पा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं ॅवेदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्ती-रनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर् गृ॒ह्णातीति॑ प्रति॒ष्ठां ॅवा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाचे॒यं ॅवा अ॑स्यै प्रति॒ष्ठे - [ ]
पदपाठः (Word-by-word)
उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ । ओष॑धयः । वै । अ॒स्याः॒ । अन्न᳚म् । ओष॑धयः । वै । प्र॒जा इति॑ प्र - जाः । प्र॒भव॑न्ती॒रिति॑ प्र - भव॑न्तीः । प्रति॑ । एति॑ । भ॒व॒न्ति॒ । यः । ए॒वम् । वेद॑ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भ॒व॒ति॒ । अथ॑ । वै । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ । या । प्र॒जा इति॑ प्र - जाः । प॒रा॒भव॑न्ती॒रिति॑ परा - भव॑न्तीः । अ॒नु॒गृ॒ह्णातीत्य॑नु - गृ॒ह्णाति॑ । प्रतीति॑ । आ॒भव॑न्ती॒रित्या᳚ - भव॑न्तीः । गृ॒ह्णाति॑ । इति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वै । अ॒स्यै॒ । तत् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ । इ॒यम् । वै । अ॒स्यै॒ । प्र॒ति॒ष्ठेति॑ प्रति - स्था ।