प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.2.10.3 TS 4.2.10.3
हिꣳ॑सीः पर॒मे व्यो॑मन्न् । ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ वरू᳚त्रिं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाꣳ रज॑सः॒ पर॑स्मात् । म॒हीꣳ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हिꣳ॑सीः पर॒मे व्यो॑मन्न् ॥ इ॒मामू᳚र्णा॒युं ॅवरु॑णस्य मा॒यां त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदां । त्वष्टुः॑ प्र॒जानां᳚ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हिꣳ॑सीः पर॒मे व्यो॑मन्न् । उष्ट्र॑मार॒ण्यमनु॑ - [ ]
पदपाठः (Word-by-word)
हिꣳ॒॒सीः॒ । प॒र॒मे । व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् ॥ ग॒व॒यम् । आ॒र॒ण्यम् । अन्विति॑ । ते॒ । दि॒शा॒मि॒ । तेन॑ । चि॒न्वा॒नः । त॒नुवः॑ । नीति॑ । सी॒द॒ ॥ वरू᳚त्रिम् । त्वष्टुः॑ । वरु॑णस्य । नाभि᳚म् । अवि᳚म् । ज॒ज्ञा॒नाम् । रज॑सः । पर॑स्मात् ॥ म॒हीम् । सा॒ह॒स्रीम् । असु॑रस्य । मा॒याम् । अग्ने᳚ । मा । हिꣳ॒॒सीः॒ । प॒र॒मे । व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् ॥ इ॒माम् । ऊ॒र्णा॒युम् । वरु॑णस्य । मा॒याम् । त्वच᳚म् । प॒शू॒नाम् । द्वि॒पदा॒मिति॑ द्वि - पदा᳚म् । चतु॑ष्पदा॒मिति॒ चतुः॑ - प॒दा॒म् ॥ त्वष्टुः॑ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒थ॒मम् । ज॒नित्र᳚म् । अग्ने᳚ । मा । हिꣳ॒॒सीः॒ । प॒र॒मे । व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् ॥ उष्ट्र᳚म् । आ॒र॒ण्यम् । अन्विति॑ ।
पदसंख्या: 50