अनुवाकः 10 TS 2.5.10

(A10)

(का॒मये॑त॒ - प्रति॑ष्ठित्यै - प॒शून्थ् - स॒प्तच॑त्वारिꣳशच्च)

अनुवाकः 10 - Complete Audio

TS 2.5.10 - स्वरानुगामी

0:00 0:00
PS1.1 त्रीꣳस्तृ॒चाननु॑ ब्रूयाद्-राज॒न्य॑स्य॒ त्रयो॒ वा
PS1.2 अ॒न्ये रा॑ज॒न्या᳚त् पुरु॑षा ब्राह्म॒णो
PS1.3 वैश्यः॑ शू॒द्रस्ताने॒वास्मा॒ अनु॑कान् करोति॒
PS1.4 पञ्च॑द॒शानु॑ ब्रूयाद्-राज॒न्य॑स्य पञ्चद॒शो वै
PS1.5 रा॑ज॒न्यः॑ स्व ए॒वैनꣳ॒॒ स्तोमे॒
PS1.6 प्रति॑ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दद्ध्यादिन्द्रि॒यं
PS1.7 ॅवै त्रि॒ष्टुगि॑न्द्रि॒यका॑मः॒ खलु॒ वै
PS1.8 रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यं
PS1.9 परि॑ गृह्णाति॒ यदि॑ का॒मये॑त-
PS1.10 [ ]
PS2.1 ब्रह्मवर्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दद्ध्याद्-ब्रह्मवर्च॒सं
PS2.2 ॅवै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति
PS2.3 स॒प्तद॒शानु॑ ब्रूया॒द्-वैश्य॑स्य सप्तद॒शो वै
PS2.4 वैश्यः॒ स्व ए॒वैनꣳ॒॒ स्तोमे॒
PS2.5 प्रति॑ ष्ठापयति॒जग॑त्या॒ परि॑ दद्ध्या॒ज्जाग॑ता॒
PS2.6 वै प॒शवः॑ प॒शुका॑मः॒ खलु॒
PS2.7 वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑
PS2.8 प॒शून् परि॑ गृह्णा॒त्ये क॑विꣳ
PS2.9 शति॒मनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्यै कविꣳ॒॒शः
PS2.10 स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ -
PS2.11 [ ]
PS3.1 चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्-ब्रह्मवर्च॒स-का॑मस्य॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री
PS3.2 गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑
PS3.3 रुन्धे त्रिꣳ॒॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रिꣳ॒॒शद॑क्षरा
PS3.4 वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑
PS3.5 रुन्धे॒ द्वात्रिꣳ॑शत॒मनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्य॒
PS3.6 द्वात्रिꣳ॑शदक्षरा ऽनु॒ष्टुग॑नु॒ष्टुप् छन्द॑सां प्रति॒ष्ठा
PS3.7 प्रति॑ष्ठित्यै॒ षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात् प॒शुका॑मस्य॒
PS3.8 षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑
PS3.9 बृह॒त्यैवास्मै॑ प॒शू - [
PS3.10 ]
PS4.1 -नव॑ रुन्धे॒ चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒
PS4.2 चतु॑श्चत्वारिꣳशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप् त्रि॒ष्टुभै॒वास्मा॑
PS4.3 इन्द्रि॒यमव॑ रुन्धे॒ ऽष्टाच॑त्वारिꣳ शत॒मनु॑
PS4.4 ब्रूयात् प॒शुका॑मस्या॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः
PS4.5 प॒शवो॒जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒
PS4.6 छन्दाꣳ॒॒ स्यनु॑ ब्रूयाद्-बहुया॒जिनः॒ सर्वा॑णि॒
PS4.7 वा ए॒तस्य॒ छन्दाꣳ॒॒स्य व॑रुद्धानि॒
PS4.8 यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्या व॑रुध्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.5.10.1 TS 2.5.10.1
त्रीꣳस्तृ॒चाननु॑ ब्रूयाद्-राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या᳚त् पुरु॑षा ब्राह्म॒णो वैश्यः॑ शू॒द्रस्ताने॒वास्मा॒ अनु॑कान् करोति॒ पञ्च॑द॒शानु॑ ब्रूयाद्-राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्यः॑ स्व ए॒वैनꣳ॒॒ स्तोमे॒ प्रति॑ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दद्ध्यादिन्द्रि॒यं ॅवै त्रि॒ष्टुगि॑न्द्रि॒यका॑मः॒ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यं परि॑ गृह्णाति॒ यदि॑ का॒मये॑त- [ ]
पदपाठः (Word-by-word)
त्रीन् । तृ॒चान् । अन्विति॑ । ब्रू॒या॒त् । रा॒ज॒न्य॑स्य । त्रयः॑ । वै । अ॒न्ये । रा॒ज॒न्या᳚त् । पुरु॑षाः । ब्रा॒ह्म॒णः । वैश्यः॑ । शू॒द्रः । तान् । ए॒व । अ॒स्मै॒ । अनु॑का॒नित्यनु॑ - का॒न् । क॒रो॒ति॒ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । अन्विति॑ । ब्रू॒या॒त् । रा॒ज॒न्य॑स्य । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । वै । रा॒ज॒न्यः॑ । स्वे । ए॒व । ए॒न॒म् । स्तोमे᳚ । प्रतीति॑ । स्था॒प॒य॒ति॒ । त्रि॒ष्टुभा᳚ । परीति॑ । द॒द्ध्या॒त् । इ॒न्द्रि॒यम् । वै । त्रि॒ष्टुक् । इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ । खलु॑ । वै । रा॒ज॒न्यः॑ । य॒ज॒ते॒ । त्रि॒ष्टुभा᳚ । ए॒व । अ॒स्मै॒ । इ॒न्द्रि॒यम् । परीति॑ । गृ॒ह्णा॒ति॒ । यदि॑ । का॒मये॑त ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयाष्टके पञ्चमप्रपाठके दशमोनुवाकः)। (काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्

