अनुवाकः 8 TS 5.4.8

(A8)

(वि - वै - य॒ज्ञ्ः-साम॑ च म॒ इत्या॑ह - च ति॒स्र - श्चैका॒न्न प॑ञ्चा॒शच्च॑)

अनुवाकः 8 - Complete Audio

TS 5.4.8 - स्वरानुगामी

0:00 0:00
PS1.1 वसो॒र्द्धारां᳚ जुहोति॒ वसो᳚र्मे॒ धारा॑ऽस॒दिति॒
PS1.2 वा ए॒षा हू॑यते घृ॒तस्य॒
PS1.3 वा ए॑नमे॒षा धारा॒ऽमुष्मि॑न् ॅलो॒के
PS1.4 पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒
PS1.5 तेजो॒ वा आज्यं॒ तेजो॒
PS1.6 वसो॒र्द्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्धेऽथो॒
PS1.7 कामा॒ वै वसो॒र्द्धारा॒ कामा॑ने॒वाव॑
PS1.8 रुन्धे॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यं॒
PS1.9 ॅवि - [ ]
PS2.1 च्छि॑न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात्
PS2.2 प्रा॒णाने॒वास्या॒न्नाद्यं॒ ॅविच्छि॑नत्ति॒ यं का॒मये॑त
PS2.3 प्रा॒णान॑स्या॒न्नाद्यꣳ॒॒ सं त॑नुया॒मिति॒ सं
PS2.4 त॑तां॒ तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒न्नाद्यꣳ॒॒
PS2.5 सं त॑नोति॒ द्वाद॑श द्वाद॒शानि॑
PS2.6 जुहोति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः
PS2.7 सं॑ॅवथ्स॒रेणै॒ वास्मा॒ अन्न॒मव॑ रु॒न्धे
PS2.8 ऽन्नं॑ च॒ मेऽक्षु॑च्च म॒
PS2.9 इत्या॑है॒ तद् वा -
PS2.10 [ ]
PS3.1 अन्न॑स्य रू॒पꣳ रू॒पेणै॒वान्न॒मव॑ रुन्धे॒
PS3.2 ऽग्निश्च॑ म॒ आप॑श्च म॒
PS3.3 इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒
PS3.4 सयो᳚न्ये॒वान्न॒मव॑ रुन्धे-ऽर्द्धे॒न्द्राणि॑ जुहोति दे॒वता॑
PS3.5 ए॒वाव॑ रुन्धे॒ यथ् सर्वे॑षा-म॒र्द्धमिन्द्रः॒
PS3.6 प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑म॒
PS3.7 इन्द्र॒मुत्त॑रमाहे-न्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टाद् दधाति यज्ञायु॒धानि॑ जुहोति
PS3.8 य॒ज्ञो - [ ]
PS4.1 वै य॑ज्ञायु॒धा॑नि य॒ज्ञ्मे॒वाव॑ रु॒न्धेऽथो॑
PS4.2 ए॒तद्वै य॒ज्ञ्स्य॑ रू॒पꣳ रू॒पेणै॒व
PS4.3 य॒ज्ञ्मव॑ रुन्धे ऽवभृ॒थश्च॑ मे
PS4.4 स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या
PS4.5 अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒
PS4.6 इत्या॑है॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पꣳ
PS4.7 रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्ध॒ ऋक्च॑
PS4.8 मे॒ साम॑ च म॒
PS4.9 इत्या॑है॒ - [ ]
PS5.1 -तद्वै छन्द॑साꣳ रू॒पꣳ रू॒पेणै॒व
PS5.2 छन्दाꣳ॒॒स्यव॑ रुन्धे॒ गर्भा᳚श्च मे
PS5.3 व॒थ्साश्च॑ म॒ इत्या॑है॒तद् वै
PS5.4 प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑
PS5.5 रुन्धे॒ कल्पा᳚न् जुहो॒त्य क्लृ॑प्तस्य॒
PS5.6 क्लृप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायो᳚-त्त॒राव॑ती
PS5.7 भवतो॒ऽभिक्रा᳚न्त्या॒ एका॑ च मे
PS5.8 ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सं
PS5.9 ॅवा एका॑ च ति॒स्रश्च॑
PS5.10 - [ ]
PS6.1 मनुष्यछन्द॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सं
