प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.7.4.3 TS 1.7.4.3
ए॒व य॒ज्ञ्ं दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञ्स्य॒ दोह॒ इडा॑याम॒न्यो यर्.हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर्.हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सꣳस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञ्ं दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां᳚ गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वा - [ ]
पदपाठः (Word-by-word)
ए॒व । य॒ज्ञ्म् । दु॒हे॒ । पु॒रस्ता᳚त् । च॒ । उ॒परि॑ष्टात् । च॒ । ए॒षः । वै । अ॒न्यः । य॒ज्ञ्स्य॑ । दोहः॑ । इडा॑याम् । अ॒न्यः । यर्.हि॑ । होता᳚ । यज॑मानस्य । नाम॑ । गृ॒ह्णी॒यात् । तर्.हि॑ । ब्रू॒या॒त् । एति॑ । इ॒माः । अ॒ग्म॒न्न् । आ॒शिष॒ इत्या᳚ - शिषः॑ । दोह॑कामा॒ इति॒ दोह॑ - का॒माः॒ । इति॑ । सꣳस्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ । ए॒व । दे॒वताः᳚ । दु॒हे॒ । अथो॒ इति॑ । उ॒भ॒यतः॑ । ए॒व । य॒ज्ञ्म् । दु॒हे॒ । पु॒रस्ता᳚त् । च॒ । उ॒परि॑ष्ठत् । च॒ । रोहि॑तेन । त्वा॒ । अ॒ग्निः । दे॒वता᳚म् । ग॒म॒य॒तु॒ । इति॑ । आ॒ह॒ । ए॒ते । वै । दे॒वा॒श्वा इति॑ देव - अ॒श्वाः ।
पदसंख्या: 50