अनुवाकः 1 TS 2.5.1

(A1)

(यथ् सो॑म॒पानं॑ - ते - वृ॒क्णात्- तस्य॒ नाऽऽश्यं॑ - ॅवदेत॒ -मारु॑को॒ या -ऽख॑र्वेण वा॒ - त्रीणि॑ च)

अनुवाकः 1 - Complete Audio

TS 2.5.1 - स्वरानुगामी

0:00 0:00
PS1.1 वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो
PS1.2 दे॒वाना॑मासीथ् स्व॒स्रीयोऽसु॑राणां॒ तस्य॒ त्रीणि॑
PS1.3 शी॒र्॒.षाण्या॑सन्थ्-सोम॒पानꣳ॑ सुरा॒पान॑-म॒न्नाद॑नꣳ॒॒ स प्र॒त्यक्षं॑
PS1.4 दे॒वेभ्यो॑ भा॒गम॑वदत् प॒रोक्ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒
PS1.5 वै प्र॒त्यक्षं॑ भा॒गं ॅव॑दन्ति॒
PS1.6 यस्मा॑ ए॒व प॒रोक्षं॒ ॅवद॑न्ति॒
PS1.7 तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ ऽबिभेदी॒दृङ्
PS1.8 वै रा॒ष्ट्रं ॅवि प॒र्याव॑र्तय॒तीति॒
PS1.9 तस्य॒ वज्र॑मा॒दाय॑ शी॒र्॒.षाण्य॑च्छिन॒द्यथ् सो॑म॒पान॒
PS1.10 - [ ]
PS2.1 -मासी॒थ् स क॒पिञ्ज॑लो ऽभव॒द्
PS2.2 यथ् सु॑रा॒पानꣳ॒॒ स क॑ल॒विङ्को॒
PS2.3 यद॒न्नाद॑नꣳ॒॒ स ति॑त्ति॒रिस्तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णा॒त्
PS2.4 ताꣳ सं॑ॅवथ्स॒रम॑बिभ॒स्तं भू॒तान्य॒भ्य॑क्रोश॒न् ब्रह्म॑ह॒न्निति॒
PS2.5 स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒
PS2.6 प्रति॑ गृहा॒णेति॒ साऽब्र॑वी॒द्वरं॑ ॅवृणै
PS2.7 खा॒तात् प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒
PS2.8 मा परा॑ भूव॒मिति॑पु॒रा ते॑-
PS2.9 [ ]
PS3.1 संॅवथ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त् तस्मा᳚त् पु॒रा
PS3.2 सं॑ॅवथ्स॒रात् पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒
PS3.3 वारे॑वृतꣳ॒॒ ह्य॑स्यै॒ तृती॑यं ब्रह्मह॒त्यायै॒
PS3.4 प्रत्य॑गृह्णा॒त् तथ् स्वकृ॑त॒मिरि॑णमभव॒त् तस्मा॒दाहि॑ताग्निः
PS3.5 श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑
PS3.6 स्येद्-ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः॒ स
PS3.7 वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑
PS3.8 गृह्णी॒तेति॒ ते᳚ऽब्रुव॒न् वरं॑ ॅवृणामहै
PS3.9 वृ॒क्णात् - [ ]
PS4.1 प॑राभवि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा
PS4.2 परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूयाꣳ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त्
PS4.3 तस्मा॑दा॒व्रश्च॑नाद्-वृ॒क्षाणां॒ भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृतꣳ॒॒
PS4.4 ह्ये॑षां॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृण्ह॒न्थ्स
PS4.5 नि॑र्या॒सो॑ ऽभव॒त् तस्मा᳚न्निर्या॒सस्य॒ नाऽऽ*श्यं॑
PS4.6 ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒
PS4.7 य ए॒व लोहि॑तो॒ यो
PS4.8 वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाऽऽश्यं॑ -
PS4.9 [ ]
PS5.1 काम॑म॒न्यस्य॒सस्त्री॑षꣳसा॒द-मुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑
PS5.2 गृह्णी॒तेति॒ ता अ॑ब्रुव॒न् वरं॑
PS5.3 ॅवृणामहा॒ ऋत्वि॑यात् प्र॒जां ॅवि॑न्दामहै॒
PS5.4 काम॒मा विज॑नितोः॒ सं भ॑वा॒मेति॒
PS5.5 तस्मा॒दृत्वि॑या॒थ् स्त्रियः॑ प्र॒जां ॅवि॑न्दन्ते॒
PS5.6 काम॒मा विज॑नितोः॒ संभ॑वन्ति॒ वारे॑वृतꣳ॒॒
PS5.7 ह्या॑सां॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्
PS5.8 सा मल॑वद्वासा अभव॒त् तस्मा॒न्-मल॑वद्-वाससा॒
