पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयाष्टके पञ्चमप्रपाठके दशमोनुवाकः)। (काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्
व्याख्याता नवमे स्पष्टं प्रवरा निगदादयः। अथ दशमे नैमित्तिक्यः काम्याश्च सामिधेन्य उच्यन्ते।
तत्र राजन्यं निमित्तीकृत्य विधत्ते त्री स्तृचानिति। प्र वो वाजा इत्येका त्रिरावृत्तत्वात् ( त्ता)। अग्न आयाहीत्येकस्तृचः। त्वं वरुण इत्येका परिधानीया त्रिरावृत्ता। एवं त्रयस्तृचाः। तेन तृचानां त्रित्वेन राजन्यव्यतिरिक्तान्ब्राह्मणादींस्त्रीन्वर्णान्राजन्यस्यानुकूलान्करोति। पक्षान्तरं विधत्ते पञ्चादशानु ब्रूयादिति। प्रजापतेरुरसो बाहुभ्यां च पञ्चदशस्तोमस्य राजन्यस्य चोत्पन्नत्वादसौ स्तोमो राजन्यस्य स्वकीयः । यद्यपि पञ्चदश सामिधेनीरन्वाहेति वर्णत्रयसाधारणवचनेनैवायं पक्षः प्राप्तस्तथापि त्री स्तृचानित्यनेन विशेषवचननेन नित्यबाधप्राप्तौ विकल्पार्थं पञ्चदशेति प्रतिप्रसवो विधीयते। त्वं वरुण इत्येतां परिधानीयां विधत्ते त्रिष्टुभा परीति। त्रिष्टुभ इन्द्रेण सहोत्पन्नत्वात्तत्संबन्धीन्द्रियरूपत्वम्। राजन्यस्य युयुत्सत्वादिन्द्रियसामर्थ्यकामः। राजन्यस्य नित्यां परिधानीयां विधाय काम्यां विधत्ते यदि कामयेतेति। आजुहोत दुवस्यतेत्येषा गायत्री। तत्सवितुरित्यस्यागायत्र्या उपदेशेन ब्रह्मवर्चसनिष्पत्तेस्तस्य गायत्रीरूपत्वम्। वैश्यं निमित्तीकृत्य विधत्ते सप्तदशानु ब्रूयादिति।“समिध्यमानो अध्वरे” “समिद्धो अग्नआहुत” इत्यनयोर्मध्ये “पृथुपाजा मर्त्यः” “त सबाधो यतस्रुचः” इत्येतयोर्धाय्ययोः प्रक्षेपेण सप्तदशसंख्यानिष्पत्तिः। प्रजापतेर्मध्यदेशात्सप्तदशस्तोमवैश्ययोरुत्पन्नत्वात्सप्तदशस्तोमस्तदीयः। वैश्यस्य समिध्यमानो अमृतस्य राजसीत्येतां परिधानीयां विधत्ते जगत्या परीति। जगत्यनुष्ठानलब्धत्वात्पशूनां जागतत्वम्। वैश्यस्य क्षीरदध्यादिविक्रयाय पशुकामत्वं प्रसिद्धम्। नैमित्तिकीं विधाय काम्यां विधत्ते एकवि शतिमिति।
अत्र संख्यापूरणं संप्रदायविद्भिरेवमुक्तम् एकाविंशत्यादिषु प्रथमाया उत्तरे द्वे ईडे अग्निमित्यादिके। अथाग्न आयाहीत्यादि। अथ त्वामग्ने पुष्करादधीतित्रयस्तृचाः। अग्निमग्निमित्येकादश। पृथुपाजा इत्यष्टौ। अष्टाचत्वारिंशत्यक्षरस्य दाशतय्यास्तिस्र आगमयितव्याः। एकविंशत्यादिषु कार्येषु एतासां यथार्थमागम इति। अस्यायमर्थः—यदा सामिधेनीबुद्धिरपेक्षिता तदाभ्नातायाः प्र वो वाजा इत्यस्या उपरीडे अग्निमित्यादिकं द्वयं प्रक्षेपणीयम्। तत ऊर्ध्वमग्नआयाहीत्यादिकं यथाम्नातं पठितम्। तत्र समिध्यमानसमिद्धवत्योर्मध्ये त्वामग्नइत्यादिका उदाहृताः प्रक्षेपणीयाः। यावतीनां प्रक्षेपेण संख्या पूर्यते तत्प्रमाणवतीनां प्रक्षेप इति। मीमांसकास्तु *धाय्यासंज्ञकानामेव समिध्यमानसमिद्धवत्योर्मध्ये प्रक्षेपः। इतरानां त्वन्ते प्रक्षेपमाहुः। तत्रापि परिधानीयाया उत्तमायाः प्रागेवेत्ययं विशेषो द्रष्टव्यः। त्रिवृत्पञ्चदशसप्तदशानां संख्या चतुर्थएकविंशस्तोमेन्तर्भूतेति स स्तोम इतरेषां स्तोमानां प्रतिष्ठा। फलान्तराय विधत्ते चतुर्वि शतिमिति। पुनरपि फलान्तराय विधत्ते त्रि शतमिति। दशाक्षरैस्त्रिभिः पादैर्विराजस्त्रिंशदक्षरत्वम्। तच्छान्दोनुष्ठानेनान्नस्य लभ्यत्वात्तस्य च्छन्दसोन्नत्वम्। पुनः फलान्तराय विधत्ते द्वात्रि शतमिति। अन्यत्र वाग्वा अनुष्टुगिति श्रवणाद्वाग्रूपत्वमनुष्टुभः। वाचि सर्वेवां छन्दसामन्तर्भावादनुष्टुवितरच्छन्दसां प्रतिष्ठा। पुनः फलान्तराय विधत्ते षट्त्रि शतमिति। पशूनां बृहतीच्छन्दसोनुष्ठानेन लभ्यत्वाब्दार्हतत्वम्। फलान्तराय विधत्ते चतुश्चत्वारि शतमिति। पुनः फलान्तराय विधत्ते