व्याख्याता नवमे स्पष्टं प्रवरा निगदादयः। अथ दशमे नैमित्तिक्यः काम्याश्च सामिधेन्य उच्यन्ते।

तत्र राजन्यं निमित्तीकृत्य विधत्ते त्री स्तृचानिति। प्र वो वाजा इत्येका त्रिरावृत्तत्वात् ( त्ता)। अग्न आयाहीत्येकस्तृचः। त्वं वरुण इत्येका परिधानीया त्रिरावृत्ता। एवं त्रयस्तृचाः। तेन तृचानां त्रित्वेन राजन्यव्यतिरिक्तान्ब्राह्मणादींस्त्रीन्वर्णान्राजन्यस्यानुकूलान्करोति। पक्षान्तरं विधत्ते पञ्चादशानु ब्रूयादिति। प्रजापतेरुरसो बाहुभ्यां च पञ्चदशस्तोमस्य राजन्यस्य चोत्पन्नत्वादसौ स्तोमो राजन्यस्य स्वकीयः । यद्यपि पञ्चदश सामिधेनीरन्वाहेति वर्णत्रयसाधारणवचनेनैवायं पक्षः प्राप्तस्तथापि त्री स्तृचानित्यनेन विशेषवचननेन नित्यबाधप्राप्तौ विकल्पार्थं पञ्चदशेति प्रतिप्रसवो विधीयते। त्वं वरुण इत्येतां परिधानीयां विधत्ते त्रिष्टुभा परीति। त्रिष्टुभ इन्द्रेण सहोत्पन्नत्वात्तत्संबन्धीन्द्रियरूपत्वम्। राजन्यस्य युयुत्सत्वादिन्द्रियसामर्थ्यकामः। राजन्यस्य नित्यां परिधानीयां विधाय काम्यां विधत्ते यदि कामयेतेति। आजुहोत दुवस्यतेत्येषा गायत्री। तत्सवितुरित्यस्यागायत्र्या उपदेशेन ब्रह्मवर्चसनिष्पत्तेस्तस्य गायत्रीरूपत्वम्। वैश्यं निमित्तीकृत्य विधत्ते सप्तदशानु ब्रूयादिति।“समिध्यमानो अध्वरे” “समिद्धो अग्नआहुत” इत्यनयोर्मध्ये “पृथुपाजा मर्त्यः” “त सबाधो यतस्रुचः” इत्येतयोर्धाय्ययोः प्रक्षेपेण सप्तदशसंख्यानिष्पत्तिः। प्रजापतेर्मध्यदेशात्सप्तदशस्तोमवैश्ययोरुत्पन्नत्वात्सप्तदशस्तोमस्तदीयः। वैश्यस्य समिध्यमानो अमृतस्य राजसीत्येतां परिधानीयां विधत्ते जगत्या परीति। जगत्यनुष्ठानलब्धत्वात्पशूनां जागतत्वम्। वैश्यस्य क्षीरदध्यादिविक्रयाय पशुकामत्वं प्रसिद्धम्। नैमित्तिकीं विधाय काम्यां विधत्ते एकवि शतिमिति।

अत्र संख्यापूरणं संप्रदायविद्भिरेवमुक्तम् एकाविंशत्यादिषु प्रथमाया उत्तरे द्वे ईडे अग्निमित्यादिके। अथाग्न आयाहीत्यादि। अथ त्वामग्ने पुष्करादधीतित्रयस्तृचाः। अग्निमग्निमित्येकादश। पृथुपाजा इत्यष्टौ। अष्टाचत्वारिंशत्यक्षरस्य दाशतय्यास्तिस्र आगमयितव्याः। एकविंशत्यादिषु कार्येषु एतासां यथार्थमागम इति। अस्यायमर्थः—यदा सामिधेनीबुद्धिरपेक्षिता तदाभ्नातायाः प्र वो वाजा इत्यस्या उपरीडे अग्निमित्यादिकं द्वयं प्रक्षेपणीयम्। तत ऊर्ध्वमग्नआयाहीत्यादिकं यथाम्नातं पठितम्। तत्र समिध्यमानसमिद्धवत्योर्मध्ये त्वामग्नइत्यादिका उदाहृताः प्रक्षेपणीयाः। यावतीनां प्रक्षेपेण संख्या पूर्यते तत्प्रमाणवतीनां प्रक्षेप इति। मीमांसकास्तु *धाय्यासंज्ञकानामेव समिध्यमानसमिद्धवत्योर्मध्ये प्रक्षेपः। इतरानां त्वन्ते प्रक्षेपमाहुः। तत्रापि परिधानीयाया उत्तमायाः प्रागेवेत्ययं विशेषो द्रष्टव्यः। त्रिवृत्पञ्चदशसप्तदशानां संख्या चतुर्थएकविंशस्तोमेन्तर्भूतेति स स्तोम इतरेषां स्तोमानां प्रतिष्ठा। फलान्तराय विधत्ते चतुर्वि शतिमिति। पुनरपि फलान्तराय विधत्ते त्रि शतमिति। दशाक्षरैस्त्रिभिः पादैर्विराजस्त्रिंशदक्षरत्वम्। तच्छान्दोनुष्ठानेनान्नस्य लभ्यत्वात्तस्य च्छन्दसोन्नत्वम्। पुनः फलान्तराय विधत्ते द्वात्रि शतमिति। अन्यत्र वाग्वा अनुष्टुगिति श्रवणाद्वाग्रूपत्वमनुष्टुभः। वाचि सर्वेवां छन्दसामन्तर्भावादनुष्टुवितरच्छन्दसां प्रतिष्ठा। पुनः फलान्तराय विधत्ते षट्त्रि शतमिति। पशूनां बृहतीच्छन्दसोनुष्ठानेन लभ्यत्वाब्दार्हतत्वम्। फलान्तराय विधत्ते चतुश्चत्वारि शतमिति। पुनः फलान्तराय विधत्ते

अष्टाचत्वारि शतमिति। सोमयाजिनमधिकृत्य विधत्ते सर्वाणि छन्दा सीति। बहुभिदर्क्षिणीयादिभिरिष्टिभिरग्नीषोमीयादिपशुभिरैन्द्रवायवादिग्रहैश्च यजत इति बहुयाजी। एतस्य बहुयाजिनः सवनत्रयेगायत्र्युष्णिगनुष्टुब्जगतीरूपाणि सर्वाणि च्छन्दांस्यवरुद्धानि भवन्ति। तस्मात्सोमयाजी यदा दर्शपूर्णमासावनुतिष्ठति तदा तस्य त्रीणि च्छन्दांस्यनुब्रुयात्। (* अत्र ख. पुस्तके याज्यासंज्ञकानामिति पाठान्तरम्।)