PS5.9 न संॅव॑देत॒ - [
PS5.10 ]
PS6.1 न स॒हाऽऽसी॑त॒ नास्या॒ अन्न॑मद्याद्-ब्रह्मह॒त्यायै॒
PS6.2 ह्ये॑षा वर्णं॑ प्रति॒मुच्या ऽऽस्तेऽथो॒
PS6.3 खल्वा॑हुर॒भ्यञ्ज॑नं॒ ॅवाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व
PS6.4 न प्र॑ति॒गृह्यं॒ काम॑म॒न्यदिति॒ यां
PS6.5 मल॑वद्-वाससꣳ स॒भंव॑न्ति॒ यस्ततो॒ जाय॑ते॒
PS6.6 सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै᳚ स्ते॒नो
PS6.7 यां परा॑चीं॒ तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भो
PS6.8 या स्नाति॒ तस्या॑ अ॒फ्सु
PS6.9 मारु॑को॒ या - [
PS6.10 ]
PS7.1 ऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या
PS7.2 प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते
PS7.3 तस्यै॑ का॒णो या द॒तो
PS7.4 धाव॑ते॒ तस्यै᳚ श्या॒वद॒न्॒. या
PS7.5 न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी
PS7.6 या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बो
PS7.7 या रज्जुꣳ॑ सृ॒जति॒ तस्या॑
PS7.8 उ॒द्-बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒
PS7.9 तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒
PS7.10 पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री᳚र्व्र॒तं
PS7.11 च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒
PS7.12 ( ) पात्रे॑ण प्र॒जायै॑
PS7.13 गोपी॒थाय॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.5.1.1 TS 2.5.1.1
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासीथ् स्व॒स्रीयोऽसु॑राणां॒ तस्य॒ त्रीणि॑ शी॒र्॒.षाण्या॑सन्थ्-सोम॒पानꣳ॑ सुरा॒पान॑-म॒न्नाद॑नꣳ॒॒ स प्र॒त्यक्षं॑ दे॒वेभ्यो॑ भा॒गम॑वदत् प॒रोक्ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒ वै प्र॒त्यक्षं॑ भा॒गं ॅव॑दन्ति॒ यस्मा॑ ए॒व प॒रोक्षं॒ ॅवद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ ऽबिभेदी॒दृङ् वै रा॒ष्ट्रं ॅवि प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒र्॒.षाण्य॑च्छिन॒द्यथ् सो॑म॒पान॒ - [ ]
पदपाठः (Word-by-word)
वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । वै । त्वा॒ष्ट्रः । पु॒रोहि॑त॒ इति॑ पु॒रः-हि॒तः॒ । दे॒वाना᳚म् । आ॒सी॒त् । स्व॒स्रीयः॑ । असु॑राणाम् । तस्य॑ । त्रीणि॑ । शी॒र्.॒षाणि॑ । आ॒स॒न्न् । सो॒म॒पान॒मिति॑ सोम - पान᳚म् । सु॒रा॒पान॒मिति॑ सुरा - पान᳚म् । अ॒न्नाद॑न॒मित्य॑न्न - अद॑नम् । सः । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । दे॒वेभ्यः॑ । भा॒गम् । अ॒व॒द॒त् । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । असु॑रेभ्यः । सर्व॑स्मै । वै । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । भा॒गम् । व॒द॒न्ति॒ । यस्मै᳚ । ए॒व । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । वद॑न्ति । तस्य॑ । भा॒गः । उ॒दि॒तः । तस्मा᳚त् । इन्द्रः॑ । अ॒बि॒भे॒त् । ई॒दृङ् । वै । रा॒ष्ट्रम् । वीति॑ । प॒र्याव॑र्तय॒तीति॑ परि - आव॑र्तयति । इति॑ । तस्य॑ । वज्र᳚म् । आ॒दायेत्या᳚ - दाय॑ । शी॒र्.॒षाणि॑ । अ॒च्छि॒न॒त् । यत् । सो॒म॒पान॒मिति॑ सोम-पान᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे पञ्चमः प्रपाठके प्रथमोनुवाकः )। (अग्नीषोमीयह विर्विध्युपोद्घातः)

