अनुवाकः 6 TS 5.4.6

(A6)

(प्रा॒णैः - पोषो᳚ - प्र॒त्या - ग्नी᳚द्धे॒ - पति॑ - मे॒ष - दश॑ च)

अनुवाकः 6 - Complete Audio

TS 5.4.6 - स्वरानुगामी

0:00 0:00
PS1.1 उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ
PS1.2 द॑धाति॒ यथा॒ जनं॑ ॅय॒ते॑ऽव॒सं
PS1.3 क॒रोति॑ ता॒दृगे॒व तत् ति॒स्र
PS1.4 आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒-वाग्निस्तस्मै॑
PS1.5 भाग॒धेयं॑ करो॒त्यौदु॑म्बरी-र्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒
PS1.6 अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑
PS1.7 दे॒वा इत्या॑ह प्रा॒णा वै
PS1.8 विश्वे॑ दे॒वाः प्रा॒णै -
PS1.9 [ ]
PS2.1 -रे॒वैन॒मुद्य॑च्छ॒ते ऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒
PS2.2 यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनꣳ॒॒
PS2.3 सम॑र्द्धयति॒ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञ्म॑वन्तु
PS2.4 दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒ते
PS2.5 ऽपाम॑तिं दुर्म॒तिं बाध॑माना॒ इत्या॑ह॒
PS2.6 रक्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञ्प॑ति-मा॒भज॑न्ती॒रित्या॑ह प॒शवो॒
PS2.7 वै रा॒यस्पोषः॑ - [
PS2.8 ]
PS3.1 प॒शूने॒वाव॑ रुन्धे ष॒ड्भिर्.ह॑रति॒ षड्
PS3.2 वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनꣳ॑ हरति॒
PS3.3 द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒
PS3.4 सूर्य॑रश्मि॒र्॒.हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसू᳚त्यै॒ ततः॑
PS3.5 पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नं॒
PS3.6 ॅवै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्धे देवासु॒राः
PS3.7 संॅय॑त्ता आस॒न् ते दे॒वा
PS3.8 ए॒त-दप्र॑तिरथ-मपश्य॒न् तेन॒ वै ते᳚
PS3.9 प्र॒त्य - [ ]
PS4.1 -सु॑रानजय॒न् तदप्र॑तिरथस्या-प्रतिरथ॒त्वं ॅयदप्र॑तिरथं द्वि॒तीयो॒
PS4.2 होता॒ऽन्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्यान्
PS4.3 जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चं
PS4.4 भ॑वति॒ दशा᳚क्षरा वि॒राड् वि॒राजे॒मौ
PS4.5 लो॒कौ विधृ॑ता व॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒
PS4.6 दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒
PS4.7 प्रति॑तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वा ऽऽ*ग्नी᳚द्ध्र॒माग्नी॒द्ध्रे
PS4.8 - [ ]
PS5.1 ऽश्मा॑नं॒ नि द॑धाति स॒त्त्वाय॒
PS5.2 द्वाभ्यां॒ प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष
PS5.3 दि॒वो मद्ध्य॑ आस्त॒ इत्या॑ह॒
PS5.4 व्ये॑वैतया॑ मिमीते॒ मद्ध्ये॑ दि॒वो
PS5.5 निहि॑तः॒ पृश्नि॒रश्मेत्या॒हान्नं॒ ॅवै पृश्न्यन्न॑मे॒वाव॑
PS5.6 रुन्धे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒
PS5.7 छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वेन्द्रं॒ ॅविश्वा॑ अवीवृध॒न्नित्या॑ह॒
PS5.8 वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑नाꣳ॒॒ सत्प॑तिं॒ पति॒
