पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डेपञ्चमप्रपाठके सप्तमोनुवाकः)। (हौत्रविवक्षया सामिधेनीव्याख्यानम्)
"अनुवाकैः षड्भिरेतैरार्घ्ववमुदीरितम्। अथोत्तेरैरनुवाककैर्हौवं विवक्षुरस्मिन्सप्तमेनुवाके तदनन्तरभाव्यष्टमे च सामिधेनीमन्त्रा व्याख्यायन्ते। ते च ब्राह्मणग्रन्थे तृतीयकाण्डे पच्चमप्रपाठके समान्नाताः। कल्पः (ल्पे) पुरस्तात्सामिधेनीना होतेत्युपक्रम्यान्तराहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्य इत्यादिकमुक्त्वा सत्यं प्रपद्य इति वेति पक्षान्तरमुक्तम्। तत्पाठस्तु सत्यं प्रपद्ये । ऋतं प्रपद्ये अमृतं प्रपद्ये। प्रजापतेः प्रिवां तनुवमनार्तां प्रपद्ये। इदमहं पञ्चदशेन वज्रेण। द्विषन्तं भ्रातृव्यमवक्रामाभि। योस्मान्द्वेष्टि। यं चं. वयं द्विष्मः। भूर्भुवः सुवः। हिम् (ब्रा. का. ३ प्र. ५ अ. १) इति। सत्यं यथार्थभूतमिदं कमं प्रपद्ये प्रारभे। अस्मित्कर्मणि वाचिकोपराधो मा भूदित्यर्थः। मनसा चिन्त्यमानमप्यृतं यथा भवति तथा प्रपद्ये। मानसोप्यपराधो मा भूदित्यर्थः। अमृतत्वहेतुभूतमिदं कर्म प्रपद्ये। अनेन कर्मणा देवत्वं प्राप्यतामित्यर्थः। देवेष्वप्यार्तिरहितां प्रजापतेः प्रियां तनुवं प्रजापति शरीरमिदं कर्म प्रपद्ये। इदमिति हस्तेनायिनयः। अहं होता पञ्चदशस्तोमसदृशेन वज्ररूपेणानेन कर्मणा द्विपन्तं शत्रुमवष्टभ्य पीडयामि। यः शत्रुरस्मान्मनसा द्वेष्टि यं च शत्रुं वयं मनसा द्विष्मस्तमुभयविधमेवक्रामामीति पूर्वत्रान्वयः। भूर्भूवः सुवरित्येतन्नामका लोकास्तान्हिनोमि प्रीणयामीत्यर्थः। कल्पः---- व्याहृतीरुक्त्वा त्रिरभिहिंकृत्यानवानमभिहिंक्रारादृचमुपसंदधाति प्र वो वाजा अभिद्यव इत्येकादशेमाः सामिधेन्यः इति। अनवानमुदछ्वसन्। तत्र प्रथमायाः पाठस्तु प्र वो वाजा अभिद्यवः। हविष्मन्तो घृताच्या। देवाञ्जिगाति सुन्नयुः। (ब्रा. का. ३ प्र. ५ अ. २) इति। हे देवा यो युष्मदीया ऋत्विग्यजमानाः प्रवर्तन्ते। वाजा गमनशीला मासा अभिद्यवोभितः पूर्वपक्षरूपेणोत्तरपक्षरूपेण च दीप्यमाना अर्धमासा हविष्मन्तो हविर्भाजो देवाश्च घृताच्या यागसाधनभूतघृतप्रदया गवा सहानुकूलाः प्रवर्तन्तामित्यध्याहारः। किंचायं यज्ञो देवाञ्जिगाति प्राप्नोतु। यजमानस्य सुम्नयुः सुखेच्छुर्भवतु। यदेतदुक्तं त्रिर्हिं करोतीति तदेतद्विधत्ते—देवा वै नर्चीति। देवाः पूर्वमृचि नाश्रयन्त यजुष्यपि नाश्रयन्त न संतुष्टा इत्यर्थः। किंतु सामन्येव संतुष्टाः। ततो हिमितिशब्दमुच्चारयेत्। तेन सामैव कृतं भवति। पञ्चकृत्वः सप्तकृत्वो वा साम्न आदौ हिंकारस्य विद्यमानत्वात्। तस्य हिमितिशब्दस्य त्रिरुच्चारणमभिप्रेत्य त्रिवारं विधिरनूद्य प्रशस्यते। यत्रैव देवा आश्रयन्त यत्रैव सामनि देवाः संतुष्टास्तत एव साम्न एनान्देवान्प्रयुङ्क्ते होता हिं कुर्वन्प्रकर्षेण तोषयतीत्यर्थः। प्रथमोच्चारणेन साम कृतं भवति। तथा द्वितीयोच्चारणेन वाचो योगः संपद्यते। सामाश्रयभूताया ऋग्रूपाया वाचः संबन्धः संवद्यत इत्यर्थः। तीयोच्चारणं यदस्ति तेन यजमानः प्रजा एव सृष्टवान्भवति। एकादशानां सामिधेनीनामाद्यन्तयोरावृत्तिं विधत्ते त्रिः प्रथमामिति। “प्र वो बाजा अभिद्यवः” इत्येषा प्रथमा। “आ जुहोत दुवस्यत” इति वा “त्वं वरुण उन मित्र” इति वा द्वयोरन्यतरोत्तमा। तत्तेन प्रथमोत्तमयोस्त्रिरभ्यासेन यज्ञस्य बर्समन्तभागान्नह्यति बध्नाति। यथालोके वस्त्रेण कम्बलेन वा ब्रीहीन्वोढुकामोऽन्तद्वयं बध्नाति तद्वत्। तच्च बन्धनं स्रंसनराहित्याय भवति। पूर्वस्यामृच्युत्तरार्धस्योत्तरस्यामृचि पूर्वार्धस्य च परस्पराविश्लेवं विधत्ते संततमन्वाहेति। तदेतत्संततोच्चारणं यजमानस्य प्राणानां संतत्वै भोज्यवस्तुसंतत्यै च संपद्यते। किंच राक्षसाः श्वासनिरोधेनापहता भवन्ति। यस्याः प्रथमाया आवृत्तिर्विहिता तां स्परूपेण विधत्ते राथंतरीमिति। कस्मिंश्चित्सामशाखाविशेषे ‘प्र वो वाजाः” इत्येत श्यामृचि रथंतरसाम्नो गीतत्वादियं राथंतरी। रथंतरसामयुक्ते कर्गणा संपादयितुं शक्यत्षाद्भूलोकस्य राथंतरत्वम्। यदुक्तं सूत्रकारेण-“तृतीयां सामिधेनीं त्रिर्विगृह्णाति” इति, तदेतद्विधत्ते त्रिर्वि गह्णातीति। तृतीयस्याः सामिधेन्याः प्रथमपादमुच्चार्य सकृद्विग्रहः कार्यः। अर्धर्चे द्वितीयो विग्रहः। तत उत्तरार्ध उपरितनमन्त्रस्य पूर्वार्धं च संयोज्य तदन्ते तृतीयो विग्रहः। एतेन विग्रहत्रयेण लोकत्रयजयो भवति। यस्यामृच्ययं त्रिविधो विग्रहस्तामृचं विधत्ते बार्हतीमृत्तमामिति। य (अ) स्यामृचि बृहच्छोचा यविष्ठ्येतिशब्दस्यश्रूयमाणत्वादियं बार्हती। सा च तृतीयेति कृत्वा प्रथममध्यमापेक्षयोत्तमा। तथा सत्युत्तमामन्वाहेत्युक्ते तृतीयात्वेन पठेदित्यर्थो भवति। एतन्मन्त्रोपेतकर्मसाध्यत्वात्स्वर्गलोकस्य बार्हतत्वम, "
"प्रथमायामृचि देवतादिविशेषाभिव्यक्त्यभावं प्रशंसति प्र वो वाजा इति। कस्याषि देवविशेषस्य निरुक्तं नामविशेषकथनं तत्र नास्ति सेयमनिरुक्ता। प्रजापतिश्च सृष्टेः प्राग्रूपविशेषाभावादनिरुक्तः। अत इयं प्राजापत्या। यज्ञश्च प्रजापतिसृष्टत्वात्तत्स्वरूपः। तस्मात्प्राजापत्यमन्त्रस्य प्रथमपाठेन यज्ञरूपमेव प्रजापतिं प्रारब्धवान्भवति। अस्मिन्मन्त्रे वाजशब्दोच्चारणं प्रशंसति प्र वो वाजा इति। तथात्र प्रशब्दोच्चारणं प्रशंसति प्र वो वाजा इति। यस्मात्प्रशब्द उच्चारितस्तस्मात्प्राचीनं प्रमुखे रेतोवर्तिनि योषिच्छरीरेञ्चति गच्छतीति प्राचीनं, तथाविधं रेतो धीयते गर्भाशये स्थाप्यते। एतस्य मन्त्रस्य चरमपादेन सहोत्तरस्य मन्त्रस्य प्रथमपादोच्चारणं प्रशंसति अग्न आ याहीति। यस्मादायाहीत्युक्तं तस्मात्प्रतीचीः प्रत्यङ्मुखाः सदृशाः प्रजा उत्पद्यन्ते। मन्त्रगतानां पदानामर्थान्दशंयति प्र वो वाजा इति। वजन्ति गच्छन्ति क्रमेण प्रवर्तन्त इति चैत्रादिमासा वाजाः। इदमेव ब्राह्मणवार्क्य हृदि निधाय मन्त्रार्थः पूर्वं दर्शितः। पदार्थानभिधाय मन्त्रतात्पर्यार्थमाह इदमसीति। सामिधेनीभिः समिध्यमान हेग्ने त्वमिदं मासानां स्वरूपमसि, अर्धगासानां स्वरूपमसि, देवानां स्वरूपमसीत्येव तात्पर्यार्थः। अनेन तात्पर्येण यज्ञस्य प्रियं धामाहुतिस्थानमिध्यमानाग्निस्वरूपं संपादितवान्भवति। यदुक्तं संततमन्वाह प्राणानामन्नाद्यस्य संतत्यै, इति, तदेवेदानीं काम्यत्वेनापि विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्य होता कामयते। किमिति अयं यजमानो मृत्युरहितः सर्वमायुः प्राप्नुयादिति, तस्य यजमानस्यायुष्प्राप्तये प्रथमां सामिधेनीं सर्वामनूच्य विच्छेदमकृत्वोत्तरमन्त्रस्य प्रथममर्घर्चमुमक्रमेत। तेन सांतत्येनास्य यजमानस्य प्राणवायुना बह्रिर्निर्गच्छता सहैवापानवायुं पुनरप्यन्तरागच्छन्तं धारितवान्भवति। तेन च धारणेन सर्वमायुः प्राप्नोति।"
तदेव सांतस्यं पुनः प्रकारान्तरेण प्रशंसति यो वा अरत्निमिति। कूर्परमारभ्य प्रसारितकनिष्ठाङ्गुलिपर्यन्तो हस्तभागोरत्नि। न च तस्यारत्नेर्मध्ये विच्छादोस्ति तद्वदुभयोः सामिधेन्योर्मध्ये सांतत्यमरत्नित्वेनोपचर्यते। यो होता तदिदं सांतत्यं विदित्वानुतिष्ठति स होता भ्रातृव्यं यजमानस्यारत्नौ स्थापयति। चतुररत्निपरिमितस्य पुरुषस्यारत्निमात्रपरिमितो बालो यथा नीचो भवति तद्वदमुं कुरुत इत्यर्थः। य एवं वेदेति पुनरभिधानं प्रतिज्ञातस्य निगमनार्थम्। तदेव सांतत्यं विपक्षबाधकोपन्यासपुरःसरं पुनः प्रशंसति ऋषेर्ऋषेर्वा इति। ऋषिरतीन्द्रियस्य द्रष्टा। तादृश ऋषिरेकैकां सामिधे नीमीश्वरानुग्रहेण दृष्ट्वा तत्संप्रदायपरम्परां निर्मितवान्। अत एव स्मर्यत युगान्तेन्तर्हितान्वेदान्तेतिहासान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा।। इति। तथा सति भिन्नेभ्यऋषिभ्यः प्रवर्तितास्ताः सामिधेन्यो यद्यसंयुक्ता भवेयुस्तदानीं यजमानस्य प्रजया पशुभिरेताः सामिधेन्यो वितिष्ठरन्वियुक्तास्तिष्ठेयुः। प्रजापशुसमृद्धिहेतवो न भवेयुरित्यर्थः। तत्परिहाराय पूर्वस्याः सामिधेन्या उत्तरार्धमुत्तरस्याः सामिधेन्याः पूर्वार्धं च संदध्यात्। तथा सत्येनाः सामिधेनीः संयोजितवानेव भवति। न चैवमेकस्यामपि सामिधेन्यां पूर्वोत्तरार्धर्चौ संघातव्याविति शङ्कनीयम्। तयोरेकर्षिप्रवर्तितत्वेन होतृप्रयुक्तसंधानमन्तरेणापि स्वरूपतो वियोगाभावात्। यथोक्तरीत्या संयुक्तास्ताः सामिधेन्यो यजमानाय सर्वामाशिषं दुहूवे दुहन्ति संपादयन्ति।
नवमाध्यायस्य प्रथमपादे चिन्तितम् त्रिरत्र किमृचो धर्मः स्थानधर्मोथवादिमः। सत्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः।। दर्शपूर्णमासयोः सामिधेनीः प्रकृत्य श्रूयते----‘त्रिः प्रथमामन्वाह’ इति। सोयं त्रिरभ्यास आदौ पठितस्य प्र वो वाजा इत्यृग्विशेषस्य धर्मः। कुतः। प्राथमामित्यस्य स्त्रीलिङ्गत्वादृक्परत्वोपपत्तेरिति चेन्नेतद्युक्तम्। स्त्रीलिङ्गवाचिनष्टाप्प्रत्ययादपि पूर्व पठितस्य स्थानवाचिनः प्रथमेत्यस्य प्रातिपदिकस्य प्रवलत्वात्। अतो विकृतिष्वप्यन्यस्या अप्यृचः प्रथमस्थानपठितायास्त्रिरभ्यासः कर्तव्यः। स्थानांन्तरे पठितायाः प्र वो वाजा इत्यस्या अप्यृचो नाभ्यासः।।
सप्तमोनुवाकः।। ७ ।।