सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यं तू॑प॒रमा ल॑भेता-भि॒चर॒न् ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒-मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत् तू॑प॒रः समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णात्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो ( ) भि॒नत्त्ये॒वैनं᳚ ॥
पदपाठः (Word-by-word)
सो॒म॒पी॒थ इति॑ सोम - पी॒थः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । ब्रा॒ह्म॒ण॒स्प॒त्यमिति॑ ब्राह्मणः - प॒त्यम् । तू॒प॒रम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । ब्रह्म॑णः । पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तस्मै᳚ । ए॒व । ए॒न॒म् । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । तू॒प॒रः । भ॒व॒ति॒ । क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ । वै । ए॒षा । ल॒क्ष्मी । यत् । तू॒प॒रः । समृ॑द्ध्य॒ इति॒ सं - ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ । ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः ( ) । भि॒नत्ति॑ । ए॒व । ए॒न॒म् ॥