यस्य निःश्वसितं वेदा यो वेदेभ्योखिलं जगत्।निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।

द्वितीयादिचतुर्थान्तैस्त्रिभिरेतैः प्रपाठकैः। उक्ताः काम्येष्टयः काण्डे द्वितीये परतस्तु यत्।।

आद्ये दर्शपूर्णमासमन्त्रव्याख्यानमीरितम्। विधयो मन्त्रसंबद्धा बहवः प्रतिपादिताः।।

तच्छेषविधयो वाच्या व्याख्येया होत्रमन्त्रकाः।*अतो नुब्राह्मणं त्वत्र वर्ण्यते पाठकद्वये।।

प्रपाठके पञ्चमेनुवाका द्वादश संस्थिताः। आध्वर्यवं पूर्वषट्के याज्या उत्तम ईरिताः।।

हौत्रमन्त्रविधिव्याख्यावारादिप्रायमन्तरे।अग्नीषोमीयहविषो विधिस्तत्राद्ययोर्द्वयोः।।

तत्र द्वितीयानुवाके पौर्णमासीगतमग्नीषोमीयपुरोडाशं विधित्सुस्तदुपोद्घातत्वेन प्रथमानुवाके कांचिदाख्यायिकामाह

"विश्वरूपो वै इति। विश्वानि बहुविधानि रूपाणि यस्यासौ विश्वरूपः। त्रिभिः शिरोभिरुपेतत्वाद्विश्वरूपत्वम्। या विश्वरूपनामकस्त्वष्टुः पुत्रः स देवानां पुरोहितो न तु शरीरसंबन्धी, असुराणां तु भागिनेयः। स च सात्विकेन शिरसा सोमं पिबति। राजसेनान्नमत्ति। तापसेन सुरां पिबति। स च यज्ञमण्डपेषु गत्वा सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा देवेभ्यो हविर्भागो युक्त इति वदति। सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा रहस्य ऋत्विग्भिः सहायं हविर्भागोसुरेभ्यो युक्तोतस्तानेवोद्दिश्य प्रयच्छतेति स एवं वदति। तेषामृत्विजां तस्मिन्परोक्षवादेविश्वास उत्पन्नः तस्य परोक्षवादस्य हृदयपूर्वकत्वात्। लोकेपि तवायं भाग इति सर्वस्मै पुरुषाय प्रीतिमुत्पादयितुं तत्समीपे सर्वे वदन्ति। हृदयपूर्वकत्वाभावान्न स उदितो भवति। परोक्षं यदर्थं तु भाग उच्यते तस्यैव भागो हृदयपूर्वकत्वादुदितो भवति। एवं वृत्तान्तं श्रुत्वा तस्माद्विश्वरूपादिन्द्रो बिभेत्। किमिति, (*प्रकृतब्राह्मणमिति ख. पुस्तकस्थपाठान्तरम्। )"

इंदृक्स्वामिद्रोहं सर्वथा कृत्वा राष्ट्रं विपर्यावर्तयतीति। अस्मत्तोपनीयासुरेभ्यसमर्पणं विपर्यावृत्तिः। ततस्तस्य द्रोहिण शिरःसु च्छिन्नेषु तानि शिरांसि पक्षिः त्रयरूपेणोत्पन्नानि। तस्येन्द्रस्य प्रत्यवायं जनापवादं च दर्शयति—

तस्याञ्जलिनेति। तस्यासुरस्य वधेन निष्पन्ना या ब्रह्महत्या तामञ्जालिना स्वी चकार। पापिनां शिक्षायामीश्वरेण नियुक्तानां यमचित्रगुप्तादीनां पुरतोञ्जलिंकृत्वा निर्भयः सन्ब्रह्महत्या मया बुद्धिपूर्वकमेव कृतेत्येवमङ्गी चकारेत्यर्थः। प्रायश्चित्तमकृत्वा संवत्सरं निरन्तरं ब्रह्महत्यामङ्गीकृत्यैव तस्थौ। आत्मतत्त्वज्ञानेः पापलेपाभावाद्भीत्यभावस्तस्य युक्तः। अत एव कौषीतकिन इन्द्रवाक्यमेतदामनन्ति “यन्मां हि विजानीयास्त्रीशीर्षाणं त्वाष्ट्रमहमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छ” इत्यादि। दुरिताभावेपि सर्वप्राणिनस्तमिन्द्रं ब्रह्महन्नित्येवं संबोध्याभितस्तस्याक्रोशं कृतवन्तः। ततस्तस्य जनापवादस्य परिहारायेन्द्रेणानुष्ठितमुपायविशेषं दर्शयति—

"स पृथिवीमिति। उपासीददुपेत्य प्रार्थितवान्। खातात्पराभविष्यन्तीमन्ये, जनाः स्वेच्छया तत्र तत्र भूमिं खनन्ति तदुपद्रवात्पराभूता पीडिता भविष्यामीति मनसा चिन्तयामि। खातप्रदेशः संपूरणमन्तरेण पांसुप्रक्षेपात्तृणाद्युत्पत्तेर्वापिरोहात्पुरितो भूयादिति वरः। तदिदमस्य वारेवृत्तमस्याः पृथिव्याः खातपूरणंवरेण लब्धम्। पृथिव्याः स्वीकृतस्तृतीयो ब्रह्महत्याया भागः स्वकृतमिरिणमभवत्। इतस्तत आनीय प्रक्षिप्तं न भवतीति स्वतःसिद्धमूषरक्षेत्त्रमासीत्। तस्पादिरिणं ब्रह्महत्यायाः स्वरूपं तस्मादाहिताग्निः श्रद्धादेवस्तस्मिन्निरिणे कदाचिदपि न तिष्ठेत्। यद्वा, देवयजनत्वेन नाध्यवस्येत्। श्रद्धैव देवो यस्यासौ श्रद्धावानित्यर्थः। एकस्य ब्रह्महत्याभागस्य परिहारोपायमुक्त्वापरस्य तं दर्शयति स वनस्पतीनिति। वृक्णाच्छेदनात्। आव्रश्चनाच्छिन्नप्रदेशाद्भूयांसो बह्वंकुरा उत्तिष्ठन्त्विति वरः। वृक्षान्निर्गत्य घनीभूत रसो निर्यासः। ब्रह्महत्याया स्वरूपत्वानिर्यासस्य स्वरूपं न भोज्यं भवति। अपि च पक्षान्तरमस्ति। न सर्वोपि निर्यासो निषिद्धः, किंतु यो लोहितवर्णो यश्च च्छिन्नवृक्षप्रदेशान्निर्गतस्तदेवोभयं निषिद्धम्। अन्यस्य तु निर्यासस्य स्वरूपमाश्यमिच्छायां सत्यामशितुं योग्यम्।

