अनुवाकः 8 TS 2.5.8

(A8)

(अशा᳚न्ता - वाह॒ पञ्च॑दशा - ब्रवी॒ - दन्वा॑है॒ - तया॑ - वरिष्यते॒ मा - मेका॒न्नत्रिꣳ॒॒शच्च॑)

अनुवाकः 8 - Complete Audio

TS 2.5.8 - स्वरानुगामी

0:00 0:00
PS1.1 अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒
PS1.2 आ या॑हि वी॒तय॒ इत्या॑ह
PS1.3 रथंत॒रस्यै॒ष वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒
PS1.4 इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने
PS1.5 सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒
PS1.6 यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञ्मे॒व तथ्
PS1.7 साम॑न्वन्तं करोत्य॒ग्निर॒मुष्मि॑न् ॅलो॒क आसी॑दादि॒त्यो᳚ऽस्मिन्
PS1.8 तावि॒मौ लो॒कावशा᳚न्ता - [
PS1.9 ]
PS2.1 वास्तां॒ ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ
PS2.2 वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि
PS2.3 वी॒तय॒ इत्य॒स्मिन् ॅलो॒के᳚ऽग्निम॑दधु र्बृ॒हद॑ग्ने
PS2.4 सु॒वीर्य॒मित्य॒मुष्मि॑न् ॅलो॒क आ॑दि॒त्यं ततो॒
PS2.5 वा इ॒मौ लो॒काव॑शाम्यतां॒ ॅयदे॒वम॒न्वाहा॒नयो᳚
PS2.6 र्लो॒कयोः॒ शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ
PS2.7 लो॒कौ य ए॒वं ॅवेद॒
PS2.8 पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश॒ -
PS2.9 [ ]
PS3.1 वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र
PS3.2 आ᳚प्यते॒ तासां॒ त्रीणि॑ च
PS3.3 श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑तीः संॅवथ्स॒रस्य॒
PS3.4 रात्र॑योऽक्षर॒श ए॒व सं॑ॅवथ्स॒रमा᳚प्नोति नृ॒मेध॑श्च॒
PS3.5 परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन् दारा॑वा॒र्द्रे᳚ऽग्निं ज॑नयाव
PS3.6 यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒ऽभ्य॑वद॒थ्
PS3.7 स धू॒मम॑जनय॒त् परु॑च्छेपो॒ ऽभ्य॑वद॒थ्
PS3.8 सो᳚ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवी॒द्- [ ]
PS4.1 यथ् स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒
PS4.2 नाहमिति॑ सामिधे॒नीना॑मे॒वाहं ॅवर्णं॑ ॅवे॒देत्य॑ब्रवी॒द्यद्
PS4.3 घृ॒तव॑त् प॒दम॑नू॒च्यते॒ स आ॑सां॒
PS4.4 ॅवर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह
PS4.5 सामिधे॒नीष्वे॒व तज्ज्योति॑ र्जनयति॒ स्त्रिय॒स्तेन॒
PS4.6 यदृचः॒ स्त्रिय॒स्तेन॒ यद्-गा॑य॒त्रियः॒ स्त्रिय॒स्तेन॒
PS4.7 यथ् सा॑मिधे॒न्यो॑ वृष॑ण्वती॒-मन्वा॑ह॒ -
PS4.8 [ ]
PS5.1 तेन॒ पुꣳस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना
PS5.2 अ॒ग्निर्दे॒वानां᳚ दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणां॒
PS5.3 तौ प्र॒जाप॑तिं प्र॒श्नमै॑ताꣳ॒॒ स
PS5.4 प्र॒जाप॑तिर॒ग्निं दू॒तं ॅवृ॑णीमह॒ इत्य॒भि
PS5.5 प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑व॒न्
PS5.6 पराऽसु॑रा॒ यस्यै॒वं ॅवि॒दुषो॒ऽग्निं दू॒तं
PS5.7 ॅवृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒
PS5.8 भ्रातृ॑व्यो भवत्यद्ध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया᳚ -
PS5.9 [ ]
PS6.1 ध्वरति शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्-यज॑मानमे॒वैतया॑
PS6.2 पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह
PS6.3 परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑
PS6.4 ऊ॒र्द्ध्वम॑भ्याद॒द्ध्याद्यथा॑ बहिः परि॒धि स्कन्द॑ति
PS6.5 ता॒दृगे॒व तत् त्रयो॒ वा
PS6.6 अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां᳚ कव्य॒वाह॑नः
PS6.7 पितृ॒णाꣳ स॒हर॑क्षा॒ असु॑राणां॒ त
PS6.8 ए॒तर्ह्या शꣳ॑सन्ते॒ मां ॅव॑रिष्यते॒
PS6.9 मा - [ ]
PS7.1 -मिति॑ वृणी॒द्ध्वꣳ ह॑व्य॒वाह॑न॒मित्या॑ह॒ य
PS7.2 ए॒व दे॒वानां॒ तं ॅवृ॑णीत
PS7.3 आर्.षे॒यं ॅवृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒
PS7.4 संत॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा᳚त्
