रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे᳚थ् सौ॒म्यं ॅवै रा॒ज्य सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑नꣳ रा॒ज्यं न॑मति ब॒भ्रुर्भ॑वत्ये॒तद् वै सोम॑स्य रू॒पꣳ समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा - [ ]
पदपाठः (Word-by-word)
रा॒ज्याय॑ । सन्त᳚म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्यु॑प-नमे᳚त् । सौ॒म्यम् । वै । रा॒ज्यम् । सोम᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । रा॒ज्यम् । प्रेति॑ । य॒च्छ॒ति॒ । उपेति॑ । ए॒न॒म् । रा॒ज्यम् । न॒म॒ति॒ । ब॒भ्रुः । भ॒व॒ति॒ । ए॒तत् । वै । सोम॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । इन्द्रा॑य । वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरे᳚ । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । ग॒तश्री॒रिति॑ ग॒त - श्रीः॒ । प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ । पा॒प्मान᳚म् । ए॒व । वृ॒त्रम् । ती॒र्त्वा । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒च्छ॒ति॒ । इन्द्रा॑य । अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति - घ्ने । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ ।