पञ्चशत् 1 #
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक् प्र॑ति॒पद्भ॑वति ति॒र्.सो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत् ति॒स्रो॑ऽनु॒ष्टुभ॒-स्तस्मा॒-दश्व॑स्त्रि॒भिस्तिष्ठꣳ॑ स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒थ् सर्वाꣳ॑ श्च॒तुरः॑ प॒दः प्र॑ति॒दध॒त् पला॑यते पर॒मा वा ए॒षा छन्द॑सां॒ ॅयद॑नु॒ष्टुक् प॑र॒मश्च॑तुष्टो॒मः स्तोमा॑नां पर॒मस्त्रि॑रा॒त्रो य॒ज्ञानां᳚ पर॒मोऽश्वः॑ पशू॒नां प॑र॒मेणै॒वैनं॑ पर॒मतां᳚ गमयत्येकविꣳ॒॒शमह॑र्भवति॒ - [ ]
पदपाठः (Word-by-word)
पव॑स्व । वाज॑सातय॒ इति॒ वाज॑ - सा॒त॒ये॒ । इति॑ । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । प्र॒ति॒पदिति॑ प्रति - पत् । भ॒व॒ति॒ । ति॒स्रः । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । चत॑स्रः । गा॒य॒त्रियः॑ । यत् । ति॒स्रः । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । तस्मा᳚त् । अश्वः॑ । त्रि॒भिरिति॑ त्रि-भिः । तिष्ठन्न्॑ । ति॒ष्ठ॒ति॒ । यत् । चत॑स्रः । गा॒य॒त्रियः॑ । तस्मा᳚त् । सर्वान्॑ । च॒तुरः॑ । प॒दः । प्र॒ति॒दध॒दिति॑ प्रति - दध॑त् । पला॑यते । प॒र॒मा । वै । ए॒षा । छन्द॑साम् । यत् । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । प॒र॒मः । च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । स्तोमा॑नाम् । प॒र॒मः । त्रि॒रा॒त्र इति॑ त्रि-रा॒त्रः । य॒ज्ञाना᳚म् । प॒र॒मः । अश्वः॑ । प॒शू॒नाम् । प॒र॒मेण॑ । ए॒व । ए॒न॒म् । प॒र॒मता᳚म् । ग॒म॒य॒ति॒ । ए॒क॒विꣳ॒॒शमित्ये॑क - विꣳ॒॒शम् । अहः॑ । भ॒व॒ति॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वमेधब्राह्मणं वैश्वदेवम् - पवस्वेत्यादि ॥ प्रतिपत् प्रथमा ऋक् । बहिष्पवमानस्याद्यतृचस्य पवस्वेत्यादिकाऽनुष्टुक् भवति । ततश्च तिस्रश्चतुष्पदा अनुष्टुभश्चतस्रः त्रिपदा गायत्र्यो भवन्ति । 'तिसृभ्यो जसः' इति जस उदात्तत्वम् । यस्मादेव तिस्रश्चतस्रश्च ता भवन्ति । तस्मात्त्र्रित्वान्वयादश्वस्त्रिभिः पादैः तिष्ठति । ततस्तिसृभिस्तिष्ठति चतुर्थमुद्यच्छति चतुष्ट्वान्वयात् । स च सर्वांचतुरोपि पदः प्रतिदधत् प्रतिक्षिपन् पलायते धावति । 'उपसर्गस्यायतौ' इति लत्वम् ॥
2 परमेति ॥ 'वाग्वा अनुष्टुप्' इति छन्दसां मध्ये अनुष्टुगुत्तमा । चतुष्टोमत्वं च । त्रिरात्रं च प्रकृष्टकार्यत्वात् उत्तमत्वं जहाति । चतुष्टोमवानग्निष्टोमश्चतुष्टोमाभेदेनोच्यते । अग्निष्टोमः । कस्मात्पूर्ववदभेद उपचर्यते, कथं पुनस्तदहरित्याह - यस्मिन्निति । मध्यममि ... ॥
3 द्वादशेत्यादि ॥ गतम् । एष इति । मासस्य लोकादित्यात्मना प्रजापतिः । तमिति । तादृशः प्रजापत्यात्मिकामृद्धिमृध्नोति । साक्षादव्यवधानेन एकविंशत्यन्वयात् ॥
4 शक्वरय इति ॥ शक्वरीछन्दस्कं पृष्ठसाम भवति । षट्पंच शक्वरयः । छान्दसं ह्रस्वत्वम् । आवृत्तिस्तोत्रेण पृष्ठस्य सामबहुत्वाभावाद्योन्यपेक्षं बहुवचनम् । अन्यदन्यदिति । एवमेवास्मिन्नहनि सर्वेष्वपि सामसु अन्यदन्यच्छन्दोस्मिन्नहनि अन्येऽन्ये वाऽप्येते पशव आलभ्यन्ते यथा चारण्या उक्ताः ग्राम्या आरण्याश्च पशवः । शक्वरीणां पृष्ठत्वं अश्वस्य सर्वत्वाय ॥
5 पार्थुरश्ममिति ॥ एवमेवास्मिन्नहनि सर्वेष्वपि सामसु । पृथुरश्मिना दृष्टं साम पार्थुरश्मम् । ब्रह्मसाममिति । 'अनसन्तान्नपुंसकात्' इत्यच् समासान्तः । रश्मिनेति । यस्माद्रश्मिना यतो बद्धोश्वः कार्यवशे तिष्ठति । ईश्वर इत्यादि । अयतस्त्वश्वोऽप्रतिष्ठितोऽवशे वर्तमानः परां परावतं दूरादपि दूरतरं गन्तुमीश्वरः समर्थस्स्यात् । 'उपसर्गाच्छदसि' इति वतिः, 'ईश्वरे तोसुन्कसुनौ' इति तोसुन् । तस्मात्पार्थुरश्ममश्वस्य यत्वै बन्धनाय भवति ॥
6 संकृतीति ॥ संकृतिसंज्ञाच्छावाकसाम भवति मध्यमेऽहनि । समीचीनाकृतिः अस्येति संकृतिः । उत्सन्नयज्ञ इत्यादि । उत्सन्नभूयिष्ठावयवोश्वमेधः कार्त्स्न्येन संपादयितुमशक्यत्वात् । तदेवाह – कस्तदिति । यद्ययं सर्वोप्यविकल एव अनुष्ठीयते यदि वा न तमिमं विशेषं को वेदितुमर्हतीति पुराविद आहुः । तस्मादच्छावाकसाम्नः संकृतित्वं अश्वस्य सर्वत्वाय अविकलत्वाय भवति । तच्च पर्याप्तयै देवानां भवति ।
नन्तरायाय अविघ्नाय स्वर्गप्राप्तयै भवति ॥
7 सर्वस्तोम इति ॥ उपलक्षणत्वात् सर्वस्तोमः सर्वपृष्ठश्चातिरात्र उत्तमस्तृतीयाहर्भवति सर्वस्याप्तै सर्वस्य जेतव्यस्य जित्यै । एतेनाश्वमेधेन हि सर्वमाप्नोति जयति च सर्वं इति ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे चतुर्थे प्रपाठके द्वादशोनुवाकः ॥
समाप्तश्च प्रपाठकः ॥
हरिः ओम् ॥
……………………………………………………………………………………………………………
प्रश्नः-5