पञ्चशत् 1 #
अ॒ग्निर्दे॒वेभ्यो ऽपा᳚क्रामद्-भाग॒धेय॑मि॒च्छमा॑न॒स्तं दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्-वरं॑ ॅवृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीयं॑ जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीयं॑ जुह्वति॒ यद्-वा॑जप्रस॒वीयं॑ जु॒होत्य॒ग्निमे॒व तद्-भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ता - [ ]
पदपाठः (Word-by-word)
अ॒ग्निः । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । भा॒ग॒धेय॒मिति॑ भाग-धेय᳚म् । इ॒च्छमा॑नः । तम् । दे॒वाः । अ॒ब्रु॒व॒न्न् । उपेति॑ । नः॒ । एति॑ । व॒र्त॒स्व॒ । ह॒व्यम् । नः॒ । व॒ह॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । मह्य᳚म् । ए॒व । वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । जु॒ह॒व॒न्न् । इति॑ । तस्मा᳚त् । अ॒ग्नये᳚ । वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । जु॒ह॒ति॒ । यत् । वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । जु॒होति॑ । अ॒ग्निम् । ए॒व । तत् । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । समिति॑ । अ॒द्र्ध॒य॒ति॒ । अथो॒ इति॑ । अ॒भि॒षे॒क इत्य॑भि - से॒कः । ए॒व । अ॒स्य॒ । सः । च॒तु॒र्द॒शभि॒रिति॑ चतुर्द॒श - भिः॒ । जु॒हो॒ति॒ । स॒प्त । ग्रा॒म्याः । ओष॑धयः । स॒प्त ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्निर्देवेभ्य इत्यादि ॥ भागधेयमसाधारणमिच्छन् देवेभ्योपागच्छत् । तमित्यादि । गतम् । वाजप्रसवीयमिति । 'वाञो नस्सप्त' इति सप्तभिस्सप्तभिः यत्क्रियते वाजोऽन्नं तस्य प्रसवः प्रसूतिरुत्पादनं तत्प्रयोजनेन होमः वाजप्रसवीयः । अनुप्रवचनादिलक्षणश्छः । चतुर्दशौषधिहोमस्य संज्ञा । जुहवन्निति । जुहुयुः । पञ्चमो लकारः । अथो अपि च अभिषेक एवास्याग्नेः स वाजप्रसवीयः देवानामादित्ये स्थापनात् । न केवल भागधेयसमृद्धिरेवास्यानेन भवति ॥
2 चतुर्दशभिरोषधीभिः । 'तृतीया च होश्छन्दसि' इति तृतीया । आहुतिश्च । सप्त ग्राम्या इति । उभयीषां होमादुभयीषां लाभः । तत्र ग्राम्याः - तिलमाषा व्रीहियवाः प्रियङ्गवोऽणवो गोधूमा इति । अथारण्याः - शामाकनीवारजर्तिलगवीधुका हाळका वास्याणवश्च ॥
3 अन्नस्यान्नस्येति ॥ पृथक् चतुर्दशान्नस्येति । 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् ॥
4 औदुम्बरेणेत्यादि ॥ गतम् ॥
5 अग्निर्वा इत्यादि ॥ गतम् । उक्तं हि 'अथो अभिषेक एवास्य' इति देवानामभिषिक्तः । तद्वदग्निचिन्मनुष्याणां मध्ये अभिषिक्तः । उक्तं च 'तस्मान्नासीनं यजमानमग्निमन्वारब्धं संपातैरभिषिञ्चति' इति । तस्मादित्यादि । वर्षति देवे अग्निचित् न धावेत् । परिगृह्य हेतुमाह - अस्य ह्यन्नमरुद्धं संपाताभिषेकेणैव लब्धत्वात् । तथाऽन्नं भवतु वर्षति मा यातव्यमित्यत आह - अन्नमिव खलु वै वर्षं अन्नकारणकारणत्वात् अन्नमेवेति भावः । तस्माद्यदि धावेत् अन्नादत एवोत्पत्तेः न वर्षाभिमुख्येन गच्छेत्, यथाऽभिमुखं वर्षमागच्छति ततो गच्छेत् । तथा कुर्वन्नन्नाद्यमेव आभिमुख्येनोपगच्छति ॥
6 अह्नैवेति ॥ अह्ना वत्सस्थानीयेन रात्र्यात्मिकां गां प्रदापयति प्रस्नुतस्तनीं करोति । रात्र्या वत्सस्थानीयया अहरात्मिकां गां प्रदापयति । ततश्चाहोरात्रे प्रत्ते प्रस्नुतस्तने सर्वं काममन्नाद्यं दुहाते । 'हेमन्तशिशिरावहोरात्रे च' इति नपुंसकत्वम् । दातुमारब्धे प्रत्ते । आदिकर्मणि निष्ठा, 'अच उपसर्गात्तः' इति तादेशः ॥
7 राष्ट्रभृत इति ॥ 'ऋताषाट्' इत्याद्याः षड्भिःषड्भिः पर्यायैः द्वादश जुहोति ॥
8 पञ्चेति ॥ 'भुवनस्य पते' इति पञ्चभिःपञ्चभिः पर्यायैः ॥
9 अग्निचितं हेत्यादि ॥ आभिमुख्येन आगत्य सुखयति वातः । वातनामानीति । 'समुद्रोसि नभस्वान्' इत्यादीनि । गतमन्यत् ॥
10 अञ्जलिनेति ॥ विधिः । न ही ति । अञ्जलिव्यतिरेकेण एतेषामाहुतिर्न सम्भवति । मन्त्रभेदेनाहुतिभेदमाश्रित्य एतेषामिति बहुवचनम् ॥
इति पञ्चमे चतुर्थे नवमोनुवाकः ॥