रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन् ध॑त्ते॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒नाꣳ रू॒पं पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृत्तेनै॒व प॑शू॒नाꣳ रू॒पमा॒त्मन् ध॑त्ते दे॒वानां॒ पत्नी॑र॒ग्निर् गृ॒हप॑तिर् य॒ज्ञ्स्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्रभू॑यास॒-मित्या॑है॒तस्मा॒द् वै मि॑थु॒नात् प्र॒जाप॑तिर् मिथु॒नेन॒ - [ ]
पदपाठः (Word-by-word)
रेतः॑ । धि॒षी॒य॒ । इति॑ । आ॒ह॒ । सोमः॑ । वै । रे॒तो॒धा इति॑ रेतः-धाः । तेन॑ । ए॒व । रेतः॑ । आ॒त्मन्न् । ध॒त्ते॒ । त्वष्टुः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । प॒शू॒नाम् । रू॒पम् । पु॒षे॒य॒म् । इति॑ । आ॒ह॒ । त्वष्टा᳚ । वै । प॒शू॒नाम् । मि॒थु॒नाना᳚म् । रू॒प॒कृदिति॑ रूप - कृत् । तेन॑ । ए॒व । प॒शू॒नाम् । रू॒पम् । आ॒त्मन्न् । ध॒त्ते॒ । दे॒वाना᳚म् । पत्नीः᳚ । अ॒ग्निः । गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । य॒ज्ञ्स्य॑ । मि॒थु॒नम् । तयोः᳚ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । मि॒थु॒नेन॑ । प्रेति॑ । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । ए॒तस्मा᳚त् । वै । मि॒थु॒नात् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । मि॒थु॒नेन॑ ।