अनुवाकः 9 TS 5.4.9

(A9)

(ओष॑धयः स॒प्ता - भि - दिशो॒ - ऽन्यथा॒ - द्वे च॑)

अनुवाकः 9 - Complete Audio

TS 5.4.9 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्निर्दे॒वेभ्यो ऽपा᳚क्रामद्-भाग॒धेय॑मि॒च्छमा॑न॒स्तं दे॒वा अ॑ब्रुव॒न्नुप॑
PS1.2 न॒ आ व॑र्तस्व ह॒व्यं
PS1.3 नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्-वरं॑ ॅवृणै॒
PS1.4 मह्य॑मे॒व वा॑जप्रस॒वीयं॑ जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑
PS1.5 वाजप्रस॒वीयं॑ जुह्वति॒ यद्-वा॑जप्रस॒वीयं॑ जु॒होत्य॒ग्निमे॒व
PS1.6 तद्-भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒
PS1.7 स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या
PS1.8 ओष॑धयः स॒प्ता - [
PS1.9 ]
PS2.1 -*ऽऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्या-व॑रुद्ध्या॒
PS2.2 औदु॑म्बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दु॒म्बर॒
PS2.3 ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्धे॒ ऽग्निर्वै
PS2.4 दे॒वाना॑-म॒भिषि॑क्तोऽग्नि॒चिन्-म॑नु॒ष्या॑णां॒ तस्मा॑दग्नि॒चिद्-वर्.ष॑ति॒ न धा॑वे॒दव॑रुद्धꣳ॒॒
PS2.5 ह्य॑स्या-न्न॒मन्न॑मिव॒ खलु॒ वै व॒र्॒.षं
PS2.6 ॅयद्धावे॑द॒न्नाद्-या᳚द्धावेदु॒पाव॑र्तेता॒-न्नाद्य॑मे॒वाभ्यु॒ - [ ]
PS3.1 -पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै॒
PS3.2 पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रिं॒ प्रदा॑पयति॒
PS3.3 रात्रि॒याऽह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्यं॑
PS3.4 दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑
PS3.5 रुन्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑
PS3.6 ऋ॒तुष्वे॒व प्रति॑तिष्ठति॒ भुव॑नस्य पत॒
PS3.7 इति॑ रथमु॒खे पञ्चाऽऽ*हु॑तीर्जुहोति॒ वज्रो॒
PS3.8 वै रथो॒ वज्रे॑णै॒व दिशो॒
PS3.9 - [ ]
PS4.1 -ऽभि ज॑यत्यग्नि॒चितꣳ॑ ह॒ वा
PS4.2 अ॒मुष्मि॑न् ॅलो॒के वातो॒ऽभि प॑वते
PS4.3 वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑-म॒मुष्मि॑न् ॅलो॒के वातः॑
PS4.4 पवते॒ त्रीणि॑ जुहोति॒ त्रय॑
PS4.5 इ॒मे लो॒का ए॒भ्य ए॒व
PS4.6 लो॒केभ्यो॒ वात॒मव॑ रुन्धे समु॒द्रो॑ऽसि॒
PS4.7 नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒पꣳ रू॒पेणै॒व
PS4.8 वात॒मव॑ रुन्धे ऽञ्ज॒लिना॑ जुहोति॒
PS4.9 न ह्ये॑तेषा॑म॒न्यथा ( )
PS4.10 ऽऽहु॑तिरव॒कल्प॑ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.4.9.1 TS 5.4.9.1
अ॒ग्निर्दे॒वेभ्यो ऽपा᳚क्रामद्-भाग॒धेय॑मि॒च्छमा॑न॒स्तं दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्-वरं॑ ॅवृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीयं॑ जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीयं॑ जुह्वति॒ यद्-वा॑जप्रस॒वीयं॑ जु॒होत्य॒ग्निमे॒व तद्-भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ता - [ ]
पदपाठः (Word-by-word)
अ॒ग्निः । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । भा॒ग॒धेय॒मिति॑ भाग-धेय᳚म् । इ॒च्छमा॑नः । तम् । दे॒वाः । अ॒ब्रु॒व॒न्न् । उपेति॑ । नः॒ । एति॑ । व॒र्त॒स्व॒ । ह॒व्यम् । नः॒ । व॒ह॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । मह्य᳚म् । ए॒व । वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । जु॒ह॒व॒न्न् । इति॑ । तस्मा᳚त् । अ॒ग्नये᳚ । वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । जु॒ह॒ति॒ । यत् । वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । जु॒होति॑ । अ॒ग्निम् । ए॒व । तत् । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अथो॒ इति॑ । अ॒भि॒षे॒क इत्य॑भि - से॒कः । ए॒व । अ॒स्य॒ । सः । च॒तु॒र्द॒शभि॒रिति॑ चतुर्द॒श - भिः॒ । जु॒हो॒ति॒ । स॒प्त । ग्रा॒म्याः । ओष॑धयः । स॒प्त ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्निर्देवेभ्य इत्यादि ॥ भागधेयमसाधारणमिच्छन् देवेभ्योपागच्छत् । तमित्यादि । गतम् । वाजप्रसवीयमिति । 'वाञो नस्सप्त' इति सप्तभिस्सप्तभिः यत्क्रियते वाजोऽन्नं तस्य प्रसवः प्रसूतिरुत्पादनं तत्प्रयोजनेन होमः वाजप्रसवीयः । अनुप्रवचनादिलक्षणश्छः । चतुर्दशौषधिहोमस्य संज्ञा । जुहवन्निति । जुहुयुः । पञ्चमो लकारः । अथो अपि च अभिषेक एवास्याग्नेः स वाजप्रसवीयः देवानामादित्ये स्थापनात् । न केवल भागधेयसमृद्धिरेवास्यानेन भवति ॥
2 चतुर्दशभिरोषधीभिः । 'तृतीया च होश्छन्दसि' इति तृतीया । आहुतिश्च । सप्त ग्राम्या इति । उभयीषां होमादुभयीषां लाभः । तत्र ग्राम्याः - तिलमाषा व्रीहियवाः प्रियङ्गवोऽणवो गोधूमा इति । अथारण्याः - शामाकनीवारजर्तिलगवीधुका हाळका वास्याणवश्च ॥
3 अन्नस्यान्नस्येति ॥ पृथक् चतुर्दशान्नस्येति । 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् ॥
4 औदुम्बरेणेत्यादि ॥ गतम् ॥
5 अग्निर्वा इत्यादि ॥ गतम् । उक्तं हि 'अथो अभिषेक एवास्य' इति देवानामभिषिक्तः । तद्वदग्निचिन्मनुष्याणां मध्ये अभिषिक्तः । उक्तं च 'तस्मान्नासीनं यजमानमग्निमन्वारब्धं संपातैरभिषिञ्चति' इति । तस्मादित्यादि । वर्षति देवे अग्निचित् न धावेत् । परिगृह्य हेतुमाह - अस्य ह्यन्नमरुद्धं संपाताभिषेकेणैव लब्धत्वात् । तथाऽन्नं भवतु वर्षति मा यातव्यमित्यत आह - अन्नमिव खलु वै वर्षं अन्नकारणकारणत्वात् अन्नमेवेति भावः । तस्माद्यदि धावेत् अन्नादत एवोत्पत्तेः न वर्षाभिमुख्येन गच्छेत्, यथाऽभिमुखं वर्षमागच्छति ततो गच्छेत् । तथा कुर्वन्नन्नाद्यमेव आभिमुख्येनोपगच्छति ॥
6 अह्नैवेति ॥ अह्ना वत्सस्थानीयेन रात्र्यात्मिकां गां प्रदापयति प्रस्नुतस्तनीं करोति । रात्र्या वत्सस्थानीयया अहरात्मिकां गां प्रदापयति । ततश्चाहोरात्रे प्रत्ते प्रस्नुतस्तने सर्वं काममन्नाद्यं दुहाते । 'हेमन्तशिशिरावहोरात्रे च' इति नपुंसकत्वम् । दातुमारब्धे प्रत्ते । आदिकर्मणि निष्ठा, 'अच उपसर्गात्तः' इति तादेशः ॥
7 राष्ट्रभृत इति ॥ 'ऋताषाट्' इत्याद्याः षड्भिःषड्भिः पर्यायैः द्वादश जुहोति ॥
8 पञ्चेति ॥ 'भुवनस्य पते' इति पञ्चभिःपञ्चभिः पर्यायैः ॥
9 अग्निचितं हेत्यादि ॥ आभिमुख्येन आगत्य सुखयति वातः । वातनामानीति । 'समुद्रोसि नभस्वान्' इत्यादीनि । गतमन्यत् ॥
10 अञ्जलिनेति ॥ विधिः । न ही ति । अञ्जलिव्यतिरेकेण एतेषामाहुतिर्न सम्भवति । मन्त्रभेदेनाहुतिभेदमाश्रित्य एतेषामिति बहुवचनम् ॥
इति पञ्चमे चतुर्थे नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.4.9.2 TS 5.4.9.2
-*ऽऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्या-व॑रुद्ध्या॒ औदु॑म्बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्धे॒ ऽग्निर्वै दे॒वाना॑-म॒भिषि॑क्तोऽग्नि॒चिन्-म॑नु॒ष्या॑णां॒ तस्मा॑दग्नि॒चिद्-वर्.ष॑ति॒ न धा॑वे॒दव॑रुद्धꣳ॒॒ ह्य॑स्या-न्न॒मन्न॑मिव॒ खलु॒ वै व॒र्॒.षं ॅयद्धावे॑द॒न्नाद्-या᳚द्धावेदु॒पाव॑र्तेता॒-न्नाद्य॑मे॒वाभ्यु॒ - [ ]
पदपाठः (Word-by-word)