PS5.9 - [ ]
PS6.1 -मित्या॒हाऽन्नं॒ ॅवै वाजोऽन्न॑मे॒वाव॑ रुन्धे
PS6.2 सुम्न॒हूर्य॒ज्ञो दे॒वाꣳ आ च॑
PS6.3 वक्ष॒दित्या॑ह प्र॒जा वै प॒शवः॑
PS6.4 सु॒म्नं प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्ते॒
PS6.5 यक्ष॑द॒ग्निर्दे॒वो दे॒वाꣳ आ च॑
PS6.6 वक्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा
PS6.7 प्रस॒वेनो᳚द्-ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ
PS6.8 ए॒ष ( ) नि॒म्रोच॑न्
PS6.9 निग्रा॒भो ब्रह्म॑णै॒वाऽऽ*त्मान॑मुद्-गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्यं॒
PS6.10 नि गृ॑ह्णाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.4.6.1 TS 5.4.6.1
उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनं॑ ॅय॒ते॑ऽव॒सं क॒रोति॑ ता॒दृगे॒व तत् ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒-वाग्निस्तस्मै॑ भाग॒धेयं॑ करो॒त्यौदु॑म्बरी-र्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णै - [ ]
पदपाठः (Word-by-word)
उदिति॑ । ए॒न॒म् । उ॒त्त॒रामित्यु॑त् - त॒राम् । न॒य॒ । इति॑ । स॒मिध॒ इति॑ सं - इधः॑ । एति॑ । द॒धा॒ति॒ । यथा᳚ । जन᳚म् । य॒ते । अ॒व॒सम् । क॒रोति॑ । ता॒दृक् । ए॒व । तत् । ति॒स्रः । एति॑ । द॒धा॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै । अ॒ग्निः । यावान्॑ । ए॒व । अ॒ग्निः । तस्मै᳚ । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । क॒रो॒ति॒ । औदु॑बंरीः । भ॒व॒न्ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्ज᳚म् । ए॒व । अ॒स्मै॒ । अपीति॑ । द॒धा॒ति॒ । उदिति॑ । उ॒ । त्वा॒ । विश्वे᳚ । दे॒वाः । इति॑ । आ॒ह॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । विश्वे᳚ । दे॒वाः । प्रा॒णैरिति॑ प्र - अ॒नैः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 'उदेनं' इत्यादितिसृभिस्तिस्रः आदधाति ॥ यथेति । यथा द्रष्टव्यं जनं यते गच्छते अवसं रक्षणार्थं पाथेयादिकं करोति तत्तुल्यम् ॥
2 तिस्र इत्यादि ॥ गतम् । 'उदात्तयणः' इति तिसृभ्यो विभक्तिरुदात्ता । त्रेधाविहितेष्टकत्वात् त्रिवृत्त्वमग्नेः ॥
3 'उदुत्वा विश्वे देवाः' इति षड्भिरग्निमुद्यच्छते । ननु कथमुक्तं - षड्भिरग्निमुद्यच्छते इति उद्यमनस्य नियताङ्गत्वात् दोषः । द्वे परिगृह्यवती परिगृह्यशब्दवत्यौ द्वे ऋचौ द्वितीयचतुर्थ्यौ 'रायस्पोषे अधि यज्ञः' 'ऊर्जा यद्यज्ञम्' इति च । एवं हरणसामर्थ्यप्रख्यापनार्थं छत्रिन्यायेन सर्वासां परिगृह्यवत्त्वख्यापनमभिप्रेतम् । तेन देवैः परिगृहीतवत्ववचनाद्रक्षांसि बाधितुं प्रभवति ॥
4 देवासुरा इति ॥ अप्रतिरथ्यं नाम 'आशुश्शिशानः' इत्यादिकं दशर्चं सुक्तमाम्नानक्रमं विहाय प्रागेवेदं विनियुङ्क्ते । अप्रतीति । प्रतिपक्षो यत्र नास्ति तदप्रतीति क्रियाविशेषणम् । यथा न कश्चित्प्रतीपश्शिष्यते तथा असुरानजयत् । बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - अतिकल्पम् । 'सुप्रतिनामात्रार्थे' इत्यव्ययीभावसमासः । अप्रतिरथत्वमिति । अप्रतिरथं जयसाधनत्वात् ॥