PS6.2 चै॒व म॑नुष्य छन्द॒सश्चाव॑ रुन्ध॒
PS6.3 आ त्रय॑स्त्रिꣳ शतो जुहोति॒
PS6.4 त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑
PS6.5 रुन्ध॒ आऽष्टाच॑त्वारिꣳशतो जुहोत्य॒ष्टाच॑त्वारिꣳ-शदक्षरा॒ जग॑ती॒
PS6.6 जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑
PS6.7 रुन्धे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शं
PS6.8 जु॑होति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः
PS6.9 सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.4.8.1 TS 5.4.8.1
वसो॒र्द्धारां᳚ जुहोति॒ वसो᳚र्मे॒ धारा॑ऽस॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒ऽमुष्मि॑न् ॅलो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र्द्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्धेऽथो॒ कामा॒ वै वसो॒र्द्धारा॒ कामा॑ने॒वाव॑ रुन्धे॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यं॒ ॅवि - [ ]
पदपाठः (Word-by-word)
वसोः᳚ । धारा᳚म् । जु॒हो॒ति॒ । वसोः᳚ । मे॒ । धारा᳚ । अ॒स॒त् । इति॑ । वै । ए॒षा । हू॒य॒ते॒ । घृ॒तस्य॑ । वै । ए॒न॒म् । ए॒षा । धारा᳚ । अ॒मुष्मिन्न्॑ । लो॒के । पिन्व॑माना । उपेति॑ । ति॒ष्ठ॒ते॒ । आज्ये॑न । जु॒हो॒ति॒ । तेजः॑ । वै । आज्य᳚म् । तेजः॑ । वसोः᳚ । धारा᳚ । तेज॑सा । ए॒व । अ॒स्मै॒ । तेजः॑ । अवेति॑ । रु॒न्धे॒ । अथो॒ इति॑ । कामाः᳚ । वै । वसोः᳚ । धारा᳚ । कामान्॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । यम् । का॒मये॑त । प्रा॒णानिति॑ प्र - अ॒नान् । अ॒स्य॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । वीति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वसोर्धारां जुहोतीति ॥ संज्ञैषा अविच्छिन्नस्यान्त्याहुतिविशेषस्य । निर्वचनं च करोति - वसोः धनस्य धारा मे असत् अस्तु इति अनेन कामेन एषा हूयते । तस्मादन्नादिवरिष्ठधनधाराहेतुत्वाच्च वसोर्धारेत्युच्यते इति । अस्तेर्लेटि 'लेटोडाटौ' इत्यडागमः । घृतस्येत्यादि । गतम् । पिन्वमाना सिञ्चति । पिवि, सेचने । एनं यजमानमुपतिष्ठते ॥
2 आज्येनेत्यादि ॥ तेजोहेतुत्वादाज्यवत् वसोर्धारायास्ताच्छब्द्यम् ॥
3 कामा इति ॥ काम्यन्त इति कामाः विषयाः । तद्धेतुत्वात्ताच्छब्द्यम् ॥
4 यमित्यादि ॥ यं यजमानमध्वर्युः कामयेत प्राणांश्चान्नाद्यं च विच्छिन्द्यामिति तस्य विग्राहं विगृह्य विच्छिद्य जुहुयात् । आभीक्ष्ण्ये णमुल् । मन्त्रस्य धाराया विच्छेदं कुर्यात् । सन्ततिरविच्छेदः ॥
5 द्वादशेति ॥ द्वादशप्रमाणानि सङ्घातरूपाणि द्वादशानि । छान्दसो यः । तेषां मध्ये वक्ष्यमाणानि द्वादशानीति । प्रशस्ततराणि दर्शयितुं तान्येकैकश उपादाय स्तौति - 'अन्नं च मेऽक्षुच्च मे' इत्यादिना 'वाजश्च प्रसवश्च द्वादशं जुहोति' इत्यन्तेन । न्यूनत्वेन आवृत्त्या पूरयितव्यानि, आधिक्ये समविभक्तानि । तत्र स्तुतिसमर्थानि विशिष्टानि अवयवपदान्युपादीयन्ते । यद्वा - आदौ चतुश्चत्वारिंशदधिकशतसङ्ख्यानां त्रयाणां च द्वादशानां मन्त्राणां स्तुतिः । 'अन्नं च मे' इत्यादिरवयवस्तुतिरिति ॥