‘समिध्यमानः प्रथमोनुधर्मः’ इत्येषा त्रिष्टुप्। ‘त्वामग्ने प्र दिव आहुतं घृतेन’ इत्येषा जगती। एतदुभयं समिद्धवत्याः पूर्वं पठनीयम्।

"तस्य सोमयाजिनस्त्री स्तृचानित्यनुवाकेष्टाचत्वारि शतमनुब्रुयादित्यन्तेयः संख्याविशेषस्तत्र स्वेच्छैव नियामिका, न तु वाचनिको नियमोस्तीत्येतद्विधत्ते अपरिमितमिति। अपरिमितस्याधिकस्य फलस्येत्यर्थः। "

अत्र मीमांसा।

तृतीयाध्यायस्य षष्ठपादे चिन्तितम् “सामिधेनीः सप्तदश प्रकृतौ विकृतावुत। पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्पते।।

विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात्। पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः” । अनारभ्य श्रूयतेः ‘सप्तदश सामिधेनीरनुब्रूयात्’ इति। प्र वो वाजा अभिद्यव इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः। तासां साप्तदश्यं पूर्वन्यायेन प्रकृतिगतम्। यदि प्रकृतौ पञ्चदश सामिधेनीरन्वाहेति विधिः स्यात्तर्हि पाञ्चदश्यं साप्तदश्यं च विकल्पेयातामिति प्राप्ते ब्रूमः—विकृतावेव साप्तदश्यं निविशते। प्रकृतौ पञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात्। न च पाञ्चदश्यासाप्तदश्ययोः समानबलत्वादवरोधाभाव इति शङ्कनीयम्। पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात्। तस्मान्मित्रविन्दाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते। न चात्र पूर्वन्यायोस्ति। साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधानदोषाभावात्। तत्रैवान्यच्चिन्तितम् “साप्तदश्यं तु वैश्वस्य विकृतौ प्रकृतावुत। पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः।। गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत्।

"भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः” ।। सप्तदशानुब्रुयाद्वैश्यस्येति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्तन्वायेन विकृतिगामीति चेन्मैवम्। नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्ववैश्यव्यतिरिक्तविषयतया संकोचनीयत्वात्। नित्यं सामान्यरूपतया सावकाश त्वेन च दुर्बलं, नैमित्तिक तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम्। तस्माद्वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते। अत्र भाष्यकारोन्यदुदाजहार ‘चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य’ इति। तत्र प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृताविति पूर्वः पक्षः। कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनमिति सिद्धान्तः। दशमाध्यायस्याष्टमपादे चिन्तितम् “सामिधेनीसाप्तदश्यं वैमृधादावपूर्वगीः। संहृतिर्वोपकारस्य क्लृप्त्यास्द्योत्वाज्यभागवत्। सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे। पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदित्”।। अनारभ्य किंचिदाम्नायते सप्तदश सामिधेनीरनुब्रूयात्” इति। तथा वैमृधेध्वरकल्पायां पशौ मित्रविन्दायामाग्रयणेष्टयादौ च पुनः साप्तदश्यं विहितम्। यद्यप्यनारभ्याधीतानां प्रकृतिगामित्वं न्याय्यं तथापि श्रुतेन पाञ्च दश्येनावरुद्धत्वाद्विकृतिष्वेतन्निविशते। तथा सति वैमृधादिविकृतिष्वनारभ्यगादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुनर्विधीयमाना गृहमेधीयाज्यभागवत्क्लृप्तोकारकत्वेनेतिकर्तव्यताकाङ्क्षां पूरयन्त्यश्चोदकं लोपयन्त्यो वैमृधादेरपूर्वकर्मतां गमयन्ति। साप्तदश्यं त्वनारभ्यवादप्राप्तमनूद्यत इति प्राप्ते ब्रूमः- वैमृधादिषु सामिधेन्य आज्यभागवन्न विधीयन्ते, किंतु चोदकप्रा "