5 यदित्यादि ॥ यदा 'अग्नये प्रणीयमानाय अनुब्रूहि' इति । संप्रैषः क्रियते तदैतत्सूक्तं द्वितीयो होताऽन्वाह – अथो इति । अनभिजितं अभिजेतुमशक्यमपि शत्रुमभिजयत्येव ॥
6 अनुवाकशेषस्य पञ्चर्चस्य दशानामृचां समाहारो दशर्चम् । 'ऋक्पूरब्धूः' इत्यकारस्समासान्तः । विराजेति । विराट् यज्ञोन्नं च ॥
7 असदिवेति ॥ आग्नीध्रीयेऽश्मनि साधनविधिः । असदिव वा अन्तरिक्षं, प्रत्यक्षमदर्शनात् । अन्तरिक्षमिवाग्नीध्रं मध्ये भावात् । सत्त्वायेति । अश्मनि निहिते उपलम्भादिसत्त्वनिवृत्तिः ॥
8 विमान एष इति ॥ अश्मनिधानमन्त्रौ । व्येवैतयेति । एतया ऋचा अन्तरिक्षमसद्विमिमीते । सत्त्वं बलं हि विमानः अन्तरिक्षस्थानीयस्याग्नीध्रस्य, 'आस्ते' इति मन्त्रलिङ्गात् । तर्हि द्वितीयया किं क्रियत इत्याह - अन्नं वा इति । शुक्लत्वसामान्यात् अन्नं वृत्तिरश्मा तत्कारणं वा । तस्माद्द्वितीयया अश्मनि साधनत्वं संप्रतिपद्यत इति भावः ॥
9 चतशृभिरिति ॥ 'इन्द्रं विश्वाः' इत्यादिभिः आपुच्छात् गच्छति । छन्दोभिरेवेति एतीत्येव ॥
10 वृद्धिमेवेति ॥ निजवृद्धिलाभाभिप्रायकत्वात् इन्द्रवृद्धिकीर्तनस्य । एवं वाजसुम्नयोरपि द्रष्टव्यम् । सुम्नं सुखम् । प्रजानां च तद्धेतुत्वात्ताच्छब्द्यम् ॥
11 स्वगाकृत्या इति ॥ असाङ्कर्येण स्वभागलाभाय । अग्निरेव हि देवांस्तथा यष्टुं शक्नोतीति मन्त्राभिप्राय इति दर्शयति । छान्दसडाजन्तस्य गतित्वात् 'ऊर्यादिच्विडाचश्च' इति गतित्वात् 'तादौ च निति' इति प्रकृतिस्वरत्वम् ॥
12 असौ इत्यादि ॥ उद्यन् उद्ग्राभः । उद्गृह्णाति उत्सारयति । रस्मीन् निम्रोचन् अस्तं गच्छन्निग्राभः निगृह्णाति ग्रसति नियच्छति रश्मीनिति । स्रुगुद्यमननिपातनयोर्व्युत्पादितावत्र सादृश्याच्च वर्तेते । ब्रह्मणैवेति । उद्ग्रहणात्मना अनेन परिबृढेनादित्यकर्मणा आदित्येनैवावाक्कारिणा आत्मानमुद्गृह्नाति उच्छ्रितं करोति भ्रातृव्यं च निगृह्नाति विधेयीकरोति ॥
इति पञ्चमे चतुर्थे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 5.4.6.2 TS 5.4.6.2
-रे॒वैन॒मुद्य॑च्छ॒ते ऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनꣳ॒॒ सम॑र्द्धयति॒ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञ्म॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒ते ऽपाम॑तिं दुर्म॒तिं बाध॑माना॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञ्प॑ति-मा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । उदिति॑ । य॒च्छ॒ते॒ । अग्ने᳚ । भर॑न्तु । चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ । इति॑ । आ॒ह॒ । यस्मै᳚ । ए॒व । ए॒न॒म् । चि॒त्ताय॑ । उ॒द्यच्छ॑त॒ इत्यु॑त्-यच्छ॑ते । तेन॑ । ए॒व । ए॒न॒म् । समिति॑ । अ॒र्द्ध॒य॒ति॒ । पञ्च॑ । दिशः॑ । दैवीः᳚ । य॒ज्ञ्म् । अ॒व॒न्तु॒ । दे॒वीः । इति॑ । आ॒ह॒ । दिशः॑ । हि । ए॒षः । अन्विति॑ । प्र॒च्यव॑त॒ इति॑ प्र - च्यव॑ते । अपेति॑ । अम॑तिम् । दु॒र्म॒तिमिति॑ दुः - म॒तिम् । बाध॑मानाः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । रा॒यः । पोषे᳚ । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ्-प॒ति॒म् । आ॒भज॑न्ती॒रित्या᳚ - भज॑न्तीः । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । रा॒यः । पोषः॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.4.6.3 TS 5.4.6.3
