तृ॒तीया॒त् पुरु॑षा॒थ् सोमं॒ न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं ॅवै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒ संत॑नोति पुनरुथ्सृ॒ष्टो भ॑वति पुनरुथ्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ - [ ]
पदपाठः (Word-by-word)
तृ॒तीया᳚त् । पुरु॑षात् । सोम᳚म् । न । पिब॑ति । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । प्रेति॑ । य॒च्छ॒तः॒ । उपेति॑ । ए॒न॒म् । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । न॒म॒ति॒ । यत् । ऐ॒न्द्रः । भव॑ति । इ॒न्द्रि॒यम् । वै । सो॒म॒पी॒थ इति॑ सोम-पी॒थः । इ॒न्द्रि॒यम् । ए॒व । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । अवेति॑ । रु॒न्धे॒ । यत् । आ॒ग्ने॒यः । भव॑ति । आ॒ग्ने॒यः । वै । ब्रा॒ह्म॒णः । स्वाम् । ए॒व । दे॒वता᳚म् । अनु॑ । समिति॑ । त॒नो॒ति॒ । पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः-उ॒थ्सृ॒ष्टः । भ॒व॒ति॒ । पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः । इ॒व॒ । हि । ए॒तस्य॑ ।