पञ्चशत् 1 #
उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनं॑ ॅय॒ते॑ऽव॒सं क॒रोति॑ ता॒दृगे॒व तत् ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒-वाग्निस्तस्मै॑ भाग॒धेयं॑ करो॒त्यौदु॑म्बरी-र्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णै - [ ]
पदपाठः (Word-by-word)
उदिति॑ । ए॒न॒म् । उ॒त्त॒रामित्यु॑त् - त॒राम् । न॒य॒ । इति॑ । स॒मिध॒ इति॑ सं - इधः॑ । एति॑ । द॒धा॒ति॒ । यथा᳚ । जन᳚म् । य॒ते । अ॒व॒सम् । क॒रोति॑ । ता॒दृक् । ए॒व । तत् । ति॒स्रः । एति॑ । द॒धा॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै । अ॒ग्निः । यावान्॑ । ए॒व । अ॒ग्निः । तस्मै᳚ । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । क॒रो॒ति॒ । औदु॑बंरीः । भ॒व॒न्ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्ज᳚म् । ए॒व । अ॒स्मै॒ । अपीति॑ । द॒धा॒ति॒ । उदिति॑ । उ॒ । त्वा॒ । विश्वे᳚ । दे॒वाः । इति॑ । आ॒ह॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । विश्वे᳚ । दे॒वाः । प्रा॒णैरिति॑ प्र - अ॒नैः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 'उदेनं' इत्यादितिसृभिस्तिस्रः आदधाति ॥ यथेति । यथा द्रष्टव्यं जनं यते गच्छते अवसं रक्षणार्थं पाथेयादिकं करोति तत्तुल्यम् ॥
2 तिस्र इत्यादि ॥ गतम् । 'उदात्तयणः' इति तिसृभ्यो विभक्तिरुदात्ता । त्रेधाविहितेष्टकत्वात् त्रिवृत्त्वमग्नेः ॥
3 'उदुत्वा विश्वे देवाः' इति षड्भिरग्निमुद्यच्छते । ननु कथमुक्तं - षड्भिरग्निमुद्यच्छते इति उद्यमनस्य नियताङ्गत्वात् दोषः । द्वे परिगृह्यवती परिगृह्यशब्दवत्यौ द्वे ऋचौ द्वितीयचतुर्थ्यौ 'रायस्पोषे अधि यज्ञः' 'ऊर्जा यद्यज्ञम्' इति च । एवं हरणसामर्थ्यप्रख्यापनार्थं छत्रिन्यायेन सर्वासां परिगृह्यवत्त्वख्यापनमभिप्रेतम् । तेन देवैः परिगृहीतवत्ववचनाद्रक्षांसि बाधितुं प्रभवति ॥
4 देवासुरा इति ॥ अप्रतिरथ्यं नाम 'आशुश्शिशानः' इत्यादिकं दशर्चं सुक्तमाम्नानक्रमं विहाय प्रागेवेदं विनियुङ्क्ते । अप्रतीति । प्रतिपक्षो यत्र नास्ति तदप्रतीति क्रियाविशेषणम् । यथा न कश्चित्प्रतीपश्शिष्यते तथा असुरानजयत् । बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - अतिकल्पम् । 'सुप्रतिनामात्रार्थे' इत्यव्ययीभावसमासः । अप्रतिरथत्वमिति । अप्रतिरथं जयसाधनत्वात् ॥
5 यदित्यादि ॥ यदा 'अग्नये प्रणीयमानाय अनुब्रूहि' इति । संप्रैषः क्रियते तदैतत्सूक्तं द्वितीयो होताऽन्वाह – अथो इति । अनभिजितं अभिजेतुमशक्यमपि शत्रुमभिजयत्येव ॥
6 अनुवाकशेषस्य पञ्चर्चस्य दशानामृचां समाहारो दशर्चम् । 'ऋक्पूरब्धूः' इत्यकारस्समासान्तः । विराजेति । विराट् यज्ञोन्नं च ॥
7 असदिवेति ॥ आग्नीध्रीयेऽश्मनि साधनविधिः । असदिव वा अन्तरिक्षं, प्रत्यक्षमदर्शनात् । अन्तरिक्षमिवाग्नीध्रं मध्ये भावात् । सत्त्वायेति । अश्मनि निहिते उपलम्भादिसत्त्वनिवृत्तिः ॥
8 विमान एष इति ॥ अश्मनिधानमन्त्रौ । व्येवैतयेति । एतया ऋचा अन्तरिक्षमसद्विमिमीते । सत्त्वं बलं हि विमानः अन्तरिक्षस्थानीयस्याग्नीध्रस्य, 'आस्ते' इति मन्त्रलिङ्गात् । तर्हि द्वितीयया किं क्रियत इत्याह - अन्नं वा इति । शुक्लत्वसामान्यात् अन्नं वृत्तिरश्मा तत्कारणं वा । तस्माद्द्वितीयया अश्मनि साधनत्वं संप्रतिपद्यत इति भावः ॥
9 चतशृभिरिति ॥ 'इन्द्रं विश्वाः' इत्यादिभिः आपुच्छात् गच्छति । छन्दोभिरेवेति एतीत्येव ॥
10 वृद्धिमेवेति ॥ निजवृद्धिलाभाभिप्रायकत्वात् इन्द्रवृद्धिकीर्तनस्य । एवं वाजसुम्नयोरपि द्रष्टव्यम् । सुम्नं सुखम् । प्रजानां च तद्धेतुत्वात्ताच्छब्द्यम् ॥
11 स्वगाकृत्या इति ॥ असाङ्कर्येण स्वभागलाभाय । अग्निरेव हि देवांस्तथा यष्टुं शक्नोतीति मन्त्राभिप्राय इति दर्शयति । छान्दसडाजन्तस्य गतित्वात् 'ऊर्यादिच्विडाचश्च' इति गतित्वात् 'तादौ च निति' इति प्रकृतिस्वरत्वम् ॥
12 असौ इत्यादि ॥ उद्यन् उद्ग्राभः । उद्गृह्णाति उत्सारयति । रस्मीन् निम्रोचन् अस्तं गच्छन्निग्राभः निगृह्णाति ग्रसति नियच्छति रश्मीनिति । स्रुगुद्यमननिपातनयोर्व्युत्पादितावत्र सादृश्याच्च वर्तेते । ब्रह्मणैवेति । उद्ग्रहणात्मना अनेन परिबृढेनादित्यकर्मणा आदित्येनैवावाक्कारिणा आत्मानमुद्गृह्नाति उच्छ्रितं करोति भ्रातृव्यं च निगृह्नाति विधेयीकरोति ॥
इति पञ्चमे चतुर्थे षष्ठोनुवाकः ॥