प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.7.5.4 TS 1.7.5.4
यान्ये॒वैनं॑ भू॒तानि॑ व्र॒तमु॑प॒यन्त॑-मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒मान् ॅलो॒का-न॑नपज॒य्यम॒भ्य॑जय॒न्॒. यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् ॅलो॒का-न॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र् दिश॒ श्छन्दो॑भिरे॒वेमान् ॅलो॒कान्. य॑थापू॒र्वम॒भि ज॑यति ॥
पदपाठः (Word-by-word)
यानि॑ । ए॒व । ए॒न॒म् । भू॒तानि॑ । व्र॒तम् । उ॒प॒यन्त॒मित्यु॑प - यन्त᳚म् । अ॒नू॒प॒यन्तीत्य॑नु - उ॒प॒यन्ति॑ । तैः । ए॒व । स॒ह । अ॒व॒भृ॒थमित्य॑व - भृ॒थम् । अवेति॑ । ए॒ति॒ । विष्णु॑मुखा॒ इति॒ विष्णु॑ - मु॒खाः॒ । वै । दे॒वाः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप-ज॒य्यम् । अ॒भीति॑ । अ॒ज॒य॒न्न् । यत् । वि॒ष्णु॒क्र॒मानिति॑ विष्णु - क्र॒मान् । क्रम॑ते । विष्णुः॑ । ए॒व । भू॒त्वा । यज॑मानः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप - ज॒य्यम् । अ॒भीति॑ । ज॒य॒ति॒ । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । इति॑ । आ॒ह॒ । गा॒य॒त्री । वै । पृ॒थि॒वी । त्रैष्टु॑भम् । अ॒न्तरि॑क्षम् । जाग॑ती । द्यौः । आनु॑ष्टुभी॒रित्यानु॑ - स्थु॒भीः॒ । दिशः॑ ( ) । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । इ॒मान् । लो॒कान् । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । अ॒भीति॑ । ज॒य॒ति॒ ॥
पदसंख्या: 57