प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.1.6.4 TS 2.1.6.4
दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भे॒ताऽन्न॑कामोवैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वतिबहुरू॒पꣳ ह्यन्नꣳ॒॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ - [ ]
पदपाठः (Word-by-word)
दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । वै । अन्न᳚म् । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । ब॒हु॒रू॒प इति॑ बहु-रू॒पः । भ॒व॒ति॒ । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । हि । अन्न᳚म् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । वै । स॒जा॒ता इति॑ स - जा॒ताः । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50