कस्त्वा᳚ च्छ्यति॒ कस्त्वा॒ वि शा᳚स्ति॒ कस्ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता क॒विः ॥ ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ विशा॑सतु । सं॒ॅव॒थ्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा ॥दैव्या॑ अद्ध्व॒र्यव॑स्त्वा॒ च्छ्यन्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ शिमाः᳚ कृण्वन्तु॒ शिम्य॑न्तः ॥अ॒र्द्ध॒मा॒साः परूꣳ॑षि ते॒ मासाः᳚ छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टꣳ - [ ]
पदपाठः (Word-by-word)
कः । त्वा॒ । छ्य॒ति॒ । कः । त्वा॒ । वीति॑ । शा॒स्ति॒ । कः । ते॒ । गात्रा॑णि । शि॒म्य॒ति॒ ॥ कः । उ॒ । ते॒ । श॒मि॒ता । क॒विः ॥ ऋ॒तवः॑ । ते॒ । ऋ॒तु॒धेत्यृ॑तु - धा । परुः॑ । श॒मि॒तारः॑ । वीति॑ । शा॒स॒तु॒ ॥ सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । धाय॑सा । शिमी॑भिः । शि॒म्य॒न्तु॒ । त्वा॒ ॥ दैव्याः᳚ । अ॒द्ध्व॒र्यवः॑ । त्वा॒ । छ्यन्तु॑ । वीति॑ । च॒ । शा॒स॒तु॒ ॥ गात्रा॑णि । प॒र्व॒श इति॑ पर्व - शः । ते॒ । शिमाः᳚ । कृ॒ण्व॒न्तु॒ । शिम्य॑न्तः ॥ अ॒द्र्ध॒मा॒सा इत्य॑द्र्ध - मा॒साः । परूꣳ॑षि । ते॒ । मासाः᳚ । छ्य॒न्तु॒ । शिम्य॑न्तः ॥ अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । म॒रुतः॑ । विलि॑ष्ट॒मिति॒ वि - लि॒ष्ट॒म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ अश्वं विशसति कस्त्वाछ्यतीत्यनुवाकेन ॥ अयमपि सर्व आनुष्टुभोनुवाकः । प्रथमा गायत्री । कः प्रजापतिः स एव त्वा छ्यति छिनत्ति स एव योग्य इति । छो छेदने, 'ओतश्श्यनि' इत्योकारलोपः । क एव त्वां विशास्ति विशसतीत्यनया भूयुक्तं करोति । विपूर्वश्शास्तिर्विशसने । यद्वा - शसु हिंसायां इत्यस्य 'बहुलं छन्दसि' इति शपो लुक्, वर्णव्यत्ययेन अकारः । क एव ते तव गात्राणि शिम्यति शमयति सुखेन विशसति । यद्वा - अविनाशेन अङ्गानि विशस्य स्थापयति । यस्मादेवं तस्मात् क एव शमिता शमयिता कविः मेधावी अवयवविभागज्ञः । 'शमिता यज्ञे' इति ण्यन्तस्य निपात्यते ॥
2 अथ द्वितीया - ऋतवो वसन्तादयः ते तव शमितारो भूत्वा ऋतुधा ऋतावृतौ तत्तदृत्वनुरूपं कालेकाले वा । वीप्सायां छान्दसो धाप्रत्ययः । परुः परूंषि पर्वाणि विशासतु विशसन्तु । यद्वा - परुरिति वीप्स्यते । परुः पर्वविभागेनेत्यर्थः । संवत्सरस्य धायसा साधारण्येन तदधीनत्वात्तेषां शिमीभिः विशसनकर्मभिः हविर्भागादानसमर्थाभिः शिम्यन्तु ऋतवः । 'वहिहाधाम्नीभ्यः छन्दसि' इति दधातेरसुन् । णिदिति हि तत्रानुवर्तते । शिम्यतेः 'इन् सर्वधातुभ्यः' इतीन्प्रत्ययः, छान्दसं दीर्घत्वम् ॥
3 तृतीया - दैव्याः दिव्याः । 'देवाद्ययञौ' इति यञ् । अध्वर्युः अध्वरस्य नेता । क्यचि 'कव्यध्वरपृतनस्यर्चि' इति लोपः 'क्याच्छन्दसि' इति उप्रत्ययः । त्वा छ्यन्तु संविशसन्तु च । ते तव गात्राणि पर्वशः । 'संख्यैकवचनाच्च' इति शस् । विशसनसमर्थाः ते दैव्या अध्वर्यवः शिम्यन्तः शमयन्तः कृण्वन्तु पर्वशः कुर्वन्तु ॥
4 चतुर्थी - अर्धमासाः परूंषि पर्वाणि पूर्णमासादयो मासाश्च छ्यन्तु छेदनेन त्वा हविः कुर्वन्तु शिम्यन्तः शमयन्तः । यद्वा - अर्धमासाश्च तव परूंषि अवयवान् शिम्यन्तु छ्यन्तु अहोरात्राणि मरुतश्च ते विलिष्टं विनाशितं विश्लिश्टं वा सूदयन्तु क्षारयन्तु स्वादुकुर्वन्तु वा । यद्वा - यद्विलिष्टं यागायोग्यं यद्विरूपं विशसितं तद्विनाशयन्तु ॥
5 पञ्चमी - पृथिवी अन्तरिक्षेण सहितो वायुश्च तव छिद्रं विनष्टं भिषज्यतु अविनष्टं करोतु । द्यौरपि नक्षत्रैस्सह तव रूपं कृणोतु साधु । द्वितीयाया याजादेशः । यागासाधनं कुर्वन्त्विति ॥
6 षष्ठी - ते तव परेभ्यो गात्रेभ्यः हविष्ट्वं प्रतिपाद्यमानेभ्यः शं सुखमस्तु । अवरेभ्यः हविष्ट्वं प्रतिपाद्यमानेभ्यश्च शमस्तु । अस्थभ्यः अस्थिभ्यश्च शमस्तु । 'छन्दस्यपि दृश्यते' इत्यनङ् । मज्जभ्यश्च शमस्तु । किं बहुना ते तव तनुवः शरीरस्य शं सुखमेव भुवत् भवतु । तनूशब्द ऊकारान्तोप्यस्ति । भवतेर्लेट् 'बहुलं छन्दसि' इति शपो लुक् 'लेटोडाटौ' इत्यडागमः 'भूसुवोस्तिङि' इति गुणाभावः ॥
इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये पञ्चमे काण्डे द्वितीयप्रश्ने द्वादशोनुवाकः ॥
समाप्तो द्वितीयप्रपाठकः ॥
……………………………………………………………………………………………………………
प्रश्नः-3