PS7.5 प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या᳚न् पि॒तरोऽनु॒ प्र
PS7.6 पि॑पते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.5.8.1 TS 2.5.8.1
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथंत॒रस्यै॒ष वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञ्मे॒व तथ् साम॑न्वन्तं करोत्य॒ग्निर॒मुष्मि॑न् ॅलो॒क आसी॑दादि॒त्यो᳚ऽस्मिन् तावि॒मौ लो॒कावशा᳚न्ता - [ ]
पदपाठः (Word-by-word)
अय॑ज्ञ्ः । वै । ए॒षः । यः । अ॒सा॒मा । अग्ने᳚ । एति॑ । या॒हि॒ । वी॒तये᳚ । इति॑ । आ॒ह॒ । र॒थ॒न्त॒रस्येति॑ रथं-त॒रस्य॑ । ए॒षः । वर्णः॑ । तम् । त्वा॒ । स॒मिद्भि॒रिति॑ स॒मित् - भिः॒ । अ॒ङ्गि॒रः॒ । इति॑ । आ॒ह॒ । वा॒म॒दे॒व्यस्येति॑ वाम - दे॒व्यस्य॑ । ए॒षः । वर्णः॑ । बृ॒हत् । अ॒ग्ने॒ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । इति॑ । आ॒ह॒ । बृ॒ह॒तः । ए॒षः । वर्णः॑ । यत् । ए॒तम् । तृ॒चम् । अ॒न्वाहेत्य॑नु - आह॑ । य॒ज्ञ्म् । ए॒व । तत् । साम॑न्वन्त॒मिति॒ सामन्न्॑ - व॒न्त॒म् । क॒रो॒ति॒ । अ॒ग्निः । अ॒मुष्मिन्न्॑ । लो॒के । आसी᳚त् । आ॒दि॒त्यः । अ॒स्मिन्न् । तौ । इ॒मौ । लो॒कौ । अशा᳚न्तौ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे पञ्चमप्रपाठकेष्टमोनुवाकः)। (हौत्रविवक्षयावशिष्टसामिधेनीमन्त्रव्याख्यानम्) सप्तमे सामिधेन्याद्या व्याख्यातात्यन्तविस्तरात् । अथाष्टमेवशिष्टाः सामिधेन्यो व्याख्यायन्ते। तत्र द्वितीय सामिधेनी मन्त्रकाण्ड एव पठिता ‘अग्न आ याहि वीतये। गृणानो हव्यदातये। नि होता सत्सि बर्हिषि’। (ब्रा.का.३प्र. अ. २) इति। हेग्ने हव्यदातये यजमानस्य हविर्दानाय वीतये देवानां हविर्भक्षणाय गृणानो यजमानो देवानां हविर्दास्यतीति भवद्भिर्भक्षणीयमिति वदन्नायाहि। आगत्य च होताह्वाता भवन्बर्हिंषि यज्ञे निषत्सि निषीद। तृतीयसामिधेनीपाठस्तु ‘तं त्वा समिद्भिरङ्गिरः घृतेन वर्धयामसि। बृहच्छोचा यविष्ठय’ (ब्रा. का. ३प्र. ५अ. २) इति। हेङ्गिरोग्ने तं त्वा तादृशं देवानामाह्वातारं त्वां समिद्भिघृतेन च वर्धयामः। हे यविष्ठ्य युवतम बृहज्जालाधिक्यं यथा भवति तथा शोच दीप्यस्व। चतुर्थसामिधेनीपाठस्तु- ‘स नः पृथु श्रवाय्यम्। अच्छा देव विवाससि। बृहदग्ने सुवीर्यम्’ (ब्रा. का. ३प्र. ५अ. २) इति। हेग्ने देव स त्वं नोस्मदर्थं पृथु विस्तीर्णं श्रवाय्यं देवैः श्रोतुं योग्यमिदं कर्माच्छाभिमुखीकृत्य बृहत्सुवीर्यं च यथा भवति तथा विवासीस विभातं कुरु। प्रकाशयेत्यर्थः। बृहच्छब्देन ज्वालाधिक्यं विवक्षितम्। सुवीर्यशब्देन हूयमानस्य हविषः सम्यग्दहनसामर्थ्यमुच्यते। पञ्चमसामिधेनीपाठस्तु ‘ईडेन्यो नमस्यस्तिरः। तना सि दर्शतः। समग्निरिध्यते मृषा’ (ब्रा. का. ३प्र. अ. २) इति। अयमग्निः सम्यगिध्यते। कीदृशः, ईडेन्यः स्तोतुं चोग्यः, नमस्यो नमस्कारयोग्यः, तमांसि तिरस्कुर्वन्दर्शतः पदार्थानामादर्शयिता, वृषा कामानां वर्धयिता। षष्ठसामिधेनीपाठस्तु ‘वृषो अग्निः समिध्यते। अश्वो न देववाहनः। त हविष्मन्त ईडते’ (ब्रा. का. ३प्र. ५अ. २) इति। अयमग्निः सम्यगिध्यते। कीदृशः। वृषः कामानां वर्षयिता। अश्वो न देववाहनोश्व इव देवार्थस्य हविषो वोढा। तमिममग्निं हविष्मन्तो यजमानाः स्तुवते सप्तमसामिधेनी पाठस्तु “वृषणं त्वा वयं वृषन्। वृषाणः समिधीमहि। अग्ने दीद्यतं बृहत्’ (ब्रा. का. ३प्र.५अ.२) इति। हे वृषन्कामानां वर्षकाग्ने वृषाणं कामानां वर्षितारं त्वां वृषाणो वयमाहुति वृष्टिं कुर्वन्तो वयं समिधीमहि सम्यक्प्रकाशयामः। कीदृशं त्वां, बृहद्दीद्यतं प्रौढज्वालं यथा भवति तथा दीप्यमानम्। अष्टमसामिधेनीपाठस्तु “अग्निं दूतं वृणीमहे। होतारं विश्वेवेदसम्। अस्य यज्ञस्य सुक्रतुम्” (ब्रा. का. ३प्र.५अ.२) इति। इममग्निं वयं वृणीमहे प्रार्थयामहे। कीदृशं, दूतं देवान्प्रति प्रेषणार्हं, होतारमाह्वातारं, विश्ववेदसं विश्वान्सर्वान्देवान्वेत्तीति विश्ववेदास्तादृशम्। अस्य यज्ञस्य संबन्धिनं सुक्रतुं शोभनकर्माणम्। नवमसामिधेनीपाठस्तु "

