पय॑सा जुहु॒याद् ग्रा॒म्यान् प॒शूञ्छु॒चा ऽर्पये॒द्-यदा॑र॒ण्याना॑-मार॒ण्यान् ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒याद् ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान् प॒शून्. हि॒नस्ति॒ नाऽऽ*र॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिला᳚श्च ग॒वीधु॑का॒श्चेत्य॑ जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाऽऽहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान् प॒शून्. हि॒नस्ति॒ नाऽऽ*र॒ण्यानङ्गि॑रसः सुव॒र्गं ॅलो॒कं ॅयन्तो॒ - [ ]
पदपाठः (Word-by-word)
पय॑सा । जु॒हु॒यात् । ग्रा॒म्यान् । प॒शून् । शु॒चा । अ॒र्प॒ये॒त् । यत् । आ॒र॒ण्याना᳚म् । आ॒र॒ण्यान् । ज॒र्ति॒ल॒य॒वा॒ग्वेति॑ जर्तिल - य॒वा॒ग्वा᳚ । वा॒ । जु॒हु॒यात् । ग॒वी॒धु॒क॒य॒वा॒ग्वेति॑ गवीधुक - य॒वा॒ग्वा᳚ । वा॒ । न । ग्रा॒म्यान् । प॒शून् । हि॒नस्ति॑ । न । आ॒र॒ण्यान् । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अना॑हुति॒रित्यना᳚-हु॒तिः॒ । वै । ज॒र्तिलाः᳚ । च॒ । ग॒वीधु॑काः । च॒ । इति॑ । अ॒ज॒क्षी॒रेणेत्य॑ज - क्षी॒रेण॑ । जु॒हो॒ति॒ । आ॒ग्ने॒यी । वै । ए॒षा । यत् । अ॒जा । आहु॒त्येत्या - हु॒त्या॒ । ए॒व । जु॒हो॒ति॒ । न । ग्रा॒म्यान् । प॒शून् । हि॒नस्ति॑ । न । आ॒र॒ण्यान् । अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । यन्तः॑ ।