स इति ॥ त्रिषु ब्रह्महत्याभागेषु द्वयोः परिहारमुक्त्वा तृतीयस्यावशिष्टस्य परिहारं दर्शयति - 'स स्त्रीषसादमिति । स्त्रियः सम्यक्सीदन्ति विश्रम्भेणोपविशन्ति यस्यां सभायामिति स्त्रीसभाविशेषः स्त्रीषसादः । ऋत्वियात् ऋतुसंबन्धाद्वीर्यात्प्रथमसंभोगादेव गर्भे जातेऽपि काममुद्दिश्याविजनितोरा प्रसवात्पुरुषेण सङ्गच्छेमहि । गर्भोपद्रवः प्रत्यवायश्च निषिद्धदिनकृतोऽस्माकं मा भूदिति वरः । अत एव याज्ञवल्क्यस्मृतिः - 'यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन्' (याज्ञ.स्मृति. १-८१) इति । यो ब्रह्महत्यायास्तृतीयो भागः सा मलवद्वासा रजस्वला योषिदभवेत् । यस्मादियं ब्रह्महत्याया रूपं शरीरे कञ्चुकवत्प्रतिमुच्यास्ते तस्मात्तया सह संभाषणं न कुर्यात् । तया सहैकस्मिन्गृहे वासो न कर्तव्यः । तत्स्वामिकं तत्स्पृष्टं वान्नं नाश्नीयात् । अपि चाभिज्ञाः केचिदेवमाहुः - स्त्रियाः शृङ्गारोपयोगित्वेनाभ्याञ्जनमेवान्नस्थानीयं, तदीयं तैलादिकमेव न गृह्णीयात्, तया वा स्वशरीराभ्यञ्जनं न कारयेत् । अन्यदन्नं सत्यामिच्छायां भोक्तव्यमिति ॥

यामिति ॥ प्रसङ्गाद्रजस्वलाव्रतानि विधत्ते - यां मलवद्वाससमिति । अभिशस्तो मिथ्यापवादयुक्तः । यामरण्ये, 'मलावद्वासस संभवन्ति' इत्यनुवर्तते । पराचीमुच्चारणभीत्या लज्जया वा पराङ्मुखीम् । सभायामवाङ्मुखो वक्तुमशक्तो ह्रीतमुख्यपगल्भ इत्युच्यते । मारुको मरणशीलः । दुश्चर्मा कुष्ठी । प्रलिखते भित्तौ चित्रादिकं करोति । खलतिः केशशून्यः । अपमारी दुर्मरणयुक्तः । काणः कुण्ठिताक्षः । श्यावदन्मलिनदन्तः । कृणत्ति तृणादि च्छिनत्ति । उद्बन्धुको रज्जुं बद्ध्वा मरणशीलः । पर्णेन पानं भोजनस्याप्युपलक्षणम् । उन्मादुकः उन्मादशीलः । खर्वेण वह्निपक्वेन शरावादिना । खर्वो वामनः । यस्मादुक्ता दोषा वर्तन्ते तस्मात्तत्परिहाराय रजस्वलाव्रतं संभवादिवर्जनरूपं नियममाचरेत् । भोजनेऽञ्जलिरदग्धशरावादिर्वा साधनमस्तु । व्रताचरणमुत्पत्स्यमानायाः प्रजाया रक्षणार्थं भवति ॥

अत्र मीमांसा ।

तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् -

'न संवदेत मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः ॥' (जै.न्या. ३-४-२०)

दर्शपूर्णमासप्रकरणे श्रूयते - 'मलवद्वाससा न सं वदेत' (तै.सं. २-५-१) इति । अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वमिति चेन्न । अप्रसक्तप्रतिषेधप्रसङ्गात् । 'यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति । तामपरुध्य यजेत' (तै.ब्रा. ३-७-१) इति । रजस्वलाया निःसारणान्न क्रतौ संवादप्रसक्तिः । तस्मात्केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके प्रथमोनुवाकः ॥ १ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीय संहितायां

