अनुवाकः 6 TS 2.5.6

(A6)

(प॒श्य॒ति॒ - ताभ्या॒ -मह॑ - रै - दसाव॒ -फलꣳ॑ -स॒प्त च॑)

अनुवाकः 6 - Complete Audio

TS 2.5.6 - स्वरानुगामी

0:00 0:00
PS1.1 ए॒ष वै दे॑वर॒थो यद्-द॑र्.शपूर्णमा॒सौ
PS1.2 यो द॑र्.शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒
PS1.3 रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑
PS1.4 स्यत्ये॒तानि॒ वा अङ्गा॒परूꣳ॑षि संॅवथ्स॒रस्य॒
PS1.5 यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान्
PS1.6 द॑र्.शपूर्णमा॒सौ यज॒ते-ऽङ्गा॒परूꣳ॑ष्ये॒व सं॑ॅवथ्स॒रस्य॒ प्रति॑
PS1.7 दधात्ये॒ ते वै सं॑ॅवथ्स॒रस्य॒
PS1.8 चक्षु॑षी॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं
PS1.9 ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व
PS1.10 सु॑व॒र्गं ॅलो॒कमनु॑ पश्य -
PS1.11 [ ]
PS2.1 -त्ये॒षा वै दे॒वानां॒ ॅविक्रा᳚न्ति॒
PS2.2 र्यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान्
PS2.3 द॑र्.शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒
PS2.4 विक्र॑मत ए॒ष वै दे॑व॒यानः॒
PS2.5 पन्था॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं
PS2.6 ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते॒ य
PS2.7 ए॒व दे॑व॒यानः॒ पन्था॒स्तꣳ स॒मारो॑हत्ये॒तौ
PS2.8 वै दे॒वानाꣳ॒॒ हरी॒ यद्-द॑र्.शपूर्णमा॒सौ
PS2.9 य ए॒वं ॅवि॒द्वान् द॑र्.श्पूर्णमा॒सौ
PS2.10 यज॑ते॒ यावे॒व दे॒वानाꣳ॒॒ हरी॒
PS2.11 ताभ्या॑ - [ ]
PS3.1 -मे॒वैभ्यो॑ ह॒व्यं ॅव॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑
PS3.2 ॅयद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान्
PS3.3 द॑र्.शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑
PS3.4 जुहोत्ये॒ष वै ह॑विर्द्धा॒नी यो
PS3.5 द॑र्.शपूर्णमासया॒जी सा॒यंप्रा॑तरग्निहो॒त्रं जु॑होति॒ यज॑ते
PS3.6 दर्.शपूर्णमा॒सा-वह॑रहर्.-हविर्द्धा॒निनाꣳ॑ सु॒तो य ए॒वं
PS3.7 ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते हविर्द्धा॒न्य॑स्मीति॒
PS3.8 सर्व॑मे॒वास्य॑ बर्.हि॒ष्यं॑ द॒त्तं भ॑वति
PS3.9 दे॒वावा अह॑ - [
PS3.10 ]
PS4.1 -र्य॒ज्ञियं॒ नावि॑न्द॒न् ते द॑र्.शपूर्णमा॒साव॑पुन॒न्
PS4.2 तौ वा ए॒तौ पू॒तौ
PS4.3 मेद्ध्यौ॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं
PS4.4 ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒
PS4.5 मेद्ध्यौ॑ यजते॒ नामा॑वा॒स्या॑यां च
PS4.6 पौर्णमा॒स्यां च॒ स्त्रिय-मुपे॑या॒द्य- दु॑पे॒यान्निरि॑न्द्रियः
PS4.7 स्या॒त् सोम॑स्य॒ वै राज्ञो᳚ऽर्द्धमा॒सस्य॒
PS4.8 रात्र॑यः॒ पत्न॑य आस॒न् तासा॑ममावा॒स्यां᳚