“समिध्यमानो अध्वरे। अग्निः पावकः ईड्यः। शोचिष्केशस्तमीमहे” (ब्रा. का. ३प्र.५अ.२) इति। योग्निरध्वरेस्मिन्कर्मणि समिध्यमानः पावकः शुद्धिहेतुरीड्यः स्तुत्यः शोचींषि दीप्तयः केशस्थानीया यस्यासौ शोचिष्केशस्तमग्निमीमहे प्राप्नुमः। दशमसामिधेनीपाठस्तु “समिद्धो अग्न आहुत। देवान्यक्षि स्वध्वर। त्व हि हव्यवाडसि” (ब्रा. का. ३प्र.५अ.२) इति। हे आहुताहुत्याराधिताग्ने त्वं समिद्धः सन्देवान्यक्षि यजसि। हे स्वध्वरसुष्ठुनिष्पादितयाग हि यस्मात्त्वं हव्यवाडसि तस्माद्यजेत्यन्वयः। एकादशसामिधेनीपाठस्तु

“आजुहोत दुवस्यत। आग्निं प्रयत्यध्वरे। वृणीध्वहव्यवाहनम्” (ब्रा. का. ३ प्र. ५. २) इति।

"हे यजमाना इममग्निमाहुतिभिराजुहोत प्रीणयत, दुवस्यत परिचरत, प्रयति प्रयत्नेन वर्तमानेस्मिन्नध्वरे यागे हव्यवाहनमग्निं वृणीध्वं प्रार्थयध्वम्। अनया सामिधेनीनां परिसमाप्यमानत्वादियं परिधानीया। तत्र पुरुषभेदेनान्या परिधानीया विकल्पते। तथा च सूत्रकारः त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया, आजुहोतेतीतरेषां गोत्राणाम् इति। विकल्पितायाः पाठस्तु “त्वं वरुण उत मित्रो अग्ने। त्वां वर्धन्ति मतिभिर्वसिष्ठाः। त्वे वसु सुषणनानि सन्तु। यूथं पात स्वस्तिभिः सदा नः” (ब्रा. का. ३ प्र. ५ अ. २) इति। हेग्ने त्वमनिष्टनिवारकत्वाद्वरुण इष्टप्रापकत्वान्मित्रश्च। वसिष्ठगोत्रीया मतिभिर्मनीषाभिः स्तुतिभिर्वर्धन्ति वर्धयन्ति त्वाम्। त्वे त्वयि वसु धनं सुषणनानि सुष्ठु दातव्यानि हवींषि च सन्तु तिष्ठन्तु। यूयं च नोस्मान्स्वस्तिभिः सदा पात रक्षत। यूयमिति बहुवचनं पूजार्थम्।"

"आसु सामिधेनीषु द्वितीयादिचतुर्थ्यन्तं तृचं प्रशंसति अयज्ञो वा इति। दर्शपूर्णमासयोः सामानि न सन्ति। तद्रहितश्च न मुख्ययज्ञः। अतोयं तृचः सामत्रयस्वरूपत्वेनात्र पठ्यते। यद्यप्येता ऋचो रथंतरादिनां योनयो न भवन्ति तथापि स्तुतित्वात्तद्रूपत्वमविरुद्धम्। शाखान्तरे वा तास्वृक्षु गीतानि सामानि द्रष्टव्यानि। एतेन तृचपाठेन दर्शपूर्णमासयज्ञं सामवन्तं करोति। बृहदग्न इति तृतीयपादोपादानं बृहत्सामद्योतकस्य बृहच्छब्दस्य प्रदर्शनार्थम्। अस्मिन्नेव तृच आद्यन्तौ पुनः प्रशंसति अग्निरमुष्मिन्निति। पुरा स्वर्गलोकेग्निः स्थित आदित्यस्तु भूलोके। तदानीं लेकद्वयमशान्तं क्षुब्धमासीत्। स्वर्गे ह्यमृर्तसेविनां पाक्रापेक्षा नास्ति। प्रकाशाय केवलमादित्योपेक्षित एव। भूलोकवासिनां तु पाको मुख्ये प्रयोजनम्। तदुभयासिद्धेर्लोकक्षोभः। तं क्षोभं दृष्ट्वा ते देवाः परस्परमिदमूचुः इमावग्न्यादित्यौ विपर्यूहाम विपरिवृत्तौ स्थापयाम्। तस्मादेते सर्वे यूयमागच्छतेति। अग्न आयाहीत्यस्यामृचि बर्हिषि निपीदेति लिङ्गादृचः प्राथम्याच्च प्रथमलोके स्थापनं तया संपद्यते। बृहदग्ने सुवीर्यमित्यस्यामृचि विवाससीति विभातत्वोक्तिलिङ्गदृचस्तृतीयत्वाच्चास्यास्तृतीयलोके स्थापनहेतुत्वं गम्यते। यद्यप्यादित्यो नास्मिन्मन्त्रे श्रुतस्तथाप्युच्चैःस्थानवृत्तित्वकारित्वेन विभातत्वेनादित्यः श्रूयते। किंच, हंस मन्त्रवसान ऋतं बृहदित्यादित्यमणडलपरत्वेन श्रुतो बृहच्छब्दोत्रापि श्रूयमाण आदित्यस्य प्रत्यभिज्ञापकः। तस्मात्तेन मम्त्रेणादित्यस्थापनं सिध्यति। अनयोर्विपर्यावृत्त्या लोकयेः स्वस्वकार्यसिद्धेर्युक्ता शान्तिः। तस्मादनेन क्रमेण पाठो लोकयोः शान्त्यै भवति। तद्वेदितुश्च तदुभयशान्तिर्भवति। संख्या विधत्ते पञ्चदशेति। यद्यपि द्वादश पठितास्तथाप्येकादशैव। एकस्याः पुरुषभेदेन विकल्पितत्वात्। तासु च प्रथमोत्तमयोस्त्रिरावृत्त्या पञ्चदशत्वसंपत्तिः। अर्धमासस्य रात्रीणां पञ्चदशत्वात्तद्रूपत्वमपि संपद्यते। एकैकस्मिन्नर्धमासे पञ्चदशस्वन्तर्भूतासु तासामर्धमासमानां चतुर्विशतिवारमावृत्त्या संवत्सरप्राप्तिश्च संपद्यते। इदानीमक्षरसंख्या संवत्सरसंपत्त्या प्रशंसति तासां त्रीणीति। तासां सामिधेनीनां पञ्चदशसंख्यानां गायत्रीछन्दस्कत्वादेकैका चतुर्विशत्यक्षरा। तथा सति मिलित्वाक्षरसंख्या संवत्सररात्रिसंख्या च समति कृत्वाक्षरद्वारा तदेवं संवत्सरप्राप्तिर्भवति। यद्यपि वासिष्ठानां परिधानीयायास्त्रिष्टुप्त्वादधिकान्यक्षराणि तथापीतरगोत्रापेक्षयायमर्थवाद इत्यविरोधः। आसु सामिधेनीषु “तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि” इत्येतं मन्त्रविशेषं प्रशंसति नृमेधश्चेति। नृमेधपरुच्छेपनामानावृत्विजौ परस्परं ब्रह्मवाद्यमवदेता मन्त्रसामर्थ्यविषयं वादमकुरुताम्। तत्रानयोरियं प्रतिज्ञा—आवयोरुभयोर्मध्ये यतरो ब्रह्मीयान्ब्रह्मणि सामिधेनीमन्त्रे त्यतं कुशलस्तादृशं निश्चेतुं स्वस्वमनसि सामिधेनीमन्त्रमनुस्मरन्तावस्मिन्नार्द्रे काष्ठे मथनेनाग्निं जनयावेति। तदा प्रथमं नृमेध आर्द्र काष्ठमभिलक्ष्य मन्त्रमवदत् स तन्मन्त्रसामर्थ्याद्धुममुत्पादितवान्। परुच्छेपो मन्त्रं पठित्वाग्निमजनयत्। तदिदानीं नृमेधः परुच्छेपं प्रति हे ऋषे त्वमतीन्द्रियद्रष्टासीत्यपिरेत्य संबोधितवान्। संबोध्य चैवं पप्रच्छ यद्यस्मात्कारणात्समावद्विद्वावयोः सामिधेनीवेदनं समानमेव, तथा सति कथं त्वमग्निमुत्पादितवान्न त्वहमिति। तत्र परुच्छेप उत्तरमुवाच यद्यप्यावयोः सामिधेनीपाठस्तदर्थज्ञानं च "