द्वितीय काण्डे

पञ्चमप्रपाठकः ॥

1 अथ दर्शपूर्णमासब्राह्मणं प्राजापत्यं काण्डं विश्वरूप इत्यादयः षडनुवाकाः । तत्राग्नीषोमीयमेकादशकपालं पूर्णमासे विधास्यन् तदर्थमर्थवादं प्रस्तौति - विश्वरूपो नाम त्वष्टुः पुत्रः देवानां पुरोहितः आसीत् । 'पुरोऽव्ययम्' इति गतित्वात् 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । असुराणां स्वस्रीयः स्वसुः पुत्रः । 'स्वसुश्छः' इति छः, ईयादेशश्च । तस्य सोमपानादीनि त्रीणि शीर्षाण्यासन् 'शीर्षन् छन्दसि' इति शीर्षादेशः । सोमः प्रीयते अनेन इति करणे ल्युट् । एवं सर्वत्र । स देवेभ्यः प्रत्यक्षं भागमवदत् यूयमेव भागार्हा इति देवानां सन्निधौ देवानवदत् । प्रत्यक्षपरोक्षशब्दौ व्याख्यातौ । असुरेभ्यस्तु परोक्षं भागमवदत् स्वस्रीयत्वात्तेषामसन्निधावेवासुरा भागार्हा इत्यवदत् । अथैवं कुर्वतोऽस्य दुष्टाभिप्रायत्वमस्तीत्याह - सर्वस्मा इति । यस्मै भागं दास्यन् भवति तस्मै सर्वस्मा अप्रत्यक्षं भागं वदति लौकिकः । त्वमेव सर्वमर्हसि, इति सन्निधावपहृदया एव वदन्ति । तस्माद्यस्मा एव परोक्षं वदन्ति असन्निधौ स्वयमेव भागभाक्त्वेन बहुमन्यते तस्य भागः उदितः उक्तः उद्भूतः सुनिश्चितः इति यावत्, अन्योऽनुक्तप्रायः । यद्वा - हस्तस्थप्रायः । 'कर्षात्वतो घञोन्त उदात्तः' इति भागशब्दः अन्तोदात्तः । तस्मात् तथा कुर्वतो विश्वरूपादिन्द्रोऽबिभेत् ईदृक् ईदृशमाचरन् राष्ट्रमपि अस्माकमपि विपर्यावर्तयति अस्मत्तोऽपहृत्य असुरेभ्यो दास्यतीति ॥
2 तस्येत्यादि ॥ गतम् । कपिञ्जलः अपाश्वाति(?) । कलविङ्कश्चटकविशेषः । तित्तिरिः तिरश्चिदीनि [तित्तिरिति] कटुकरावीति । अञ्जलिनेति । बुद्धिपूर्वकृतत्वख्यापनार्थं अञ्जलिग्रहणम् । तस्येति संबन्धसामान्ये षष्ठी तत्सबन्धेन आत्मनः ब्रह्महत्येति । तस्य वधेनेति वा सामर्थ्याल्लभ्यते । 'हनस्तच' इति हन्तेः क्यंप् । तामिति । अकृतप्रायश्चित्त एव तां ब्रह्महत्यां संवत्सरं भृतवान् । ब्रह्महन् इति ब्राह्मणं हतवानिति । किंरूपमिदं तवेति तं भूतानि भूतजातान्यनिन्दन् । यद्वा - तस्याभिमुखे स्थित्वा भूतानि ब्रह्महन्नित्याक्रोशमकुर्वन् । ततः स इन्द्रः पृथिवीमुपासीदत् उपसन्न आह अस्या ब्रह्महत्यायास्तृतीयं भागं प्रतिगृहाण इति । 'पूरणाद्भागे तीयादन्' इति स्वार्थिकोऽन् प्रत्ययः । षष्ठ्यर्थे चतुर्थी । सेत्यादि । किं वृणौ । प्राप्तकाले लोट् । खातात् भूमेः यत्र मृदं खनति, पराभवो विनाशः, पराभविष्यामीति मन्ये ततो निमित्तात् अहं मा पराभूवमिति । अथेन्द्रोऽब्रवीत् - संवत्सरसमाप्तेः प्राक् तव खातमपि रोहात् विरोहति । लेट्याडागमः । तस्मादित्यादि । गतम् । वरे हितः वरणकालः । ततस्तृतीयं प्रत्यगृह्णात् पृथिवी ब्रह्महत्यायाः ॥
3 तदित्यादि ॥ स्वेनैव कृतेन कारणान्तरेण कृतं स्वकृतम् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । इरिणं ऊषरं श्रद्धादेवः धार्मिकः नावस्येत् न वसेत् । कश्चिदाह – श्रद्धावान्यष्टुकः श्रद्धादेवः स स्वकृते इरिणे देवयजनाध्यवसानं न कुर्यादिति । अत्रैव हेतुः 'ब्रह्महत्यायै ह्येष वर्णः' इति ॥
4 स वनस्पतीनित्यादि ॥ गतम् । वृक्णादिति । छिन्नात् तदवयवात् । वृश्चतेः निष्ठायां 'ओदितश्च' इति निष्ठानत्वं, तस्यासिद्धत्वात् 'स्कोस्संयोगाद्योरन्ते च' इति सलोपः, 'खरि च' इति चर्त्वम् ॥
5 अथो खलु अस्ति पक्षान्तरं लोहितो लोहितवर्णः यो वाव्रश्चनान्निर्येषति निर्गच्छति । येषृ प्रयत्ने अनुदात्तेत्, व्यत्ययेन परस्मैपदम् । अन्यस्येति । अलोहितस्य अनाव्रश्चनान्निर्गतस्य निर्यासस्य कामं आश्यं नाश्यं वा । काम्यत इति कामम् ॥
