पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीयकाण्डे पञ्चमप्रपाठकेष्टमोनुवाकः)। (हौत्रविवक्षयावशिष्टसामिधेनीमन्त्रव्याख्यानम्) सप्तमे सामिधेन्याद्या व्याख्यातात्यन्तविस्तरात् । अथाष्टमेवशिष्टाः सामिधेन्यो व्याख्यायन्ते। तत्र द्वितीय सामिधेनी मन्त्रकाण्ड एव पठिता ‘अग्न आ याहि वीतये। गृणानो हव्यदातये। नि होता सत्सि बर्हिषि’। (ब्रा.का.३प्र. अ. २) इति। हेग्ने हव्यदातये यजमानस्य हविर्दानाय वीतये देवानां हविर्भक्षणाय गृणानो यजमानो देवानां हविर्दास्यतीति भवद्भिर्भक्षणीयमिति वदन्नायाहि। आगत्य च होताह्वाता भवन्बर्हिंषि यज्ञे निषत्सि निषीद। तृतीयसामिधेनीपाठस्तु ‘तं त्वा समिद्भिरङ्गिरः घृतेन वर्धयामसि। बृहच्छोचा यविष्ठय’ (ब्रा. का. ३प्र. ५अ. २) इति। हेङ्गिरोग्ने तं त्वा तादृशं देवानामाह्वातारं त्वां समिद्भिघृतेन च वर्धयामः। हे यविष्ठ्य युवतम बृहज्जालाधिक्यं यथा भवति तथा शोच दीप्यस्व। चतुर्थसामिधेनीपाठस्तु- ‘स नः पृथु श्रवाय्यम्। अच्छा देव विवाससि। बृहदग्ने सुवीर्यम्’ (ब्रा. का. ३प्र. ५अ. २) इति। हेग्ने देव स त्वं नोस्मदर्थं पृथु विस्तीर्णं श्रवाय्यं देवैः श्रोतुं योग्यमिदं कर्माच्छाभिमुखीकृत्य बृहत्सुवीर्यं च यथा भवति तथा विवासीस विभातं कुरु। प्रकाशयेत्यर्थः। बृहच्छब्देन ज्वालाधिक्यं विवक्षितम्। सुवीर्यशब्देन हूयमानस्य हविषः सम्यग्दहनसामर्थ्यमुच्यते। पञ्चमसामिधेनीपाठस्तु ‘ईडेन्यो नमस्यस्तिरः। तना सि दर्शतः। समग्निरिध्यते मृषा’ (ब्रा. का. ३प्र. अ. २) इति। अयमग्निः सम्यगिध्यते। कीदृशः, ईडेन्यः स्तोतुं चोग्यः, नमस्यो नमस्कारयोग्यः, तमांसि तिरस्कुर्वन्दर्शतः पदार्थानामादर्शयिता, वृषा कामानां वर्धयिता। षष्ठसामिधेनीपाठस्तु ‘वृषो अग्निः समिध्यते। अश्वो न देववाहनः। त हविष्मन्त ईडते’ (ब्रा. का. ३प्र. ५अ. २) इति। अयमग्निः सम्यगिध्यते। कीदृशः। वृषः कामानां वर्षयिता। अश्वो न देववाहनोश्व इव देवार्थस्य हविषो वोढा। तमिममग्निं हविष्मन्तो यजमानाः स्तुवते सप्तमसामिधेनी पाठस्तु “वृषणं त्वा वयं वृषन्। वृषाणः समिधीमहि। अग्ने दीद्यतं बृहत्’ (ब्रा. का. ३प्र.५अ.२) इति। हे वृषन्कामानां वर्षकाग्ने वृषाणं कामानां वर्षितारं त्वां वृषाणो वयमाहुति वृष्टिं कुर्वन्तो वयं समिधीमहि सम्यक्प्रकाशयामः। कीदृशं त्वां, बृहद्दीद्यतं प्रौढज्वालं यथा भवति तथा दीप्यमानम्। अष्टमसामिधेनीपाठस्तु “अग्निं दूतं वृणीमहे। होतारं विश्वेवेदसम्। अस्य यज्ञस्य सुक्रतुम्” (ब्रा. का. ३प्र.५अ.२) इति। इममग्निं वयं वृणीमहे प्रार्थयामहे। कीदृशं, दूतं देवान्प्रति प्रेषणार्हं, होतारमाह्वातारं, विश्ववेदसं विश्वान्सर्वान्देवान्वेत्तीति विश्ववेदास्तादृशम्। अस्य यज्ञस्य संबन्धिनं सुक्रतुं शोभनकर्माणम्। नवमसामिधेनीपाठस्तु "