प॒शूने॒वाव॑ रुन्धे ष॒ड्भिर्.ह॑रति॒ षड् वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनꣳ॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒र्॒.हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसू᳚त्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नं॒ ॅवै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्धे देवासु॒राः संॅय॑त्ता आस॒न् ते दे॒वा ए॒त-दप्र॑तिरथ-मपश्य॒न् तेन॒ वै ते᳚ प्र॒त्य - [ ]
पदपाठः (Word-by-word)
प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । ष॒ड्भिरिति॑ षट्-भिः । ह॒र॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । ह॒र॒ति॒ । द्वे इति॑ । प॒रि॒गृह्य॑वती॒ इति॑ परि॒गृह्य॑ - व॒ती॒ । भ॒व॒तः॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । सूर्य॑रश्मि॒रिति॒ सूर्य॑ - र॒श्मिः॒ । हरि॑केश॒ इति॒ हरि॑-के॒शः॒ । पु॒रस्ता᳚त् । इति॑ । आ॒ह॒ । प्रसू᳚त्या॒ इति॒ प्र-सू॒त्यै॒ । ततः॑ । पा॒व॒काः । आ॒शिष॒ इत्या᳚ - शिषः॑ । नः॒ । जु॒ष॒न्ता॒म् । इति॑ । आ॒ह॒ । अन्न᳚म् । वै । पा॒व॒कः । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । ए॒तत् । अप्र॑तिरथ॒मित्यप्र॑ति - र॒थ॒म् । अ॒प॒श्य॒न्न् । तेन॑ । वै । ते । अ॒प्र॒ति ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.4.6.4 TS 5.4.6.4
-सु॑रानजय॒न् तदप्र॑तिरथस्या-प्रतिरथ॒त्वं ॅयदप्र॑तिरथं द्वि॒तीयो॒ होता॒ऽन्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्यान् जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चं भ॑वति॒ दशा᳚क्षरा वि॒राड् वि॒राजे॒मौ लो॒कौ विधृ॑ता व॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वा ऽऽ*ग्नी᳚द्ध्र॒माग्नी॒द्ध्रे - [ ]
पदपाठः (Word-by-word)
असु॑रान् । अ॒ज॒य॒न्न् । तत् । अप्र॑तिरथ॒स्येत्यप्र॑ति - र॒थ॒स्य॒ । अ॒प्र॒ति॒र॒थ॒त्वमित्य॑प्रतिरथ - त्वम् । यत् । अप्र॑तिरथ॒मित्यप्र॑ति-र॒थ॒म् । द्वि॒तीयः॑ । होता᳚ । अ॒न्वाहेत्य॑नु - आह॑ । अ॒प्र॒ति । ए॒व । तेन॑ । यज॑मानः । भ्रातृ॑व्यान् । ज॒य॒ति॒ । अथो॒ इति॑ । अन॑भिजित॒मित्यन॑भि - जि॒त॒म् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । द॒श॒र्चमिति॑ दश - ऋ॒चम् । भ॒व॒ति॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । इ॒मौ । लो॒कौ । विधृ॑ता॒विति॒ वि - धृ॒तौ॒ । अ॒नयोः᳚ । लो॒कयोः᳚ । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । अथो॒ इति॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अस॑त् । इ॒व॒ । वै । अ॒न्तरि॑क्षम् । अ॒न्तरि॑क्षम् । इ॒व॒ । आग्नी᳚ध्र॒मित्याग्नि॑ - इ॒ध्र॒म् । आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.4.6.5 TS 5.4.6.5
