प्राजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्रजा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां ॅवि॒त्तं ॅवेद्य॑मविन्दन्त॒ तद्-वे॒दस्य॑ वेद॒त्वं ॅयद्य॒द् भ्रातृ॑व्यस्याभि॒द्ध्याये॒त् तस्य॒ नाम॑ गृह्णीया॒त् तदे॒वास्य॒ सर्वं॑ ॅवृङ्क्ते घृ॒तव॑न्तं कुला॒यिनꣳ॑ रा॒यस्पोषꣳ॑ सह॒स्रिणं॑ ॅवे॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्रस॒हस्रं॑ प॒शूना᳚प्नो॒त्या ( ) स्य॑ प्र॒जायां᳚ ॅवा॒जी जा॑यते॒ य ए॒वं ॅवेद॑ ॥
पदपाठः (Word-by-word)
प्रेति॑ । अ॒जा॒य॒त॒ । तस्मा᳚त् । ए॒व । यज॑मानः । मि॒थु॒नेन॑ । प्रेति॑ । जा॒य॒ते॒ । वे॒दः । अ॒सि॒ । वित्तिः॑ । अ॒सि॒ । वि॒देय॑ । इति॑ । आ॒ह॒ । वे॒देन॑ । वै । दे॒वाः । असु॑राणाम् । वि॒त्तम् । वेद्य᳚म् । अ॒वि॒न्द॒न्त॒ । तत् । वे॒दस्य॑ । वे॒द॒त्वमिति॑ वेद - त्वम् । यद्य॒दिति॒ यत् - य॒त् । भ्रातृ॑व्यस्य । अ॒भि॒द्ध्याये॒दित्य॑भि-ध्याये᳚त् । तस्य॑ । नाम॑ । गृ॒ह्णी॒या॒त् । तत् । ए॒व । अ॒स्य॒ । सर्व᳚म् । वृ॒ङ्क्ते॒ । घृ॒तव॑न्त॒मिति॑ घृ॒त - व॒न्त॒म् । कु॒ला॒यिन᳚म् । रा॒यः । पोष᳚म् । स॒ह॒स्रिण᳚म् । वे॒दः । द॒दा॒तु॒ । वा॒जिन᳚म् । इति॑ । आ॒ह॒ । प्रेति॑ । स॒हस्र᳚म् । प॒शून् । आ॒प्नो॒ति॒ ( ) । एति॑ । अ॒स्य॒ । प्र॒जाया॒मिति॑ प्र - जाया᳚म् । वा॒जी । जा॒य॒ते॒ । यः । ए॒वम् । वेद॑ ॥