स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚न् भवत्ये॒तद्वा इन्द्र॑स्य रू॒पꣳ समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष- [ ]
पदपाठः (Word-by-word)
स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । द॒धा॒ति॒ । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ । अ॒रु॒णः । भ्रूमा॒निति॒ भ्रू - मा॒न् । भ॒व॒ति॒ । ऐ॒तत् । वै । इन्द्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । सा॒वि॒त्रम् । उ॒प॒द्ध्व॒स्तमित्यु॑प - ध्व॒स्तम् । एति॑ । ल॒भे॒त॒ । स॒निका॑म॒ इति॑ स॒नि - का॒मः॒ । स॒वि॒ता । वै । प्र॒स॒वाना॒मिति॑ प्र-स॒वाना᳚म् । ई॒शे॒ । स॒वि॒तार᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । स॒निम् । प्रेति॑ । सु॒व॒ति॒ । दान॑कामा॒ इति॒ दान॑-का॒माः॒ । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । भ॒व॒न्ति॒ । उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः । भ॒व॒ति॒ । सा॒वि॒त्रः । हि । ए॒षः ।