प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.2.7.3 TS 4.2.7.3
धी॒तिभि॑र्.हि॒तः । त्वे इषः॒ सं द॑धु॒-र्भूरि॑रेतस-श्चि॒त्रो त॑यो वा॒मजा॑ताः ॥ पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्.षि भा॒नुना᳚ । पु॒त्रः पि॒तरा॑ वि॒चर॒न्नुपा॑वस्यु॒भे पृ॑णक्षि॒ रोद॑सी ॥ ऋ॒तावा॑नं महि॒षं ॅवि॒श्वच॑र्.षणिम॒ग्निꣳ सु॒म्नाय॑ दधिरे पु॒रो जनाः᳚ । श्रुत्क॑र्णꣳ स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥ नि॒ष्क॒र्तार॑-मद्ध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तꣳ॒॒ राध॑से म॒हे । रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुं पृ॒णक्षि॑ सान॒सिꣳ - [ ]
पदपाठः (Word-by-word)
धी॒तिभि॒रिति॑ धी॒ति-भिः॒ । हि॒तः ॥ त्वे इति॑ । इषः॑ । समिति॑ । द॒धुः॒ । भूरि॑रेतस॒ इति॒ भूरि॑ - रे॒त॒सः॒ । चि॒त्रोत॑य॒ इति॑ चि॒त्र - ऊ॒त॒यः॒ । वा॒मजा॑ता॒ इति॑ वा॒म - जा॒ताः॒ ॥ पा॒व॒कव॑र्चा॒ इति॑ पाव॒क - व॒र्चाः॒ । शु॒क्रव॑र्चा॒ इति॑ शु॒क्र - व॒र्चाः॒ । अनू॑नवर्चा॒ इत्यनू॑न - व॒र्चाः॒ । उदिति॑ । इ॒य॒र्॒.षि॒ । भा॒नुना᳚ ॥ पु॒त्रः । पि॒तरा᳚ । वि॒चर॒न्निति॑ वि-चरन्न्॑ । उपेति॑ । अ॒व॒सि॒ । उ॒भे इति॑ । पृ॒ण॒क्षि॒ । रोद॑सी॒ इति॑ ॥ ऋ॒तावा॑न॒मित्यृ॒त - वा॒न॒म् । म॒हि॒षम् । वि॒श्वच॑र्.षणि॒मिति॑ वि॒श्व - च॒र्॒.ष॒णि॒म् । अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः᳚ ॥ श्रुत्क॑र्ण॒मिति॒ श्रुत्-क॒र्ण॒म् । स॒प्रथ॑स्तम॒मिति॑ स॒प्रथः॑-त॒म॒म् । त्वा॒ । गि॒रा । दैव्य᳚म् । मानु॑षा । यु॒गा ॥ नि॒ष्क॒र्तार॒मिति॑ निः - क॒र्तार᳚म् । अ॒द्ध्व॒रस्य॑ । प्रचे॑तस॒मिति॒ प्र - चे॒त॒स॒म् । क्षय॑न्तम् । राध॑से । म॒हे ॥ रा॒तिम् । भृगू॑णाम् । उ॒शिज᳚म् । क॒विक्र॑तु॒मिति॑ क॒वि - क्र॒तु॒म् । पृ॒णक्षि॑ । सा॒न॒सिम् ।
पदसंख्या: 50