“समिध्यमानो अध्वरे। अग्निः पावकः ईड्यः। शोचिष्केशस्तमीमहे” (ब्रा. का. ३प्र.५अ.२) इति। योग्निरध्वरेस्मिन्कर्मणि समिध्यमानः पावकः शुद्धिहेतुरीड्यः स्तुत्यः शोचींषि दीप्तयः केशस्थानीया यस्यासौ शोचिष्केशस्तमग्निमीमहे प्राप्नुमः। दशमसामिधेनीपाठस्तु “समिद्धो अग्न आहुत। देवान्यक्षि स्वध्वर। त्व हि हव्यवाडसि” (ब्रा. का. ३प्र.५अ.२) इति। हे आहुताहुत्याराधिताग्ने त्वं समिद्धः सन्देवान्यक्षि यजसि। हे स्वध्वरसुष्ठुनिष्पादितयाग हि यस्मात्त्वं हव्यवाडसि तस्माद्यजेत्यन्वयः। एकादशसामिधेनीपाठस्तु
“आजुहोत दुवस्यत। आग्निं प्रयत्यध्वरे। वृणीध्वहव्यवाहनम्” (ब्रा. का. ३ प्र. ५. २) इति।
"हे यजमाना इममग्निमाहुतिभिराजुहोत प्रीणयत, दुवस्यत परिचरत, प्रयति प्रयत्नेन वर्तमानेस्मिन्नध्वरे यागे हव्यवाहनमग्निं वृणीध्वं प्रार्थयध्वम्। अनया सामिधेनीनां परिसमाप्यमानत्वादियं परिधानीया। तत्र पुरुषभेदेनान्या परिधानीया विकल्पते। तथा च सूत्रकारः त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया, आजुहोतेतीतरेषां गोत्राणाम् इति। विकल्पितायाः पाठस्तु “त्वं वरुण उत मित्रो अग्ने। त्वां वर्धन्ति मतिभिर्वसिष्ठाः। त्वे वसु सुषणनानि सन्तु। यूथं पात स्वस्तिभिः सदा नः” (ब्रा. का. ३ प्र. ५ अ. २) इति। हेग्ने त्वमनिष्टनिवारकत्वाद्वरुण इष्टप्रापकत्वान्मित्रश्च। वसिष्ठगोत्रीया मतिभिर्मनीषाभिः स्तुतिभिर्वर्धन्ति वर्धयन्ति त्वाम्। त्वे त्वयि वसु धनं सुषणनानि सुष्ठु दातव्यानि हवींषि च सन्तु तिष्ठन्तु। यूयं च नोस्मान्स्वस्तिभिः सदा पात रक्षत। यूयमिति बहुवचनं पूजार्थम्।"
"आसु सामिधेनीषु द्वितीयादिचतुर्थ्यन्तं तृचं प्रशंसति अयज्ञो वा इति। दर्शपूर्णमासयोः सामानि न सन्ति। तद्रहितश्च न मुख्ययज्ञः। अतोयं तृचः सामत्रयस्वरूपत्वेनात्र पठ्यते। यद्यप्येता ऋचो रथंतरादिनां योनयो न भवन्ति तथापि स्तुतित्वात्तद्रूपत्वमविरुद्धम्। शाखान्तरे वा तास्वृक्षु गीतानि सामानि द्रष्टव्यानि। एतेन तृचपाठेन दर्शपूर्णमासयज्ञं सामवन्तं करोति। बृहदग्न इति तृतीयपादोपादानं बृहत्सामद्योतकस्य बृहच्छब्दस्य प्रदर्शनार्थम्। अस्मिन्नेव तृच आद्यन्तौ पुनः प्रशंसति अग्निरमुष्मिन्निति। पुरा स्वर्गलोकेग्निः स्थित आदित्यस्तु भूलोके। तदानीं लेकद्वयमशान्तं क्षुब्धमासीत्। स्वर्गे ह्यमृर्तसेविनां