ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्या-न्वाहार्य॒त्वं दे॑वदू॒ता वा ए॒ते यद्-ऋ॒त्विजो॒ यद॑न्वाहा॒र्य॑-मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒थ् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑-मभ॑क्त-मपश्य॒त् तमा॒त्मन्न॑धत्त॒स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑ति-मृद्ध्नो॒त्यप॑रिमितोनि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒- [ ]
पदपाठः (Word-by-word)
अ॒न्वाह॑र॒तीत्य॑नु - आह॑रति । तत् । अ॒न्वा॒हा॒र्य॑स्येत्य॑नु-आ॒हा॒र्य॑स्य । अ॒न्वा॒हा॒र्य॒त्वमित्य॑न्वाहार्य - त्वम् । दे॒व॒दू॒ता इति॑ देव - दू॒ताः । वै । ए॒ते । यत् । ऋ॒त्विजः॑ । यत् । अ॒न्वा॒हा॒र्य॑मित्य॑नु - आ॒हा॒र्य᳚म् । आ॒हर॒तीत्या᳚ - हर॑ति । दे॒व॒दू॒तानिति॑ देव - दू॒तान् । ए॒व । प्री॒णा॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । दे॒वेभ्यः॑ । य॒ज्ञान् । व्यादि॑श॒दिति॑ वि - आदि॑शत् । सः । रि॒रि॒चा॒नः । अ॒म॒न्य॒त॒ । सः । ए॒तम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु - आ॒हा॒र्य᳚म् । अभ॑क्तम् । अ॒प॒श्य॒त् । तम् । आ॒त्मन्न् । अ॒ध॒त्त॒ । सः । वै । ए॒षः । प्रा॒जा॒प॒त्य इति॑ प्राजा-प॒त्यः । यत् । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ऋ॒द्ध्नो॒ति॒ । अप॑रिमित॒ इत्यप॑रि - मि॒तः॒ । नि॒रुप्य॒ इति॑ निः-उप्यः॑ । अप॑रिमित॒ इत्यप॑रि - मि॒तः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।