ऽश्मा॑नं॒ नि द॑धाति स॒त्त्वाय॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष दि॒वो मद्ध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मद्ध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मेत्या॒हान्नं॒ ॅवै पृश्न्यन्न॑मे॒वाव॑ रुन्धे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वेन्द्रं॒ ॅविश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑नाꣳ॒॒ सत्प॑तिं॒ पति॒ - [ ]
पदपाठः (Word-by-word)
अश्मा॑नम् । नीति॑ । द॒धा॒ति॒ । स॒त्त्वायेति॑ सत् - त्वाय॑ । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । वि॒मान॒ इति॑ वि - मानः॑ । ए॒षः । दि॒वः । मद्ध्ये᳚ । आ॒स्ते॒ । इति॑ । आ॒ह॒ । वीति॑ । ए॒व । ए॒तया᳚ । मि॒मी॒ते॒ । मद्ध्ये᳚ । दि॒वः । निहि॑त॒ इति॒ नि - हि॒तः॒ । पृश्निः॑ । अश्मा᳚ । इति॑ । आ॒ह॒ । अन्न᳚म् । वै । पृश्नि॑ । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । च॒त॒सृभि॒रिति॑ चत॒सृ-भिः॒ । एति॑ । पुच्छा᳚त् । ए॒ति॒ । च॒त्वारि॑ । छन्दाꣳ॑सि । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । इन्द्र᳚म् । विश्वाः᳚ । अ॒वी॒वृ॒ध॒न्न् । इति॑ । आ॒ह॒ । वृद्धि᳚म् । ए॒व । उ॒पाव॑र्तत॒ इत्यु॑प-आव॑र्तते । वाजा॑नाम् । सत्प॑ति॒मिति॒ सत् - प॒ति॒म् । पति᳚म् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.4.6.6 TS 5.4.6.6
-मित्या॒हाऽन्नं॒ ॅवै वाजोऽन्न॑मे॒वाव॑ रुन्धे सुम्न॒हूर्य॒ज्ञो दे॒वाꣳ आ च॑ वक्ष॒दित्या॑ह प्र॒जा वै प॒शवः॑ सु॒म्नं प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्ते॒ यक्ष॑द॒ग्निर्दे॒वो दे॒वाꣳ आ च॑ वक्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनो᳚द्-ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष ( ) नि॒म्रोच॑न् निग्रा॒भो ब्रह्म॑णै॒वाऽऽ*त्मान॑मुद्-गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्यं॒ नि गृ॑ह्णाति ॥
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । अन्न᳚म् । वै । वाजः॑ । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । सु॒म्न॒हूरिति॑ सुम्न - हूः । य॒ज्ञ्ः । दे॒वान् । एति॑ । च॒ । व॒क्ष॒त् । इति॑ । आ॒ह॒ । प्र॒जेति॑ प्र - जा । वै । प॒शवः॑ । सु॒म्नम् । प्र॒जामिति॑ प्र - जाम् । ए॒व । प॒शून् । आ॒त्मन्न् । ध॒त्ते॒ । यक्ष॑त् । अ॒ग्निः । दे॒वः । दे॒वान् । एति॑ । च॒ । व॒क्ष॒त् । इति॑ । आ॒ह॒ । स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । वाज॑स्य । मा॒ । प्र॒स॒वेनेति॑ प्र - स॒वेन॑ । उ॒द्ग्रा॒भेणेत्यू॑त्-ग्रा॒भेण॑ । उदिति॑ । अ॒ग्र॒भी॒त् । इति॑ । आ॒ह॒ । अ॒सौ । वै । आ॒दि॒त्यः । उ॒द्यन्नित्यु॑त् - यन्न् । उ॒द्ग्रा॒भ इत्यु॑त् - ग्रा॒भः । ए॒षः ( ) । नि॒म्रोच॒न्निति॑ नि - म्रोचन्न्॑ । नि॒ग्रा॒भ इति॑ नि - ग्रा॒भः । ब्रह्म॑णा । ए॒व । आ॒त्मान᳚म् । उ॒द्गृ॒ह्णातीत्यु॑त् - गृ॒ह्णाति॑ । ब्रह्म॑णा । भ्रातृ॑व्यम् । नीति॑ । गृ॒ह्णा॒ति॒ ॥
पदसंख्या: 60