पञ्चशत् 1 #
छ॒न्द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दाꣳ॑सि पशु॒माने॒व भ॑वति श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सां॒ पति॑ष्ठः श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं ॅलो॒कं प॑तति कङ्क॒चितं॑ चिन्वीत॒ यः का॒मये॑त शीर्.ष॒ण्वान॒मुष्मि॑न् ॅलो॒के स्या॒मिति॑ शीर्.ष॒ण्वाने॒वाऽमुष्मि॑न् ॅलो॒के भ॑वत्यलज॒चितं॑ चिन्वीत॒ चतु॑स्सीतं प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति प्रौग॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न् प्रै - [ ]
पदपाठः (Word-by-word)
छ॒न्द॒श्चित॒मिति॑ छन्दः - चित᳚म् । चि॒न्वी॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । प॒शवः॑ । वै । छन्दाꣳ॑सि । प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ । श्ये॒न॒चित॒मिति॑ श्येन - चित᳚म् । चि॒न्वी॒त॒ । सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग - का॒मः॒ । श्ये॒नः । वै । वय॑साम् । पति॑ष्ठः । श्ये॒नः । ए॒व । भू॒त्वा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । प॒त॒ति॒ । क॒ङ्क॒चित॒मिति॑ कङ्क - चित᳚म् । चि॒न्वी॒त॒ । यः । का॒मये॑त । शी॒र्.॒ष॒ण्वानिति॑ शीर्.षण् - वान् । अ॒मुष्मिन्न्॑ । लो॒के । स्या॒म् । इति॑ । शी॒र्.॒ष॒ण्वानिति॑ शीर्.षण् - वान् । ए॒व । अ॒मुष्मिन्न्॑ । लो॒के । भ॒व॒ति॒ । अ॒ल॒ज॒चित॒मित्य॑लज - चित᳚म् । चि॒न्वी॒त॒ । चतु॑स्सीत॒मिति॒ चतुः॑ - सी॒त॒म् । प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा-का॒मः॒ । चत॑स्रः । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । प्र॒उ॒ग॒चित॒मिति॑ प्रउग - चित᳚म् । चि॒न्वी॒त॒ । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वान् । प्रेति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 छन्दश्चितमित्यादयो विधयः छन्दोभिश्चीयत इति । छन्दश्चित् । 'कर्मण्याख्यायाम्' इति क्विप् । अत्र सामर्थ्यादवधारणं गम्यते छन्दोभिरेवेति । उक्तं 'छन्दांस्युप दधाति' इति तैरेव 'अग्निर्मूर्धा' इत्यादिभिः मन्त्रैस्सर्वोग्निश्चीयते । अन्य आहुः छन्दोभिरेव नेष्टकाभिरिति । छन्दश्शब्दस्य मन्त्रवाचित्वात् मन्त्रैरेव'अग्निर्मूर्धा' इत्यादिभिश्चीयत इति । सर्वैर्मन्त्रैरित्यपरे । छन्दसां पशुसाधनत्वात् पशुमान् भवति । 'ह्रस्वनुङ्भ्याम्' इति मतुप उदात्तत्वम् ॥
2 श्येनचितमिति ॥ श्येन इव चीयते वक्रपक्षो व्यस्तपुच्छ इति । स एव क्विप् । नित्य एव; नात्र कामसंयोगः । उक्तं च 'श्येनचिदग्नीनां' इति । पतिष्ठः पतितृतमः पक्षिणां मध्ये । 'तुश्छन्दसि' इतीष्ठनि 'तुरिष्ठेमेयस्सु' इति लोपः ॥