6 स स्त्रीषंसादमित्यादि ॥ स्त्रियः सह सीदन्त्यस्मिन्निति स्त्रीषंसादं स्त्रीसमूहः । छान्दसं सांहितिकं षत्वम् ॥ ऋत्वियादिति । ऋतुः प्राप्तोऽस्येति ऋत्वियम् आर्तवम् उच्यते । 'छन्दसि घस्' (पा.सू. ५-१-१०६) इति घस्प्रत्ययः, वृषादिः द्रष्टव्यः । विजननं प्रसवः । 'भावलक्षणे स्थेण्....' (पा.सू. ३-४-१६) इति जनेः स्तोसुन्प्रत्ययः । संभवः संयोगः । प्रथमसंयोगे गर्भो भवतीति यद्यपि द्वितीयादिप्रवृत्तिः अप्रजार्था, तथापि कामानुरूपम् आविजनितोः संभवाम, गर्भस्सुखं वर्धतामिति ॥
7 मलवद्वासाः रजस्वला । वासोग्रहणं वाससि रजःस्पर्शात्प्रभृति अज्ञातेऽप्यप्रायत्यमस्तीति सूचनार्थम् । तेन वासस्यस्पृष्टे ज्ञानादूर्ध्वमेवाशुद्धिः । तस्मादिति । सहभाषणं संवादः । तस्य प्रतिषेधः पुरुषार्थः प्रासङ्गिकः । एवं सर्वत्र । नास्या इति । अनया स्पर्शादिना दूषितं नाद्यात् । अनया वा दत्तं न गृह्णीयात् । एषा हि ब्रह्महत्याया वर्णं प्रतिमुच्य देहे बद्ध्वाऽऽस्ते । अथो अपि खल्वाहुस्तद्विदः । अभ्यज्यते परिष्क्रियते शरीरमनेनेत्यभ्यञ्जनं तैलादि । तच्चान्नं स्त्रीणां प्रियतमत्वात्, तस्मात् तदेव तस्या अन्नं न प्रतिग्राह्यम् । केचिदाहुः - तया अभ्यञ्जनं न कर्तव्यमिति । ब्रह्महत्यात्मिकायास्तस्या अभिमततमं सर्वदा वर्ज्यमिति विवक्षितम् ॥
8 यामित्यादि ॥ अभिशस्तः मिथ्यारोपितपातकेन दूषितः गृहे अभिशस्तः । अरण्ये स्तेनः चोरः । पराचीं स्वापाशनादिना अन्यपराम् । अवाङ्मुखं शयानामित्येके । ह्रीतमुखी लज्जावनतवदनः । कर्मधारयादिनिः । अपगल्भोऽपगतगल्भः । अप्सु मारुकः अप्सु मरणशीलः । छान्दस उकञ् । दुश्चर्मा कुष्ठी । खलतिः केशशून्यमस्तकः । अपमारी अपमृत्युमान् । यद्वा - कुत्सितमरणः । काणः कुण्ठिताक्षः । श्यावदन् व्याध्यापन्नदन्तः, मलिनदन्तो वा । 'विभाषा श्यावारोकाभ्याम्' (पा.सू. ५-४-१४४) इति दतृभावः । कुनखी कुत्सितनखः । कृणत्ति कटं सृजति । विकरणव्यत्ययेन श्नम् (पा.सू. ३-१-८५) । क्लीबः यो न स्त्री न पुमान् । उद्बन्धुकः यो रज्ज्वा उद्बध्य आत्मानं व्यापादयति । पर्णेन पद्मदलादिना । उन्मादुकः उन्मदनशीलः । पूर्ववदुकञ् । खर्वः खरैनसोर्वर्तते (?) खण्डिताङ्गः खर्व इति केचित् । व्रतं यथोक्तस्वरूपं प्रजाया रक्षणार्थम् । औणादिकस्थप्रत्ययः (उ.सू. १७४), इडागमश्च ॥
इति द्वितीये पञ्चमे प्रथमोऽनुवाकः ॥
पञ्चशत् 2 #
TS 2.5.1.2 TS 2.5.1.2
-मासी॒थ् स क॒पिञ्ज॑लो ऽभव॒द् यथ् सु॑रा॒पानꣳ॒॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑नꣳ॒॒ स ति॑त्ति॒रिस्तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णा॒त् ताꣳ सं॑ॅवथ्स॒रम॑बिभ॒स्तं भू॒तान्य॒भ्य॑क्रोश॒न् ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृहा॒णेति॒ साऽब्र॑वी॒द्वरं॑ ॅवृणै खा॒तात् प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑पु॒रा ते॑- [ ]
पदपाठः (Word-by-word)
आसी᳚त् । सः । क॒पिञ्ज॑लः । अ॒भ॒व॒त् । यत् । सु॒रा॒पान॒मिति॑ सुरा - पान᳚म् । सः । क॒ल॒विङ्कः॑ । यत् । अ॒न्नाद॑न॒मित्य॑न्न-अद॑नम् । सः । ति॒त्ति॒रिः । तस्य॑ । अ॒ञ्ज॒लिना᳚ । ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म-ह॒त्याम् । उपेति॑ । अ॒गृ॒ह्णा॒त् । ताम् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । अ॒बि॒भः॒ । तम् । भू॒तानि॑ । अ॒भीति॑ । अ॒क्रो॒श॒न्न् । ब्रह्म॑ह॒न्निति॒ ब्रह्म॑ - ह॒न्न् । इति॑ । सः । पृ॒थि॒वीम् । उपेति॑ । अ॒सी॒द॒त् । अ॒स्यै । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । तृती॑यम् । प्रतीति॑ । गृ॒हा॒ण॒ । इति॑ । सा । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । खा॒तात् । प॒रा॒भ॒वि॒ष्यन्तीति॑ परा - भ॒वि॒ष्यन्ती᳚ । म॒न्ये॒ । ततः॑ । मा । परेति॑ । भू॒व॒म् । इति॑ । पु॒रा । ते॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.5.1.3 TS 2.5.1.3