प्तास्ता अनूद्य साप्तदश्यं विधीयते। तत्र साप्तदश्यं वैमृधादिप्रकरणेष्वाम्नातैर्विधिभिः कासुचिदेव विकृतिषु प्राप्तम्। अनारभ्यवादेन तु सर्वासु विकृतिषु । तत्रानारभ्यवादो विलम्बते। प्रथमं विधेयस्य साप्तदश्यस्य सामिधेनीसंबन्धमवबोध्य तत्संबन्धान्यथानुपपत्या क्रतुसंबन्धं परिकल्प्य प्रकृतौ पाञ्चदश्यपराहतत्वेन विकृतिषु सर्वासु प्रवेशः क्रियत इति विलम्बः। प्राकरणिकैर्वि धिभिः सामिधेनीसंबन्ध एव बोधनीयः। क्रतौ तद्विशेषे च प्रवेशो न बोधनी यः। प्रत्यक्षप्रकरणेनैव तत्सिद्धेः। तत्र साप्तदश्यस्य वैमृधादिविकृतिविशेष संबन्धे सहसा प्रतिपन्ने सति तद्विरोधी विकृतिसंबन्धो न कल्पयितुं शक्यः। अनारभ्यवादस्तु वैमृधादिषु प्राप्तस्य नित्यानुवादोस्तु यद्वा प्रकरणविधिवैमृधादिषु साप्तदश्यस्य प्रापकः। अनारभ्यवादस्तु चोदकप्राप्तस्य पाञ्चदश्यस्य बाधकः। सर्वथापि चतुर्धाकरणबदुपसंहारो न त्याज्यभागवदपूर्वं कर्म। तत्रैव पत्र्चमपादे चिन्तितम् “सामिधेनीविवृद्धौ किमागमोभ्यस्यतामुत। आगमः पूर्ववन्मैवमभ्यासप्रकृतित्वतः।। तत्राप्याद्यन्तयोर्यावत्पूर्त्यभ्यासो यथोक्ति वा।

अभ्यस्यागमतः पूर्तिः पूरणार्थत्वतोग्रिमः।। त्रित्वं न पूरणायोक्तमन्यथाप्यत्र पूरणात्।

"विवक्षितमबाधित्वा भवेत्पूरणमागमात् ” ।। दर्शपूर्णमासयोः पञ्चदश सामिधेनीर्विधाय काम्या तद्वृद्धिर्विधीयत---“एकवि शतिमनुब्रूयात्प्रतिष्ठाकामस्य” इत्यादिना। यथा बहिष्पवमान ऋगागमस्तथात्रापीति प्राप्ते ब्रूमः एकादशभिः पठिताभिः पञ्चदशसंख्याया अपूर्ता वृगन्तरागमनेन तत्पूरणं न कृतं, किंतु तत्पूरणायाभ्यासो विहितः “ त्रिः"