समान तथाप्यहं तासामेव सामिधेनीनां वर्ण रहस्यं तेजो वेद तेवं तु न वेत्सि। किं तत्तेज इति तदुच्यते---घृतशब्दोपेतः पादोनूच्यत इति सोयमनुच्यमानः पादः सामिधेनीनां वर्णः सारभूतं तेजः। सा पादः कस्यामृचि वर्तत इति चेत्तदुच्यते---तं त्वा समिद्भिरङ्गिरः इत्येतामृचं पठेत्। तस्यामृचि ‘घृतेन वर्धयामसि’ इत्ययं पादो वर्तते। ततोनेन पठितेन पादेन सामिधेनीष्वेव ज्योतिर्जनयति। तेन त्वं पादं पठन्नपि महिमानं न जानासि। अहं तु जानामि। तस्मादार्द्रकाष्ठे मयाग्निरुत्पादितः। वृषणं त्वा वयमित्येतामृचं विशेषतः प्रशंसति स्त्रियस्तेनेति। ऋग्गायत्रीसामिधेनीशब्दैः स्त्रीलिङ्गैरभिधीयमानत्वात्स्त्रीत्वमेव। अतः पुरुषत्वाय वृषञ्शब्दवतीमृचं ब्रूयात्। तेन पाठेन पुंस्वतीः पुरुषवत्यः सेन्द्रा इन्द्रिययुक्ताः स्त्रीपुरुषमिथुनरूपाः संपद्यन्ते। ईडेन्य इत्येषापि वृषण्वती। समाग्निरिध्यने वृषेत्यन्ते पठितत्वात। वृषो अग्निरित्येषापि वृषशब्दोपेतत्वाद्वृषण्वती। तयोरप्येषा प्रशंसा द्रष्टव्या।

अथाग्निं दूतमित्येतामृचं विशेषतः प्रशंसति अग्निर्देवानामिति। देवाःस्वकार्येष्वग्निं दूतत्वेन प्रेषयन्ति। असुरास्तु कवेः पुत्रमुशनसम्। तावुभावपि प्रजापतिमुपेत्य पृष्टवन्तौ—आवयोर्मध्ये संधिविग्रहादिकार्येषु कस्य दौत्यमुचितमिति। तदानी प्रजापतिरग्निं दूतं वृणीमह इति मन्त्रेणोत्तरमुवाच। उक्त्वा चोशनसः सकाशात्परावृत्याग्नेरभिमुखोभूत्। ततो देवानां विजयोभूदसुराश्च पराभूताः। एवं विदुषो यजमानस्याप्यनेन मन्त्रेण स्वविजयः शत्रुपराजयश्च भवति।

समिध्यमानो अध्वर इत्येतामृचं विशेषतः प्रशंसति अध्वरवतीमिति। हिनस्तत्यिर्थः। तस्यामृचि तृतीयपादं प्रशंसति-

