पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे पञ्चमः प्रपाठके प्रथमोनुवाकः )। (अग्नीषोमीयह विर्विध्युपोद्घातः)
यस्य निःश्वसितं वेदा यो वेदेभ्योखिलं जगत्।निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।
द्वितीयादिचतुर्थान्तैस्त्रिभिरेतैः प्रपाठकैः। उक्ताः काम्येष्टयः काण्डे द्वितीये परतस्तु यत्।।
आद्ये दर्शपूर्णमासमन्त्रव्याख्यानमीरितम्। विधयो मन्त्रसंबद्धा बहवः प्रतिपादिताः।।
तच्छेषविधयो वाच्या व्याख्येया होत्रमन्त्रकाः।*अतो नुब्राह्मणं त्वत्र वर्ण्यते पाठकद्वये।।
प्रपाठके पञ्चमेनुवाका द्वादश संस्थिताः। आध्वर्यवं पूर्वषट्के याज्या उत्तम ईरिताः।।
हौत्रमन्त्रविधिव्याख्यावारादिप्रायमन्तरे।अग्नीषोमीयहविषो विधिस्तत्राद्ययोर्द्वयोः।।
तत्र द्वितीयानुवाके पौर्णमासीगतमग्नीषोमीयपुरोडाशं विधित्सुस्तदुपोद्घातत्वेन प्रथमानुवाके कांचिदाख्यायिकामाह
"विश्वरूपो वै इति। विश्वानि बहुविधानि रूपाणि यस्यासौ विश्वरूपः। त्रिभिः शिरोभिरुपेतत्वाद्विश्वरूपत्वम्। या विश्वरूपनामकस्त्वष्टुः पुत्रः स देवानां पुरोहितो न तु शरीरसंबन्धी, असुराणां तु भागिनेयः। स च सात्विकेन शिरसा सोमं पिबति। राजसेनान्नमत्ति। तापसेन सुरां पिबति। स च यज्ञमण्डपेषु गत्वा सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा देवेभ्यो हविर्भागो युक्त इति वदति। सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा रहस्य ऋत्विग्भिः सहायं हविर्भागोसुरेभ्यो युक्तोतस्तानेवोद्दिश्य प्रयच्छतेति स एवं वदति। तेषामृत्विजां तस्मिन्परोक्षवादेविश्वास उत्पन्नः तस्य परोक्षवादस्य हृदयपूर्वकत्वात्। लोकेपि तवायं भाग इति सर्वस्मै पुरुषाय प्रीतिमुत्पादयितुं तत्समीपे सर्वे वदन्ति। हृदयपूर्वकत्वाभावान्न स उदितो भवति। परोक्षं यदर्थं तु भाग उच्यते तस्यैव भागो हृदयपूर्वकत्वादुदितो भवति। एवं वृत्तान्तं श्रुत्वा तस्माद्विश्वरूपादिन्द्रो बिभेत्। किमिति, (*प्रकृतब्राह्मणमिति ख. पुस्तकस्थपाठान्तरम्। )"
इंदृक्स्वामिद्रोहं सर्वथा कृत्वा राष्ट्रं विपर्यावर्तयतीति। अस्मत्तोपनीयासुरेभ्यसमर्पणं विपर्यावृत्तिः। ततस्तस्य द्रोहिण शिरःसु च्छिन्नेषु तानि शिरांसि पक्षिः त्रयरूपेणोत्पन्नानि। तस्येन्द्रस्य प्रत्यवायं जनापवादं च दर्शयति—
तस्याञ्जलिनेति। तस्यासुरस्य वधेन निष्पन्ना या ब्रह्महत्या तामञ्जालिना स्वी चकार। पापिनां शिक्षायामीश्वरेण नियुक्तानां यमचित्रगुप्तादीनां पुरतोञ्जलिंकृत्वा निर्भयः सन्ब्रह्महत्या मया बुद्धिपूर्वकमेव कृतेत्येवमङ्गी चकारेत्यर्थः। प्रायश्चित्तमकृत्वा संवत्सरं निरन्तरं ब्रह्महत्यामङ्गीकृत्यैव तस्थौ। आत्मतत्त्वज्ञानेः पापलेपाभावाद्भीत्यभावस्तस्य युक्तः। अत एव कौषीतकिन इन्द्रवाक्यमेतदामनन्ति “यन्मां हि विजानीयास्त्रीशीर्षाणं त्वाष्ट्रमहमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छ” इत्यादि। दुरिताभावेपि सर्वप्राणिनस्तमिन्द्रं ब्रह्महन्नित्येवं संबोध्याभितस्तस्याक्रोशं कृतवन्तः। ततस्तस्य जनापवादस्य परिहारायेन्द्रेणानुष्ठितमुपायविशेषं दर्शयति—