PS4.9 च पौर्णमा॒सीं च॒ नोपै॒त्
PS4.10 - [ ]
PS5.1 ते ए॑नम॒भि सम॑नह्येतां॒ तं
PS5.2 ॅयक्ष्म॑ आर्च्छ॒द्-राजा॑नं॒ ॅयक्ष्म॑ आर॒दिति॒
PS5.3 तद्-रा॑जय॒क्ष्मस्य॒ जन्म॒ यत् पापी॑या॒नभ॑व॒त्
PS5.4 तत् पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त् तज्जा॒येन्य॑स्य॒
PS5.5 य ए॒वमे॒तेषां॒ ॅयक्ष्मा॑णां॒ जन्म॒
PS5.6 वेद॒ नैन॑मे॒ते यक्ष्मा॑विन्दन्ति॒ स
PS5.7 ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त् ते
PS5.8 अ॑ब्रूतां॒ ॅवरं॑ ॅवृणावहा आ॒वं
PS5.9 दे॒वानां᳚ भाग॒धे अ॑सावा॒ -
PS5.10 [ ]
PS6.1 -वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒
PS6.2 तस्मा᳚थ् स॒दृशी॑नाꣳ॒॒ रात्री॑णाममावा॒स्या॑यां च
PS6.3 पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त
PS6.4 ए॒ते हि दे॒वानां᳚ भाग॒धे
PS6.5 भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒
PS6.6 य ए॒वं ॅवेद॑ भू॒तानि॒
PS6.7 क्षुध॑मघ्नन्थ् स॒द्यो म॑नु॒ष्या॑ अर्द्धमा॒से
PS6.8 दे॒वा मा॒सि पि॒तरः॑ संॅवथ्स॒रे
PS6.9 वन॒स्पत॑य॒-स्तस्मा॒-दह॑रह-र्मनु॒ष्या॑ अश॑नमिच्छन्ते ऽर्द्धमा॒से दे॒वा
PS6.10 इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते
PS6.11 संॅवथ्स॒रे वन॒स्पत॑यः॒ फलं॑ (
PS6.12 ) गृह्णन्ति॒ य ए॒वं
PS6.13 ॅवेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.5.6.1 TS 2.5.6.1
ए॒ष वै दे॑वर॒थो यद्-द॑र्.शपूर्णमा॒सौ यो द॑र्.शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा अङ्गा॒परूꣳ॑षि संॅवथ्स॒रस्य॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॒ते-ऽङ्गा॒परूꣳ॑ष्ये॒व सं॑ॅवथ्स॒रस्य॒ प्रति॑ दधात्ये॒ ते वै सं॑ॅवथ्स॒रस्य॒ चक्षु॑षी॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कमनु॑ पश्य - [ ]
पदपाठः (Word-by-word)
ए॒षः । वै । दे॒व॒र॒थ इति॑ देव - र॒थः । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । इ॒ष्ट्वा । सोमे॑न । यज॑ते । रथ॑स्पष्ट॒ इति॒ रथ॑ - स्प॒ष्टे॒ । ए॒व । अ॒व॒सान॒ इत्य॑व-साने᳚ । वरे᳚ । दे॒वाना᳚म् । अवेति॑ । स्य॒ति॒ । ए॒तानि॑ । वै । अङ्गा॒परूꣳ॒॒षीत्यङ्गा᳚ - परूꣳ॑षि । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श-पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । अङ्गा॒परूꣳ॒॒षीत्यङ्गा᳚ - परूꣳ॑षि । ए॒व । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । प्रतीति॑ । द॒धा॒ति॒ । ए॒ते इति॑ । वै । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । चक्षु॑षी॒ इति॑ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अन्विति॑ । प॒श्य॒ति॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयाष्टके पञ्चमप्रपाठके षष्ठोनुवाकः)। (दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)

"(अथ द्वितीयकाण्डे पञ्चमप्रपाठके षष्ठोनुवाकः)। (दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः) पञ्चमेभ्युदयेष्ट्याद्यास्तिस्त्र इष्टय ईरिताः। अथ षष्ठे दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यं विधत्ते एष ना इति। दर्शपूर्णमासाविति यदस्त्येष एव देवान रथो रथस दृशः। तथा सति प्रथमतो दर्शपूर्णमासाविष्ट्वा पश्चात्सोमेन यो यजते तस्यानुष्ठाने महत्सौकर्यं भवति। यथा लोके भूयो रथसंचरणेन महामार्गस्थकण्टकपाषाणादिषु क्षुण्णेषु मार्गो विस्पष्टो भवति, अयमस्य ग्रामस्य मार्ग इति सुखेनाध्यवसातुं शक्यत। कण्टकाद्यभावात्। वरः श्रेष्ठश्चासौ भवति तादृशे मार्गे मनुष्या अनायासेन गन्तुं शक्नुवन्ति, तथा देवानां संबन्धिना दर्शपूर्णमासरथेन स्पष्टे सुखेनाध्यवसातुं शक्ये श्रेष्ठे मार्गे यजमानः सोमेन यष्टुमध्यवस्यति। दर्शपूर्णमासयोरिष्टिप्रकृतित्वात्तयोः प्रयोगे स्वाधीने सति तद्विकृतिभूताः सोमाङ्गभूता प्रायणीयाद्याः साङ्गाः सुखेनानुष्ठातुं शक्यन्ते। अननुष्ठितयोस्तु दर्शपूर्णमासयोः सोमप्रकरणे दीक्षणीयादिकर्मस्वरूपमात्रस्यो पदिष्टत्वात्तदङ्गानि प्रयाजादीन्यनुष्ठातुं न शक्यन्ते। तस्मादिष्टिपूर्वत्वं दर्शपूर्णमासयोर्बहुधा प्रशस्यते। तत्र प्रथमं संवत्सरावयवत्वेन प्रशंसति एतानि वा इति। यथा मनुष्यस्य हस्तपादादीन्यङ्गानि मणिबन्धकूर्परकक्षादिसंधिरूपाणि परूंषि पर्वाणि तथा संवत्सरस्य द्वादश दर्शा अङ्गानि द्वादश पौर्णमास्यः परूंषि तद्विदित्वानुष्ठाने तदुभयं प्रविदधाति सम्यगनुष्ठापयति। "

"अथ चक्षुष्ट्वेन प्रशंसति एते वा इति। अथेन्द्रपराक्रमरूपेण प्रशंसति एषा वै इति। सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति शाखान्तरे श्रुतत्वाद्युद्धजयहेतुत्वमप्यस्तीति पराक्रमरूपत्वम्। अथ स्वर्गमार्गत्वेन प्रशंसति एष या इति। देवा यान्ति गच्छन्ति अस्मिन्मार्गे सोयं देवयानः। अथाश्वरूपेण प्रशंसति एतौ वा इति। एभ्योग्यादिदेवेभ्यस्ताभ्यामेव दर्शपूर्णमासाभ्यां यजमानः पुरोडाशं वहति। अथ देवमुखत्वेन प्रशंसति एतद्वै देवानामिति। साक्षाद्वयवधानमन्तरेणैव यथा ब्राह्मणाय दत्तमन्नं पात्रहस्तव्यवधानेन मुखं प्रविशति तद्वन्नेत्यर्थः। अथ सोमयाजित्वसंपादनेन स्तौति एष वा इति। हवींषि सोमग्रहरूपाणि धीयन्त असाद्यन्ते यस्मिन्मण्डपे तदिहं हविर्धानं तदस्यास्तीति हविर्धानी सोमयाजी। दर्शपूर्णमासयाजिनः सोमयाजित्वं कथमित्युच्यते- आधानान्तरमेव प्रवृत्तं यदग्निहोत्रं तत्प्रतिहोत्रं सायंप्रातरनुतिष्ठति, पर्वणि च दर्शपूर्णमासौ यजते। तदुभयानुष्ठानेन हविर्धानिनां सोमदेवानां प्रतिदिनं सोमोभिषुतो भवति। सोमाभिषवणे या प्रीतिः सादेवानामत्र संपद्यते। अग्निहोत्रदर्शपूर्णमासप्रवृत्त्या तदनन्तरभाविनि सोमया गेपि प्रवर्तिष्यत इत्येव तैर्निश्चेतुं शक्यत्वात्। तत्प्रवृत्तिक्रमश्च सूत्रकारेण दर्शितः- “अथकेषामग्नीनाधाय हस्ताववनिज्य संवत्सरमाग्निहोत्रं’ हुत्वा दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजेत तत ऊर्ध्वमन्यानि कर्माणि कुरुते” इति यजमान एवं देवानां भविष्यत्सोमयागविषयां प्रीतिं विद्वानहं हविर्धानी सोमयाजी भवामीति बुद्ध्वा दर्शपूर्णमासौ यजते। तत ऊर्ध्वमस्य यजमानस्य वर्हिषि सोमयागे दातव्यं यद्यद्विद्यते तत्सर्वं वर्हिष्यं दत्तं भवति। स्वल्पेपि कर्मण्यधिककर्मसंपादनवेदनेन फलाधिक्यप्राप्तिः पूर्वकाण्डे प्रजापतिर्यज्ञानसृजतेत्यनुवाके प्रपञ्चिता। अथ दर्शपूर्णमासकर्मणोस्तिथिविषयविधिमर्थवादेनोन्नयति देवा वा इति। एतौ दर्शपूर्णमासौ यज्ञावर्हतीति यज्ञियं, तादृशमेकमप्यहर्देवा न लेभिरे। ततो विचार्य दर्शपूर्णमासावमावास्यां पौर्णमासीं च दिनद्वयमपुनञ्शोधितवन्तः। यज्ञियत्वं निश्चितवन्तं इत्यर्थः। यस्मिन्दिने सूर्य एव दृश्यते चन्द्रमास्तु न दृश्यते सोयं दर्शः। अमावस्या च तादृशी। तस्यां तिथौ सूर्येण सहैववसतश्चन्द्रमसो द्रष्टुमक्यत्वात्। अतः सा तिथिः सूर्यमात्रदर्शनाद्दर्शनामाङ्कितस्य कर्मणो योग्या। यस्यां तिथौ चन्द्रमण्डलं संपूर्णं दृश्यते सा पौर्णमासी। सा चन्द्रमसः पूर्तेः पूर्णनामाङ्कितस्य कर्मणो योग्य। प्रतिपदादिषु चतुर्दश्यन्तासु तिथिषु चन्द्रमा लेशतो दृश्यते। न पूर्णो नाप्यत्बन्तमदृष्टः अतस्तयोः कर्मणोर्योग्या न भवन्ति। तस्मात्तावेवैतावुक्तौ तिथिविशेषौ देवैरुक्तरीत्या शोधितौ सन्तौ यज्ञयोग्यौ संपन्नौ। अत्र दर्शपूर्णमासशब्दस्तिथिपरो न कर्मपरः। यस्त्येवं तिथ्योः शुद्धिं विद्वान्कर्मद्वयं कुरुते सोयं शोधितौ यज्ञयोग्यौ तिथिविशेषावेव प्राप्य कृतवान्भवति। तश्मात्तयोस्तिथ्थोः कुर्यादिति तात्पर्यार्थः। प्रसङ्गात्पुरुषार्थं कंचिन्नियमं विधत्ते नामावास्यायामिति। पूर्वोक्तयोस्तिथ्योर्यज्ञियत्वमाख्यायिकया प्रपञ्चयति सोमस्य वा इति। अर्धमासस्य शुक्लपक्षस्य रात्रय एको वर्ग, कृष्णपक्षस्य रात्रयः परो वर्गस्ते अमावास्यापौर्णमास्यावेनं सोममभिसमगह्येतामाभिमुख्येन संभोगाय गृहीतवत्वौ। बलात्कारेण भुज्यमानं तंसोममतिव्यवायेन क्षयव्याधिः प्राप्तवान्। एतच्च प्रजापतेस्त्रयस्त्रि शद्दुहितर इत्यत्र व्याख्यातं तथैव व्याख्येयम्। आवामुभे एव देवानां हविर्भागधारिण्यौ भवाव आवयोरधिश्रित्गाग्न्यादयो देवा इज्यन्तामित्यनयोर्वरः। एतबोभगिधारित्वं जानते मनुष्याः सर्वेपि