प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.1.5.3 TS 2.1.5.3
वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान् प्रति॒ष्ठां ग॑मय॒-त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑बाधन्ते॒ योऽलं॑ प्र॒जायै॒ सन् प्र॒जां न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्-भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयन्ति वि॒न्दते᳚ - [ ]
पदपाठः (Word-by-word)
वै । अ॒हो॒रा॒त्राणीइत्य॑हः - रा॒त्राणि॑ । प॒शून् । ए॒व । प्रजा॑ता॒निति॒ प्र - जा॒ता॒न् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒म॒य॒ति॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । वे॒हत᳚म् । एति॑ । ल॒भे॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । ओष॑धयः । वै । ए॒तम् । प्र॒जाया॒ इति॑ प्र - जायै᳚ । परीति॑ । बा॒ध॒न्ते॒ । यः । अल᳚म् । प्र॒जाया॒ इति॑ प्र - जायै᳚ । सन्न् । प्र॒जामिति॑ प्र-जाम् । न । वि॒न्दते᳚ । ओष॑धयः । खलु॑ । वै । ए॒तस्यै᳚ । सूतु᳚म् । अपीति॑ । घ्न॒न्ति॒ । या । वे॒हत् । भव॑ति । ओष॑धीः । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः । ए॒व । अ॒स्मै॒ । स्वात् । योनेः᳚ । प्र॒जामिति॑ प्र - जाम् । प्रेति॑ । ज॒न॒य॒न्ति॒ । वि॒न्दते᳚ । 31(50)