ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात् पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वा- भि॑माति॒हनꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑तिं॒ प्रणु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत॒ यमलꣳ॑ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिणꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ वज्रं॒ प्र य॑च्छति॒ स ए॑नं॒ ( ) ॅवज्रो॒ भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यं न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै ॥
पदपाठः (Word-by-word)
ल॒भे॒त॒ । यः । पा॒प्मना᳚ । गृ॒ही॒तः । स्यात् । पा॒प्मा । वै । अ॒भिमा॑ति॒रित्य॒भि - मा॒तिः॒ । इन्द्र᳚म् । ए॒व । अ॒भि॒मा॒ति॒हन॒मित्य॑भिमाति - हन᳚म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मा॒त् । पा॒प्मान᳚म् । अ॒भिमा॑ति॒मित्य॒भि - मा॒ति॒म् । प्रेति॑ । नु॒द॒ते॒ । इन्द्रा॑य । व॒ज्रिणे᳚ । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । यम् । अल᳚म् । रा॒ज्याय॑ । सन्त᳚म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । इन्द्र᳚म् । ए॒व । व॒ज्रिण᳚म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । वज्र᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । सः । ए॒न॒म् ( ) । वज्रः॑ । भूत्यै᳚ । इ॒न्धे॒ । उपेति॑ । ए॒न॒म् । रा॒ज्यम् । न॒म॒ति॒ । ल॒लामः॑ । प्रा॒शृ॒ङ्गः । भ॒व॒ति॒ । ए॒तत् । वै । वज्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ॥