पाक्रापेक्षा नास्ति। प्रकाशाय केवलमादित्योपेक्षित एव। भूलोकवासिनां तु पाको मुख्ये प्रयोजनम्। तदुभयासिद्धेर्लोकक्षोभः। तं क्षोभं दृष्ट्वा ते देवाः परस्परमिदमूचुः इमावग्न्यादित्यौ विपर्यूहाम विपरिवृत्तौ स्थापयाम्। तस्मादेते सर्वे यूयमागच्छतेति। अग्न आयाहीत्यस्यामृचि बर्हिषि निपीदेति लिङ्गादृचः प्राथम्याच्च प्रथमलोके स्थापनं तया संपद्यते। बृहदग्ने सुवीर्यमित्यस्यामृचि विवाससीति विभातत्वोक्तिलिङ्गदृचस्तृतीयत्वाच्चास्यास्तृतीयलोके स्थापनहेतुत्वं गम्यते। यद्यप्यादित्यो नास्मिन्मन्त्रे श्रुतस्तथाप्युच्चैःस्थानवृत्तित्वकारित्वेन विभातत्वेनादित्यः श्रूयते। किंच, हंस मन्त्रवसान ऋतं बृहदित्यादित्यमणडलपरत्वेन श्रुतो बृहच्छब्दोत्रापि श्रूयमाण आदित्यस्य प्रत्यभिज्ञापकः। तस्मात्तेन मम्त्रेणादित्यस्थापनं सिध्यति। अनयोर्विपर्यावृत्त्या लोकयेः स्वस्वकार्यसिद्धेर्युक्ता शान्तिः। तस्मादनेन क्रमेण पाठो लोकयोः शान्त्यै भवति। तद्वेदितुश्च तदुभयशान्तिर्भवति। संख्या विधत्ते पञ्चदशेति। यद्यपि द्वादश पठितास्तथाप्येकादशैव। एकस्याः पुरुषभेदेन विकल्पितत्वात्। तासु च प्रथमोत्तमयोस्त्रिरावृत्त्या पञ्चदशत्वसंपत्तिः। अर्धमासस्य रात्रीणां पञ्चदशत्वात्तद्रूपत्वमपि संपद्यते। एकैकस्मिन्नर्धमासे पञ्चदशस्वन्तर्भूतासु तासामर्धमासमानां चतुर्विशतिवारमावृत्त्या संवत्सरप्राप्तिश्च संपद्यते। इदानीमक्षरसंख्या संवत्सरसंपत्त्या प्रशंसति तासां त्रीणीति। तासां सामिधेनीनां पञ्चदशसंख्यानां गायत्रीछन्दस्कत्वादेकैका चतुर्विशत्यक्षरा। तथा सति मिलित्वाक्षरसंख्या संवत्सररात्रिसंख्या च समति कृत्वाक्षरद्वारा तदेवं संवत्सरप्राप्तिर्भवति। यद्यपि वासिष्ठानां परिधानीयायास्त्रिष्टुप्त्वादधिकान्यक्षराणि तथापीतरगोत्रापेक्षयायमर्थवाद इत्यविरोधः। आसु सामिधेनीषु “तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि” इत्येतं मन्त्रविशेषं प्रशंसति नृमेधश्चेति। नृमेधपरुच्छेपनामानावृत्विजौ परस्परं ब्रह्मवाद्यमवदेता मन्त्रसामर्थ्यविषयं वादमकुरुताम्। तत्रानयोरियं प्रतिज्ञा—आवयोरुभयोर्मध्ये यतरो ब्रह्मीयान्ब्रह्मणि सामिधेनीमन्त्रे त्यतं कुशलस्तादृशं निश्चेतुं स्वस्वमनसि सामिधेनीमन्त्रमनुस्मरन्तावस्मिन्नार्द्रे काष्ठे मथनेनाग्निं जनयावेति। तदा प्रथमं नृमेध आर्द्र काष्ठमभिलक्ष्य मन्त्रमवदत् स तन्मन्त्रसामर्थ्याद्धुममुत्पादितवान्। परुच्छेपो मन्त्रं पठित्वाग्निमजनयत्। तदिदानीं नृमेधः परुच्छेपं प्रति हे ऋषे त्वमतीन्द्रियद्रष्टासीत्यपिरेत्य संबोधितवान्। संबोध्य चैवं पप्रच्छ यद्यस्मात्कारणात्समावद्विद्वावयोः सामिधेनीवेदनं समानमेव, तथा सति कथं त्वमग्निमुत्पादितवान्न त्वहमिति। तत्र परुच्छेप उत्तरमुवाच यद्यप्यावयोः सामिधेनीपाठस्तदर्थज्ञानं च "
