पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके नवमोनुवाकः)। (प्रवरमन्त्रस्य निगदस्य स्रुगादापननिगदस्य च व्याख्यानम्)
" द्वितीयाद्याः सामिधेन्यो व्याख्याता अष्टमे स्फुटम्। अथ नवमे प्रवरमन्त्रस्य निगदस्य स्रुगादापननिगदस्य च व्याख्यानं प्रवर्तते। ते च निगदादयो मन्त्रकाण्डे समाम्नाताः। कल्पः----“अथ निवित्पदान्यन्वाह देवेद्धो मन्विद्ध इति सप्तमे स्वनिति अथ चतसृषु” इति। पाठस्तु “अग्ने महा असि ब्राह्मण भारत। असावसौ। देवेद्धो मन्विद्धः। ऋषिष्टुतो विप्रानुमदितः। कविशस्तो ब्रह्मस शितो घृताहवनः। प्रणीर्यज्ञानाम्। रथीरध्वराणाम्। अतूर्तो होता। तूर्णिर्हव्यवाट्। आस्पात्रं जुहूर्देवानाम्। चमसो देवपानः। अरा इवाग्ने नेमिर्देवात्स्वं परिभूरसि। आवह देवान्यजमानाय” (ब्रा. का. ३ प्र. अ. ३) इति। अत्राग्ने महानित्यारभ्यासावसावित्यन्तः प्रवरमन्त्रः। अवशिष्टा निविन्मन्त्राः। तेषामर्थं ब्राह्मणव्याख्यानमुखेनैव स्पष्टी करिष्यामः। तत्र प्रवरमन्त्रार्थं दर्शयति अग्ने महानिति। अग्निरिति यदेष यस्मात्सर्वाहुत्याधारत्वेन प्रहांस्तस्मान्मन्त्रे महानसीत्युच्यते। यस्माद्ब्राह्मणवर्णाभिमानी तस्मादब्रह्मणेति संबोध्यते। यस्मादेव देवेभ्यो हव्यं भरति धारयति तस्माद्भारतेति संबोध्यते। मन्त्रे येयमसा वसाविति वीप्सा तेन (तया) भृग्वादीनामृषाणां नामनिर्देशोभिप्रेतः। स च भार्गवच्यावनेत्यादिना पूर्वानुवाक एवास्माभिरुदाहृतः। निवित्पदेषु सप्तसु प्रथमस्यार्थं दर्शयति देवेद्ध इति। यस्माद्देवाः स्वकीयेषु यागेष्वेतमग्निमैन्धत प्रज्वलितवन्तस्तस्मादेवेद्ध इत्युच्यते। द्वितीयपदस्यार्थं दर्शयति मन्विद्ध इति। देवेभ्य उत्तरो देवैरिन्धनादूर्ध्वं स्वकीययागे मनुरैन्ध। उत्तरेष्यपि पञ्चसु पदेषु प्रसिद्धार्थतां हिशब्दो द्योतयति ऋषिष्टुत इति। शुश्रुवांस श्रुताध्ययनसंपन्ना जात्या विप्रा विद्यया बिबुधाः कवयश्च भवन्ति। तैरयमनुमदितस्तोपितः शस्तः स्तुतश्च। ब्रह्मणा मन्वेण संशितस्तीक्ष्णीकृतः। घृतरूपमाहवनमाहुतियस्यासौ घृताहवनः। अनुच्छ्वासेन पठनीयानां सप्तपदानामर्थं दर्शयित्वोच्छ्वासादूर्ध्यं पठनीयानां चतसृणां निविदामर्थं दर्शयति प्रणीर्यज्ञानामिति। यज्ञानां नेतृत्वमग्नौ प्रसिद्धम्। रथीर्देवानां हविर्व हनायाध्वराणां संबन्धी रथोयमग्निः। यस्मादह्वातारमेतमग्निं कोपि देवो न तरति नातिक्रामति तस्मादयमतूर्तो होतेत्युच्यते। यस्मात्सर्वमपि देवमयं हविर्वहनात्तरति प्राप्नोति तस्यात्तूर्णिर्हव्यवाडित्युच्यते। एताभ्यश्चतसृभ्यो निविद्भ्य ऊर्ध्वमुच्छ्वासं कृत्वा पश्चात्पठनीयानां चतसृणां निविदामर्थं दर्शयति