-पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रिं॒ प्रदा॑पयति॒ रात्रि॒याऽह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्यं॑ दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाऽऽ*हु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशो॒ - [ ]
पदपाठः (Word-by-word)
उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । नक्तो॒षासा᳚ । इति॑ । कृ॒ष्णायै᳚ । श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त - व॒थ्सा॒यै॒ । पय॑सा । जु॒हो॒ति॒ । अह्ना᳚ । ए॒व । अ॒स्मै॒ । रात्रि᳚म् । प्रेति॑ । दा॒प॒य॒ति॒ । रात्रि॑या । अहः॑ । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । ए॒व । अ॒स्मै॒ । प्रत्ते॒ इति॑ । काम᳚म् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । दु॒हा॒ते॒ इति॑ । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । जु॒हो॒ति॒ । रा॒ष्ट्रम् । ए॒व । अवेति॑ । रु॒न्धे॒ । ष॒ड्भिरिति॑ षट् - भिः । जु॒हो॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । भुव॑नस्य । प॒ते॒ । इति॑ । र॒थ॒मु॒ख इति॑ रथ - मु॒खे । पञ्च॑ । आहु॑ती॒रित्या - हु॒तीः॒ । जु॒हो॒ति॒ । वज्रः॑ । वै । रथः॑ । वज्रे॑ण । ए॒व । दिशः॑ ।