भागं धारयित्वा प्रयच्छन्ति। अथ मनुष्यादिसाम्योपन्यासेनोक्तार्थमेव पुनः प्रशंसति भूतानि क्षुधमिति। भूतानि मनुष्याद्याः प्राणिन। वनस्पतयः पनसाम्राद्याः। तेषां फलग्रहणमेव क्षुन्निवारणरूपां तृप्तिं सूचयति। एवं क्षुधो हननं यो वेद सोप्यन्नसमृद्धः क्षुद्रूपं शत्रुं सर्वदा हन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके षष्टोनुवाकः।। ६ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एष वा इत्यादि ॥ देवरथः देवानां रथस्थानम् । रथस्पष्टः रथेन प्रकाशितः क्षुण्णः । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र देवानां वरे उत्कृष्टे अवसाने देवानां स्वभूते देवानां गृहे अवस्यति देवयजनमध्यवस्यति । तादृशे देवैः स्वभ्यस्ते देवयजनेऽनेनेष्टं भवति ॥
2 अङ्गापरूंषि अङ्गानि च परूंषि पर्वाणि च संवत्सरस्थितिहेतुत्वात् । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । प्रतिधानं अविचलितस्थापनम् ॥
3 संवत्सरनिबन्धनाश्च सर्वेऽर्थाः । संवत्सरात्मनः चक्षुस्स्थानीयाख्यां साक्षादव्यवधानेन स्वर्गमनुक्रमेण पश्यति स्वर्गोस्य प्रकाशितो भवति ॥
4 विक्रान्तिर्विशिष्टं क्रम्णं आभ्यां देवा हि विक्रमवन्तो वीरा भवन्ति धारकत्वात्तेषाम् । अनु विक्रमते इति । यत्रयत्र देवा विक्रमन्ते तत्रतत्रायमप्रतिबन्धेन विक्रमते । लक्षणेनोः कर्मप्रवचनीयत्वम् । 'वृत्तिसर्गतायनेषु क्रमः' इति वृत्तावात्मनेपदम् ॥
5 देवयान इति ॥ देवा येन यान्ति स देवप्रयातो मार्गो देवयानः । देवैस्सदा मुक्तमार्ग एवेति ॥
6 देवा येन प्राप्यन्ते देवप्राप्तिहेतुत्वात् हरी अश्वौ हविषां वाहनस्थानीयत्वात् ॥
7 आस्यमिति ॥ अभ्यवहतर्व्याधारत्वात् । साक्षादव्यवधानेन देवानामास्ये हुतं भवति ॥
8 हविर्धानी ॥ सोमस्य हविराधारदर्शपूर्णमासवत्त्वात् दर्शपूर्णमासयाजी हविर्धानी । किञ्च - यदयं सायं प्रातरग्निहोर्त्रं जुहोति दर्शपूर्णमासावेवाहरहर्यजते । यस्मादयं हविर्धानिनां सुतोपि हविर्धानीभिस्सुन्वानैरनुज्ञातः । हविर्धानित्वं पर्वणिपर्वण्यसुन्वानत्वमस्यानुमन्यते । पर्वणि सुन्वानः अहरहर्दर्शपूर्णमासयाजी भवति ॥
9 य एवमित्यादि ॥ एवं हविर्धान्यस्मीति विद्वान् य एतौ यजते अस्य सम्बन्धि यद्दत्तं यावान् कश्चिदस्य धनव्ययः स सर्वो बर्हिषि यज्ञे विनियुक्तो भवति । सहविर्धानत्वात् सर्वो व्ययो यज्ञे व्ययो भवतीति ॥
10 देवा वा इत्यादि ॥ यज्ञार्हं यज्ञियं 'यज्ञर्त्विभ्यां घखञौ' । दर्शपूर्णमासाविति । कालवचनाविमाविदानीम् । य एवमिति । एवं वेदितुरेव एतौ पूता भवतः ॥
11 नामावास्यायां चेति ॥ गतम् ॥
12 रात्रय इति ॥ पञ्चदश तिथयः । पत्नय इति छान्दसो वर्णविकारः । अभी समनह्येतामिति । सोमेन राज्ञा अनुपेते त्यक्ते एते तिथी एनमभिभूय आभिमुख्येन वा भोकृत्वेन गृहीतवत्यौ । ततस्तं तथा ताभ्यां भुज्यमानं यक्ष्मः क्षयरोग आर्छत् आर्तमकरोत् ॥
13 राजानं यक्ष्य आरदित्यादि ॥ व्याख्यातममावास्यायामिति शेषः ॥
14 स एते इत्यादि ॥ गतम् । भागधे इति । भागानां हविषां धात्र्यौ आवां असाव भवाव । आवदधि आवयोरेव उपरिष्टात् देवाः इज्यान्ता इति । पूर्ववल्लेट् ॥
15 तस्मादित्यादि ॥ गतम् ॥
16 भूतानीत्यादि ॥ सर्वाणि भूतानि क्षुधं बुभुक्षां घ्नन्ति तदुपघातहेतुभिरुपशमयन्ति सद्यस्समानेह्नि एत[क]स्मिन्नह्नि सकृदुपघातहेतुशमनं कृत्वा क्षुधं हन्ति । अर्धमासे देवाः क्षुधं घ्नन्ति हविर्भिर्यागप्रभवैः । मासि पितरः श्राद्धेन । वनस्पतयः संवत्सरे फलग्रहणेन तृप्ताः क्षुधं घ्नन्ति । तस्मात्पर्वणिपर्वणि यष्टव्या देवा इति ॥
इति द्वितीये पञ्चमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 2.5.6.2 TS 2.5.6.2
-त्ये॒षा वै दे॒वानां॒ ॅविक्रा᳚न्ति॒ र्यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ विक्र॑मत ए॒ष वै दे॑व॒यानः॒ पन्था॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्तꣳ स॒मारो॑हत्ये॒तौ वै दे॒वानाꣳ॒॒ हरी॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.श्पूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वानाꣳ॒॒ हरी॒ ताभ्या॑ - [ ]
पदपाठः (Word-by-word)
ए॒षा । वै । दे॒वाना᳚म् । विक्रा᳚न्ति॒रिति॒ वि - क्रा॒न्तिः॒ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । दे॒वाना᳚म् । ए॒व । विक्रा᳚न्ति॒मिति॒ वि - क्रा॒न्ति॒म् । अनु॑ । वीति॑ । क्र॒म॒ते॒ । ए॒षः । वै । दे॒व॒यान॒ इति॑ देव - यानः॑ । पन्थाः᳚ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । यः । ए॒व । दे॒व॒यान॒ इति॑ देव-यानः॑ । पन्थाः᳚ । तम् । स॒मारो॑ह॒तीति॑ सं - आरो॑हति । ए॒तौ । वै । दे॒वाना᳚म् । हरी॒ इति॑ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । यौ । ए॒व । दे॒वाना᳚म् । हरी॒ इति॑ । ताभ्या᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.5.6.3 TS 2.5.6.3
-मे॒वैभ्यो॑ ह॒व्यं ॅव॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑ ॅयद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष वै ह॑विर्द्धा॒नी यो द॑र्.शपूर्णमासया॒जी सा॒यंप्रा॑तरग्निहो॒त्रं जु॑होति॒ यज॑ते दर्.शपूर्णमा॒सा-वह॑रहर्.-हविर्द्धा॒निनाꣳ॑ सु॒तो य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते हविर्द्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्.हि॒ष्यं॑ द॒त्तं भ॑वति दे॒वावा अह॑ - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒भ्यः॒ । ह॒व्यम् । व॒ह॒ति॒ । ए॒तत् । वै । दे॒वाना᳚म् । आ॒स्य᳚म् । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श-पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । दे॒वाना᳚म् । आ॒स्ये᳚ । जु॒हो॒ति॒ । ए॒षः । वै । ह॒वि॒र्द्धा॒नीति॑ हविः - धा॒नी । यः । द॒र्.॒श॒पू॒र्ण॒मा॒स॒या॒जीति॑ दर्.शपूर्णमास - या॒जी । सा॒यंप्रा॑त॒रिति॑ सा॒यं - प्रा॒तः॒ । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । जु॒हो॒ति॒ । यज॑ते । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । अह॑रह॒रित्यहः॑ - अ॒हः॒ । ह॒वि॒र्द्धा॒निना॒मिति॑ हविः - धा॒निना᳚म् । सु॒तः । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । ह॒वि॒र्द्धा॒नीति॑ हविः - धा॒नी । अ॒स्मि॒ । इति॑ । सर्व᳚म् । ए॒व । अ॒स्य॒ । ब॒र्॒.हि॒ष्य᳚म् । द॒त्तम् । भ॒व॒ति॒ । दे॒वाः । वै । अहः॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.5.6.4 TS 2.5.6.4
-र्य॒ज्ञियं॒ नावि॑न्द॒न् ते द॑र्.शपूर्णमा॒साव॑पुन॒न् तौ वा ए॒तौ पू॒तौ मेद्ध्यौ॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेद्ध्यौ॑ यजते॒ नामा॑वा॒स्या॑यां च पौर्णमा॒स्यां च॒ स्त्रिय-मुपे॑या॒द्य- दु॑पे॒यान्निरि॑न्द्रियः स्या॒त् सोम॑स्य॒ वै राज्ञो᳚ऽर्द्धमा॒सस्य॒ रात्र॑यः॒ पत्न॑य आस॒न् तासा॑ममावा॒स्यां᳚ च पौर्णमा॒सीं च॒ नोपै॒त् - [ ]
पदपाठः (Word-by-word)
य॒ज्ञिय᳚म् । न । अ॒वि॒न्द॒न्न् । ते । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श-पू॒र्ण॒मा॒सौ । अ॒पु॒न॒न्न् । तौ । वै । ए॒तौ । पू॒तौ । मेद्ध्यौ᳚ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श-पू॒र्ण॒मा॒सौ । यज॑ते । पू॒तौ । ए॒व । ए॒नौ॒ । मेद्ध्यौ᳚ । य॒ज॒ते॒ । न । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । च॒ । पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् । च॒ । स्त्रिय᳚म् । उपेति॑ । इ॒या॒त् । यत् । उ॒पे॒यादित्यु॑प - इ॒यात् । निरि॑न्द्रिय॒ इति॒ निः - इ॒न्द्रि॒यः॒ । स्या॒त् । सोम॑स्य । वै । राज्ञ्ः॑ । अ॒र्द्ध॒मा॒सस्येत्य॑र्द्ध - मा॒सस्य॑ । रात्र॑यः । पत्न॑यः । आ॒स॒न्न् । तासा᳚म् । अ॒मा॒वा॒स्या॑मित्य॑मा-वा॒स्या᳚म् । च॒ । पौ॒र्ण॒मा॒सीमिति॑ पौर्ण-मा॒सीम् । च॒ । न । उपेति॑ । ऐ॒त् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.5.6.5 TS 2.5.6.5
ते ए॑नम॒भि सम॑नह्येतां॒ तं ॅयक्ष्म॑ आर्च्छ॒द्-राजा॑नं॒ ॅयक्ष्म॑ आर॒दिति॒ तद्-रा॑जय॒क्ष्मस्य॒ जन्म॒ यत् पापी॑या॒नभ॑व॒त् तत् पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त् तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ ॅयक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त् ते अ॑ब्रूतां॒ ॅवरं॑ ॅवृणावहा आ॒वं दे॒वानां᳚ भाग॒धे अ॑सावा॒ - [ ]