आस्पात्रमिति। एषोग्निर्देवानां जुहूसदृशो जुह्वामिवास्मिन्हविष्प्रक्षेपात्। न चास्य दारुमयजुहूवच्छैथिल्यं, किंत्वास्पात्रं लोहपात्रवद्दृढमित्यर्थेः। यथा मनुष्याणां सोमपानहेतुश्चमसस्तथादेवानां पानसाधनचमसस्तानीयोयमग्निः। हेग्ने त्वं यथा शकटचक्रास्थितान्कुलालचक्रस्थितान्वा तिर्यक्विलरूपानरान्नेभिः परितो व्याप्नोति तथा देवानां परिभूः परितो व्याप्तवानसि। चतुर्थ्यां निविदि देवयत इति पदं शाखान्तरे पठ्यते। तदव यदि ब्रूयात्तदा होता यजमानस्य भ्रातृव्यं जनयेत्। देवानिच्छतीति देवयत्त (यस्त) स्मै देवयते यजमानाय। एतत्पदप्रयोगेणान्यः कश्चिदेतदीयान्देवानिच्छतीति प्रतिभा भवति। तदेतद्भ्रातृव्यस्योत्पादनम्। तस्मात्तत्पदं परित्यज्यास्मै यजमानाय देवानावहेत्येतावदेव वाक्यशेषात्तेनैवैतेन यजमानं वर्धयति वृद्धिं प्रापयति। कल्पः “देवतां देवतामावाह्य व्यनित्यग्निमग्न आवह सोममावहाग्निमावह प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवत्यग्नीषोमावावहेन्द्राग्नी आवहेन्द्रमावह महेन्द्रमावह देपाँ आज्यवाँ आवहाग्निं होत्रायावह स्वं महिमानमावहेति न स्वं महिमानमावहेदा चाग्ने देवान्वह सुयजा च यज जातवेद इत्युक्त्वा” इति। अत्रावाहननिगदो मन्त्रकाण्डे समाम्नातः सर्वोपि सूत्रकारेण पठितः।* तस्य सर्वस्य तात्पर्यं दर्शयति अग्निमग्न आवह सोममावहेत्याह देवता एव तद्यथापूर्वमुपह्वयते, इति। *घनुश्चिन्हान्तर्गतो ग्रन्थोधिकः। तत्तेनावाहननिगद आवहेति पाठेनाज्यभागादिसर्वयागदेवता अनुक्रमेण ह्वयते)। हे आहुत्याधारभूताग्ने प्रथमाज्यभागदेवतामग्निमावह। द्वितीयाज्य भागदेवं सोममावह। पौर्णमास्याममावास्यायांच प्रथमपुरोडाशदेवमग्निमावह। पौर्णमास्यामुपांशुयागदेवं प्रजापतिमावह । प्रजापतिपदं शनैरुच्चार्यावहेतिपद मुच्चैरुच्चारयेत्। पौर्णमास्यां द्वितीयपुरोडाशदेवमग्नीषोमरूपमावह। अमावास्या यामसांनाय्यिनो द्वितीयपुरोडाशदेवत्वेनेन्द्राग्नी आवह। अगतश्रियः सांनाय्य देवमिन्द्रमावह। गतश्रियो महेन्द्रमावह। आज्यापान्प्रयाजानूयाजदेवानावह। अग्निं होत्राय होमस्य स्विष्टकरणाय। आवाहनविषयाणामुक्तानां देवानां यो यस्य देवस्य स्वकीयो महिमा सामर्थ्यतिशयस्तं महिमानमावह। अत्र हविर्भुज एव देवानभिप्रेत्य स्वं महिमानमित्युच्यते, न त्वामावाहनकर्तुरग्नेर्महिमानं तस्यावाहनविषयत्वाभावात्, इति कल्पसूत्रस्यार्थः। जातानि वेदांसि ज्ञानानि यस्मादसौ जातवेदाः सर्वज्ञोयं सर्वदेवमहिमाभिज्ञत्वादित्यर्थः। तादृश हेग्ने त्वं देवानावह च सुयजा शोभनेन यज्ञेन यज च। न केवलमावाहनं कर्तव्यं किंतु हविष्प्रापणलक्षणो यागोपि त्वयैव कर्तव्यः। अत्र सूत्रे प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवतीत्युक्तं तच्चोपांशुयाजे प्रजापतिविष्ण्वग्नीषोमाणां विकल्पाभिप्रायेण द्रष्टव्यम्। एतस्यावाहननिगदस्य तात्पर्यं संक्षेपेण दर्शयति अग्निमग्न इति। तत्तेनावाहननिगदेनाज्यभागादिस्विष्टकृदन्तदेवताः सर्वाः क्रमेण हूतवान्भवति। प्रथमाज्यभागदेवौ तथा प्रधानदेवता इत्यादिक्रमो यथा पूर्वमित्यादिनोच्यते। आवाहननिगदावसाने यदेतन्निगमनवाक्यं तस्य तात्पर्यं दर्शयति आ चाग्न इति। तत्तेन वाक्यपाठेनाग्निमेव संश्यति तीक्ष्णी करोति। सोग्निस्तीक्ष्णीकृतोप्रमत्तः संस्तस्य यजमानस्य हव्यं देवेभ्यः क्रमेण वहति। कल्पः“अथ स्रुगादापनेन स्रुचावादापयत्यग्निर्होता वेत्त्वित्यनुवाकेनाध्वर्युर्जुहूपभृतौ स्रुचावादत्ते” इति। घृतवतीशब्दे जुहूपभृतावादायेत्याध्वर्यवसूत्रे दर्शितवान्। होता तु घृतवतीमध्वर्योः स्रुचमास्यस्वेत्यनेन शब्देन युक्तमनुवाकं पठति। तदिदं स्रुचोरादापनम्। सोयमनुवाको मन्त्रकाण्डे समाम्नातः। तस्य पाठस्तु “अग्निर्होता वेत्त्वग्निः। होत्रं वेत्त प्रावित्रम्। स्मो वयम्। साधु ते यजमान देवता। घृतवतीमध्वर्यो स्रुचमास्यस्व। देवायुवं विश्ववाराम्। ईडामहै देवा ईडेन्यान्। नमस्याम नमस्यान्। यजाम यज्ञियान्” (ब्रा. का. ३प. ५अ. ४) इति। अयमग्निर्होता होमस्य कर्ता। तथा चान्यत्र मन्त्रब्राह्मण आम्नातम्-“अग्ने यष्टरिदं नम इत्याह। अग्निर्वै देवानां यष्टा ” इति। अतोयमग्निर्वेत्तु होमक्रमं जानातु। तदेव वेदनमुत्तरवाक्येन (ण) स्पष्टी क्रियते प्रकृष्टमवित्रं फलदानरूपमस्पद्रक्षणं यस्मिन्होमानुष्ठाने तदिदं प्रावित्रम्। तादृशं होत्रहोमानुष्ठानं वेत्तु होमक्रमं जानातु। न केवलं दैव्यस्य होतुरग्नेरुपरि भारः प्रक्षिप्यते किंतु वयं स्मो मनुष्यहोतारो वयमप्यत्र वर्तामहे। अतो वयमपि होमक्रमज्ञानवन्तस्तिष्ठामः। हे यजमान ते तव हविःस्वीकर्त्री देवता साधु फलं ददात्विति शेषः। हेध्वर्यो घृतपूर्णा स्रुचं जुहूमास्यस्वाक्षिप स्वी कुर्वित्यर्थः। कीदृशीं स्रुचं, देवायुवं देवान्यौति मिश्रयतीति देवायुस्तादृशीम्। विश्ववारां विश्वान्सर्वान्राक्षसकृतान्विघ्नान्वारयतीति विश्ववारा तादृशीम्। ईडेन्यान्स्तुतिप्रियान्मनुष्यान्वयं स्तुमः। नमस्यान्नमस्कारप्रियान्पितृन्नमस्कुर्मः। यज्ञियान्यज्ञप्रियान्देवान्यजाम। अग्नेर्होतृत्वं वेदेषु प्रसिद्धमित्येतद्दर्शयति अग्निर्होतेति। दैव्यस्य होतुः साहाय्यमाचरितुं मानुषस्य स्वस्य सद्भाव इत्येतद्दर्शयति स्मो वयमिति। ददात्वित्येतादृशेनाशीरर्थेन वाक्यपूरणाय तात्पयार्थं दर्शयति"
