न्नमी॑वाः ॥ ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ स॒न्तवी᳚त्वत् प॒थामङ्काꣳ॒॒स्यन्वा॒पनी॑फणत् ॥उ॒त स्मा᳚स्य॒ द्रव॑त-स्तुरण्य॒तः प॒र्णं न वे-रनु॑ वाति प्रग॒र्द्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्.ण्णः॑ स॒होर्जा तरि॑त्रतः ॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वशं॑भू । आ मा॑ गन्तां पि॒तरा॑ - [ ]
पदपाठः (Word-by-word)
अमी॑वाः ॥ ए॒षः । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया᳚म् । ब॒द्धः । अ॒पि॒क॒क्ष इत्य॑पि - क॒क्षे । आ॒सनि॑ ॥ क्रतु᳚म् । द॒धि॒क्रा इति॑ दधि - क्राः । अन्विति॑ । स॒न्तवी᳚त्व॒दिति॑ सं - तवी᳚त्वत् । प॒थाम् । अङ्काꣳ॑सि । अन्विति॑ । आ॒पनी॑फण॒दित्या᳚ - पनी॑फणत् ॥ उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अन्विति॑ । वा॒ति॒ । प्र॒ग॒द्र्धिन॒ इति॑ प्र - ग॒द्र्धिनः॑ ॥ श्ये॒नस्य॑ । इ॒व॒ । ध्रज॑तः । अ॒ङ्क॒सम् । परीति॑ । द॒धि॒क्राव्.ण्ण॒ इति॑ दधि-क्राव्.ण्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥ एति॑ । मा॒ । वाज॑स्य । प्र॒स॒व इति॑ प्र - स॒वः । ज॒ग॒म्या॒त् । एति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । वि॒श्वश॑भूं॒ इति॑ वि॒श्व - श॒भूं॒ ॥ एति॑ । मा॒ । ग॒न्ता॒म् । पि॒तरा᳚ ।