पदपाठः (Word-by-word)
ते इति॑ । ए॒न॒म् । अ॒भि । समिति॑ । अ॒न॒ह्ये॒ता॒म् । तम् । यक्ष्मः॑ । आ॒र्च्छ॒त् । राजा॑नम् । यक्ष्मः॑ । आ॒र॒त् । इति॑ । तत् । रा॒ज॒य॒क्ष्मस्येति॑ राज - य॒क्ष्मस्य॑ । जन्म॑ । यत् । पापी॑यान् । अभ॑वत् । तत् । पा॒प॒य॒क्ष्मस्येति॑ पाप - य॒क्ष्मस्य॑ । यत् । जा॒याभ्या᳚म् । अवि॑न्दत् । तत् । जा॒येन्य॑स्य । यः । ए॒वम् । ए॒तेषा᳚म् । यक्ष्मा॑णाम् । जन्म॑ । वेद॑ । न । ए॒न॒म् । ए॒ते । यक्ष्माः᳚ । वि॒न्द॒न्ति॒ । सः । ए॒ते इति॑ । ए॒व । न॒म॒स्यन्न् । उपेति॑ । अ॒धा॒व॒त् । ते इति॑ । अ॒ब्रू॒ता॒म् । वर᳚म् । वृ॒णा॒व॒है॒ । आ॒वम् । दे॒वाना᳚म् । भा॒ग॒धे इति॑ भाग - धे । अ॒सा॒व॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.5.6.6 TS 2.5.6.6
-वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मा᳚थ् स॒दृशी॑नाꣳ॒॒ रात्री॑णाममावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वानां᳚ भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं ॅवेद॑ भू॒तानि॒ क्षुध॑मघ्नन्थ् स॒द्यो म॑नु॒ष्या॑ अर्द्धमा॒से दे॒वा मा॒सि पि॒तरः॑ संॅवथ्स॒रे वन॒स्पत॑य॒-स्तस्मा॒-दह॑रह-र्मनु॒ष्या॑ अश॑नमिच्छन्ते ऽर्द्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते संॅवथ्स॒रे वन॒स्पत॑यः॒ फलं॑ ( ) गृह्णन्ति॒ य ए॒वं ॅवेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यं ॥
पदपाठः (Word-by-word)
आ॒वत् । अधीति॑ । दे॒वाः । इ॒ज्या॒न्तै॒ । इति॑ । तस्मा᳚त् । स॒दृशी॑नाम् । रात्री॑णाम् । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । च॒ । पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण-मा॒स्याम् । च॒ । दे॒वाः । इ॒ज्य॒न्ते॒ । ए॒ते इति॑ । हि । दे॒वाना᳚म् । भा॒ग॒धे इति॑ भाग - धे । भा॒ग॒धा इति॑ भाग - धाः । अ॒स्मै॒ । म॒नु॒ष्याः᳚ । भ॒व॒न्ति॒ । यः । ए॒वम् । वेद॑ । भू॒तानि॑ । क्षुध᳚म् । अ॒घ्न॒न्न् । स॒द्यः । म॒नु॒ष्याः᳚ । अ॒र्द्ध॒मा॒स इत्य॑र्द्ध - मा॒से । दे॒वाः । मा॒सि । पि॒तरः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । वन॒स्पत॑यः । तस्मा᳚त् । अह॑रह॒रित्यहः॑ - अ॒हः॒ । म॒नु॒ष्याः᳚ । अश॑नम् । इ॒च्छ॒न्ते॒ । अ॒र्द्ध॒मा॒स इत्य॑र्द्ध-मा॒से । दे॒वाः । इ॒ज्य॒न्ते॒ । मा॒सि । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । क्रि॒य॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । वन॒स्पत॑यः । फल᳚म् ( ) । गृ॒ह्ण॒न्ति॒ । यः । ए॒वम् । वेद॑ । हन्ति॑ । क्षुध᳚म् । भ्रातृ॑व्यम् ॥
पदसंख्या: 57