अनुवाकः 7 TS 5.4.7

(A7)

(अग्ने॒ प्रेह्य - व॑ - स्म - दुहे॒ तां - प्र॒जाप॑तेः - सा॒क्षान् - म॑नुष्यवि॒श - मेक॑विꣳशतिश्च

अनुवाकः 7 - Complete Audio

TS 5.4.7 - स्वरानुगामी

0:00 0:00
PS1.1 प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह
PS1.2 देवलो॒क-मे॒वैतयो॒पाव॑र्तते॒ क्रम॑द्ध्वम॒ग्निना॒ नाक॒-मित्या॑हे॒माने॒वैतया॑ लो॒कान्
PS1.3 क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मा ऽरु॑ह॒मित्या॑हे॒माने॒वैतया॑
PS1.4 लो॒कान्थ् स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे᳚क्षन्त॒
PS1.5 इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑
PS1.6 - [ ]
PS2.1 प्रथ॒मो दे॑वय॒ता-मित्या॑हो॒भये᳚ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति
PS2.2 प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो
PS2.3 यावा॑ने॒व य॒ज्ञ्स्तेन॑ स॒ह सु॑व॒र्गं
PS2.4 ॅलो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोऽनुवा॒क्या॑मन्वा॑ह॒ प्रत्या॒
PS2.5 अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः
PS2.6 प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒
PS2.7 वाजा॑य॒ स्वाहेत्या॒हान्नं॒ ॅवै वाजोऽन्न॑मे॒वाव॑
PS2.8 - [ ]
PS3.1 रुन्धे द॒द्ध्नः पू॒र्णामौदु॑म्बरीꣳ स्वयमातृ॒ण्णायां᳚
PS3.2 जुहो॒त्यूर्ग्वै दद्ध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णा ऽमुष्या॑मे॒वोर्जं॑
PS3.3 दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति
PS3.4 त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒
PS3.5 प्रेद्धो॑ अग्ने दीदिहि पु॒रो
PS3.6 न॒ इत्यौदु॑म्बरी॒मा द॑धात्ये॒षा वै
PS3.7 सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒
PS3.8 - [ ]
PS4.1 वै दे॒वा असु॑राणाꣳ शतत॒र्॒.हाꣳ
PS4.2 स्तृꣳ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं
PS4.3 ॅयज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒
PS4.4 अच्छ॑म्बट्कारं ॅवि॒धेम॑ ते पर॒मे
PS4.5 जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒
PS4.6 भा ए॒वाव॑ रुन्धे॒ ताꣳ
PS4.7 स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामिति॑ शमी॒मयीꣳ॒॒ शान्त्या॑
PS4.8 अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चितं॑
PS4.9 दु॒हे᳚ऽग्नि॒चिद्वा॒ऽग्निं दु॑हे॒ ताꣳ -
PS4.10 [ ]
PS5.1 स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒
PS5.2 कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त् तेन॑
PS5.3 ह स्मैनꣳ॒॒ स दु॑हे॒
PS5.4 यदे॒तया॑ स॒मिध॑-मा॒दधा᳚त्यग्नि॒चिदे॒व तद॒ग्निं दु॑हे
PS5.5 स॒प्त ते॑ अग्ने स॒मिधः॑
PS5.6 स॒प्तजि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि
PS5.7 प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण
PS5.8 इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒
PS5.9 - [ ]
PS6.1 -राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि
PS6.2 प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जानाꣳ॒॒
PS6.3 सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स
PS6.4 दिशोऽनु॒ प्राऽवि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो᳚ द्ध्याये
PS6.5 द्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्धे द॒द्ध्ना
PS6.6 पु॒रस्ता᳚ज्जुहो॒त्या-ज्ये॑नो॒परि॑ष्टा॒त् तेज॑श्चै॒वास्मा॑ इन्द्रि॒यं च॑
PS6.7 स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो
PS6.8 भ॑वति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः
PS6.9 सं॑ॅवथ्स॒रो᳚-ऽग्निर्वै᳚श्वान॒रः सा॒क्षा - [
PS6.10 ]
PS7.1 -दे॒व वै᳚श्वान॒रमव॑ रुन्धे॒ यत्
PS7.2 प्र॑याजानूया॒जान् कु॒र्याद्विक॑स्तिः॒ सा य॒ज्ञ्स्य॑
PS7.3 दर्विहो॒मं क॑रोति य॒ज्ञ्स्य॒ प्रति॑ष्ठित्यै
PS7.4 रा॒ष्ट्रं ॅवै वै᳚श्वान॒रो विण्म॒रुतो॑
PS7.5 वैश्वान॒रꣳ हु॒त्वा मा॑रु॒तान् जु॑होति
PS7.6 रा॒ष्ट्र ए॒व विश॒मनु॑ बद्ध्नात्यु॒च्चै-र्वै᳚श्वान॒रस्याऽऽ
PS7.7 श्रा॑वयत्युपाꣳ॒॒शु मा॑रु॒तान् जु॑होति॒ तस्मा᳚द्-रा॒ष्ट्रं
PS7.8 ॅविश॒मति॑ वदति मारु॒ता भ॑वन्ति
PS7.9 म॒रुतो॒ वै दे॒वानां॒ ॅविशो॑
PS7.10 देववि॒शेनै॒वास्मै॑ मनुष्यवि॒श ( )
PS7.11 -मव॑ रुन्धे स॒प्त भ॑वन्ति
PS7.12 स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श
PS7.13 ए॒व विश॒मव॑ रुन्धे ग॒णेन॑
PS7.14 ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं
PS7.15 करोति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.4.7.1 TS 5.4.7.1
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒क-मे॒वैतयो॒पाव॑र्तते॒ क्रम॑द्ध्वम॒ग्निना॒ नाक॒-मित्या॑हे॒माने॒वैतया॑ लो॒कान् क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मा ऽरु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्थ् स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ - [ ]
पदपाठः (Word-by-word)
प्राची᳚म् । अन्विति॑ । प्र॒दिश॒मिति॑ प्र-दिश᳚म् । प्रेति॑ । इ॒हि॒ । वि॒द्वान् । इति॑ । आ॒ह॒ । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । ए॒व । ए॒तया᳚ । उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । क्रम॑द्ध्वम् । अ॒ग्निना᳚ । नाक᳚म् । इति॑ । आ॒ह॒ । इ॒मान् । ए॒व । ए॒तया᳚ । लो॒कान् । क्र॒म॒ते॒ । पृ॒थि॒व्याः । अ॒हम् । उदिति॑ । अ॒न्तरि॑क्षम् । एति॑ । अ॒रु॒ह॒म् । इति॑ । आ॒ह॒ । इ॒मान् । ए॒व । ए॒तया᳚ । लो॒कान् । स॒मारो॑ह॒तीति॑ सं - आरो॑हति । सुवः॑ । यन्तः॑ । न । अपेति॑ । ई॒क्ष॒न्ते॒ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । ए॒तया᳚ । लो॒कम् । ए॒ति॒ । अग्ने᳚ । प्रेति॑ । इ॒हि॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्राचीमित्यादि ॥ अग्निना सह चित्यधिश्रयणमन्त्रा एते - 'प्राचीमनु प्रदिशं' इत्याद्याः पञ्च । देवलोकमिति । देवलोकस्थानीयं आहवनीयं 'सु आहवनीय' इत्येतया प्रथमया ऋचा उपावर्तते उपसंप्राप्तुं क्रमते । द्वितीयया लोकान् क्रमते उपगच्छति । वृत्तावात्मनेपदम् । तृतीयया लोकान् समारोहति स्वर्गं प्राप्नोति स्वर्गस्थानीयं वा अग्निमधिरोहति । पञ्चम्या मनुष्यान्देवांश्च चक्षुष्मतः करोति ॥
2 पञ्चभिरिति ॥ पुच्छादारभ्याधिरोहति । पाङ्क्त इति । धानादिपञ्चकसाध्यत्वात् पङ्क्तिप्रभवत्वाद्वा । पङ्क्तिशब्दादुत्सादित्वादञ् । पञ्चत्वान्वयात् पाङ्क्तेन यज्ञेन सह स्वर्गस्थानीयं चित्याग्निं प्राप्नोति । यद्वा - यजनीयोग्निः यज्ञः । तेन सर्वेण सह चितिमारोहति ॥
3 पुरोनुवाक्यामिति ॥ दध्नः पूर्णामौदुम्बरीं स्वयमातृण्णायां जुहोति । तत्र 'नक्तोषासा' इति पुरोनुवाक्यामन्वाह । प्रत्यै इति । द्यावापृथिव्योः प्रस्नवनार्थं प्रदानारम्भः [प्रतिः । तस्यै] प्रत्यै । यथा वत्सला गौः वत्सदर्शनेन ऊधःपूरणात्प्रस्नुतस्तनी भवति यथोक्तम् - 'प्रत्ता वै गौर्दुहे' । एवमग्नेर्दर्शनात् द्यावापृथिव्यौ प्रत्ते क्रियेते अनया पुरोनुवाक्ययेति भावः । ददातेः प्रपूर्वात् 'अच उपसर्गात्तः' इति तादेशः । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
4 अथ अग्ने सहस्राक्षेति तत्रैव याज्या ॥ साहस्र इति । सहस्रपरिमाणः सहस्रप्राप्तिहेतुर्वा । प्रजानां पाता अग्निः प्रजापतिः । तस्मात्सहस्रान्वयादियं याज्या तादृशस्याग्नेः प्राप्त्यै भवति । 'शतमानविंशतिक' इत्यण् ॥
5 दध्न इति ॥ 'पूरणगुण' इति समासप्रतिषेधात् पूरणार्थैर्योगे षष्ठी ज्ञापिता । औदुम्बरीस्थं दध्यभेदेनोच्यते । ऊर्क् रसः असौ द्यौः । अमुत इति । अमुतो द्युलोकादर्वाचीमधः पतन्तीं वृष्टिमुपाश्रित्य जीवामः ॥
6 तिसृभिरित्यादि ॥ 'सुपर्णोसि' इत्यादिभिः तिसृभिस्स्वयमातृण्णामध्यस्थमग्निं प्रतिष्ठापयति । त्रिवृदित्यादि । गतम् ॥
7 औदुम्बरीमिति ॥ तस्मिन्नग्नौ अन्नमुदुम्बरीं समिधमादधाति । एषा वा इत्यादि । उपमानपदमिदं यादृशमग्निचिल्लभते । यद्वा - अग्निचित् अग्निं दुग्धे अग्निसकाशात्सर्वाण्यभिमतानि लभते । दुह प्रपूरणे, प्रपूरणं रेचनम् । तत्राग्निना दुह्यमानः अग्निचित् अग्निचिता दुह्यमानो हि स्वमहिम्नाऽऽरोपितः पुनःपुनराप्यायत इति विशेषः । 'लोपस्त आत्मनेपदेषु' इति तलोपः । 'चवायोगे प्रथमा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥
8 एष वा इति ॥ एष मन्त्रोऽग्नेः । अस्येते कर्मणि षष्ठी । तमिममग्नेर्दोहमन्त्रं कण्वः श्रयसः पुत्रोऽवेत् । कथमवगम्यते सोऽवेदित्यत्राह - स खलु कण्वः एनमग्निं तेनानेन मन्त्रेण दुहे दुग्धे । पूर्ववल्ल्यब्लोपश्च । यदेतयेत्यादि । गतम् ॥
9 सप्त ते अग्न इति ॥ आज्यस्य पूर्णां स्रुचं जुहोति । सप्तैवेति । सप्त प्रमाणानि सप्त भवन्त्यग्नेः समिदादि, तानि प्रीणाति अनेन मन्त्रेण होमात्तत्र समिन्धनहेतवः सप्त मरुतः सप्त छन्दांसि वा जिह्वाजा ऋषयः प्रीयमाणाः । प्रियाणि धामानि आहवनीयादीनि धिष्ण्यनामानि वासस्थानानि । होत्रादयो वषट्कर्तारो होत्राः सप्त । यागविधा अग्निष्टोमादयः सप्त संस्था यान्यग्न्युत्पत्तिस्थानानि भूरादीनि । सप्तशब्द उत्सादिर्द्रष्टव्यः । 'सप्तनोऽञ् छन्दसि' इति अञो विधिः । पूर्णयेति । व्याख्यातम् । वर्णकृतपूर्णत्वन्यूनत्वाश्रयणेन । इह तु तदभावात् स्वर्गविषयं द्रष्टव्यम् ॥
10 अग्निर्देवेभ्य इत्यादि ॥ निलायत निरगच्छत् । 'उपसर्गस्यायतौ' इति लत्वम् । जुह्वदिति । दध्नः पूर्णामौदुम्बरिं पूर्णामाज्यस्य पूर्णां स्रुचं द्वितीयामेवेति केचित् ॥
11 दध्नेत्यादि ॥ एवमुक्तेन प्रकारेण अग्निनिधानात् पूर्वं दध्ना जुहोति इष्ट्वाऽऽज्येन समीची इति सम्मुखे तस्य स्थापयति । 'चौ' इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च ॥
12 द्वादशकपाल इत्यादि ॥ गतम् ॥
13 यदित्यादि ॥ वैश्वानरस्य प्रयाजानुयाजान् कुर्यात् सा विकस्तिः विनाशस्स्यात् यज्ञस्य क्रतोः । तस्माद्दर्विहोमं करोति प्रयाजादिराश्रावणं च यत्र नास्ति स दर्विहोमः । इह तु 'उच्चैर्वैश्वानरस्याश्रावयति' इति वक्ष्यमाणत्वात् प्रयाजाद्यभावमात्रेण दर्विहोमत्वम् ॥
14 राष्ट्रं वा इति ॥ वैश्वानरस्याग्नेः सर्वत्रान्तर्बहिश्च भावात् जनसमुदायात्मनां राष्ट्राणां तादर्थ्यात्ताच्छब्द्यम् । विण्मरुत इति । विशः कुटुम्ब्यः प्रजा जातावेकवचनम् । तत्स्थानीया मरुतः राष्ट्रात्मनो वैश्वानरस्य उद्दीपकत्वात् । तस्माति वैश्वानरं हुत्वा मारुतान् सप्तकपालान् जुहोति । राष्ट्रे एव विशमनुबध्नाति । अनुक्रमेण स्थापयति ॥
15 उच्चैरित्यादि ॥ वैश्वानरस्य उच्चैस्त्वान्वयात् तदात्मकं राष्ट्रमुच्चैर्भावेन वर्तमानं मारुतानां नीचैस्त्वान्वयेन नीचैस्त्वेन वर्तमाना मरुदात्मिका प्रकृतिरतिवदति प्रभुत्वेनावभम् ? ॥
16 मारुता इत्यादि ॥ गतम् । देवविशेनेति । अमुमिति । योगविभागादच् समासान्तः ॥
17 सप्त इत्यादि ॥ गतम् । गणश इति । 'बहुगणवतुडति सङ्ख्या' इति सङ्ख्यात्वात् 'सङ्ख्यैकवचनाच्च' इति शस् ॥
18 गणेनेति ॥ अत्र सप्तकः सप्तमरुद्गणा मन्त्राः 'ईदृङ्च' इत्यादयः चत्वारः । ततः आरण्येऽनुवाक्ये द्वौ गणौ 'धुनिश्च' इत्याद्यौ । राजसूयिका 'उग्रश्च धुनिश्च' इत्याद्यौ । द्वितीय अग्निश्चित्यः 'सृतया' इत्यादिसप्तमो गणश्शाखान्तरीयः । 'ईदृक्षास एतादृक्षासः' इत्यादिरान्तादनुवाकस्य प्रतिगणमनुषज्यते । तत्र गणेन जुहोति याज्यास्थानीयेन गणमनुद्रुत्य पूर्वस्य गणस्य वा याज्यतामुत्तरस्य पुरोनुवाक्यतां वा कृत्वेत्यर्थः । केचिदाहुः - 'ईदृङ्च' इत्याद्याश्चत्वारो गणाः । 'ईदृक्षासः' इत्यादिजगत्या द्वावर्धर्चौ । आरण्योऽनुवाक्यो गणचतुर्थ इति । अन्ये तु ब्रुवते - तेषामारण्योऽनुवाक्यश्चतुर्थश्शाखान्तरीयस्तु षष्ठः । जगत्या वा प्रथमर्चं सप्तमं शिष्टं सर्वेष्वनुषज्यत इति । अनुवर्त्मानमिति । राष्ट्रविधेयतामित्यर्थः ॥
इति पञ्चमे चतुर्थे सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.4.7.2 TS 5.4.7.2
प्रथ॒मो दे॑वय॒ता-मित्या॑हो॒भये᳚ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञ्स्तेन॑ स॒ह सु॑व॒र्गं ॅलो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोऽनुवा॒क्या॑मन्वा॑ह॒ प्रत्या॒ अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नं॒ ॅवै वाजोऽन्न॑मे॒वाव॑ - [ ]
पदपाठः (Word-by-word)
प्र॒थ॒मः । दे॒व॒य॒तामिति॑ देव - य॒ताम् । इति॑ । आ॒ह॒ । उ॒भये॑षु । ए॒व । ए॒तया᳚ । दे॒व॒म॒नु॒ष्येष्विति॑ देव - म॒नु॒ष्येषु॑ । चक्षुः॑ । द॒धा॒ति॒ । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । अधीति॑ । क्रा॒म॒ति॒ । पाङ्क्तः॑ । य॒ज्ञ्ः । यावान्॑ । ए॒व । य॒ज्ञ्ः । तेन॑ । स॒ह । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । नक्तो॒षासा᳚ । इति॑ । पु॒रो॒नु॒वा॒क्या॑मिति॑ पुरः - अ॒नु॒वा॒क्या᳚म् । अन्विति॑ । आ॒ह॒ । प्रत्यै᳚ । अग्ने᳚ । स॒ह॒स्रा॒क्षेति॑ सहस्र - अ॒क्ष॒ । इति॑ । आ॒ह॒ । सा॒ह॒स्रः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । तस्मै᳚ । ते॒ । वि॒धे॒म॒ । वाजा॑य । स्वाहा᳚ । इति॑ । आ॒ह॒ । अन्न᳚म् । वै । वाजः॑ । अन्न᳚म् । ए॒व । अवेति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.4.7.3 TS 5.4.7.3
रुन्धे द॒द्ध्नः पू॒र्णामौदु॑म्बरीꣳ स्वयमातृ॒ण्णायां᳚ जुहो॒त्यूर्ग्वै दद्ध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णा ऽमुष्या॑मे॒वोर्जं॑ दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदु॑म्बरी॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ - [ ]
पदपाठः (Word-by-word)
रु॒न्धे॒ । द॒द्ध्नः । पू॒र्णाम् । औदु॑बंरीम् । स्व॒य॒मा॒तृ॒ण्णाया॒मिति॑ स्वयं - आ॒तृ॒ण्णाया᳚म् । जु॒हो॒ति॒ । ऊर्क् । वै । दधि॑ । ऊर्क् । उ॒दु॒बंरः॑ । अ॒सौ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । अ॒मुष्या᳚म् । ए॒व । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । अ॒मुतः॑ । अ॒र्वाची᳚म् । ऊर्ज᳚म् । उपेति॑ । जी॒वा॒मः॒ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒। सा॒द॒य॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै । अ॒ग्निः । यावान्॑ । ए॒व । अ॒ग्निः । तम् । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒म॒य॒ति॒ । प्रेद्ध॒ इति॒ प्र - इ॒द्धः॒ । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । इति॑ । औदु॑बंरीम् । एति॑ । द॒धा॒ति॒ । ए॒षा । वै । सू॒र्मी । कर्ण॑काव॒तीति॒ कर्ण॑क - व॒ति॒ । ए॒तया᳚ । ह॒ । स्म॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.4.7.4 TS 5.4.7.4
