अनुवाकः 11 TS 5.4.11

(A11)

(प्र - भ॑वति - यजमानायत॒नं ॅवा - अ॒ष्टाच॑त्वारिꣳशच्च)

अनुवाकः 11 - Complete Audio

TS 5.4.11 - स्वरानुगामी

0:00 0:00
PS1.1 छ॒न्द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒
PS1.2 वै छन्दाꣳ॑सि पशु॒माने॒व भ॑वति
PS1.3 श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो
PS1.4 वै वय॑सां॒ पति॑ष्ठः श्ये॒न
PS1.5 ए॒व भू॒त्वा सु॑व॒र्गं ॅलो॒कं
PS1.6 प॑तति कङ्क॒चितं॑ चिन्वीत॒ यः
PS1.7 का॒मये॑त शीर्.ष॒ण्वान॒मुष्मि॑न् ॅलो॒के स्या॒मिति॑
PS1.8 शीर्.ष॒ण्वाने॒वाऽमुष्मि॑न् ॅलो॒के भ॑वत्यलज॒चितं॑ चिन्वीत॒
PS1.9 चतु॑स्सीतं प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व
PS1.10 प्रति॑ तिष्ठति प्रौग॒चितं॑ चिन्वीत॒
PS1.11 भ्रातृ॑व्यवा॒न् प्रै - [
PS1.12 ]
PS2.1 -व भ्रातृ॑व्यान् नुदत उभ॒यतः॑
PS2.2 प्रौगं चिन्वीत॒यः का॒मये॑त॒ प्रजा॒तान्
PS2.3 भ्रातृ॑व्यान् नु॒देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॒
PS2.4 प्रैव जा॒तान् भ्रातृ॑व्यान् नु॒दते॒
PS2.5 प्रति॑ जनि॒ष्यमा॑णान् रथचक्र॒चितं॑ चिन्वीत॒
PS2.6 भ्रातृ॑व्यवा॒न्॒ वज्रो॒ वै रथो॒
PS2.7 वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति द्रोण॒चितं॑
PS2.8 चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्नं॑
PS2.9 भ्रियते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धे समू॒ह्यं॑
PS2.10 चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति
PS2.11 - [ ]
PS3.1 परिचा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व
PS3.2 भ॑वति श्मशान॒चितं॑ चिन्वीत॒ यः
PS3.3 का॒मये॑त पितृलो॒क ऋ॑द्ध्नुया॒मिति॑ पितृलो॒क
PS3.4 ए॒वर्द्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनाऽस्पर्द्धेताꣳ॒॒ स
PS3.5 ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त् ता
PS3.6 उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं
PS3.7 ॅवी॒र्य॑मवृङ्क्त॒ यद्-वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑
PS3.8 ॅयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्द्धिष्णि॑य॒
PS3.9 उप॑ दधाति यजमानायत॒नं ॅवै
PS3.10 - [ ]
PS4.1 होता॒ स्व ए॒वास्मा॑ आ॒यत॑न
PS4.2 इन्द्रि॒यं ॅवी॒र्य॑मव॑ रुन्धे॒ द्वाद॒शोप॑
PS4.3 दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः
PS4.4 प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒
PS4.5 ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑
PS4.6 प॒शूने॒वाव॑ रुन्धे॒ षण्मा᳚र्जा॒लीये॒ षड्
PS4.7 वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒
PS4.8 वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व
PS4.9 दे॒वान् पि॒तॄन् प्री॑णाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.4.11.1 TS 5.4.11.1
छ॒न्द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दाꣳ॑सि पशु॒माने॒व भ॑वति श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सां॒ पति॑ष्ठः श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं ॅलो॒कं प॑तति कङ्क॒चितं॑ चिन्वीत॒ यः का॒मये॑त शीर्.ष॒ण्वान॒मुष्मि॑न् ॅलो॒के स्या॒मिति॑ शीर्.ष॒ण्वाने॒वाऽमुष्मि॑न् ॅलो॒के भ॑वत्यलज॒चितं॑ चिन्वीत॒ चतु॑स्सीतं प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति प्रौग॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न् प्रै - [ ]
पदपाठः (Word-by-word)
छ॒न्द॒श्चित॒मिति॑ छन्दः - चित᳚म् । चि॒न्वी॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । प॒शवः॑ । वै । छन्दाꣳ॑सि । प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ । श्ये॒न॒चित॒मिति॑ श्येन - चित᳚म् । चि॒न्वी॒त॒ । सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग - का॒मः॒ । श्ये॒नः । वै । वय॑साम् । पति॑ष्ठः । श्ये॒नः । ए॒व । भू॒त्वा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । प॒त॒ति॒ । क॒ङ्क॒चित॒मिति॑ कङ्क - चित᳚म् । चि॒न्वी॒त॒ । यः । का॒मये॑त । शी॒र्.॒ष॒ण्वानिति॑ शीर्.षण् - वान् । अ॒मुष्मिन्न्॑ । लो॒के । स्या॒म् । इति॑ । शी॒र्.॒ष॒ण्वानिति॑ शीर्.षण् - वान् । ए॒व । अ॒मुष्मिन्न्॑ । लो॒के । भ॒व॒ति॒ । अ॒ल॒ज॒चित॒मित्य॑लज - चित᳚म् । चि॒न्वी॒त॒ । चतु॑स्सीत॒मिति॒ चतुः॑ - सी॒त॒म् । प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा-का॒मः॒ । चत॑स्रः । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । प्र॒उ॒ग॒चित॒मिति॑ प्र‌उग - चित᳚म् । चि॒न्वी॒त॒ । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वान् । प्रेति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 छन्दश्चितमित्यादयो विधयः छन्दोभिश्चीयत इति । छन्दश्चित् । 'कर्मण्याख्यायाम्' इति क्विप् । अत्र सामर्थ्यादवधारणं गम्यते छन्दोभिरेवेति । उक्तं 'छन्दांस्युप दधाति' इति तैरेव 'अग्निर्मूर्धा' इत्यादिभिः मन्त्रैस्सर्वोग्निश्चीयते । अन्य आहुः छन्दोभिरेव नेष्टकाभिरिति । छन्दश्शब्दस्य मन्त्रवाचित्वात् मन्त्रैरेव'अग्निर्मूर्धा' इत्यादिभिश्चीयत इति । सर्वैर्मन्त्रैरित्यपरे । छन्दसां पशुसाधनत्वात् पशुमान् भवति । 'ह्रस्वनुङ्भ्याम्' इति मतुप उदात्तत्वम् ॥
2 श्येनचितमिति ॥ श्येन इव चीयते वक्रपक्षो व्यस्तपुच्छ इति । स एव क्विप् । नित्य एव; नात्र कामसंयोगः । उक्तं च 'श्येनचिदग्नीनां' इति । पतिष्ठः पतितृतमः पक्षिणां मध्ये । 'तुश्छन्दसि' इतीष्ठनि 'तुरिष्ठेमेयस्सु' इति लोपः ॥
3 कङ्कचितमिति ॥ कङ्क इव चीयत इति श्येनभेद एव अयं पक्षी वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ सन्नं पुच्छं दीर्घ आत्मा मण्डल-

