य॑ति॒ सो᳚ऽस्य॒ सꣳशि॑तो दे॒वेभ्यो॑ ह॒व्यं ॅव॑हत्य॒ग्निर्. होते - [ ]
पदपाठः (Word-by-word)
ज॒न॒ये॒त् । एति॑ । व॒ह॒ । दे॒वान् । यज॑मानाय । इति॑ । आ॒ह॒ । यज॑मानम् । ए॒व । ए॒तेन॑ । व॒द्‌र्ध॒य॒ति॒ । अ॒ग्निम् । अ॒ग्ने॒ । एति॑ । व॒ह॒ । सोम᳚म् । एति॑ । व॒ह॒ । इति॑ । आ॒ह॒ । दे॒वताः᳚ । ए॒व । तत् । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । उपेति॑ । ह्व॒य॒ते॒ । एति॑ । च॒ । अ॒ग्ने॒ । दे॒वान् । वह॑ । सु॒यजेति॑ सु - यजा᳚ । च॒ । य॒ज॒ । जा॒त॒वे॒द॒ इति॑ जात-वे॒दः॒ । इति॑ । आ॒ह॒ । अ॒ग्निम् । ए॒व । तत् । समिति॑ । श्य॒ति॒ । सः । अ॒स्य॒ । सꣳशि॑त॒ इति॒ सं - शि॒तः॒ । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒ति॒ । अ॒ग्निः । होता᳚ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.5.9.5 TS 2.5.9.5
-त्या॑हा॒ग्निर्वै दे॒वानाꣳ॒॒ होता॒ य ए॒व दे॒वानाꣳ॒॒ होता॒ तं ॅवृ॑णीते॒स्मो व॒यमित्या॑हा॒ऽऽत्मान॑मे॒व स॒त्त्वं ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याद्-यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मानं॒ परि॑ गृह्णीयात् प्र॒मायु॑कः स्याद्-यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्य देव॒त्यो॑प॒भृद् - [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । अ॒ग्निः । वै । दे॒वाना᳚म् । होता᳚ । यः । ए॒व । दे॒वाना᳚म् । होता᳚ । तम् । वृ॒णी॒ते॒ । स्मः । व॒यम् । इति॑ । आ॒ह॒ । आ॒त्मान᳚म् । ए॒व । स॒त्त्वमिति॑ सत् - त्वम् । ग॒म॒य॒ति॒ । सा॒धु । ते॒ । य॒ज॒मा॒न॒ । दे॒वता᳚ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । यत् । ब्रू॒यात् । यः । अ॒ग्निम् । होता॑रम् । अवृ॑थाः । इति॑ । अ॒ग्निना᳚ । उ॒भ॒यतः॑ । यज॑मानम् । परीति॑ । गृ॒ह्णी॒या॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । य॒ज॒मा॒न॒दे॒व॒त्येति॑ यजमान - दे॒व॒त्या᳚ । वै । जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ । उ॒प॒भृदित्यु॑प - भृत् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.5.9.6 TS 2.5.9.6
यद्-द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यमस्मै जनयेद् घृ॒तव॑तीमद्ध्वर्यो॒ स्रुच॒माऽस्य॒स्वेत्या॑ह॒ यज॑मान मे॒वैतेन॑ वर्द्धयति देवा॒युव॒मित्या॑ह दे॒वान्. ह्ये॑षाऽव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्वꣳ॒॒ ह्ये॑षाऽव॒तीडा॑महै दे॒वाꣳ ई॒डेन्या᳚न्नम॒स्याम॑ नम॒स्यान्॑ यजा॑म य॒ज्ञिया॒नित्या॑हमनु॒ष्या॑ वा ई॒डेन्याः᳚ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व ( ) तद्-य॑थाभा॒गं ॅय॑जति ॥
पदपाठः (Word-by-word)
यत् । द्वे इति॑ । इ॒व॒ । ब्रू॒यात् । भ्रातृ॑व्यम् । अ॒स्मै॒ । ज॒न॒ये॒त् । घृ॒तव॑ती॒मिति॑ घृ॒त - व॒ती॒म् । अ॒द्ध्व॒र्यो॒ इति॑ । स्रुच᳚म् । एति॑ । अ॒स्य॒स्व॒ । इति॑ । आ॒ह॒ । यज॑मानम् । ए॒व । ए॒तेन॑ । व॒द्‌र्ध॒य॒ति॒ । दे॒वा॒युव॒मिति॑ देव - युव᳚म् । इति॑ । आ॒ह॒ । दे॒वान् । हि । ए॒षा । अव॑ति । वि॒श्ववा॑रा॒मिति॑ वि॒श्व-वा॒रा॒म् । इति॑ । आ॒ह॒ । विश्व᳚म् । हि । ए॒षा । अव॑ति । ईडा॑महै । दे॒वान् । ई॒डेन्यान्॑ । न॒म॒स्याम॑ । न॒म॒स्यान्॑ । यजा॑म । य॒ज्ञियान्॑ । इति॑ । आ॒ह॒ । म॒नु॒ष्याः᳚ । वै । ई॒डेन्याः᳚ । पि॒तरः॑ । न॒म॒स्याः᳚ । दे॒वाः । य॒ज्ञियाः᳚ । दे॒वताः᳚ । ए॒व ( ) । तत् । य॒था॒भा॒गमिति॑ यथा - भा॒गम् । य॒ज॒ति॒ ॥
पदसंख्या: 53