"शोचिष्केश इति। मध्यपादेग्निः पावक ईड्य इति पावकशब्देनवै पवित्रत्वं विस्पष्टम्। अत्र शोचिःशब्देन शुचिहेतुनां रश्मीनामुक्तिमभिप्रेत्य पवित्रमेतद्वाक्यमित्यभिधीयते। तस्मादेतयचां यजमानमेव शोधयति। ‘समिद्धो अग्नि आहुत’ इत्येषा काचिदध्वरवती। देवान्यक्षि स्वध्वरेत्युक्तत्वात्। आ जुहोत इत्यसावप्यध्वरवती। अग्निं प्रयत्यध्वर इत्युक्तत्वात्। तयोरप्यृचोरुक्तप्रशंसा योजनीया। तदेवं सर्वासामृचां सामान्यतो विशेषतश्च प्रशंसा दर्शितायदुक्तं सूत्रकारेण----“समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य सर्वमिध्यशेषमभ्यादधाति” इति। तदेतद्धृदि निधाय समिद्धो अग्न इति मन्त्रं पुनः प्रशंसति समिद्धो अग्न इति। समिद्धो अग्न इत्यनेन भूतार्थवाचिना क्तप्रत्ययेन सामिधेनीसाध्यस्याग्निसमिन्धनस्य समाप्तिः सूच्यते। परिसमाप्तये धीयमानः प्रक्षिप्यमाणाः काष्ठविशेषः परिधिः। तथा सति समिद्ध इति समाप्तिसूचनादेतं मन्त्रं परिधित्वेन स्थापितवान्भवति। स च परिधिः प्रक्षिप्यमाणसमिघामस्कन्दायाविनाशाय भवति। यद्येतस्मान्मन्त्रपाठादूर्ध्वमा जुहोतेति मन्त्रे समिधोभ्यादध्यात्। यथाज्यपुरोडाशादिहविष परिधेर्बहीः पतनं विनाशाय संपद्यते तादृगेव तद्द्रष्टव्यम्। एवं च प्रणवे प्रणवे समिधमादधातीति सूत्रकारेण प्रतिमन्त्रमवसानकालीने प्रणवे समिदाधानस्योक्तत्वात्समिद्ध इति मन्त्रावसाने समिदेका स्वतः प्रक्षेपणीया प्राप्ता। आजुहोतेत्यस्य त्रिरावृत्त्या तिस्रः समिधस्तत्र प्रक्षेपणीयाः प्राप्ताः। तदेतच्चतुष्टयं समिद्धो अग्न इत्येतस्य पादस्य पाठकाल एव प्रक्षिपेदिति विधिरुन्नेयः। चरमायामृचि हव्यवाहनमित्यग्निविशेषणं प्रशंसति त्रयो वा इति। देवादीनां संबन्धिनोग्नयः प्रत्येकं मामेव वरिष्यत इत्येवमपेक्षन्ते। अतो देवा अग्नेरेवंगुणसिद्ध्यर्थं हव्यवाहनं वृणीध्वमित्युच्यते। यदुक्तमाश्वलायनेन – “सामिधेनीनामुत्तमेन प्रणवेनाग्ने महा असि ब्राह्मण भारतेति निगदेवसाय यजमानस्यार्षेयान्प्रवृणीते यावन्तः स्युः परं परं प्रथमम्” इति। तदेतद्विधत्ते आर्षेयमिति। ऋषेरपत्यमार्षेयमात्पीयगोत्रर्षींस्तद्धित प्रत्ययान्तानामन्त्रितविभक्त्या यथाप्रवरं वृणीते। यथा, अग्ने महाँ असि ब्राह्मण भारत। भार्गवच्याव नाप्नवानौर्वजामदग्न्येति भृगुगोत्राणां पञ्चार्षेयः प्रवर इति। अनेन तत्तदपत्यतयाग्निरुपचर्यते। एवं वृणानः पुरुषो बन्धोर्भृग्वादेः सकाशान्नैति नापगच्छति। अपि चेदमार्षेयवरणमस्य पुत्रादिसंतानाय भवति। अस्मिन्वरणे प्रकारविशेषं विधत्ते----परस्तादर्वांच इति । वर्तमानं यजमानमपेक्ष्य पूर्वभावी यो गोत्रप्रवर्तकस्तमारभ्य तदपत्यपरम्परयार्वाचो नीचान्वृणीते। तथैव पूर्वमुदाहृतं भृगोरपत्यं च्यवनस्तस्यापत्यमप्नवानत्तस्यापत्यमौर्वस्तस्यापत्यं जमदग्निस्तस्य संततिर्यजमान इति। तदेतदर्वाक्त्वम्। यस्माद्धोता पूर्वभाविनमारभ्यार्वाचो वृणीते तस्मादेव कारणाल्लोकेपि पूर्वपूर्वभाविनः पितर उत्तरोत्तरभाविनः पुत्राननुक्रमेण पालयन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके ष्टमोनुवाकः ।। ८ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अयज्ञो वा इत्यादि ॥ द्वितीयप्रभृतेः ऋचः स्तुतिः क्रियते । रथन्तरस्येति । पूर्ववत्प्राथम्यादिना रथन्तरादिरूपत्वं तिसृणामृचाम् । 'वामदेवाड्ड्यड्यौ' । बृहदग्न इति । बृहच्छब्दसम्बन्धेन बार्हतत्वं दर्शयितुं तृतीयस्य पदस्योपादानम् । तृचमिति । तिसृणामृचां समाहारस्तृचम् । 'ऋक्पूः' इति समासान्तः । त्रेस्सम्प्रसारणं, उत्तरपदलोपश्च । सामन्वन्तमिति । 'अनो नुट्' इति नुट् ॥
2 अग्निरमुष्मिन्नित्यादि ॥ स्वर्लोके अग्निरासीत्, पृथिव्यामादित्यः । तत इमौ लोकौ अशान्तौ असुखौ आस्तां अभवताम् । अथ च ते तथा पश्यन्तो देवाः परस्परमब्रुवन् - एत आगच्छत सर्वेऽपि यूयमिमौ अग्न्यादित्यौ विपर्यूहाम विपरिवृत्तलोकौ स्थापयाम । अग्न आयहीति बर्हिषि निषीदेति लिङ्गं नीचैरवस्थानस्य । ऋचश्च प्रथमत्वात् प्रथमलोकपरिग्रहः । तत्र तृतीयदेशस्यापि प्रथमपादादावग्नि शब्दोपादानादग्नेः प्रथमलोकावस्थानं सूच्यते । बृहदग्न इति । विवासनकारित्वमादित्यात्मन एव । अग्नेरिति । तस्योच्चैरवस्थानलिङ्गविशेषः । ऋचस्तृतीयत्वात् तृतीयलोकपरिग्रहः । तत्र तृतीयदेशत्वम् ॥
3 अर्धमासशः [अर्धमासेन] अक्षरशः अक्षरेण संवत्सरमाप्नोति ।