6 योनिः कारणम् ॥
7 अर्धेन्द्राणि अर्धमिन्द्रो येषां तानि 'अग्निश्च म इन्द्रश्च मे' इत्यादीनि । यत्सर्वेषां देवानां अग्न्यादीनां तत्प्रति इन्द्रो वर्तते प्रतिनिधिर्भवति । यद्वा - सर्वत्र सर्वेषामर्धं इन्द्रोऽर्हति, अर्धं सर्वे देवाः, सर्वेषां हविषामर्धं प्रति स्वामित्वेन इन्द्रो वर्तत इति । तस्मादत्र इन्द्रो देवानामर्धेन भूयिष्ठं भागं भजते । इन्द्रमुत्तरमिति । उद्गततरं अन्त्यम् ॥
8 यज्ञायुधानीत्यादि ॥ 'इध्मश्च मे' इत्यादीनि ॥
9 स्वगाकृत्या इति ॥ यथास्वमात्मीयभागप्रतिलम्भनाय । छान्दसो डाचः 'ऊर्यादिच्वि' इति गतित्वात् 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
10 ब्रह्मवर्चसस्येति ॥ अग्न्यादीनां तत्साधनत्वात् ॥
11 कल्पानिति ॥ 'आयुर्यज्ञेन कल्पतां' इत्यादिद्वादश । अकॢप्तस्य असम्पन्नस्य सम्पत्त्यै भवति ॥
12 युग्मदयुजे ॥ योगो युक् सदृशसंख्यान्वयारब्धत्वं तद्वती द्विचतुरादि । तद्रहिता अयुक् एकादि । युग्मच्च अयुक्चेति 'द्वन्द्वाच्चुदषहान्तात्' इति व्यत्ययेन इतरेतरयोगेऽपि अच् समासान्तः । मिथुनत्वायेति विधाद्वयलाभेन । उत्तरावती इति । उत्तरोत्तरसंख्यावत्यौ युग्मदयुजे भवतः 'एका च मे तित्रश्च मे' इति । उत्तरा 'चतस्रश्च मे अष्टौ च मे' इति चतुरुत्तरा, यस्मा एवं तस्मादभिक्रान्त्यै भवतो युग्मदयुजे । अभिक्रमणं उपरिगमनं स्वर्गप्राप्तिः, शत्रूणामाक्रमणं वा । केचिदाहूः - उत्तरावत्त्वं विधीयत इत्युत्तरसंख्यासहिताभ्यां कर्तव्य इति । यथा 'एका च मे तिस्रश्च मे स्वाहा चतस्रश्च मेऽष्टौ च मे स्वाहा' इति । देवछन्दसमिति देवानां प्रीतिहेतुः 'एका च मे तिस्रश्च मे' इत्येतावत्युत्तरा अयुक्सङ्ख्या, चतस्रश्च अष्टौ चेत्येवं चतुरुत्तरा युक्संख्या मनुष्याणां प्रीतिहेतुरिति । 'अनसन्तान्न पुंसकाच्छन्दसि' इति अच् समासान्तः ॥
13 आ त्रयस्त्रिंशत इत्यादि ॥ गतम् ॥
14 द्वादशं इति ॥ द्वादशकमित्येके । द्वादशप्रमाणं सङ्घातमित्येके ॥
इति पञ्चमे चतुर्थे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.4.8.2 TS 5.4.8.2
च्छि॑न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒न्नाद्यं॒ ॅविच्छि॑नत्ति॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यꣳ॒॒ सं त॑नुया॒मिति॒ सं त॑तां॒ तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒न्नाद्यꣳ॒॒ सं त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रेणै॒ वास्मा॒ अन्न॒मव॑ रु॒न्धे ऽन्नं॑ च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒ तद् वा - [ ]
पदपाठः (Word-by-word)