अष्टाचत्वारि शतमिति। सोमयाजिनमधिकृत्य विधत्ते सर्वाणि छन्दा सीति। बहुभिदर्क्षिणीयादिभिरिष्टिभिरग्नीषोमीयादिपशुभिरैन्द्रवायवादिग्रहैश्च यजत इति बहुयाजी। एतस्य बहुयाजिनः सवनत्रयेगायत्र्युष्णिगनुष्टुब्जगतीरूपाणि सर्वाणि च्छन्दांस्यवरुद्धानि भवन्ति। तस्मात्सोमयाजी यदा दर्शपूर्णमासावनुतिष्ठति तदा तस्य त्रीणि च्छन्दांस्यनुब्रुयात्। (* अत्र ख. पुस्तके याज्यासंज्ञकानामिति पाठान्तरम्।)
‘समिध्यमानः प्रथमोनुधर्मः’ इत्येषा त्रिष्टुप्। ‘त्वामग्ने प्र दिव आहुतं घृतेन’ इत्येषा जगती। एतदुभयं समिद्धवत्याः पूर्वं पठनीयम्।
"तस्य सोमयाजिनस्त्री स्तृचानित्यनुवाकेष्टाचत्वारि शतमनुब्रुयादित्यन्तेयः संख्याविशेषस्तत्र स्वेच्छैव नियामिका, न तु वाचनिको नियमोस्तीत्येतद्विधत्ते अपरिमितमिति। अपरिमितस्याधिकस्य फलस्येत्यर्थः। "
अत्र मीमांसा।
तृतीयाध्यायस्य षष्ठपादे चिन्तितम् “सामिधेनीः सप्तदश प्रकृतौ विकृतावुत। पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्पते।।
विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात्। पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः” । अनारभ्य श्रूयतेः ‘सप्तदश सामिधेनीरनुब्रूयात्’ इति। प्र वो वाजा अभिद्यव इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः। तासां साप्तदश्यं पूर्वन्यायेन प्रकृतिगतम्। यदि प्रकृतौ पञ्चदश सामिधेनीरन्वाहेति विधिः स्यात्तर्हि पाञ्चदश्यं साप्तदश्यं च विकल्पेयातामिति प्राप्ते ब्रूमः—विकृतावेव साप्तदश्यं निविशते। प्रकृतौ पञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात्। न च पाञ्चदश्यासाप्तदश्ययोः समानबलत्वादवरोधाभाव इति शङ्कनीयम्। पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात्। तस्मान्मित्रविन्दाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते। न चात्र पूर्वन्यायोस्ति। साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधानदोषाभावात्। तत्रैवान्यच्चिन्तितम् “साप्तदश्यं तु वैश्वस्य विकृतौ प्रकृतावुत। पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः।। गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत्।
"भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः” ।। सप्तदशानुब्रुयाद्वैश्यस्येति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्तन्वायेन विकृतिगामीति चेन्मैवम्। नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्ववैश्यव्यतिरिक्तविषयतया संकोचनीयत्वात्। नित्यं सामान्यरूपतया सावकाश त्वेन च दुर्बलं, नैमित्तिक तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम्। तस्माद्वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते। अत्र भाष्यकारोन्यदुदाजहार ‘चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य’ इति। तत्र प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृताविति पूर्वः पक्षः। कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनमिति सिद्धान्तः। दशमाध्यायस्याष्टमपादे चिन्तितम् “सामिधेनीसाप्तदश्यं वैमृधादावपूर्वगीः। संहृतिर्वोपकारस्य क्लृप्त्यास्द्योत्वाज्यभागवत्। सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे। पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदित्”।। अनारभ्य किंचिदाम्नायते सप्तदश सामिधेनीरनुब्रूयात्” इति। तथा वैमृधेध्वरकल्पायां पशौ मित्रविन्दायामाग्रयणेष्टयादौ च पुनः साप्तदश्यं विहितम्। यद्यप्यनारभ्याधीतानां प्रकृतिगामित्वं न्याय्यं तथापि श्रुतेन पाञ्च दश्येनावरुद्धत्वाद्विकृतिष्वेतन्निविशते। तथा सति वैमृधादिविकृतिष्वनारभ्यगादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुनर्विधीयमाना गृहमेधीयाज्यभागवत्क्लृप्तोकारकत्वेनेतिकर्तव्यताकाङ्क्षां पूरयन्त्यश्चोदकं लोपयन्त्यो वैमृधादेरपूर्वकर्मतां गमयन्ति। साप्तदश्यं त्वनारभ्यवादप्राप्तमनूद्यत इति प्राप्ते ब्रूमः- वैमृधादिषु सामिधेन्य आज्यभागवन्न विधीयन्ते, किंतु चोदकप्रा "
प्तास्ता अनूद्य साप्तदश्यं विधीयते। तत्र साप्तदश्यं वैमृधादिप्रकरणेष्वाम्नातैर्विधिभिः कासुचिदेव विकृतिषु प्राप्तम्। अनारभ्यवादेन तु सर्वासु विकृतिषु । तत्रानारभ्यवादो विलम्बते। प्रथमं विधेयस्य साप्तदश्यस्य सामिधेनीसंबन्धमवबोध्य तत्संबन्धान्यथानुपपत्या क्रतुसंबन्धं परिकल्प्य प्रकृतौ पाञ्चदश्यपराहतत्वेन विकृतिषु सर्वासु प्रवेशः क्रियत इति विलम्बः। प्राकरणिकैर्वि धिभिः सामिधेनीसंबन्ध एव बोधनीयः। क्रतौ तद्विशेषे च प्रवेशो न बोधनी यः। प्रत्यक्षप्रकरणेनैव तत्सिद्धेः। तत्र साप्तदश्यस्य वैमृधादिविकृतिविशेष संबन्धे सहसा प्रतिपन्ने सति तद्विरोधी विकृतिसंबन्धो न कल्पयितुं शक्यः। अनारभ्यवादस्तु वैमृधादिषु प्राप्तस्य नित्यानुवादोस्तु यद्वा प्रकरणविधिवैमृधादिषु साप्तदश्यस्य प्रापकः। अनारभ्यवादस्तु चोदकप्राप्तस्य पाञ्चदश्यस्य बाधकः। सर्वथापि चतुर्धाकरणबदुपसंहारो न त्याज्यभागवदपूर्वं कर्म। तत्रैव पत्र्चमपादे चिन्तितम् “सामिधेनीविवृद्धौ किमागमोभ्यस्यतामुत। आगमः पूर्ववन्मैवमभ्यासप्रकृतित्वतः।। तत्राप्याद्यन्तयोर्यावत्पूर्त्यभ्यासो यथोक्ति वा।
अभ्यस्यागमतः पूर्तिः पूरणार्थत्वतोग्रिमः।। त्रित्वं न पूरणायोक्तमन्यथाप्यत्र पूरणात्।
"विवक्षितमबाधित्वा भवेत्पूरणमागमात् ” ।। दर्शपूर्णमासयोः पञ्चदश सामिधेनीर्विधाय काम्या तद्वृद्धिर्विधीयत---“एकवि शतिमनुब्रूयात्प्रतिष्ठाकामस्य” इत्यादिना। यथा बहिष्पवमान ऋगागमस्तथात्रापीति प्राप्ते ब्रूमः एकादशभिः पठिताभिः पञ्चदशसंख्याया अपूर्ता वृगन्तरागमनेन तत्पूरणं न कृतं, किंतु तत्पूरणायाभ्यासो विहितः “ त्रिः"
प्रथमामन्वाह त्रिरुत्तमाम्” इति। अतः काम्यानामभ्यासेन पूरणं युक्तम्। अभ्यासपक्षेपि यावत्कृत्वोभ्यासे सत्येकविंशतिसंख्या पूर्यते तावत्कृत्वः प्रथमोत्तमे अभ्यसनीये। कुतः। विहितस्य त्रिरभ्यासस्य पूरणार्थत्वदर्शनात्। मैवम्। न हि त्रित्वं पूरणार्थं विहितम्। प्रथमाया द्विरभ्यासेनोत्तमायाश्चतुरभ्यासेन पञ्चदशसंख्या पुरणात्। अतो विवक्षितं त्रित्वम्। तथा सति तदेवाधाय प्रथमोत्तमे त्रिरभ्यस्य षण्णामृचामागमेनैकविंशसंख्या पूरणीया।