अक्षराणां रत्रीणां च समसङ्ख्याकारेण संवत्सरावाप्तिः । पूर्ववच्छस् ॥

4 नृमेधश्चेत्यादिना ॥ ब्रह्मवादित्वं ब्रह्मवाद्यम् । ब्रह्म वेदं वदितुमिष्टे विषये नियोक्तुं सामर्थ्यं ब्रह्मवादः, तदेव ब्रह्मवाद्यम् । स्वार्थिको यत् 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - ब्रह्मणो वदनसामर्थ्यं ब्रह्मवाद्यम् । 'वदस्सुपि क्यप्च' इति यत्, वर्णविकारश्छान्दसः, कृदुत्तरपदप्रकृतिस्वरत्वेन 'यतोऽनावः' इत्याद्युदात्तत्वम् । श्यन्वा व्यत्ययेन प्रवर्तते । पूर्वं नृमेधपरुच्छेपनामानावृषी ब्रह्मवाद्ये विप्रतिपन्नावभवताम्, अहं ब्रह्मतरोऽहं ब्रह्मतर इति । तौ तथा विप्रतिपन्नौ इत्थं ब्रह्मवाद्यमवदेतां वैमत्येन अवदताम् । 'भासन' इत्यादिना विमतावात्मनेपदम् । कथमित्याह - नौ आवयोर्मध्ये यतरो ब्रह्मीयान् ब्रह्मतरः अस्मिन्नार्द्रे दारौ अग्निं जनयाव अहं वा त्वं वा । तन्त्रेण द्वयोरभिधानं, यतरो नौ ब्रह्मीयान् त्वं वाऽहं वा तावावामत्राग्निं जनयावेति । विशिष्टज्ञाननिमित्तत्वेन ब्रह्मशब्दस्य गुणवचनत्वात् 'अजादी गुणवचनादेव' इति ईयसुन् प्रत्यये अलोपः । 'किंयत्तदो निर्धारणे' इति यच्छब्दात् डतरच्प्रत्ययः ॥
5 नृमेधोऽभ्यवदत् ॥ आर्द्रं दारुमभिलक्ष्य अग्निं जनयितुकामो ब्रह्म वदन् स धूममेवाजनयत् नाग्निम् । परुच्छेपस्त्वग्निमजनयत् । अथ तं दृष्टातिशयप्रतिपत्यर्थं ऋषिशब्देन प्रेम्णाऽऽमन्त्र्य नृमेधोब्रवीत् यत् यदा समावत् विद्व सममेवावयोर्वेदनं सर्वत्र तदा कथा केन हेतुना त्वमग्निमजीजनः नाहमिति । समादावतुप् स्वार्थीकः, 'था हेतौ च' इति थाप्रत्ययः । अथ परुच्छेपोऽब्रवीर्त् - सामिधेनीनां वर्णं स्वरूपमहं वेद जानामि न त्वमिति ॥
6 इदानीं तं वार्णं स्वयमेव परुच्छेप आह - यदिति ॥ घृतेनाभिधेयेन तद्वत्पदं घृतवत् घृतशब्द एव । यद्वा - घृतशब्दवत्पदं 'तं त्वा समिद्भिः' इत्यस्याः द्वितीयः पादः । तस्य यदनुवचनं स एव तासां एको वर्णः । तमेवार्थं समर्थयते - तं त्वेति । ज्योतिष्मत्त्वमासां घृतसम्बन्धेन क्रियते तेजो घृतमिति । अथ वर्णान्तराण्याह - स्त्रियस्तेनेत्यादि । ऋक्त्वेन गायत्रीत्वेन सामिधेनीत्वेन त्रिप्रकारं स्त्रीत्वमासाम् ॥
7 वृषण्वतीमिति ॥ 'वृषणं त्वा वयं वृषन्' इत्येतत्सम्बन्धेनैताः पुंस्त्ववत्यः सेन्द्रा मिथुनाश्च भवन्ति । वृषा सेक्ता पुमान् । 'तसौ मत्वर्थ्' इति भत्वम् । वृषा इन्द्रः प्रधानत्वाद्देवतानाम् । स्त्रीत्वात् पुंसि योगाच्च मिथुनत्वमासामस्तीति मिथुनाः । पामादित्वान्नप्रत्ययः । केचिदाहुः - 'स नः पृथु श्रवाय्यम्' इत्यन्तानां चतसृणां पूर्वं स्तुतिः कृता । 'अग्निं दूतं' इत्यादीनां स्तुतिः करियते । 'ईडेन्यः' इत्यादीनां तिसृणां वृषण्वतीमन्वाहेत्यादिका स्तुतिः क्रियते इति । 'अनो नुट्' इति नुट् । अयस्मयादित्वेन भत्वात्पदकालेऽपि तस्य णत्वं न निवर्तते ॥
8 अग्निर्देवानामित्यादि ॥ दूतो हविषां देवसकाशं प्रापयिता । देवानामग्निर्दूतोऽभवत् । असुराणां कवेः पुत्र उशना शुक्रो दूतोऽभवत् । अवन्ती [असीदिति?] छान्दसमन्तोदात्तत्वम् । 'ऋदुशनस्पुरदंशः' इत्युशनसोऽनङादेशः । अथ तौ प्रजापतिं प्रश्नमैतां आवयोः को यागे दूत्यमर्हतीति प्रजापतिसकाशमगच्छताम् । 'यजयाच' इति कर्मणि नङ्प्रत्ययः । विभक्तिव्यत्ययो वा प्रश्नार्थं प्रजापतिमैतामिति । अथ पृच्छ्यमानः प्रजापतिः 'अग्निं दूतं वृणीमहे' इतीमामृचं ब्रुवन्, अग्निमेवाभिपर्यावर्तत अग्निमेवालक्ष्य पर्यावृत्तोऽभवत् । ततोऽग्नेरेव दूत्यार्हत्वात् तद्दूतका एवाभवन्, असुराश्च पराभूताः ॥
9 यस्यैवमित्यादि ॥ गतम् ॥
10 अध्वरवतीमिति ॥ 'समिध्यमानो अध्वरे' इत्येताम् । ध्वरति हिनस्तीति ध्वृ मूर्छने । पवित्रमिति । शोचिस्सम्बन्धेन शुचित्वात् पवित्रमियमृक् ॥
11 परिधिमिति ॥ 'समिद्धो अग्न आहुत' इतीयमृक्परिधिस्थानीया । परिधानं विधानसमापनम् । समिद्ध इति च समाप्तिलिङ्गम् । अत एवानूयाजे वेदितव्या । परिधेर्बहिः बहिःपरिधि । 'अपपरिबहिरञ्चवः' इत्यव्ययीभावः ॥
12 त्रयो वा इत्यादि ॥ 'हव्येनन्तःपादम्' इत्युभयत्र ञ्युट् 'कव्यपुरीषपुरीष्येषु ञ्युट्' । त्रयोऽप्येतेऽग्नयोऽस्मिन्काले आशंसन्ते प्रार्थयन्ते मामयं वरिष्यते इति । तत्र 'वृणीध्वं हव्यवाहनम्' इति वचनेन कव्यवाहादिव्युदासेन देवानामग्निर्हव्यवाहन एव वृतो भवति ॥
