पञ्चशत् 1 #
रु॒द्रो वा ए॒ष यद॒ग्निः स ए॒तर्.हि॑ जा॒तो यर्.हि॒ सर्व॑श्चि॒तः स यथा॑ व॒थ्सो जा॒तः स्तनं॑ प्रे॒फ्सत्ये॒वं ॅवा ए॒ष ए॒तर्.हि॑ भाग॒धेयं॒ प्रेफ्स॑ति॒ तस्मै॒ यदाहु॑तिं॒ न जु॑हु॒याद॑द्ध्व॒र्युं च॒ यज॑मानं च ध्यायेच्छतरु॒द्रीयं॑ जुहोति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑त्यद्ध्व॒र्युर्न यज॑मानो॒ यद् ग्रा॒म्याणां᳚ पशू॒नां - [ ]
पदपाठः (Word-by-word)
रु॒द्रः । वै । ए॒षः । यत् । अ॒ग्निः । सः । ए॒तर्.हि॑ । जा॒तः । यर्.हि॑ । सर्वः॑ । चि॒तः । सः । यथा᳚ । व॒थ्सः । जा॒तः । स्तन᳚म् । प्रे॒फ्सतीति॑ प्र - ई॒फ्सति॑ । ए॒वम् । वै । ए॒षः । ए॒तर्.हि॑ । भा॒ग॒धेय॒मिति॑ भाग-धेय᳚म् । प्रेति॑ । ई॒फ्स॒ति॒ । तस्मै᳚ । यत् । आहु॑ति॒मित्या-हु॒ति॒म् । न । जु॒हु॒यात् । अ॒द्ध्व॒र्युम् । च॒ । यज॑मानम् । च॒ । ध्या॒ये॒त् । श॒त॒रु॒द्रीय॒मिति॑ शत - रु॒द्रीय᳚म् । जु॒हो॒ति॒ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । ए॒व । ए॒न॒म् । श॒म॒य॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । अ॒द्ध्व॒र्युः । न । यज॑मानः । यत् । ग्रा॒म्याणा᳚म् । प॒शू॒नाम् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 रुद्रो वा एष इत्यादि ॥ शतरुद्रीयहोमविधिः । रुद्र एव स्वयमेषोग्निः तस्य तनुत्वात् । स रुद्रः एतस्मिन्काले जातः प्रादुर्भूतो भवति यदा सर्वोग्निश्चितो भवति । स इदानीं सन्निधत्ते । सन्निहितश्च स एष एतर्हि इदानीमेव । 'एतेतौ रथोः' इति एतादेशः । भागधेयं प्रेप्सति प्राप्तुमिच्छति यथा वत्सो जातो जातमात्र एव स्तनं प्रेप्सति । वत्सदृष्टान्तो विळम्बना । सर्वत्र अनद्यतनेर्हिः । तस्मै यदाहुतिमिदानीमेव जुहुयात् अध्वर्युं च यजमानं च ध्यायेत् भक्षणीयत्वेन । तस्माच्छतरुद्रीयं जुहोति रुद्रायेति । अन्य आहुः - 'रुद्रो वा एष यत्' इत्यग्नेः रुद्रत्वेन स्तुतिः । स तादृशोग्निरेतस्मिन् काले जात इति । स यथेत्याद्यग्निविषये । तस्माद्रुद्रात्मने शतरुद्रीयं जुहोति । नानास्वभावा रुद्राः शतरुद्रा देवस्येच्छातनवो देवता अस्येति शतरुदीयम् । 'शतरुद्राच्छ च' इति छः । 'नमस्ते रुद्र मन्यवे' इत्यारभ्य एकादशानुवाकाः । तत्र प्रथममनुवाकं निगद्य द्वितीयं तृतीयं चतुर्थस्य यत्राभिजानाति 'नमः क्षत्तृभ्यः' इति तत्स्वाहाकरोति । ततस्सङ्ग्रहीतृभ्यः प्रतिपद्य शिष्टमनुवाकस्य निगद्य पञ्चमं षष्ठं सप्तमस्य यत्राभिजानाति 'नमो वर्ष्याय च' इति तत्स्वाहाकरोति । यथा 'वर्ष्याय च' इति प्रतिपद्य शिष्टमनुवाकस्य निगद्य अष्टमं नवमं दशममेकादशस्य च यत्राभिजानाति 'य एतावन्तश्च' इति तत्स्वाहाकरोति । एवं तिस्र आहुतयः । अथ 'नमो रुद्रेब्यो ये पृथिव्यां ये अन्तरिक्षे ये दिवि' इति तिस्र उत्तरा आहुतयः । एवमेतेन शतरुद्रीयहोमेन स्वयं देवः शमितो भवति आत्मीयभागलाभात् । ततोध्वर्युर्यजमानश्च आर्तिं न गच्छतः ॥
2 यदित्यादि ॥ ग्राम्याः पशवः उक्ताः गवादयः आरण्याश्च सिंहादयः । यदारण्यानामिति । पशूनां पयसा जुहुयादित्येव । आरण्यानिति । पशूञ्छुचा अर्पयेदित्येव च । जर्तिलाः कृष्णतिलाः गवीधुकाः तृणतण्डुला नाम । अनाहुतिरिति । तत्सादृश्यात् ताच्च्छब्द्यम् । अनाहुतिसादृश्यं च अजक्षीरापेक्षया निकृष्टत्वात् ॥