संॅवथ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त् तस्मा᳚त् पु॒रा सं॑ॅवथ्स॒रात् पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृतꣳ॒॒ ह्य॑स्यै॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒त् तथ् स्वकृ॑त॒मिरि॑णमभव॒त् तस्मा॒दाहि॑ताग्निः श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्-ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः॒ स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृह्णी॒तेति॒ ते᳚ऽब्रुव॒न् वरं॑ ॅवृणामहै वृ॒क्णात् - [ ]
पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् । अपीति॑ । रो॒हा॒त् । इति॑ । अ॒ब्र॒वी॒त् । तस्मा᳚त् । पु॒रा । सं॒ॅव॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् । पृ॒थि॒व्यै । खा॒तम् । अपीति॑ । रो॒ह॒ति॒ । वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् । हि । अ॒स्यै॒ । तृती॑यम् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । तत् । स्वकृ॑त॒मिति॒ स्व - कृ॒त॒म् । इरि॑णम् । अ॒भ॒व॒त् । तस्मा᳚त् । आहि॑ताग्नि॒रित्याहि॑त - अ॒ग्निः॒ । श्र॒द्धादे॑व॒ इति॑ श्र॒द्धा - दे॒वः॒ । स्वकृ॑त॒ इति॒ स्व - कृ॒ते॒ । इरि॑णे । न । अवेति॑ । स्ये॒त् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । हि । ए॒षः । वर्णः॑ । सः । वन॒स्पतीन्॑ । उपेति॑ । अ॒सी॒द॒त् । अ॒स्यै । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । तृती॑यम् । प्रतीति॑ । गृ॒ह्णी॒त॒ । इति॑ । ते । अ॒ब्रु॒व॒न्न् । वर᳚म् । वृ॒णा॒म॒है॒ । वृ॒क्णात् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.5.1.4 TS 2.5.1.4
प॑राभवि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूयाꣳ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त् तस्मा॑दा॒व्रश्च॑नाद्-वृ॒क्षाणां॒ भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृतꣳ॒॒ ह्ये॑षां॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृण्ह॒न्थ्स नि॑र्या॒सो॑ ऽभव॒त् तस्मा᳚न्निर्या॒सस्य॒ नाऽऽ*श्यं॑ ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाऽऽश्यं॑ - [ ]
पदपाठः (Word-by-word)
प॒रा॒भ॒वि॒ष्यन्त॒ इति॑ परा-भ॒वि॒ष्यन्तः॑ । म॒न्या॒म॒हे॒ । ततः॑ । मा । परेति॑ । भू॒म॒ । इति॑ । आ॒व्रश्च॑ना॒दित्या᳚-व्रश्च॑नात् । वः॒ । भूयाꣳ॑सः । उदिति॑ । ति॒ष्ठा॒न् । इति॑ । अ॒ब्र॒वी॒त् । तस्मा᳚त् । आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् । वृ॒क्षाणा᳚म् । भूयाꣳ॑सः । उदिति॑ । ति॒ष्ठ॒न्ति॒ । वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् । हि । ए॒षा॒म् । तृती॑यम् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । प्रतीति॑ । अ॒गृ॒ह्ण॒न्न् । सः । नि॒र्या॒स इति॑ निः - या॒सः । अ॒भ॒व॒त् । तस्मा᳚त् । नि॒र्या॒सस्येति॑ निः - या॒सस्य॑ । न । आ॒श्य᳚म् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म-ह॒त्यायै᳚ । हि । ए॒षः । वर्णः॑ । अथो॒ इति॑ । खलु॑ । यः । ए॒व । लोहि॑तः । यः । वा॒ । आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् । नि॒र्येष॒तीति॑ निः - येष॑ति । तस्य॑ । न । आ॒श्य᳚म् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.5.1.5 TS 2.5.1.5
काम॑म॒न्यस्य॒सस्त्री॑षꣳसा॒द-मुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न् वरं॑ ॅवृणामहा॒ ऋत्वि॑यात् प्र॒जां ॅवि॑न्दामहै॒ काम॒मा विज॑नितोः॒ सं भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒थ् स्त्रियः॑ प्र॒जां ॅवि॑न्दन्ते॒ काम॒मा विज॑नितोः॒ संभ॑वन्ति॒ वारे॑वृतꣳ॒॒ ह्या॑सां॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ् सा मल॑वद्वासा अभव॒त् तस्मा॒न्-मल॑वद्-वाससा॒ न संॅव॑देत॒ - [ ]
पदपाठः (Word-by-word)