शिरश्च । शीर्षण्वानिति । प्रशस्तशिरस्कः प्रभूतत्वेनोच्छ्रितत्वं शिर-

सः प्रशस्तत्वम् । 'अनो नुट्' पूर्ववन्मतुप उदात्तत्वम् ॥

4 अलजचितमिति ॥ अलजो नाम भासाख्यः कङ्कसमानकमि[नाकृ]तिपक्षिविशेषः, स इव चीयत इति क्विप् । चतुस्सीतमिति । द्वादशत्वस्य प्रत्याम्नानाच्चतुष्ट्वं; तिसृणां स्थान एकैका ॥
5 प्रउगचितमिति ॥ प्रौगं अनोमुखम् । यावानग्निस्सारत्निप्रदेशतो द्विस्तावतीं भूमिं चतुरश्रं कृत्वा पूर्वस्याः करण्याः अर्घाच्छ्रोणीं प्रत्यालिखेत् । लेखयोरन्तः प्रउगाकारो दृश्यते; तदिव चीयत इति । स एव क्विप् । प्रणुदत एव भ्रातृव्यान् शत्रून् । व्यन् ॥
6 उभयतःप्रउगमिति ॥ उभयोरन्तयोः प्रउगस्येवाकारो यस्येति स उभयतःप्रउगः । मध्ये विस्तीर्णया विमुखे शकटे तदर्धं पूर्वोक्तप्रमाणं क्षेत्रं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धान्तादिति दक्षिणोत्तरयोरन्तर्निपातयेत् । मध्ये उभयतःप्रउगं दृश्यते इति । जातान् भ्रातृव्यान् प्रणुदते नाशयति । जनिष्यमाणान् प्रतिनुदते उत्पत्तिनिरोधेन अनुत्पन्नानेव करोति ॥
7 रथचक्रमिति ॥ रथस्तृतीयमुक्तां? । तस्य चक्रमिव चीयत इति । स एव क्विप् । वज्रवज्जयसाधनं रथः तत्रावयवावयविनोरभेदोपचारात् चक्रं रथ उच्यते ॥
8 द्रोणचितमिति ॥ यत्रान्नमाह्रियते तद्द्रोणं, तदिव चीयत इति । सतोमण्डलश्चतुरश्रो वा । पूर्ववत्क्विप् । सयोनीति । कारणसहितमेवान्नमवरुन्धे ॥
9 समूह्यमिति ॥ दिग्भ्यः पुरीषमस्मिन्निति अधिकरणे ण्यत् । 'अग्नौ परिचाय्य' इत्यादौ निपात्यते । आहुश्च - 'चतुर्दिक्षु चात्वाला भवन्ति तेभ्यः पुरीषमूहन्तीति विज्ञायते' इति । मृदेव समूह्य चीयत इति केचित् ॥
10 परिचाय्यमिति । परितः प्रदक्षिणं चीयन्त इष्टकाः इति । तत्रैव निपात्यते । आहुश्च - मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति कर्षणादिकमपि मण्डलाकारमिति केचित् ॥
11 श्मशानचितमिति ॥ श्मशानानि विषमाकाराणि चतुरश्राणि परिमण्डलानि च तद्वच्चीयत इति । स्वरुध्य [ऋद्ध्यै] द्रोणचित्समानम् । स एव क्विप् ॥
12 विश्वामित्रजमदग्नी इति ॥ गतम् । विहव्या इति । 'ममाग्ने वर्चः' इत्यादिभिरुपधेयाः । विहवशब्दवानुपधाने मन्त्र आसाम् । पूर्ववद्यत् ॥
13 होतुर्धिष्णिय इत्याद्याः सङ्ख्याविशेषविधयः । यजमानायतनं वा इति । तादर्थ्याद्यजमानायतनत्वं होतुः । द्वादशेति । एकां या जुषीमेकादश च लोकंपृणाः । गतमन्यत् ॥
14 अष्टाविति ॥ एकां याजुषीम् । सप्त च लोकंपृणाः । अन्येषु धिष्ण्येषु आग्नीध्रीयादिषु षडिति । एकां याजुषीं पञ्च लोकंपृणाः । ऋतव एव खलु पितृरूपेण वर्तन्ते । तस्मादुभयान्प्रीणातीति ॥
इति पञ्चमे चतुर्थे एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 5.4.11.2 TS 5.4.11.2
-व भ्रातृ॑व्यान् नुदत उभ॒यतः॑ प्रौगं चिन्वीत॒यः का॒मये॑त॒ प्रजा॒तान् भ्रातृ॑व्यान् नु॒देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान् रथचक्र॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न्॒ वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति द्रोण॒चितं॑ चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्नं॑ भ्रियते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धे समू॒ह्यं॑ चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति - [ ]
पदपाठः (Word-by-word)