3 अजक्षीरेणेति ॥ 'ङ्यापोस्संज्ञाछन्दसोः' इति ह्रस्वत्वम् । आग्नेयीति । अग्निना सहोत्पन्नोजः । 'सर्वत्राग्निकलिभ्याम्' इति ढक् । आहुत्यैवेति । आहुतियोग्यद्रव्यमाहुतिः । कर्मणि क्तिन् । योग्यत्वं च तस्य आग्नेयत्वात् । तादृशेन द्रव्येण होमश्च कृतो भवति । ग्राम्यारण्यपशुहिंसा न कृता भवाति ॥
4 अङ्गिरस इत्यादि ॥ घर्मं प्रवर्ग्यं अजायां प्रासिञ्चन् । सा शोचन्ती तप्यमाना पर्णं पापरोगं पराजिहीत त्यक्तवती । सोर्कोऽभवत् । अर्कत्वमिति । अर्चनीयः प्रशस्तोग्निः । कर्मणि घञि कुत्वम् । तस्मादर्कपर्णेन जुहोतीति विधिः । सयोनित्वाय क्षीरपर्णयोरजाग्नियोनित्वात् ॥
5 उदङिति ॥ 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । स्वायामेवेति । स्वस्यामेव दिशि निष्कृष्य पृथक्त्वेन रुद्रं यजते यागदानादिषु । चरमायामिति । उत्तरपक्षे पश्चिमोत्तरकोणायत्ये ष्टकायाः । अन्तत इति । सर्वान्ते निष्कृष्य स्वातन्त्र्येण यजते ॥
6 त्रेधेति ॥ एकत्रिभागः षण्णवतिः मन्त्राः । तद्यथा - प्रथमोनुवाकः पञ्चदश । द्वितीयः षड्विंशतिः । तृतीयश्चतुस्त्रिंशत् । चतुर्थस्य 'नमः क्षत्तृभ्य' इतियावत् एकविंशतिरिति षण्णवतिः । अथ चतुर्थे शेषे त्रयोदश । पञ्चमषष्ठौ षष्ठिः । सप्तमस्य च यावान् 'नमो वर्ष्याय च' इति त्रयो विंशतिरिति षण्णवतिः । अथ - सप्तमस्य शेषे नव । अष्टमो द्वात्रिंशत् । नवमः त्रयस्त्रिंशत् । दशमो वा द्वादश । अन्त्यस्य च 'नमो रुद्रेभ्यः' इत्यतः प्राक् दश । एवं षण्णवतिः । समावद्वीर्यान् समवीर्यान् । 'समादावतुप्' इति स्वार्थे वतुप् ॥
7 इयतीति ॥ जान्वादिप्रमाणं विशेषप्रतिपादनार्थमिदम् । प्रमाणसामान्यमिदं प्रमापरिमाणयोर्भेदस्य अविवक्षितत्वात् । परिमाणप्रत्ययान्तेन प्रमाविशेषाणां सामान्याभिधानम् । 'किमिदम्भ्यां वो घः' इति घः, 'यस्य' इति लोपे इकारनिवृत्तिस्वरेण इकार उदात्तः । अथ शब्दक्रममाह - लोकत्रयप्रसिद्ध्यर्थं जानुदघ्ने आकाशप्रदेशे धारयन् प्रथमामाहुतिं जुहोति । अथ नाभिदघ्ने धारयन् द्वितीयाम् । अथ ग्रीवदघ्ने धारयन् तृतीयामिति । एभ्य इति । लोकत्रयार्थम् । शमयति धनपरमध्वर्युः यजमानार्थमेवेति ॥
8 तिस्र इति ॥ 'नमो रुद्रेभ्यः' इत्यादिभिः समासेन । षडित्यादि गतम् ॥
9 यादित्यादि ॥ उक्तमेकर्त्र तिष्ठता होतव्यमिति । इदानीं पक्षान्तरं दूपयित्वा स्थापयति तत् । अनुक्रमेण दिक्षु परिक्रम्य तत्र तत्र गतं रुद्रं शमयितुं जुहुयात् । एवं क्रियमाणे रुद्रो'ऽन्तःप्रविश्यापचारमनुधावनार्थं अवतु । सार्वत्रिकेणानेन शमनस्य सार्वत्रिकत्वं प्रतिपाद्यत इति । आभीक्ष्ण्ये णमुल् । अपरिवर्गमिति । छान्दसो घमुञ् ॥
10 एता वा इति ॥ एता उत्तमा नमो 'रुद्रेभ्यः' इति । आद्युदात्तत्वम् । मन्त्रप्रतिपाद्या देवताः ता एताः स्वर्गावाप्तिनिमित्तभूताः । 'गोद्व्यचः' इति यत् । ता इति । गतम् ॥
11 यं द्विष्यादिति ॥ द्वेष्यस्य पशूनां संचरे संचरणदेशे अर्कपर्णे । न्यस्येदित्यादि । गतम् ॥
इति पञ्चमे चतुर्थे तृतीयोनुवाकः ॥