छि॒न्द्या॒म् । इति॑ । वि॒ग्राह॒मिति॑ वि - ग्राह᳚म् । तस्य॑ । जु॒हु॒या॒त् । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । अ॒स्य॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । वीति॑ । छि॒न॒त्ति॒ । यम् । का॒मये॑त । प्रा॒णानिति॑ प्र-अ॒नान् । अ॒स्य॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । समिति॑ । त॒नु॒या॒म् । इति॑ । संत॑ता॒मिति॒ सं - त॒ता॒म् । तस्य॑ । जु॒हु॒या॒त् । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । अ॒स्य॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । समिति॑ । त॒नो॒ति॒ । द्वाद॑श । द्वा॒द॒शानि॑ । जु॒हो॒ति॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । सं॒ॅव॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । ए॒व । अ॒स्मै॒ । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । अन्न᳚म् । च॒ । मे॒ । अक्षु॑त् । च॒ । मे॒ । इति॑ । आ॒ह॒ । ए॒तत् । वै ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.4.8.3 TS 5.4.8.3
अन्न॑स्य रू॒पꣳ रू॒पेणै॒वान्न॒मव॑ रुन्धे॒ ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धे-ऽर्द्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्धे॒ यथ् सर्वे॑षा-म॒र्द्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहे-न्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टाद् दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञो - [ ]
पदपाठः (Word-by-word)
अन्न॑स्य । रू॒पम् । रू॒पेण॑ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । अ॒ग्निः । च॒ । मे॒ । आपः॑ । च॒ । मे॒ । इति॑ । आ॒ह॒ । ए॒षा । वै । अन्न॑स्य । योनिः॑ । सयो॒नीति॒ स - यो॒नि॒ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । अ॒द्‌र्धे॒न्द्राणीत्य॑द्‌र्ध - इ॒न्द्राणि॑ । जु॒हो॒ति॒ । दे॒वताः᳚ । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । सर्वे॑षाम् । अ॒द्‌र्धम् । इन्द्रः॑ । प्रतीति॑ । तस्मा᳚त् । इन्द्रः॑ । दे॒वता॑नाम् । भू॒यि॒ष्ठ॒भाक्त॑म॒ इति॑ भूयिष्ठ॒भाक्-त॒मः॒ । इन्द्र᳚म् । उत्त॑र॒मित्युत् -त॒र॒म् । आ॒ह॒ । इ॒न्द्रि॒यम् । ए॒व । अ॒स्मि॒न्न् । उ॒परि॑ष्टात् । द॒धा॒ति॒ । य॒ज्ञा॒यु॒धानीति॑ यज्ञ्-आ॒यु॒धानि॑ । जु॒हो॒ति॒ । य॒ज्ञ्ः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.4.8.4 TS 5.4.8.4
वै य॑ज्ञायु॒धा॑नि य॒ज्ञ्मे॒वाव॑ रु॒न्धेऽथो॑ ए॒तद्वै य॒ज्ञ्स्य॑ रू॒पꣳ रू॒पेणै॒व य॒ज्ञ्मव॑ रुन्धे ऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पꣳ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्ध॒ ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑है॒ - [ ]
पदपाठः (Word-by-word)
वै । य॒ज्ञा॒यु॒धानीति॑ यज्ञ्-आ॒यु॒धानि॑ । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । अथो॒ इति॑ । ए॒तत् । वै । य॒ज्ञ्स्य॑ । रू॒पम् । रू॒पेण॑ । ए॒व । य॒ज्ञ्म् । अवेति॑ । रु॒न्धे॒ । अ॒व॒भृ॒थ इत्य॑व - भृ॒थः । च॒ । मे॒ । स्व॒गा॒का॒र इति॑ स्वगा - का॒रः । च॒ । मे॒ । इति॑ । आ॒ह॒ । स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । अ॒ग्निः । च॒ । मे॒ । घ॒र्मः । च॒ । मे॒ । इति॑ । आ॒ह॒ । ए॒तत् । वै । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । रू॒पम् । रू॒पेण॑ । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । ऋक् । च॒ । मे॒ । साम॑ । च॒ । मे॒ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.4.8.5 TS 5.4.8.5