काम᳚म् । अ॒न्यस्य॑ । सः । स्त्री॒षꣳ॒॒सा॒दमिति॑ स्त्री - सꣳ॒॒सा॒दम् । उपेति॑ । अ॒सी॒द॒त् । अ॒स्यै । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । तृती॑यम् । प्रतीति॑ । गृ॒ह्णी॒त॒ । इति॑ । ताः । अ॒ब्रु॒व॒न्न् । वर᳚म् । वृ॒णा॒म॒है॒ । ऋत्वि॑यात् । प्र॒जामिति॑ प्र - जाम् । वि॒न्दा॒म॒है॒ । काम᳚म् । एति॑ । विज॑नितो॒रिति॒ वि - ज॒नि॒तोः॒ । समिति॑ । भ॒वा॒म॒ । इति॑ । तस्मा᳚त् । ऋत्वि॑यात् । स्त्रियः॑ । प्र॒जामिति॑ प्र-जाम् । वि॒न्द॒न्ते॒ । काम᳚म् । एति॑ । विज॑नितो॒रिति॒ वि - ज॒नि॒तोः॒ । समिति॑ । भ॒व॒न्ति॒ । वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् । हि । आ॒सा॒म् । तृती॑यम् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । प्रतीति॑ । अ॒गृ॒ह्ण॒न्न् । सा । मल॑वद्वासा॒ इति॒ मल॑वत् - वा॒साः॒ । अ॒भ॒व॒त् । तस्मा᳚त् । मल॑वद्वास॒सेति॒ मल॑वत् - वा॒स॒सा॒ । न । समिति॑ । व॒दे॒त॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.5.1.6 TS 2.5.1.6
न स॒हाऽऽसी॑त॒ नास्या॒ अन्न॑मद्याद्-ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्णं॑ प्रति॒मुच्या ऽऽस्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नं॒ ॅवाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्यं॒ काम॑म॒न्यदिति॒ यां मल॑वद्-वाससꣳ स॒भंव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै᳚ स्ते॒नो यां परा॑चीं॒ तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒फ्सु मारु॑को॒ या - [ ]
पदपाठः (Word-by-word)
न । स॒ह । आ॒सी॒त॒ । न । अ॒स्याः॒ । अन्न᳚म् । अ॒द्या॒त् । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । हि । ए॒षा । वर्ण᳚म् । प्र॒ति॒मुच्येति॑ प्रति-मुच्य॑ । आस्ते᳚ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒भ्यञ्ज॑न॒मित्य॑भि - अञ्ज॑नम् । वाव । स्त्रि॒याः । अन्न᳚म् । अ॒भ्यञ्ज॑न॒मित्य॑भि - अञ्ज॑नम् । ए॒व । न । प्र॒ति॒गृह्य॒मिति॑ प्रति - गृह्य᳚म् । काम᳚म् । अ॒न्यत् । इति॑ । याम् । मल॑वद्वासस॒मिति॒ मल॑वत् - वा॒स॒स॒म् । स॒भंव॒न्तीति॑ सं - भव॑न्ति । यः । ततः॑ । जाय॑ते । सः । अ॒भि॒श॒स्त इत्य॑भि-श॒स्तः । याम् । अर॑ण्ये । तस्यै᳚ । स्ते॒नः । याम् । परा॑चीम् । तस्यै᳚ । ह्री॒त॒मु॒खीति॑ ह्रीत - मु॒खी । अ॒प॒ग॒ल्भ इत्य॑प - ग॒ल्भः । या । स्नाति॑ । तस्याः᳚ । अ॒फ्सित्य॑प् - सु । मारु॑कः । या ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 2.5.1.7 TS 2.5.1.7
ऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वद॒न्॒. या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बो या रज्जुꣳ॑ सृ॒जति॒ तस्या॑ उ॒द्-बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री᳚र्व्र॒तं च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ ( ) पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥
पदपाठः (Word-by-word)
अ॒भ्य॒ङ्क्त इत्य॑भि - अ॒ङ्क्ते । तस्यै᳚ । दु॒श्चर्मेति॑ दुः - चर्मा᳚ । या । प्र॒लि॒खत॒ इति॑ प्र - लि॒खते᳚ । तस्यै᳚ । ख॒ल॒तिः । अ॒प॒मा॒रीत्य॑प - मा॒री । या । आ॒ङ्क्त इत्या᳚ - अ॒ङ्क्ते । तस्यै᳚ । का॒णः । या । द॒तः । धाव॑ते । तस्यै᳚ । श्या॒वद॒न्निति॑ श्या॒व - द॒न्न् । या । न॒खानि॑ । नि॒कृ॒न्तत॒ इति॑ नि - कृ॒न्तते᳚ । तस्यै᳚ । कु॒न॒खी । या । कृ॒णत्ति॑ । तस्यै᳚ । क्ली॒बः । या । रज्जु᳚म् । सृ॒जति॑ । तस्याः᳚ । उ॒द्बन्धु॑क॒ इत्यु॑त् - बन्धु॑कः । या । प॒र्णेन॑ । पिब॑ति । तस्याः᳚ । उ॒न्मादु॑क॒ इत्यु॑त् - मादु॑कः । या । ख॒र्वेण॑ । पिब॑ति । तस्यै᳚ । ख॒र्वः । ति॒स्रः । रात्रीः᳚ । व्र॒तम् । च॒रे॒त् । अ॒ञ्ज॒लिना᳚ । वा॒ । पिबे᳚त् । अख॑र्वेण । वा॒ ( ) । पात्रे॑ण । प्र॒जाया॒ इति॑ प्र - जायै᳚ । गो॒पी॒थाय॑ ॥
पदसंख्या: 53