समान तथाप्यहं तासामेव सामिधेनीनां वर्ण रहस्यं तेजो वेद तेवं तु न वेत्सि। किं तत्तेज इति तदुच्यते---घृतशब्दोपेतः पादोनूच्यत इति सोयमनुच्यमानः पादः सामिधेनीनां वर्णः सारभूतं तेजः। सा पादः कस्यामृचि वर्तत इति चेत्तदुच्यते---तं त्वा समिद्भिरङ्गिरः इत्येतामृचं पठेत्। तस्यामृचि ‘घृतेन वर्धयामसि’ इत्ययं पादो वर्तते। ततोनेन पठितेन पादेन सामिधेनीष्वेव ज्योतिर्जनयति। तेन त्वं पादं पठन्नपि महिमानं न जानासि। अहं तु जानामि। तस्मादार्द्रकाष्ठे मयाग्निरुत्पादितः। वृषणं त्वा वयमित्येतामृचं विशेषतः प्रशंसति स्त्रियस्तेनेति। ऋग्गायत्रीसामिधेनीशब्दैः स्त्रीलिङ्गैरभिधीयमानत्वात्स्त्रीत्वमेव। अतः पुरुषत्वाय वृषञ्शब्दवतीमृचं ब्रूयात्। तेन पाठेन पुंस्वतीः पुरुषवत्यः सेन्द्रा इन्द्रिययुक्ताः स्त्रीपुरुषमिथुनरूपाः संपद्यन्ते। ईडेन्य इत्येषापि वृषण्वती। समाग्निरिध्यने वृषेत्यन्ते पठितत्वात। वृषो अग्निरित्येषापि वृषशब्दोपेतत्वाद्वृषण्वती। तयोरप्येषा प्रशंसा द्रष्टव्या।
अथाग्निं दूतमित्येतामृचं विशेषतः प्रशंसति अग्निर्देवानामिति। देवाःस्वकार्येष्वग्निं दूतत्वेन प्रेषयन्ति। असुरास्तु कवेः पुत्रमुशनसम्। तावुभावपि प्रजापतिमुपेत्य पृष्टवन्तौ—आवयोर्मध्ये संधिविग्रहादिकार्येषु कस्य दौत्यमुचितमिति। तदानी प्रजापतिरग्निं दूतं वृणीमह इति मन्त्रेणोत्तरमुवाच। उक्त्वा चोशनसः सकाशात्परावृत्याग्नेरभिमुखोभूत्। ततो देवानां विजयोभूदसुराश्च पराभूताः। एवं विदुषो यजमानस्याप्यनेन मन्त्रेण स्वविजयः शत्रुपराजयश्च भवति।
समिध्यमानो अध्वर इत्येतामृचं विशेषतः प्रशंसति अध्वरवतीमिति। हिनस्तत्यिर्थः। तस्यामृचि तृतीयपादं प्रशंसति-
"शोचिष्केश इति। मध्यपादेग्निः पावक ईड्य इति पावकशब्देनवै पवित्रत्वं विस्पष्टम्। अत्र शोचिःशब्देन शुचिहेतुनां रश्मीनामुक्तिमभिप्रेत्य पवित्रमेतद्वाक्यमित्यभिधीयते। तस्मादेतयचां यजमानमेव शोधयति। ‘समिद्धो अग्नि आहुत’ इत्येषा काचिदध्वरवती। देवान्यक्षि स्वध्वरेत्युक्तत्वात्। आ जुहोत इत्यसावप्यध्वरवती। अग्निं प्रयत्यध्वर इत्युक्तत्वात्। तयोरप्यृचोरुक्तप्रशंसा योजनीया। तदेवं सर्वासामृचां सामान्यतो विशेषतश्च प्रशंसा दर्शितायदुक्तं सूत्रकारेण----“समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य सर्वमिध्यशेषमभ्यादधाति” इति। तदेतद्धृदि