-तद्वै छन्द॑साꣳ रू॒पꣳ रू॒पेणै॒व छन्दाꣳ॒॒स्यव॑ रुन्धे॒ गर्भा᳚श्च मे व॒थ्साश्च॑ म॒ इत्या॑है॒तद् वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे॒ कल्पा᳚न् जुहो॒त्य क्लृ॑प्तस्य॒ क्लृप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायो᳚-त्त॒राव॑ती भवतो॒ऽभिक्रा᳚न्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सं ॅवा एका॑ च ति॒स्रश्च॑ - [ ]
पदपाठः (Word-by-word)
ए॒तत् । वै । छन्द॑साम् । रू॒पम् । रू॒पेण॑ । ए॒व । छन्दाꣳ॑सि । अवेति॑ । रु॒न्धे॒ । गर्भाः᳚ । च॒ । मे॒ । व॒थ्साः । च॒ । मे॒ । इति॑ । आ॒ह॒ । ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् । रू॒पेण॑ । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । कल्पान्॑ । जु॒हो॒ति॒ । अक्लृ॑प्तस्य । क्लृप्त्यै᳚ । यु॒ग्म॒द॒यु॒जे इति॑ युग्मत् - अ॒यु॒जे । जु॒हो॒ति॒ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । उ॒त्त॒राव॑ती॒ इत्यु॑त्त॒रा-व॒ती॒ । भ॒व॒तः॒ । अ॒भिक्रा᳚न्त्या॒ इत्य॒भि - क्रा॒न्त्यै॒ । एका᳚ । च॒ । मे॒ । ति॒स्रः । च॒ । मे॒ । इति॑ । आ॒ह॒ । दे॒व॒छ॒न्द॒समिति॑ देव - छ॒न्द॒सम् । वै । एका᳚ । च॒ । ति॒स्रः । च॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.4.8.6 TS 5.4.8.6
मनुष्यछन्द॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सं चै॒व म॑नुष्य छन्द॒सश्चाव॑ रुन्ध॒ आ त्रय॑स्त्रिꣳ शतो जुहोति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्ध॒ आऽष्टाच॑त्वारिꣳशतो जुहोत्य॒ष्टाच॑त्वारिꣳ-शदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शं जु॑होति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठति ॥
पदपाठः (Word-by-word)
म॒नु॒ष्य॒छ॒न्द॒समिति॑ मनुष्य - छ॒न्द॒सम् । चत॑स्रः । च॒ । अ॒ष्टौ । च॒ । दे॒व॒छ॒न्द॒समिति॑ देव - छ॒न्द॒सम् । च॒ । ए॒व । म॒नु॒ष्य॒छ॒न्द॒समिति॑ मनुष्य - छ॒न्द॒सम् । च॒ । अवेति॑ । रु॒न्धे॒ । एति॑ । त्रय॑स्त्रिꣳशत॒ इति॒ त्रयः॑ - त्रिꣳ॒॒श॒तः॒ । जु॒हो॒ति॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । वै । दे॒वताः᳚ । दे॒वताः᳚ । ए॒व । अवेति॑ । रु॒न्धे॒ । एति॑ । अ॒ष्टाच॑त्वारिꣳशत॒ इत्य॒ष्टा - च॒त्वा॒रिꣳ॒॒श॒तः॒ । जु॒हो॒ति॒ । अ॒ष्टाच॑त्वारिꣳशदक्ष॒रेत्य॒ष्टाच॑त्वारिꣳशत्-अ॒क्ष॒रा॒ । जग॑ती । जाग॑ताः । प॒शवः॑ । जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । वाजः॑ । च॒ । प्र॒स॒व इति॑ प्र-स॒वः । च॒ । इति॑ । द्वा॒द॒शम् । जु॒हो॒ति॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥
पदसंख्या: 49