त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यूर्ज॑स्वा॒न् पय॑स्वा॒नित्या॒होर्ज॑-मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽक्षि॑तो॒ ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् ॅलो॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मि॑न् ॅलो॒केऽन्न॑-मि॒तःप्र॑दानꣳ॒॒ ह्य॑मुष्मिन् ॅलो॒के ( ) प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒व-म॑भिमृ॒शत्यक्षि॑ति-मे॒वैन॑द् गमयति॒ नास्या॒मुष्मि॑न् ॅलो॒केऽन्नं॑ क्षीयते ॥
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । समिति॑ । अ॒द्र्ध॒य॒ति॒ । ऊर्ज॑स्वान् । पय॑स्वान् । इति॑ । आ॒ह॒ । ऊर्ज᳚म् । ए॒व । अ॒स्मि॒न्न् । पयः॑ । द॒धा॒ति॒ । प्रा॒णा॒पा॒नाविति॑ प्राण -अ॒पा॒नौ । मे॒ । पा॒हि॒ । स॒मा॒न॒व्या॒नाविति॑ समान - व्या॒नौ । मे॒ । पा॒हि॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । अक्षि॑तः । अ॒सि॒ । अक्षि॑त्यै । त्वा॒ । मा । मे॒ । क्षे॒ष्ठाः॒ । अ॒मुत्र॑ । अ॒मुष्मिन्न्॑ । लो॒के । इति॑ । आ॒ह॒ । क्षीय॑ते । वै । अ॒मुष्मिन्न्॑ । लो॒के । अन्न᳚म् । इ॒तः प्र॑दान॒मिती॒तः - प्र॒दा॒न॒म् । हि । अ॒मुष्मिन्न्॑ । लो॒के ( ) । प्र॒जा इति॑ प्र - जाः । उ॒प॒जीव॒न्तीत्यु॑प - जीव॑न्ति । यत् । ए॒वम् । अ॒भि॒मृ॒शतीत्य॑भि - मृ॒शति॑ । अक्षि॑तिम् । ए॒व । ए॒न॒त् । ग॒म॒य॒ति॒ । न । अ॒स्य॒ । अ॒मुष्मिन्न्॑ । लो॒के । अन्न᳚म् । क्षी॒य॒ते॒ ॥