वै दे॒वा उज्जि॑ति॒-मनूद॑जयन् दर्.शपूर्णमा॒साभ्या॒- मसु॑रा॒नपा॑-नुदन्ता॒ग्ने-र॒हमुज्जि॑ति॒-मनूज्जे॑ष॒-मित्या॑ह दर्.शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒ ॅयज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर्.शपूर्णमा॒साभ्यां॒ भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्यां॒ ॅव्यू॑ह॒त्यन्नं॒ ॅवै वाजोऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञ्स्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यत॑ - [ ]
पदपाठः (Word-by-word)
वै । दे॒वाः । उज्जि॑ति॒मित्युत् - जि॒ति॒म् । अनु॑ । उदिति॑ । अ॒ज॒य॒न्न् । द॒र्॒.श॒पू॒र्ण॒मा॒साभ्या॒मिति॑ दर्.श-पू॒र्ण॒मा॒साभ्या᳚म् । असु॑रान् । अपेति॑ । अ॒नु॒द॒न्त॒ । अ॒ग्नेः । अ॒हम् । उज्जि॑ति॒मित्युत् - जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् । इति॑ । आ॒ह॒ । द॒र्॒.श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्.श - पू॒र्ण॒मा॒सयोः᳚ । ए॒व । दे॒वता॑नाम् । यज॑मानः । उज्जि॑ति॒मित्युत् - जि॒ति॒म् । अनु॑ । उदिति॑ । ज॒य॒ति॒ । द॒र॒.श॒पू॒र्ण॒मा॒साभ्या॒मिति॑ दर्.श-पू॒र्ण॒मा॒साभ्या᳚म् । भ्रातृ॑व्यान् । अपेति॑ । नु॒द॒ते॒ । वाज॑वतीभ्या॒मिति॒ वाज॑ - व॒ती॒भ्या॒म् । वीति॑ । ऊ॒ह॒ति॒ । अन्न᳚म् । वै । वाजः॑ । अन्न᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । यः । वै । य॒ज्ञ्स्य॑ । द्वौ । दोहौ᳚ । वि॒द्वान् । यज॑ते । उ॒भ॒यतः॑ ।