ए॒व । भ्रातृ॑व्यान् । नु॒द॒ते॒ । उ॒भ॒यतः॑ प्र‌उग॒मित्यु॑भ॒यतः॑ - प्र॒उ॒ग॒म् । चि॒न्वी॒त॒ । यः । का॒मये॑त । प्रेति॑ । जा॒तान् । भ्रातृ॑व्यान् । नु॒देय॑ । प्रतीति॑ । ज॒नि॒ष्यमा॑णान् । इति॑ । प्रेति॑ । ए॒व । जा॒तान् । भ्रातृ॑व्यान् । नु॒दते᳚ । प्रतीति॑ । ज॒नि॒ष्यमा॑णान् । र॒थ॒च॒क्र॒चित॒मिति॑ रथचक्र - चित᳚म् । चि॒न्वी॒त॒ । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । वज्रः॑ । वै । रथः॑ । वज्र᳚म् । ए॒व । भ्रातृ॑व्येभ्यः । प्रेति॑ । ह॒र॒ति॒ । द्रो॒ण॒चित॒मिति॑ द्रोण - चित᳚म् । चि॒न्वी॒त॒ । अन्न॑काम॒ इत्यन्न॑-का॒मः॒ । द्रोणे᳚ । वै । अन्न᳚म् । भ्रि॒य॒ते॒ । सयो॒नीति॒ स-यो॒नि॒ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । स॒मू॒ह्य॑मिति॑ सं - ऊ॒ह्य᳚म् । चि॒न्वी॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । प॒शु॒मानिति॑ पशु -मान् । ए॒व । भ॒व॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.4.11.3 TS 5.4.11.3
परिचा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चितं॑ चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑द्ध्नुया॒मिति॑ पितृलो॒क ए॒वर्द्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनाऽस्पर्द्धेताꣳ॒॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त् ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं ॅवी॒र्य॑मवृङ्क्त॒ यद्-वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑ ॅयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्द्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं ॅवै - [ ]
पदपाठः (Word-by-word)
प॒रि॒चा॒य्य॑मिति॑ परि - चा॒य्य᳚म् । चि॒न्वी॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । श्म॒शा॒न॒चित॒मिति॑ श्मशान - चित᳚म् । चि॒न्वी॒त॒ । यः । का॒मये॑त । पि॒तृ॒लो॒क इति॑ पितृ - लो॒के । ऋ॒द्ध्नु॒या॒म् । इति॑ । पि॒तृ॒लो॒क इति॑ पितृ - लो॒के । ए॒व । ऋ॒द्ध्नो॒ति॒ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी इति॑ विश्वामित्र - ज॒म॒द॒ग्नी । वसि॑ष्ठेन । अ॒स्प॒द्‌र्धे॒ता॒म् । सः । ए॒ताः । ज॒मद॑ग्निः । वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ । अ॒प॒श्य॒त् । ताः । उपेति॑ । अ॒ध॒त्त॒ । ताभिः॑ । वै । सः । वसि॑ष्ठस्य । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अ॒वृ॒ङ्क्त॒ । यत् । वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । इ॒न्द्रि॒यम् । ए॒व । ताभिः॑ । वी॒र्य᳚म् । यज॑मानः । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । होतुः॑ । धिष्णि॑ये । उपेति॑ । द॒धा॒ति॒ । य॒ज॒मा॒ना॒य॒त॒नमिति॑ यजमान - आ॒य॒त॒नम् । वै ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.4.11.4 TS 5.4.11.4
होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यं ॅवी॒र्य॑मव॑ रुन्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒ षण्मा᳚र्जा॒लीये॒ षड् वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान् पि॒तॄन् प्री॑णाति ॥
पदपाठः (Word-by-word)
होता᳚ । स्वे । ए॒व । अ॒स्मै॒ । आ॒यत॑न॒ इत्या᳚ - यत॑ने । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अवेति॑ । रु॒न्धे॒ । द्वाद॑श । उपेति॑ । द॒धा॒ति॒ । द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ । जग॑ती । जाग॑ताः । प॒शवः॑ । जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । अ॒ष्टाव॑ष्टा॒वित्य॒ष्टौ-अ॒ष्टौ॒ । अ॒न्येषु॑ । धिष्णि॑येषु । उपेति॑ । द॒धा॒ति॒ । अ॒ष्टाश॑फा॒ इत्य॒ष्टा - श॒फाः॒ । प॒शवः॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । षट् । मा॒र्जा॒लीये᳚ । षट् । वै । ऋ॒तवः॑ । ऋ॒तवः॑ । खलु॑ । वै । दे॒वाः । पि॒तरः॑ । ऋ॒तून् । ए॒व । दे॒वान् । पि॒तॄन् । प्री॒णा॒ति॒ ॥
पदसंख्या: 48