आ॒र॒ण्याः । उ॒भयी॑षाम् । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । जु॒हो॒ति॒ । अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । औदु॑बंरेण । स्रु॒वेण॑ । जु॒हो॒ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्क् । अन्न᳚म् । ऊ॒र्जा । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । अ॒ग्निः । वै । दे॒वाना᳚म् । अ॒भिषि॑क्त॒ इत्य॒भि - सि॒क्तः॒ । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । म॒नु॒ष्या॑णाम् । तस्मा᳚त् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । वर्.ष॑ति । न । धा॒वे॒त् । अव॑रुद्ध॒मित्यव॑ - रु॒द्ध॒म् । हि । अ॒स्य॒ । अन्न᳚म् । अन्न᳚म् । इ॒व॒ । खलु॑ । वै । व॒र्॒.षम् । यत् । धावे᳚त् । अ॒न्नाद्या॒दित्य॑न्न - अद्या᳚त् । धा॒वे॒त् । उ॒पाव॑र्ते॒तेत्य॑प-आव॑र्तेत । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । ए॒व । अ॒भीति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.4.9.3 TS 5.4.9.3
-पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रिं॒ प्रदा॑पयति॒ रात्रि॒याऽह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्यं॑ दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाऽऽ*हु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशो॒ - [ ]
पदपाठः (Word-by-word)
उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । नक्तो॒षासा᳚ । इति॑ । कृ॒ष्णायै᳚ । श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त - व॒थ्सा॒यै॒ । पय॑सा । जु॒हो॒ति॒ । अह्ना᳚ । ए॒व । अ॒स्मै॒ । रात्रि᳚म् । प्रेति॑ । दा॒प॒य॒ति॒ । रात्रि॑या । अहः॑ । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । ए॒व । अ॒स्मै॒ । प्रत्ते॒ इति॑ । काम᳚म् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । दु॒हा॒ते॒ इति॑ । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । जु॒हो॒ति॒ । रा॒ष्ट्रम् । ए॒व । अवेति॑ । रु॒न्धे॒ । ष॒ड्भिरिति॑ षट् - भिः । जु॒हो॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । भुव॑नस्य । प॒ते॒ । इति॑ । र॒थ॒मु॒ख इति॑ रथ - मु॒खे । पञ्च॑ । आहु॑ती॒रित्या - हु॒तीः॒ । जु॒हो॒ति॒ । वज्रः॑ । वै । रथः॑ । वज्रे॑ण । ए॒व । दिशः॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.4.9.4 TS 5.4.9.4
-ऽभि ज॑यत्यग्नि॒चितꣳ॑ ह॒ वा अ॒मुष्मि॑न् ॅलो॒के वातो॒ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑-म॒मुष्मि॑न् ॅलो॒के वातः॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्धे समु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒पꣳ रू॒पेणै॒व वात॒मव॑ रुन्धे ऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथा ( ) ऽऽहु॑तिरव॒कल्प॑ते ॥
पदपाठः (Word-by-word)
अ॒भीति॑ । ज॒य॒ति॒ । अ॒ग्नि॒चित॒मित्य॑ग्नि - चित᳚म् । ह॒ । वै । अ॒मुष्मिन्न्॑ । लो॒के । वातः॑ । अ॒भीति॑ । प॒व॒ते॒ । वा॒त॒ना॒मानीति॑ वात - ना॒मानि॑ । जु॒हो॒ति॒ । अ॒भीति॑ । ए॒व । ए॒न॒म् । अ॒मुष्मिन्न्॑ । लो॒के । वातः॑ । प॒व॒ते॒ । त्रीणि॑ । जु॒हो॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒भ्यः । ए॒व । लो॒केभ्यः॑ । वात᳚म् । अवेति॑ । रु॒न्धे॒ । स॒मु॒द्रः । अ॒सि॒ । नभ॑स्वान् । इति॑ । आ॒ह॒ । ए॒तत् । वै । वात॑स्य । रू॒पम् । रू॒पेण॑ । ए॒व । वात᳚म् । अवेति॑ । रु॒न्धे॒ । अ॒ञ्ज॒लिना᳚ । जु॒हो॒ति॒ । न । हि । ए॒तेषा᳚म् । अ॒न्यथा᳚ ( ) । आहु॑ति॒रित्या - हु॒तिः॒ । अ॒व॒कल्प॑त॒ इत्य॑व - कल्प॑ते ॥
पदसंख्या: 52