प॒शूने॒वाव॑ रुन्धे ष॒ड्भिर्.ह॑रति॒ षड् वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनꣳ॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒र्॒.हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसू᳚त्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नं॒ ॅवै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्धे देवासु॒राः संॅय॑त्ता आस॒न् ते दे॒वा ए॒त-दप्र॑तिरथ-मपश्य॒न् तेन॒ वै ते᳚ प्र॒त्य - [ ]
पदपाठः (Word-by-word)
प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । ष॒ड्भिरिति॑ षट्-भिः । ह॒र॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । ह॒र॒ति॒ । द्वे इति॑ । प॒रि॒गृह्य॑वती॒ इति॑ परि॒गृह्य॑ - व॒ती॒ । भ॒व॒तः॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । सूर्य॑रश्मि॒रिति॒ सूर्य॑ - र॒श्मिः॒ । हरि॑केश॒ इति॒ हरि॑-के॒शः॒ । पु॒रस्ता᳚त् । इति॑ । आ॒ह॒ । प्रसू᳚त्या॒ इति॒ प्र-सू॒त्यै॒ । ततः॑ । पा॒व॒काः । आ॒शिष॒ इत्या᳚ - शिषः॑ । नः॒ । जु॒ष॒न्ता॒म् । इति॑ । आ॒ह॒ । अन्न᳚म् । वै । पा॒व॒कः । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । ए॒तत् । अप्र॑तिरथ॒मित्यप्र॑ति - र॒थ॒म् । अ॒प॒श्य॒न्न् । तेन॑ । वै । ते । अ॒प्र॒ति ।