"स पृथिवीमिति। उपासीददुपेत्य प्रार्थितवान्। खातात्पराभविष्यन्तीमन्ये, जनाः स्वेच्छया तत्र तत्र भूमिं खनन्ति तदुपद्रवात्पराभूता पीडिता भविष्यामीति मनसा चिन्तयामि। खातप्रदेशः संपूरणमन्तरेण पांसुप्रक्षेपात्तृणाद्युत्पत्तेर्वापिरोहात्पुरितो भूयादिति वरः। तदिदमस्य वारेवृत्तमस्याः पृथिव्याः खातपूरणंवरेण लब्धम्। पृथिव्याः स्वीकृतस्तृतीयो ब्रह्महत्याया भागः स्वकृतमिरिणमभवत्। इतस्तत आनीय प्रक्षिप्तं न भवतीति स्वतःसिद्धमूषरक्षेत्त्रमासीत्। तस्पादिरिणं ब्रह्महत्यायाः स्वरूपं तस्मादाहिताग्निः श्रद्धादेवस्तस्मिन्निरिणे कदाचिदपि न तिष्ठेत्। यद्वा, देवयजनत्वेन नाध्यवस्येत्। श्रद्धैव देवो यस्यासौ श्रद्धावानित्यर्थः। एकस्य ब्रह्महत्याभागस्य परिहारोपायमुक्त्वापरस्य तं दर्शयति स वनस्पतीनिति। वृक्णाच्छेदनात्। आव्रश्चनाच्छिन्नप्रदेशाद्भूयांसो बह्वंकुरा उत्तिष्ठन्त्विति वरः। वृक्षान्निर्गत्य घनीभूत रसो निर्यासः। ब्रह्महत्याया स्वरूपत्वानिर्यासस्य स्वरूपं न भोज्यं भवति। अपि च पक्षान्तरमस्ति। न सर्वोपि निर्यासो निषिद्धः, किंतु यो लोहितवर्णो यश्च च्छिन्नवृक्षप्रदेशान्निर्गतस्तदेवोभयं निषिद्धम्। अन्यस्य तु निर्यासस्य स्वरूपमाश्यमिच्छायां सत्यामशितुं योग्यम्।
स इति ॥ त्रिषु ब्रह्महत्याभागेषु द्वयोः परिहारमुक्त्वा तृतीयस्यावशिष्टस्य परिहारं दर्शयति - 'स स्त्रीषसादमिति । स्त्रियः सम्यक्सीदन्ति विश्रम्भेणोपविशन्ति यस्यां सभायामिति स्त्रीसभाविशेषः स्त्रीषसादः । ऋत्वियात् ऋतुसंबन्धाद्वीर्यात्प्रथमसंभोगादेव गर्भे जातेऽपि काममुद्दिश्याविजनितोरा प्रसवात्पुरुषेण सङ्गच्छेमहि । गर्भोपद्रवः प्रत्यवायश्च निषिद्धदिनकृतोऽस्माकं मा भूदिति वरः । अत एव याज्ञवल्क्यस्मृतिः - 'यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन्' (याज्ञ.स्मृति. १-८१) इति । यो ब्रह्महत्यायास्तृतीयो भागः सा मलवद्वासा रजस्वला योषिदभवेत् । यस्मादियं ब्रह्महत्याया रूपं शरीरे कञ्चुकवत्प्रतिमुच्यास्ते तस्मात्तया सह संभाषणं न कुर्यात् । तया सहैकस्मिन्गृहे वासो न कर्तव्यः । तत्स्वामिकं तत्स्पृष्टं वान्नं नाश्नीयात् । अपि चाभिज्ञाः केचिदेवमाहुः - स्त्रियाः शृङ्गारोपयोगित्वेनाभ्याञ्जनमेवान्नस्थानीयं, तदीयं तैलादिकमेव न गृह्णीयात्, तया वा स्वशरीराभ्यञ्जनं न कारयेत् । अन्यदन्नं सत्यामिच्छायां भोक्तव्यमिति ॥
यामिति ॥ प्रसङ्गाद्रजस्वलाव्रतानि विधत्ते - यां मलवद्वाससमिति । अभिशस्तो मिथ्यापवादयुक्तः । यामरण्ये, 'मलावद्वासस संभवन्ति' इत्यनुवर्तते । पराचीमुच्चारणभीत्या लज्जया वा पराङ्मुखीम् । सभायामवाङ्मुखो वक्तुमशक्तो ह्रीतमुख्यपगल्भ इत्युच्यते । मारुको मरणशीलः । दुश्चर्मा कुष्ठी । प्रलिखते भित्तौ चित्रादिकं करोति । खलतिः केशशून्यः । अपमारी दुर्मरणयुक्तः । काणः कुण्ठिताक्षः । श्यावदन्मलिनदन्तः । कृणत्ति तृणादि च्छिनत्ति । उद्बन्धुको रज्जुं बद्ध्वा मरणशीलः । पर्णेन पानं भोजनस्याप्युपलक्षणम् । उन्मादुकः उन्मादशीलः । खर्वेण वह्निपक्वेन शरावादिना । खर्वो वामनः । यस्मादुक्ता दोषा वर्तन्ते तस्मात्तत्परिहाराय रजस्वलाव्रतं संभवादिवर्जनरूपं नियममाचरेत् । भोजनेऽञ्जलिरदग्धशरावादिर्वा साधनमस्तु । व्रताचरणमुत्पत्स्यमानायाः प्रजाया रक्षणार्थं भवति ॥
अत्र मीमांसा ।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् -
'न संवदेत मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः ॥' (जै.न्या. ३-४-२०)
दर्शपूर्णमासप्रकरणे श्रूयते - 'मलवद्वाससा न सं वदेत' (तै.सं. २-५-१) इति । अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वमिति चेन्न । अप्रसक्तप्रतिषेधप्रसङ्गात् । 'यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति । तामपरुध्य यजेत' (तै.ब्रा. ३-७-१) इति । रजस्वलाया निःसारणान्न क्रतौ संवादप्रसक्तिः । तस्मात्केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
द्वितीय काण्डे
पञ्चमप्रपाठकः ॥