13 आर्षेयमिति ॥ ऋषेरपत्यमार्षेयम् । 'इतश्चानिञः' इति ढक् । आत्मीयगोत्र ऋषिः । तद्धितप्रत्ययान्तानामामन्त्रितविभक्त्या यथाप्रवरं वृणीते सामिधेन्यनन्तरम् । यथा भृगूणां 'अग्ने महाꣳ असि ब्राह्मण भारत भार्गवच्यावनाप्नुवानौर्वजामदग्न्य' इति पञ्चार्षेयः प्रवरः व्रियते । अत्र भृग्वादिभिरिष्टोऽग्निरेव तत्तदपत्यतयोपचर्यते । बन्धोरिति । बन्धुभ्यो भृग्वादिभ्य एवं वृणानो नैति न च्युतो भवति । अथो अपि च इदमार्षेयवरणं अस्य पुत्रादिसन्तानसमृद्ध्यै भवति । यद्वा - 'ऋषिणा हि देवाः पुरुषमनुबुद्ध्यन्ते' इति भृग्वादिभिः प्रसिद्धैः मन्त्रकृद्भिः बन्धुभिः व्रीयमाणैरयं बन्धुमान् भवति । ततो देवैरनुबुद्धो भवति, सन्तानवृद्धिश्च भवति ॥
14 परस्तादिति ॥ परस्तात् पुरुषादारभ्य अर्वाचः अधस्तादवस्थितानृषीन् वृणीते यथा - भृग्वादयो जमदग्न्यन्ताः । परशब्दात्पञ्चम्यन्तात् 'दिक्छन्ब्देभ्यः' इत्यादिना अस्तातिप्रत्ययः । तस्मादिति । परस्तादर्वाञ्चः पितरो मनुष्यान् प्रपिपते प्रकर्षेण विद्याभागितया अनुक्रमेण रक्षन्ति । अपरे परे पुरुषान् भजन्ते, अपरे परित्यजन्ति । छान्दसश्श्लुरात्मनेपदं च ॥
इति द्वितीये पञ्चमे अष्टमोऽनुवाकः ॥
पञ्चशत् 2 #
TS 2.5.8.2 TS 2.5.8.2
वास्तां॒ ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिन् ॅलो॒के᳚ऽग्निम॑दधु र्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑न् ॅलो॒क आ॑दि॒त्यं ततो॒ वा इ॒मौ लो॒काव॑शाम्यतां॒ ॅयदे॒वम॒न्वाहा॒नयो᳚ र्लो॒कयोः॒ शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वं ॅवेद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश॒ - [ ]
पदपाठः (Word-by-word)
आ॒स्ता॒म् । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । एति॑ । इ॒त॒ । इ॒मौ । वि । परीति॑ । ऊ॒हा॒म॒ । इति॑ । अग्ने᳚ । एति॑ । या॒हि॒ । वी॒तये᳚ । इति॑ । अ॒स्मिन्न् । लो॒के । अ॒ग्निम् । अ॒द॒धुः॒ । बृ॒हत् । अ॒ग्ने॒ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । इति॑ । अ॒मुष्मिन्न्॑ । लो॒के । आ॒दि॒त्यम् । ततः॑ । वै । इ॒मौ । लो॒कौ । अ॒शा॒म्य॒ता॒म् । यत् । ए॒वम् । अ॒न्वाहेत्य॑नु - आह॑ । अ॒नयोः᳚ । लो॒कयोः᳚ । शान्त्यै᳚ । शाम्य॑तः । अ॒स्मै॒ । इ॒मौ । लो॒कौ । यः । ए॒वम् । वेद॑ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । अन्विति॑ । आ॒ह॒ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.5.8.3 TS 2.5.8.3
वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र आ᳚प्यते॒ तासां॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑तीः संॅवथ्स॒रस्य॒ रात्र॑योऽक्षर॒श ए॒व सं॑ॅवथ्स॒रमा᳚प्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन् दारा॑वा॒र्द्रे᳚ऽग्निं ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒ऽभ्य॑वद॒थ् स धू॒मम॑जनय॒त् परु॑च्छेपो॒ ऽभ्य॑वद॒थ् सो᳚ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवी॒द्- [ ]
पदपाठः (Word-by-word)
वै । अ॒र्द्ध॒मा॒सस्येत्य॑र्द्ध - मा॒सस्य॑ । रात्र॑यः । अ॒र्द्ध॒मा॒स॒श इत्य॑र्द्धमास - शः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । आ॒प्य॒ते॒ । तासा᳚म् । त्रीणि॑ । च॒ । श॒तानि॑ । ष॒ष्टिः । च॒ । अ॒क्षरा॑णि । ताव॑तीः । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । रात्र॑यः । अ॒क्ष॒र॒श इत्य॑क्षर-शः । ए॒व । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । आ॒प्नो॒ति॒ । नृ॒मेध॒ इति॑ नृ - मेधः॑ । च॒ । परु॑च्छेपः । च॒ । ब्र॒ह्म॒वाद्य॒मिति॑ ब्रह्म - वाद्य᳚म् । अ॒व॒दे॒ता॒म् । अ॒स्मिन्न् । दारौ᳚ । आ॒र्द्रे । अ॒ग्निम् । ज॒न॒या॒व॒ । य॒त॒रः । नौ॒ । ब्रह्मी॑यान् । इति॑ । नृ॒मेध॒ इति॑ नृ - मेधः॑ । अ॒भीति॑ । अ॒व॒द॒त् । सः । धू॒मम् । अ॒ज॒न॒य॒त् । परु॑च्छेपः । अ॒भीति॑ । अ॒व॒द॒त् । सः । अ॒ग्निम् । अ॒ज॒न॒य॒त् । ऋषे᳚ । इति॑ । अ॒ब्र॒वी॒त् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.5.8.4 TS 2.5.8.4
यथ् स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहं ॅवर्णं॑ ॅवे॒देत्य॑ब्रवी॒द्यद् घृ॒तव॑त् प॒दम॑नू॒च्यते॒ स आ॑सां॒ ॅवर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑ र्जनयति॒ स्त्रिय॒स्तेन॒ यदृचः॒ स्त्रिय॒स्तेन॒ यद्-गा॑य॒त्रियः॒ स्त्रिय॒स्तेन॒ यथ् सा॑मिधे॒न्यो॑ वृष॑ण्वती॒-मन्वा॑ह॒ - [ ]
