उ॒पस्थे॒ विश्वा᳚न्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒ऽभि शू॑शुचो॒ऽन्तर॑स्याꣳ शु॒क्रज्यो॑ति॒र्वि भा॑हि ॥ अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वꣳ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ॥ शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वं । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां ॅयोनि॑मि॒हाऽऽ स॑दः ॥ हꣳ॒॒सः शु॑चि॒ष ( ) द्वसु॑रन्तरिक्ष॒-सद्धोता॑ वेदि॒षदति॑थि र्दुरोण॒सत् । नृ॒षद्व॑र॒सद् ऋ॑त॒सद् व्यो॑म॒सद् अ॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥
पदपाठः (Word-by-word)
उ॒पस्थ॒ इत्यु॒प - स्थे॒ । विश्वा॑नि । अ॒ग्ने॒ । व॒युना॑नि । वि॒द्वान् ॥ मा । ए॒ना॒म् । अ॒र्चिषा᳚ । मा । तप॑सा । अ॒भीति॑ । शू॒शु॒चः॒ । अ॒न्तः । अ॒स्या॒म् । शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र-ज्यो॒तिः॒ । वीति॑ । भा॒हि॒ ॥ अ॒न्तः । अ॒ग्ने॒ । रु॒चा । त्वम् । उ॒खायै᳚ । सद॑ने । स्वे ॥ तस्याः᳚ । त्वम् । हर॑सा । तपन्न्॑ । जात॑वेद॒ इति॒ जात॑-वे॒दः॒ । शि॒वः । भ॒व॒ ॥ शि॒वः । भू॒त्वा । मह्य᳚म् । अ॒ग्ने॒ । अथो॒ इति॑ । सी॒द॒ । शि॒वः । त्वम् ॥ शि॒वाः । कृ॒त्वा । दिशः॑ । सर्वाः᳚ । स्वाम् । योनि᳚म् । इ॒ह । एति॑ । अ॒स॒दः॒ ॥ हꣳ॒॒सः । शु॒चि॒षदिति॑ शुचि - सत् ( ) । वसुः॑ । अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् । होता᳚ । वे॒दि॒षदिति॑ वेदि - सत् । अति॑थिः । दु॒रो॒ण॒सदिति॑ दुरोण - सत् ॥ नृ॒षदिति॑ नृ - सत् । व॒र॒सदिति॑ वर-सत् । ऋ॒त॒सदित्यृ॑त-सत् । व्यो॒म॒सदिति॑ व्योम-सत् । अ॒ब्जा इत्य॑प्-जाः । गो॒जा इति॑ गो-जाः । ऋ॒त॒जा इत्यृ॑त - जाः । अ॒द्रि॒जा इत्य॑द्रि - जाः । ऋ॒तम् । बृ॒हत् ॥