प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त् पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वं ॅवेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒ सद्द॑द॒ती-त्यै॒न्द्रीꣳ सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒ भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोतीन्द्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑व॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जामिति॑ प्र - जाम् । आपः॑ । वै । ओष॑धयः । अस॑त् । पुरु॑षः । आपः॑ । ए॒व । अ॒स्मै॒ । अस॑तः । सत् । द॒द॒ति॒ । तस्मा᳚त् । आ॒हुः॒ । यः । च॒ । ए॒वम् । वेद॑ । यः । च॒ । न । आपः॑ । तु । वाव । अस॑तः । सत् । द॒द॒ति॒ । इति॑ । ऐ॒न्द्रीम् । सू॒तव॑शा॒मिति॑ सू॒त - व॒शा॒म् । एति॑ । ल॒भे॒त॒ । भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ । अजा॑तः । वै । ए॒षः । यः । अल᳚म् । भूत्यै᳚ । सन्न् । भूति᳚म् । न । प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ । इन्द्र᳚म् । खलु॑ । वै । ए॒षा । सू॒त्वा । व॒शा । अ॒भ॒व॒त् ।