पदपाठः (Word-by-word)
यत् । स॒माव॑त् । वि॒द्व । क॒था । त्वम् । अ॒ग्निम् । अजी॑जनः । न । अ॒हम् । इति॑ । सा॒मि॒धे॒नीना॒मिति॑ सां - इ॒धे॒नीना᳚म् । ए॒व । अ॒हम् । वर्ण᳚म् । वे॒द॒ । इति॑ । अ॒ब्र॒वी॒त् । यत् । घृ॒तव॒दिति॑ घृ॒त-व॒त् । प॒दम् । अ॒नू॒च्यत॒ इत्य॑नु - उ॒च्यते᳚ । सः । आ॒सा॒म् । वर्णः॑ । तम् । त्वा॒ । स॒मिद्भि॒रिति॑ स॒मित् - भिः॒ । अ॒ङ्गि॒रः॒ । इति॑ । आ॒ह॒ । सा॒मि॒धे॒नीष्विति॑ सां - इ॒धे॒नीषु॑ । ए॒व । तत् । ज्योतिः॑ । ज॒न॒य॒ति॒ । स्त्रियः॑ । तेन॑ । यत् । ऋचः॑ । स्त्रियः॑ । तेन॑ । यत् । गा॒य॒त्रियः॑ । स्त्रियः॑ । तेन॑ । यत् । सा॒मि॒धे॒न्य॑ इति॑ सां - इ॒धे॒न्यः॑ । वृष॑ण्वती॒मिति॒ वृषण्॑ - व॒ती॒म् । अन्विति॑ । आ॒ह॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.5.8.5 TS 2.5.8.5
तेन॒ पुꣳस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर्दे॒वानां᳚ दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणां॒ तौ प्र॒जाप॑तिं प्र॒श्नमै॑ताꣳ॒॒ स प्र॒जाप॑तिर॒ग्निं दू॒तं ॅवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यस्यै॒वं ॅवि॒दुषो॒ऽग्निं दू॒तं ॅवृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्यद्ध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया᳚ - [ ]
पदपाठः (Word-by-word)
तेन॑ । पुꣳस्व॑तीः । तेन॑ । सेन्द्रा॒ इति॒ स - इ॒न्द्राः॒ । तेन॑ । मि॒थु॒नाः । अ॒ग्निः । दे॒वाना᳚म् । दू॒तः । आसी᳚त् । उ॒शना᳚ । का॒व्यः । असु॑राणाम् । तौ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । प्र॒श्नम् । ऐ॒ता॒म् । सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । इति॑ । अ॒भीति॑ । प॒र्याव॑र्त॒तेति॑ परि - आव॑र्तत । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । इति॑ । अ॒न्वाहेत्य॑नु - आह॑ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । अ॒द्ध्व॒रव॑ती॒मित्य॑द्ध्व॒र-व॒ती॒म् । अन्वति॑ । आ॒ह॒ । भ्रातृ॑व्यम् । ए॒व । ए॒तया᳚ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.5.8.6 TS 2.5.8.6
ध्वरति शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्-यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्द्ध्वम॑भ्याद॒द्ध्याद्यथा॑ बहिः परि॒धि स्कन्द॑ति ता॒दृगे॒व तत् त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां᳚ कव्य॒वाह॑नः पितृ॒णाꣳ स॒हर॑क्षा॒ असु॑राणां॒ त ए॒तर्ह्या शꣳ॑सन्ते॒ मां ॅव॑रिष्यते॒ मा - [ ]
पदपाठः (Word-by-word)
ध्व॒र॒ति॒ । शो॒चिष्के॑श॒ इति॑ शो॒चिः - के॒शः॒ । तम् । ई॒म॒हे॒ । इति॑ । आ॒ह॒ । प॒वित्र᳚म् । ए॒व । ए॒तत् । यज॑मानम् । ए॒व । ए॒तया᳚ । प॒व॒य॒ति॒ । समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ । अ॒ग्ने॒ । आ॒हु॒तेत्या᳚ - हु॒त॒ । इति॑ । आ॒ह॒ । प॒रि॒धिमिति॑ परि - धिम् । ए॒व । ए॒तम् । परीति॑ । द॒धा॒ति॒ । अस्क॑न्दाय । यत् । अतः॑ । ऊ॒द्‌र्ध्वम् । अ॒भ्या॒द॒द्ध्यादित्य॑भि - आ॒द॒द्ध्यात् । यथा᳚ । ब॒हिः॒ प॒रि॒धीति॑ बहिः - प॒रि॒धि । स्कन्द॑ति । ता॒दृक् । ए॒व । तत् । त्रयः॑ । वै । अ॒ग्नयः॑ । ह॒व्य॒वाह॑न॒ इति॑ हव्य - वाह॑नः । दे॒वाना᳚म् । क॒व्य॒वाह॑न॒ इति॑ कव्य - वाह॑नः । पि॒तृ॒णाम् । स॒हर॑क्षा॒ इति॑ स॒ह - र॒क्षाः॒ । असु॑राणाम् । ते । ए॒तर्.हि॑ । एति॑ । शꣳ॒॒स॒न्ते॒ । माम् । व॒रि॒ष्य॒ते॒ । माम् ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 2.5.8.7 TS 2.5.8.7
-मिति॑ वृणी॒द्ध्वꣳ ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वानां॒ तं ॅवृ॑णीत आर्.षे॒यं ॅवृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ संत॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा᳚त् प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या᳚न् पि॒तरोऽनु॒ प्र पि॑पते ॥
पदपाठः (Word-by-word)
इति॑ । वृ॒णी॒द्ध्वम् । ह॒व्य॒वाह॑न॒मिति॑ हव्य - वाह॑नम् । इति॑ । आ॒ह॒ । यः । ए॒व । दे॒वाना᳚म् । तम् । वृ॒णी॒ते॒ । आ॒र॒.षे॒यम् । वृ॒णी॒ते॒ । बन्धोः᳚ । ए॒व । न । ए॒ति॒ । अथो॒ इति॑ । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । प॒रस्ता᳚त् । अ॒र्वाचः॑ । वृ॒णी॒ते॒ । तस्मा᳚त् । प॒रस्ता᳚त् । अ॒र्वाञ्चः॑ । म॒नु॒ष्यान्॑ । पि॒तरः॑ । अनु॑ । प्रेति॑ । पि॒प॒ते॒ ॥
पदसंख्या: 29