पञ्चशत् 1 #
सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निं ॅयु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैनꣳ॒॒ स ए॑नं ॅयु॒क्तः सु॑व॒र्गं ॅलो॒कम॒भि व॑हति॒ यथ् सर्वा॑भिः प॒ञ्चभि॑-र्यु॒ञ्ज्याद्-यु॒क्तो᳚ऽस्या॒ऽग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒ आहु॑तयः॒ स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑ प्रातस्सव॒ने॑ऽभि मृ॑शति त्रि॒वृ - [ ]
पदपाठः (Word-by-word)
सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । लो॒काय॑ । दे॒व॒र॒थ इति॑ देव - र॒थः । यु॒ज्य॒ते॒ । य॒त्रा॒कू॒तायेति॑ यत्र - आ॒कू॒ताय॑ । म॒नु॒ष्य॒र॒थ इति॑ मनुष्य - र॒थः । ए॒षः । खलु॑ । वै । दे॒व॒र॒थ इति॑ देव - र॒थः । यत् । अ॒ग्निः । अ॒ग्निम् । यु॒न॒ज्मि॒ । शव॑सा । घृ॒तेन॑ । इति॑ । आ॒ह॒ । यु॒नक्ति॑ । ए॒व । ए॒न॒म् । सः । ए॒न॒म् । यु॒क्तः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । अ॒भीति॑ । व॒ह॒ति॒ । यत् । सर्वा॑भिः । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । यु॒ञ्ज्यात् । यु॒क्तः । अ॒स्य॒ । अ॒ग्निः । प्रच्यु॑त॒ इति॒ प्र - च्यु॒तः॒ । स्या॒त् । अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ । आहु॑तय॒ इत्या - हु॒त॒यः॒ । स्युः । अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ । स्तोमाः᳚ । अप्र॑तिष्ठिता॒नीत्यप्र॑ति - स्थि॒ता॒नि॒ । उ॒क्थानि॑ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । अ॒भीति॑ । मृ॒श॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सुवर्गायेत्यादि ॥ अग्नियोगविधिः । स्वर्गायैव लोकाय देवरथो युज्यते । मनुष्यरथस्तु यत्राकूताय यत्रक्वचिदाकूताय अभिप्रेताय देशाय यत्राभिप्रेतं देशं गन्तुं युज्यते । उभयत्रापि 'क्रियार्थोपपदस्य' इति कर्मणि चतुर्थी । प्रसिद्ध एव मनुष्यरथः कः पुनरसौ देवरथ इत्याह - एष इति । देवानां रमयिता रथः इष्टप्राप्तिहेतुत्वात् 'अग्निं युनज्मि' इत्यादिभिः तिसृभिरेनमग्निं युनक्त्येव अभिभवनक्षममेव करोति ॥
2 यदित्यादि ॥ सर्वाभिः पञ्चभिरपि ऋग्भिर्युञ्ज्यात् युगपदेव प्रातस्सवने तदाऽस्य युक्तो गमनयोग्यो जातस्तदानीमेव प्रच्युतस्स्यात् गन्तव्यं प्रतिगच्छेत् । तस्मिन्गते अग्न्यभावात् अप्रतिष्ठिता अप्रतिष्ठाने आहुतयस्य्युः स्तोमा उक्थानि च । तस्मात् पुरस्तात् प्रातरनुवाकात्तिसृभिः आद्याभिरभिमृशन् अग्निं युनक्ति । त्रित्वान्वयात्त्रिवृदग्निः सर्वोपि युक्तो भवति । ततश्च यथाऽनसि शकटे युक्ते गमनयोग्ये कृते आधीयते वोढव्यं द्रव्यजातमेवमेवैतत् । तस्मिन् अप्रच्युते आहुत्यादयः प्रतितिष्ठन्ति द्वाभ्यां युक्तत्वात् न सहसा प्रच्युत इति भावः । उभयत्रापि 'चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥
3 कस्तर्हि ताभ्यामुपयोग इत्याह - यज्ञायज्ञियस्य यज्ञायज्ञशब्दोऽस्मिन् अस्तीति 'मतौ छस्सूक्तसाम्नोः' इति छः । यज्ञायज्ञियमग्निष्टोमसाम येनाग्निष्टोमः संतिष्ठते 'यज्ञायज्ञिय' इत्येतद्योनिकम् । तत्र स्तोत्रकाले द्वाभ्यां शिष्टाभ्यां अन्तरभिमृशति । एतावानित्यादि । अग्निष्टोम एव सर्वोपि यज्ञः नैतद्व्यतिरेकेण यज्ञोऽन्योऽस्ति । ननु उक्थ्यादयोऽन्ये यज्ञाः सन्तीत्यत आह - भूमा त्वेति । अस्यैव भूमा वृद्धिः सोत ऊर्ध्वमुक्थ्यादि क्रियते, न तु यज्ञान्तरम् । तस्मात्सर्वं ततोऽन्वारोहति यावत् । पूर्ववन्निघाताभावः । अथास्मिन्काले द्वाभ्यामभिमृशति तत उत्तरो यज्ञ उक्थ्यादिरेनं उपनमति शीघ्रमन्त्यायास्स्तोत्रीयायाः स्थापनात् पूर्वं 'विश्वस्य मूर्धन्नधि तिष्ठसि श्रितः' इति च मन्त्रलिङ्गात् । अथो अपि च संतत्यै अविच्छेदाय यज्ञानां भवति समाप्ते चेत् यज्ञायज्ञिये स्यात् समाप्तत्वात् यज्ञविच्छेदस्य ॥
4 प्र वा एष इति ॥ पुनश्चितिविधिः । अस्माद्यथावस्थिताल्लोकात् अग्निचित्प्रच्यवते अपगच्छति । तस्मादेतस्य अनिष्टके स्थाने आहुतिर्नावकल्पते यथावस्थिते ह्यग्निचितः पुनश्चितीष्टकारहिते चित्याग्नौ आहुतिर्न युज्यते यदि तादृशे जुहुयात् सा आहुतिः स्रवति नश्यति । अनन्तरं च यज्ञो यजमानश्च पराभवतः । पुनश्चितेस्तु चयनात् सर्वदोषाप्रसङ्ग इति । अन्य आहुः - अस्मिन्काले अग्निहोत्रादिकं यत्कर्तव्यं यावज्जीवादिविधानात् अवश्यकर्तव्यं च तस्मादप्येष प्रच्यवते न ह्यग्निचितोनिष्टकचिते देशे आहुतिस्सम्भवति । तस्माद्यामाहुतिमग्निहोत्रादिमनिष्टके जुहोति सा नश्यति । यज्ञादिश्च पराभवति । तस्मात् पुनश्चितिराहुतीनां अग्निहोत्रादनीं अपि प्रतिष्ठित्यै अस्रवणाय भवतीति ॥
5 अष्टाविति ॥ 'येनर्षयः' इत्यादिभिः । यदेकादशेति । उपदधातीत्येव । त्रैष्टुभेनेति । उपदधातीत्येवैनं छन्दसा चिनुत इत्येव । एवमुत्तरत्रापि । नपात्क इति । नपात्को नामायं पुनश्चितिराहुतीनां अग्निहोत्रादीनां अपि प्रतिष्ठित्यै । अग्निर्नपात् नप्ता चतुर्थः पुत्रस्थानीयः । तस्मात्स एष पूर्वान् त्रीन् पुरुषान् पुरुषानन्तरोपि तृतीयं पुरुषमपि व्याप्य तैस्सहान्नमत्ति । यद्वा - न पातयतीति नपात् 'न भ्राण्णपात्' इति निपात्यते । अपत्यसन्तानकारीत्यर्थः । अथ समृद्ध्यर्थतां पुनश्चितेराह ॥
6 यथेत्यादि ॥ गतम् । अ ... त्यादिश्च समाप्तौ कोपहेतुना पुनश्चित्येति मन्यते । चेतव्येति । पुनश्चित्यैव । चितेः पूरणे निघाताभावः । किञ्च यो भागधेयेन उपहारं विबोधयति स खलु तोषयत्येव तं न कोपयति ॥
7 मनुरित्यादि ॥ गतम् । उक्तमर्थं शिष्टाचारेणापि प्रथयति ॥
इति पञ्चमे चतुर्थे दशमोनुवाकः ॥