निधाय समिद्धो अग्न इति मन्त्रं पुनः प्रशंसति समिद्धो अग्न इति। समिद्धो अग्न इत्यनेन भूतार्थवाचिना क्तप्रत्ययेन सामिधेनीसाध्यस्याग्निसमिन्धनस्य समाप्तिः सूच्यते। परिसमाप्तये धीयमानः प्रक्षिप्यमाणाः काष्ठविशेषः परिधिः। तथा सति समिद्ध इति समाप्तिसूचनादेतं मन्त्रं परिधित्वेन स्थापितवान्भवति। स च परिधिः प्रक्षिप्यमाणसमिघामस्कन्दायाविनाशाय भवति। यद्येतस्मान्मन्त्रपाठादूर्ध्वमा जुहोतेति मन्त्रे समिधोभ्यादध्यात्। यथाज्यपुरोडाशादिहविष परिधेर्बहीः पतनं विनाशाय संपद्यते तादृगेव तद्द्रष्टव्यम्। एवं च प्रणवे प्रणवे समिधमादधातीति सूत्रकारेण प्रतिमन्त्रमवसानकालीने प्रणवे समिदाधानस्योक्तत्वात्समिद्ध इति मन्त्रावसाने समिदेका स्वतः प्रक्षेपणीया प्राप्ता। आजुहोतेत्यस्य त्रिरावृत्त्या तिस्रः समिधस्तत्र प्रक्षेपणीयाः प्राप्ताः। तदेतच्चतुष्टयं समिद्धो अग्न इत्येतस्य पादस्य पाठकाल एव प्रक्षिपेदिति विधिरुन्नेयः। चरमायामृचि हव्यवाहनमित्यग्निविशेषणं प्रशंसति त्रयो वा इति। देवादीनां संबन्धिनोग्नयः प्रत्येकं मामेव वरिष्यत इत्येवमपेक्षन्ते। अतो देवा अग्नेरेवंगुणसिद्ध्यर्थं हव्यवाहनं वृणीध्वमित्युच्यते। यदुक्तमाश्वलायनेन – “सामिधेनीनामुत्तमेन प्रणवेनाग्ने महा असि ब्राह्मण भारतेति निगदेवसाय यजमानस्यार्षेयान्प्रवृणीते यावन्तः स्युः परं परं प्रथमम्” इति। तदेतद्विधत्ते आर्षेयमिति। ऋषेरपत्यमार्षेयमात्पीयगोत्रर्षींस्तद्धित प्रत्ययान्तानामन्त्रितविभक्त्या यथाप्रवरं वृणीते। यथा, अग्ने महाँ असि ब्राह्मण भारत। भार्गवच्याव नाप्नवानौर्वजामदग्न्येति भृगुगोत्राणां पञ्चार्षेयः प्रवर इति। अनेन तत्तदपत्यतयाग्निरुपचर्यते। एवं वृणानः पुरुषो बन्धोर्भृग्वादेः सकाशान्नैति नापगच्छति। अपि चेदमार्षेयवरणमस्य पुत्रादिसंतानाय भवति। अस्मिन्वरणे प्रकारविशेषं विधत्ते----परस्तादर्वांच इति । वर्तमानं यजमानमपेक्ष्य पूर्वभावी यो गोत्रप्रवर्तकस्तमारभ्य तदपत्यपरम्परयार्वाचो नीचान्वृणीते। तथैव पूर्वमुदाहृतं भृगोरपत्यं च्यवनस्तस्यापत्यमप्नवानत्तस्यापत्यमौर्वस्तस्यापत्यं जमदग्निस्तस्य संततिर्यजमान इति। तदेतदर्वाक्त्वम्। यस्माद्धोता पूर्वभाविनमारभ्यार्वाचो वृणीते तस्मादेव कारणाल्लोकेपि पूर्वपूर्वभाविनः पितर उत्तरोत्तरभाविनः पुत्राननुक्रमेण पालयन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके ष्टमोनुवाकः ।। ८ ।।"
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
अक्षराणां रत्रीणां च समसङ्ख्याकारेण संवत्सरावाप्तिः । पूर्ववच्छस् ॥