वै दे॒वा असु॑राणाꣳ शतत॒र्॒.हाꣳ स्तृꣳ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं ॅयज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अच्छ॑म्बट्कारं ॅवि॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे॒ ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामिति॑ शमी॒मयीꣳ॒॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चितं॑ दु॒हे᳚ऽग्नि॒चिद्वा॒ऽग्निं दु॑हे॒ ताꣳ - [ ]
पदपाठः (Word-by-word)
वै । दे॒वाः । असु॑राणाम् । श॒त॒त॒र्.॒हानिति॑ शत-त॒र्॒.हान् । तृꣳ॒॒ह॒न्ति॒ । यत् । ए॒तया᳚ । स॒मिध॒मिति॑ सं - इध᳚म् । आ॒दधा॒तीत्या᳚ - दधा॑ति । वज्र᳚म् । ए॒व । ए॒तत् । श॒त॒घ्नीमिति॑ शत - घ्नीम् । यज॑मानः । भ्रातृ॑व्याय । प्रेति॑ । ह॒र॒ति॒ । स्तृत्यै᳚ । अच्छ॑बंट्कार॒मित्यछ॑बंट्-का॒र॒म् । वि॒धेम॑ । ते॒ । प॒र॒मे । जन्मन्न्॑ । अ॒ग्ने॒ । इति॑ । वैक॑ङ्कतीम् । एति॑ । द॒धा॒ति॒ । भाः । ए॒व । अवेति॑ । रु॒न्धे॒ । ताम् । स॒वि॒तुः । वरे᳚ण्यस्य । चि॒त्राम् । इति॑ । श॒मी॒मयी॒मिति॑ शमी - मयी᳚म् । शान्त्यै᳚ । अ॒ग्निः । वा॒ । ह॒ । वै । अ॒ग्नि॒चित॒मित्य॑ग्नि - चित᳚म् । दु॒हे । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । वा॒ । अ॒ग्निम् । दु॒हे॒ । ताम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.4.7.5 TS 5.4.7.5
स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त् तेन॑ ह स्मैनꣳ॒॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑-मा॒दधा᳚त्यग्नि॒चिदे॒व तद॒ग्निं दु॑हे स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्तजि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒ - [ ]
पदपाठः (Word-by-word)
स॒वि॒तुः । वरे᳚ण्यस्य । चि॒त्राम् । इति॑ । आ॒ह॒ । ए॒षः । वै । अ॒ग्नेः । दोहः॑ । तम् । अ॒स्य॒ । कण्वः॑ । ए॒व । श्रा॒य॒सः । अ॒वे॒त् । तेन॑ । ह॒ । स्म॒ । ए॒न॒म् । सः । दु॒हे॒ । यत् । ए॒तया᳚ । स॒मिध॒मिति॑ सं - इध᳚म् । आ॒दधा॒तीत्या᳚ - दधा॑ति । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । ए॒व । तत् । अ॒ग्निम् । दु॒हे॒ । स॒प्त । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सं - इधः॑ । स॒प्त । जि॒ह्वाः । इति॑ । आ॒ह॒ । स॒प्त । ए॒व । अ॒स्य॒ । साप्ता॑नि । प्री॒णा॒ति॒ । पू॒र्णया᳚ । जु॒हो॒ति॒ । पू॒र्णः । इ॒व॒ । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.4.7.6 TS 5.4.7.6
-राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जानाꣳ॒॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्राऽवि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो᳚ द्ध्याये द्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्धे द॒द्ध्ना पु॒रस्ता᳚ज्जुहो॒त्या-ज्ये॑नो॒परि॑ष्टा॒त् तेज॑श्चै॒वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रो᳚-ऽग्निर्वै᳚श्वान॒रः सा॒क्षा - [ ]
पदपाठः (Word-by-word)