प्रथमामन्वाह त्रिरुत्तमाम्” इति। अतः काम्यानामभ्यासेन पूरणं युक्तम्। अभ्यासपक्षेपि यावत्कृत्वोभ्यासे सत्येकविंशतिसंख्या पूर्यते तावत्कृत्वः प्रथमोत्तमे अभ्यसनीये। कुतः। विहितस्य त्रिरभ्यासस्य पूरणार्थत्वदर्शनात्। मैवम्। न हि त्रित्वं पूरणार्थं विहितम्। प्रथमाया द्विरभ्यासेनोत्तमायाश्चतुरभ्यासेन पञ्चदशसंख्या पुरणात्। अतो विवक्षितं त्रित्वम्। तथा सति तदेवाधाय प्रथमोत्तमे त्रिरभ्यस्य षण्णामृचामागमेनैकविंशसंख्या पूरणीया।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके दशमोनुवाकः ।। १० ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि सामिधेनीरेवाधिकृत्योच्यते - त्रींस्तृचानिति ॥ नवेत्यवचनादावृत्तौ एव नवर्चः । आद्यास्तिस्रः तिसृभिरुक्ता इत्येके । त्रित्वान्वयात् ब्राह्मणादीन् अस्यानुकान् कमितॄन् करोति । 'अनुकाभिक' इति निपात्यते ॥
2 पञ्चदशो वा इति ॥ प्रजापतेरुरोबाहुप्रभवत्वाद्द्वयोः । पूर्वेण सहास्य विकल्पः ॥
3 त्रिष्टुभेति ॥ 'र्त्वं वरुण उत' इति । इन्द्रिर्यं वा इति । तद्धेतुत्त्वात्ताच्छब्द्यम् ॥
4 गायत्रियेति ॥ 'आजुहोत' इत्येतया । 'पृथुपाजाः' 'तंसबाधः' इत्येते धाय्यास्थाने निधेये ॥
5 सप्तदशेति ॥ द्वयोरपि मध्यदेशप्रभवत्वात् प्रजापतेः । जगत्येति । 'जनस्य गोपाः' इत्येतया, जगतीशब्द उत्सादिः ॥
6 एकविंशतिमिति ॥ पञ्चदशत्वान्वयात्प्रथमोत्तमावृत्तिवत् एतासामेवावृत्त्या एकविंशत्याद्यभिमतसङ्ख्यापूरणमिति केचित् । 'युक्ष्वा हि' इत्यादिनवसामिधेनीति केचित् । स्तोमानां प्रतिष्ठेति । त्रिवृत्पञ्चदशसप्तदशानां प्रधानस्तोमानां, तत्र अनुगतत्वात् ॥
7 चतुर्विंशतिमित्यादि ॥ गतम् ॥
8 त्रिंशदक्षरा विराडिति ॥ त्रिभिः दशकैः विराडिति ॥
9 छन्दसां प्रतिष्ठेति ॥ 'वाग्वा अनुष्टुप्' इति तस्याः सर्ववाङ्मयत्वात् ॥
10 बृहतीशब्दोऽप्युत्सादिः । वृहत्याः पशव्यत्वात् बार्हतत्वं पशूनाम् ॥
11 इन्द्रिर्यं त्रिष्टुबिति ॥ इन्द्रियत्रिष्टुभोस्समानप्रभवत्वात् ॥
12 जगत्या इति ॥ जगत्याः पशव्यत्वात् ॥
13 बहुयाजिन इति ॥ सोमयाजी बहूउयाजी, तस्य सर्वाणि गायत्र्यादीनि जगत्यन्तानि छन्दांस्यवरुद्धानि । अपरिमितमिति । नवाद्यष्टाचत्वारिंशदन्तोक्तसङ्ख्यापरिच्छेदरहितं अपरिच्छिन्नस्य फलस्याप्यै भवति ॥
इति द्वितीये पञ्चमे दशमोऽनुवाकः ॥
पञ्चशत् 2 #
TS 2.5.10.2 TS 2.5.10.2
ब्रह्मवर्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दद्ध्याद्-ब्रह्मवर्च॒सं ॅवै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒द्-वैश्य॑स्य सप्तद॒शो वै वैश्यः॒ स्व ए॒वैनꣳ॒॒ स्तोमे॒ प्रति॑ ष्ठापयति॒जग॑त्या॒ परि॑ दद्ध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून् परि॑ गृह्णा॒त्ये क॑विꣳ शति॒मनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्यै कविꣳ॒॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । अ॒स्तु॒ । इति॑ । गा॒य॒त्रि॒या । परीति॑ । द॒द्ध्या॒त् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । वै । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । ए॒व । भ॒व॒ति॒ । स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । अन्विति॑ । ब्रू॒या॒त् । वैश्य॑स्य । स॒प्त॒द॒श इति॑ सप्त - द॒शः । वै । वैश्यः॑ । स्वे । ए॒व । ए॒न॒म् । स्तोमे᳚ । प्रतीति॑ । स्था॒प॒य॒ति॒ । जग॑त्या । परीति॑ । द॒द्ध्या॒त् । जाग॑ताः । वै । प॒शवः॑ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । खलु॑ । वै । वैश्यः॑ । य॒ज॒ते॒ । जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । परीति॑ । गृ॒ह्णा॒ति । एक॑विꣳशति॒मित्येक॑ - विꣳ॒॒श॒ति॒म् । अन्विति॑ । ब्रू॒या॒त् । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । ए॒क॒विꣳ॒॒श इत्ये॑क-विꣳ॒॒शः । स्तोमा॑नाम् । प्र॒ति॒ष्ठेति॑ प्रति - स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.5.10.3 TS 2.5.10.3
चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्-ब्रह्मवर्च॒स-का॑मस्य॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्धे त्रिꣳ॒॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रिꣳ॒॒शद॑क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्धे॒ द्वात्रिꣳ॑शत॒मनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्य॒ द्वात्रिꣳ॑शदक्षरा ऽनु॒ष्टुग॑नु॒ष्टुप् छन्द॑सां प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात् प॒शुका॑मस्य॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शू - [ ]
पदपाठः (Word-by-word)
चतु॑र्विꣳशति॒मिति॒ चतुः॑ - विꣳ॒॒श॒ति॒म् । अन्विति॑ । ब्रू॒या॒त् । ब्र॒ह्म॒व॒र्च॒सका॑म॒स्येति॑ ब्रह्मवर्च॒स - का॒म॒स्य॒ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चतु॑र्विꣳशति - अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । अ॒स्मै॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । त्रिꣳ॒॒शत᳚म् । अन्विति॑ । ब्रू॒या॒त् । अन्न॑काम॒स्येत्यन्न॑ - का॒म॒स्य॒ । त्रिꣳ॒॒शद॑क्ष॒रेति॑ त्रिꣳ॒॒शत् - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒स्मै॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्धे॒ । द्वात्रिꣳ॑शतम् । अन्विति॑ । ब्रू॒या॒त् । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । द्वात्रिꣳ॑शदक्ष॒रेति॒ द्वात्रिꣳ॑शत् - अ॒क्ष॒रा॒ । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । छन्द॑साम् । प्र॒ति॒ष्ठेति॑ प्रति - स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । षट्त्रिꣳ॑शत॒मिति॒ षट्-त्रिꣳ॒॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । षट्त्रिꣳ॑शदक्ष॒रेति॒ षट्त्रिꣳ॑शत् - अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्.ह॑ताः । प॒शवः॑ । बृ॒ह॒त्या । ए॒व । अ॒स्मै॒ । प॒शून् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.5.10.4 TS 2.5.10.4
-नव॑ रुन्धे॒ चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिꣳशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप् त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्धे॒ ऽष्टाच॑त्वारिꣳ शत॒मनु॑ ब्रूयात् प॒शुका॑मस्या॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒ छन्दाꣳ॒॒ स्यनु॑ ब्रूयाद्-बहुया॒जिनः॒ सर्वा॑णि॒ वा ए॒तस्य॒ छन्दाꣳ॒॒स्य व॑रुद्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्या व॑रुध्यै ॥
पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । चतु॑श्चत्वारिꣳशत॒मिति॒ चतुः॑ - च॒त्वा॒रिꣳ॒॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । चतु॑श्चत्वारिꣳशदक्ष॒रेति॒ चतु॑श्चत्वारिꣳशत् - अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुप् । त्रि॒ष्टुभा᳚ । ए॒व । अ॒स्मै॒ । इ॒न्द्रि॒यम् । अवेति॑ । रु॒न्धे॒ । अ॒ष्टाच॑त्वारिꣳशत॒मित्य॒ष्टा - च॒त्वा॒रिꣳ॒॒श॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । अ॒ष्टाच॑त्वारिꣳशदक्ष॒रेत्य॒ष्टाच॑त्वारिꣳशत् - अ॒क्ष॒रा॒ । जग॑ती । जाग॑ताः । प॒शवः॑ । जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । सर्वा॑णि । छन्दाꣳ॑सि । अन्विति॑ । ब्रू॒या॒त् । ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ । सर्वा॑णि । वै । ए॒तस्य॑ । छन्दाꣳ॑सि । अव॑रुद्धा॒नीत्यव॑ - रु॒द्धा॒नि॒ । यः । ब॒हु॒या॒जीति॑ बहु - या॒जी । अप॑रिमित॒मित्यप॑रि - मि॒त॒म् । अन्विति॑ । ब्रू॒या॒त् । अप॑रिमित॒स्येत्यप॑रि - मि॒त॒स्य॒ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ॥
पदसंख्या: 47