3 कङ्कचितमिति ॥ कङ्क इव चीयत इति श्येनभेद एव अयं पक्षी वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ सन्नं पुच्छं दीर्घ आत्मा मण्डल-
शिरश्च । शीर्षण्वानिति । प्रशस्तशिरस्कः प्रभूतत्वेनोच्छ्रितत्वं शिर-
सः प्रशस्तत्वम् । 'अनो नुट्' पूर्ववन्मतुप उदात्तत्वम् ॥
4 अलजचितमिति ॥ अलजो नाम भासाख्यः कङ्कसमानकमि[नाकृ]तिपक्षिविशेषः, स इव चीयत इति क्विप् । चतुस्सीतमिति । द्वादशत्वस्य प्रत्याम्नानाच्चतुष्ट्वं; तिसृणां स्थान एकैका ॥
5 प्रउगचितमिति ॥ प्रौगं अनोमुखम् । यावानग्निस्सारत्निप्रदेशतो द्विस्तावतीं भूमिं चतुरश्रं कृत्वा पूर्वस्याः करण्याः अर्घाच्छ्रोणीं प्रत्यालिखेत् । लेखयोरन्तः प्रउगाकारो दृश्यते; तदिव चीयत इति । स एव क्विप् । प्रणुदत एव भ्रातृव्यान् शत्रून् । व्यन् ॥
6 उभयतःप्रउगमिति ॥ उभयोरन्तयोः प्रउगस्येवाकारो यस्येति स उभयतःप्रउगः । मध्ये विस्तीर्णया विमुखे शकटे तदर्धं पूर्वोक्तप्रमाणं क्षेत्रं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धान्तादिति दक्षिणोत्तरयोरन्तर्निपातयेत् । मध्ये उभयतःप्रउगं दृश्यते इति । जातान् भ्रातृव्यान् प्रणुदते नाशयति । जनिष्यमाणान् प्रतिनुदते उत्पत्तिनिरोधेन अनुत्पन्नानेव करोति ॥
7 रथचक्रमिति ॥ रथस्तृतीयमुक्तां? । तस्य चक्रमिव चीयत इति । स एव क्विप् । वज्रवज्जयसाधनं रथः तत्रावयवावयविनोरभेदोपचारात् चक्रं रथ उच्यते ॥
8 द्रोणचितमिति ॥ यत्रान्नमाह्रियते तद्द्रोणं, तदिव चीयत इति । सतोमण्डलश्चतुरश्रो वा । पूर्ववत्क्विप् । सयोनीति । कारणसहितमेवान्नमवरुन्धे ॥
9 समूह्यमिति ॥ दिग्भ्यः पुरीषमस्मिन्निति अधिकरणे ण्यत् । 'अग्नौ परिचाय्य' इत्यादौ निपात्यते । आहुश्च - 'चतुर्दिक्षु चात्वाला भवन्ति तेभ्यः पुरीषमूहन्तीति विज्ञायते' इति । मृदेव समूह्य चीयत इति केचित् ॥
10 परिचाय्यमिति । परितः प्रदक्षिणं चीयन्त इष्टकाः इति । तत्रैव निपात्यते । आहुश्च - मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति कर्षणादिकमपि मण्डलाकारमिति केचित् ॥
11 श्मशानचितमिति ॥ श्मशानानि विषमाकाराणि चतुरश्राणि परिमण्डलानि च तद्वच्चीयत इति । स्वरुध्य [ऋद्ध्यै] द्रोणचित्समानम् । स एव क्विप् ॥
12 विश्वामित्रजमदग्नी इति ॥ गतम् । विहव्या इति । 'ममाग्ने वर्चः' इत्यादिभिरुपधेयाः । विहवशब्दवानुपधाने मन्त्र आसाम् । पूर्ववद्यत् ॥
13 होतुर्धिष्णिय इत्याद्याः सङ्ख्याविशेषविधयः । यजमानायतनं वा इति । तादर्थ्याद्यजमानायतनत्वं होतुः । द्वादशेति । एकां या जुषीमेकादश च लोकंपृणाः । गतमन्यत् ॥
14 अष्टाविति ॥ एकां याजुषीम् । सप्त च लोकंपृणाः । अन्येषु धिष्ण्येषु आग्नीध्रीयादिषु षडिति । एकां याजुषीं पञ्च लोकंपृणाः । ऋतव एव खलु पितृरूपेण वर्तन्ते । तस्मादुभयान्प्रीणातीति ॥
इति पञ्चमे चतुर्थे एकादशोनुवाकः ॥