आप्त्यै᳚ । न्यू॑न॒येति॒ नि-ऊ॒न॒या॒ । जु॒हो॒ति॒ । न्यू॑ना॒दिति॒ नि - ऊ॒ना॒त् । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । असृ॑जत । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । सृष्ट्यै᳚ । अ॒ग्निः । दे॒वेभ्यः॑ । निला॑यत । सः । दिशः॑ । अनु॑ । प्रेति॑ । अ॒वि॒श॒त् । जुह्व॑त् । मन॑सा । दिशः॑ । ध्या॒ये॒त् । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । ए॒न॒म् । अवेति॑ । रु॒न्धे॒ । द॒द्ध्ना । पु॒रस्ता᳚त् । जु॒हो॒ति॒ । आज्ये॑न । उ॒परि॑ष्टात् । तेजः॑ । च॒ । ए॒व । अ॒स्मै॒ । इ॒न्द्रि॒यम् । च॒ । स॒मीची॒ इति॑ । द॒धा॒ति॒ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । वै॒श्वा॒न॒रः । भ॒व॒ति॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । अ॒ग्निः । वै॒श्वा॒न॒रः । सा॒क्षादिति॑ स - अ॒क्षात् ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 5.4.7.7 TS 5.4.7.7
-दे॒व वै᳚श्वान॒रमव॑ रुन्धे॒ यत् प्र॑याजानूया॒जान् कु॒र्याद्विक॑स्तिः॒ सा य॒ज्ञ्स्य॑ दर्विहो॒मं क॑रोति य॒ज्ञ्स्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रं ॅवै वै᳚श्वान॒रो विण्म॒रुतो॑ वैश्वान॒रꣳ हु॒त्वा मा॑रु॒तान् जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बद्ध्नात्यु॒च्चै-र्वै᳚श्वान॒रस्याऽऽ श्रा॑वयत्युपाꣳ॒॒शु मा॑रु॒तान् जु॑होति॒ तस्मा᳚द्-रा॒ष्ट्रं ॅविश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानां॒ ॅविशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒श ( ) -मव॑ रुन्धे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुन्धे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ॥
पदपाठः (Word-by-word)
ए॒व । वै॒श्वा॒न॒रम् । अवेति॑ । रु॒न्धे॒ । यत् । प्र॒या॒जा॒नू॒या॒जानिति॑ प्रयाज - अ॒नू॒या॒जान् । कु॒र्यात् । विक॑स्ति॒रिति॒ वि - क॒स्तिः॒ । सा । य॒ज्ञ्स्य॑ । द॒र्वि॒हो॒ममिति॑ दर्वि - हो॒मम् । क॒रो॒ति॒ । य॒ज्ञ्स्य॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । रा॒ष्ट्रम् । वै । वै॒श्वा॒न॒रः । विट् । म॒रुतः॑ । वै॒श्वा॒न॒रम् । हु॒त्वा । मा॒रु॒ताम् । जु॒हो॒ति॒ । रा॒ष्ट्रे । ए॒व । विश᳚म् । अन्विति॑ । ब॒द्ध्ना॒ति॒ । उ॒च्चैः । वै॒श्वा॒न॒रस्य॑ । एति॑ । श्रा॒व॒य॒ति॒ । उ॒पाꣳ॒॒श्वित्यु॑प - अꣳ॒॒शु । मा॒रु॒तान् । जु॒हो॒ति॒ । तस्मा᳚त् । रा॒ष्ट्रम् । विश᳚म् । अतीति॑ । व॒द॒ति॒ । मा॒रु॒ताः । भ॒व॒न्ति॒ । म॒रुतः॑ । वै । दे॒वाना᳚म् । विशः॑ । दे॒व॒वि॒शेनेति॑ देव - वि॒शेन॑ । ए॒व । अ॒स्मै॒ । म॒नु॒ष्य॒वि॒शमिति॑ मनुष्य - वि॒शम् ( ) । अवेति॑ । रु॒न्धे॒ । स॒प्त । भ॒व॒न्ति॒ । स॒प्तग॑णा॒ इति॑ स॒प्त - ग॒णाः॒ । वै । म॒रुतः॑ । ग॒ण॒श इति॑ गण - शः । ए॒व । विश᳚म् । अवेति॑ । रु॒न्धे॒ । ग॒णेन॑ । ग॒णम् । अ॒नु॒द्रुत्येत्य॑नु - द्रुत्य॑ । जु॒हो॒ति॒ । विश᳚म् । ए॒व । अ॒स्मै॒ । अनु॑वर्त्मान॒मित्यनु॑ - व॒र्त्मा॒न॒म् । क॒रो॒ति॒ ॥
पदसंख्या: 71