साधु त इति। शाखान्तरे साधु ते यजमान देवतेत्यस्योपरि योग्निं होतारमवृथा इति किंत्तिद्वाक्यमाम्नातम्। तस्यायमर्थः- हे यजमान यस्त्वमग्निं होतारमवृथा होतृत्वेन वृतवानसि तस्य तव साधु ददात्विति।
तमिमं शाखान्तरपाठं दूषयति यद्ब्रूयादिति। अग्निर्होता वेत्त्वग्निरित्युपक्रमे पठितं साधु ते यजमानदेवतेत्यस्गादप्यूर्ध्वं यद्यग्नि होतारमिति ब्रूयात्तदोभयोः पार्श्वयोर्यजमानोग्निनापरिगृहीतो भवेत्। ततो दाहाधिक्येन म्रियेत। तस्माच्छाखान्तरपाठो नादर्तव्यः। यद्यपि जुहूपभूतौ द्वे अपि आदातव्ये तथापि तयोः समं प्राधान्यं निर्वायजुह्वा एव प्राधान्यं द्योतयितुं स्रुचमित्येकवचनमेव पठनीयमित्येतद्दर्शयति यजमानदेवत्येति। स्रुचावित्येव द्विवचनेन द्वे इव द्वे अपि समप्रधाने इव यदि ब्रूयात्तदा यजमानसमानं भ्रातृव्यमुत्पादयेत्। तस्मादुपभृतमुपेक्षितामिव तिरस्कर्तुं जुहूप्रधान्यायैकवचनाभिधानेन यजमानं वधितवान्भवति। नहिजुह्वा इवोपभृतः क्वचिदपि साक्षाद्धोमसाधनत्वमस्ति। तस्मादुपसर्जनत्वं तस्या युक्तम्। देवमिश्रेण देवरक्षणं विघ्ननिवारणेन विश्वरक्षणमभिप्रेतमित्येतद्दर्शयति देवायुवमिति। ईडेन्यादिशब्दैर्विवक्षितं दर्शयति ईडामहा इति। देवता यजतीत्येदुपलक्षणम्। मनुष्यान्स्तौति पितृन्नमस्यतीत्येतदपि द्रष्टव्यम्। एवं च सति यस्य मनुष्यादेयो भागः स्तुत्यादिरूप उपचरितस्तं भागमनतिक्रम्यानुष्ठितवान्भवति। अत्र मीमांसा। दशमाध्यायस्य चतुर्थपादे चिन्तितम् “चातुर्मास्यातिदिष्टेषु निगमेष्वाज्यपानिति। विक्रियेत न वाद्येपि किं स्याद्दध्याज्यपानिति।। दधिपानिति वा यद्वेत्येवं स्यात्पृषदाज्यपान। द्रव्यद्वयोक्तेराद्यः स्याद्दधिमात्रहविष्ट्वतः।। द्वितीयः स्यात्तृतीयोस्तु द्रव्यान्तरविधानतः।
गुणो दध्ना चित्रताज्ये ततो विक्रियते नहि।। चातुर्मास्येषु चोदकेनावाहनस्वाहाकारायाड्जोषणानिगमा अतिदिष्टाः।
तत्राज्यपशब्दः प्रयुक्तः-- “देवा आज्यपा आवह”। “स्वाहा देवा आज्यपान्” “अयाड्देवानामाज्यपानां प्रिया धामानि”। “देवा आज्यपा आज्यमजुर्षन्त” इति। सोयमाज्यपशब्दो विक्रियते न वेति संशयः। तत्र विकारोपि त्रिविधः। तत्र दध्याज्यपानित्याद्यस्तावत्प्राप्नोति। कुतः । अथ पृषदाज्यं गृह्णाति द्वयं वा इदं सर्पिश्च दधि चेति द्रव्यद्वयस्योक्तत्वात्। आज्यस्योपस्तरणाभिधारणार्थत्वेन हविःशेषत्वाद्धविष्ट्वं नास्तीति दध्येव हविः। ततो दधिपानिति द्वितीयः पक्षः। दध्याज्यमेलनेन निष्पद्यते पृषदाज्यं द्रव्यान्तरम्। तदेव हविरिति पृषदाज्यपानिति तृतीयः पक्षः। दधिमेलनादाज्ये पृषत्ता गुणो निष्पद्यते। तस्मादाज्यस्यैव हविष्ट्वमित्याज्यपशब्दोपेता एव निगमाः पठितव्याः।