पञ्चशत् 1 #
दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् ते न व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त् ता उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यं ॅवी॒र्य॑मा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यं ॅवी॒र्यं॑ ॅयज॑मान आ॒त्मन् ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्निꣳ सत॑नुं चिनुते॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो - [ ]
पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं-य॒त्ताः॒ । आ॒स॒न्न् । ते । न । वीति॑ । अ॒ज॒य॒न्त॒ । सः । ए॒ताः । इन्द्रः॑ । त॒नूः । अ॒प॒श्य॒त् । ताः । उपेति॑ । अ॒ध॒त्त॒ । ताभिः॑ । वै । सः । त॒नुव᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । आ॒त्मन्न् । अ॒ध॒त्त॒ । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यत् । इ॒न्द्र॒त॒नूरिती᳚न्द्र - त॒नूः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । त॒नुव᳚म् । ए॒व । ताभिः॑ । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । यज॑मानः । आ॒त्मन्न् । ध॒त्ते॒ । अथो॒ इति॑ । सैन्द्र॒मिति॒ स - इ॒न्द्र॒म् । ए॒व । अ॒ग्निम् । सत॑नु॒मिति॒ स - त॒नु॒म् । चि॒नु॒ते॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
पञ्चमकाण्डे
चतुर्थः प्रश्नः ॥
1 अथाग्निकाण्डमेवाग्नेयं - देवासुरा इत्यादि ॥ इन्द्रतनूनां विधिः । ते न व्यजयन्त पृथक्पृथक् नाजयन् देवाश्च असुरान् असुराश्च देवान् । स एता इति । 'अग्निना विश्वाषाट्' इत्याद्या द्वाविंशतिः आत्मनो विग्रहविशेषात्मिका इष्टका अपश्यत् । ता उपाधत्त पञ्चपञ्च दिक्षु द्वे मध्ये । ततश्च जयसाधनीं तनूं जयसमर्थं चक्षुरादीन्द्रियं वीर्य पराक्रमं चात्मन्यधत्त । ततोदेवा इत्यादि । गतम् । अथो अपि च सेन्द्रं तनुमन्तं चाग्निं चिनुते, इन्द्रतनूभिः सहितत्वात् ॥
2 यज्ञ इत्यादि ॥ यज्ञतनूनां विधिः । अवरुधं अवरोद्धुम् । 'शकि णमुल्कमुलौ' इति णमुल् । यज्ञतनूरिति । "प्रजापतिर्मनसान्धोच्छेत' इत्याद्याः त्रयस्त्रिंशतम् । संकल्पादारभ्य यज्ञस्य तनूः अष्टावष्टौ दिक्षु एकाम्मध्ये । ताभिरित्यादि । गतम् ॥
9 त्रयस्त्रिंशमिति ॥ 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । सात्मानमिति । आत्मना देवतया सहितं विशिष्टेन मरणं (?) सहितं च अग्निं चिनुते । सामेत्यादि । विदुषः फलम् । सात्मा अविकलफलः ॥
4 ज्योतिष्मतीरिति ॥ 'ज्योतिष्मतीं त्वा' इत्याद्या द्वादश, तिस्रस्तिस्रो दिक्षु न मध्ये ज्योतिश्शब्दवन्मन्त्रवत्यः । 'तद्वानासाम्' इति यदपवादश्छान्दसो मतुप् । एताभिश्चितोग्निर्ज्वलतीव भवति । तस्मात्ताभिः ज्योतिष्मतीभिरग्निं समिन्धे सम्यग्दीपयति । ततश्च अस्मा इति अग्नये उभयोर्लोकयोः ज्योतिष्मती भवति । अस्मा इत्यन्वादेशोनुदात्तः ॥
5 नक्षत्रेष्टका इति । 'कृत्तिका नक्षत्रं' इत्याद्याः । तत्र दक्षिणेंसे 'कृत्तिकानक्षत्रं' इत्युफ्धाय अथैतन्न नक्षत्रपथं रोहिणीप्रभृति आविशाखाभ्यामायातयति । दक्षिणादंसाद्दक्षिणां श्रेणीं आरभ्यायातयति । अथ पुच्छसन्धौ आत्मसन्धौ अमावास्यामुपदधाति "यत्ते देवा अदधुः" इत्येतन्नक्षत्रपथं अनूराधाप्रभृति आभरणीभ्य आ यातयति उत्तरायै श्रोणेरुत्तरमंसमाराभ्यायातयति । अथोत्तर एवांसे पौर्णमासीमुपदधाति 'पूर्णा पश्चात्' इति । नक्षत्रेष्टकाभिश्चितिरिष्यते । एतानिवा इत्यादि । गतम् । द्युलोकस्थितानि ज्योतींषि ता इष्टकाः । सुकृतां पुण्यकृतामेतानि ज्योतींषि । 'सुकर्मपाप' इति क्विप् । अथो अपि च । अनूकाशमिति हीनप्रकाशमनूकाशे दर्शयति । जातावेकवचनम् । 'इकः काशे' इति दीर्घत्वम् । 'अनोरप्रधानकनीयसी' इत्युत्तरपदान्तोदात्तत्वम् । तदपि एतानि ज्योतींषि कुरुते प्रकाशवत्करोति आसां प्रकाशातिशयेन कः । आसामुपधाता । किंपुनरिदानीं स्वर्गरय महाप्रकाशस्येति । सुवर्गस्येति । यस्मादेवं तस्मादासामुपधानं स्वर्गस्य लोकस्यातुख्यात्यै भवति ॥
6 यदित्यादि । संस्पृष्टत्वे वृष्ट्यवकाशं तिरोदध्यात् सर्वतश्च्छादित त्वात् । ततश्चावर्षणशीलः पर्जन्यस्स्यात् । 'लषपतपदस्थाभू वृष' इत्युकञ् । अस्पृष्टत्वेतु वृष्ट्यवकाशलाभात् वर्षुको भवति पर्जन्यः ॥
7 पुरस्तादन्या इति । पुरस्तादारभ्य प्रतीचीनगति कृत्तिकादि विशाखान्तानुपदधाति दक्षिणादंसात् दक्षिणश्रोणेः । अन्यास्तु अनूराधादिभरण्यन्ताः पश्चादारभ्य प्राचीनगतीरुपदधाति उत्तरश्रोणेरुत्तरादंसात् । तस्मात्प्राचीनानि नक्षत्राणि पुनःपुनः पर्यावर्तन्ते । दक्षिणगोळे प्रतीचीनानि उत्तरगोळे च प्रतीचीनानीति । कथं तर्हि प्रत्यग्गोळवर्तिनां एतदुपपद्यते । तत्रापि दिग्भेदात् प्रचीनप्रतीचीनभावावबाधितावेव । तथाहि - यत्रोदेति सविता सा प्राची, यत्र दृश्यमानो गच्छति सा दक्षिणा, यत्रास्तमेति सा प्रतीची, यत्रादृश्यमानो गच्छति सोदीचीति । आहुश्च -
सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः । इति ।
तस्माद्गती एव सर्वत्र भवतः उदयानन्तरं प्रतीचीनां गतिमारभन्ते अस्तमयानन्तरं तु प्राचीनामिति । आहुः - वक्रानुवक्रादि विचित्रकारिणः ताराग्रहा नक्षत्रशब्देनोच्यन्ते । अपरे पुनराहुः - अश्विन्यादीनामपि दिनेदिने स्वल्पा प्राचीना गतिरस्तीति सौक्ष्म्यात् नोपलभ्यते एवेति ॥
इति पञ्चमे चतुर्थे प्रथमोनुवाकः ॥